संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ५८

उत्तरखण्डः - अध्यायः ५८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
कथयस्व प्रसादेन ममाग्रे मधुसूदन
इषस्य कृष्णपक्षे तु किंनामैकादशीभवेत् ॥१॥
श्रीकृष्ण उवाच-
आश्विने कृष्णपक्षे तु इंदिरा नाम नामतः
तस्या व्रतप्रभावेन महापापं प्रणश्यति ॥२॥
अधोयोनि गतानां च पितॄणां गतिदायिनी
शृणुष्वावहितो राजन्कथां पापहरां पराम् ॥३॥
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
पुरा कृतयुगे राजन्बभूव नृपनंदनः ॥४॥
इंद्रसेन इति ख्यातः पुरा माहिष्मतीपतिः
स राजा पालयामास धर्मेण यशसान्वितः ॥५॥
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः
माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः ॥६॥
जपन्गोविंदनामानि मुक्तिदानि नराधिपः
कालं नयति विधिवदध्यात्मध्यानचिंतकः ॥७॥
एकस्मिन्दिवसे राज्ञि सुखासीने सदो गते
अवतीर्यागमत्तत्र ह्यंबरान्नारदो मुनिः ॥८॥
तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृतांजलि
पूजयित्वाथ विधिना चासने संन्यवेशयत् ॥९॥
सुखोपविष्टं स मुनिं प्रत्युवाच नृपोत्तमः
राजोवाच-
त्वत्प्रसादान्मुनिश्रेष्ठ सर्वं च कुशलं मम ॥१०॥
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात्
प्रसादं कुरु देवर्षे ब्रूह्यागमनकारणम् ॥११॥
नारद उवाच-
श्रूयतां नृपशार्दूल मद्वचो विस्मयप्रदम्
ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम ॥१२॥
शमनेनार्चितो भक्त्या उपविष्टो वरासने
धर्मशीलः सत्यवांस्तु भास्करिं समुपासते ॥१३॥
बहुपुण्यप्रकर्त्ता च व्रतवैकल्यदोषतः
सभायां श्राद्धदेवस्य मया दृष्टः पिता तव ॥१४॥
कथितस्तेन संदेशस्तं निबोध जनेश्वर
इंद्रसेन इति ख्यातो राजा माहिष्मतीपतिः ॥१५॥
तस्याग्रे कथयब्रह्मन्स्थितं मां यमसंनिधौ
केनापि चांतरायेण पूर्वजन्मोद्भवेन च ॥१६॥
स्वर्गं प्रेषय मां पुत्र इंदिरा पुण्य दानतः
इत्युक्तोऽहं समायातः समीपं तव पार्थिव ॥१७॥
पितुः स्वर्गकृते राजन्निंदिरा व्रतमाचर
तेन व्रतप्रभावेन स्वर्गं यास्यति ते पिता ॥१८॥
राजोवाच-
कथयस्व प्रसादेन भगवन्निंदिरा व्रतम्
विधिना केन कर्त्तव्यं कस्मिन्पक्षे तिथौ तथा ॥१९॥
नारदउवाच-
शृणु राजेंद्र ते वच्मि व्रतस्यास्य विधिं शुभम्
आश्विनस्यासिते पक्षे दशमी दिवसे शुभे ॥२०॥
प्रातःस्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसा
ततो मध्याह्नसमये स्नानं कृत्वा समाहितः ॥२१॥
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः
एकभक्तं ततः कृत्वा रात्रौ भूमौ शयीत च
प्रभाते विमले जाते प्राप्ते चैकादशी दिने ॥२२॥
मुख प्रक्षालनं कुर्याद्दंतधावन वर्जितम्
उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः ॥२३॥
अद्यस्थित्वा निराहारः सर्वभोग विवर्जितः
श्वो भोक्ष्ये पुंडरीकाक्ष शरणं मे भवाच्युत ॥२४॥
इत्येवं नियमं कृत्वा मध्याह्न समये तथा
शालग्राम शिलाग्रे तु स्नानं कुर्याद्यथाविधि ॥२५॥
पूजयित्वा हृषीकेशं धूप गंधादिभिस्तथा
रात्रौ जागरणं कुर्यात्केशवस्य समीपतः ॥२६॥
ततः प्रभातसमये प्राप्ते वै द्वादशी दिने
अर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद्यथाविधि ॥२७॥
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः
गोधूम चूर्णैर्यछ्राद्धं कृतं मेध्यकृतं भवेत् ॥२८॥
यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा
ब्राह्मणान्भोजयेद्राजन् दक्षिणाभिः प्रपूजितान् ॥२९॥
बंधु दौहित्र पुत्राद्यैः स्वयं भुंजीत वाग्यतः
अनेन विधिना राजन्कुरुव्रतमतंद्रितः ॥३०॥
विष्णुलोकं प्रयास्यंति पितरस्तव भूपते
इत्युक्त्वा नृपतिं राजन्मुनिरंतरधीयत ॥३१॥
यथोक्त विधिना राजा चकार व्रतमुत्तमम्
अंतःपुरेण सहितः पुत्रभृत्य समन्वितः ॥३२॥
कृते व्रते तु कौंतेय पुष्पवृष्टिरभूद्दिवः
तत्पिता गरुडारूढो जगाम हरिमंदिरम् ॥३३॥
इंद्रसेनोऽपिराजर्षिः कृत्वा राज्यमकंटकम्
राज्ये निवेश्य तनयं जगाम त्रिदिवं स्वयम् ॥३४॥
इंदिरा व्रत माहात्म्यं तवाग्रे कथितं मया
पठनाच्छ्रवणाद्राजन् सर्वपापैः प्रमुच्यते ॥३५॥
भुक्त्वेह निखिलान्भोगान् विष्णुलोके वसेच्चिरम् ॥३६॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यांसंहितायाम् उत्तरखंडे
उमापतिनारदसंवादे आश्विनकृष्णेंदिरैकादशीनामाष्टपंचाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : November 19, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP