उत्तरखण्डः - अध्यायः ३९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिर उवाच-
वंदे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम्
विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम् ॥१॥
पृच्छामि देवदेवेश संशयोऽस्ति महान्मम
लोकानां च हितार्थाय पापानां क्षयहेतवे ॥२॥
मार्गशीर्षेसिते पक्षे भवेदेकादशी तु या
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते
एतदाचक्ष्व मे स्वामिन्विस्तरेण यथातथम् ॥३॥
श्रीकृष्ण उवाच-
साधु पृष्टं त्वया राजन्साधु ते विमलं यशः
कथयिष्यामि राजेंद्र हरिवासरमुत्तमम् ॥४॥
उत्पन्ना चासिते पक्षे द्वादशी मम वल्लभा
मार्गशीर्षोत्पत्तिरिति मम देह समुद्भवा ॥५॥
सुरासुरवधार्थाय ह्युत्पन्ना भरतर्षभ
कथिता च मया सा वै तवाग्रे राजसत्तम ॥६॥
पूर्वा चैकादशी राजंस्त्रैलोक्ये सचराचरे
मार्गशीर्षे सिते पक्षे उत्पत्तिरिति नामतः ॥७॥
अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ॥८॥
मोक्षा नामेति सा प्रोक्ता सर्वपापहरा परा
देवं दामोदरं राजन्पूजयेच्च प्रयत्नतः ॥९॥
तुलस्या मंजरीभिश्च धूपैर्दीपैः प्रयत्नतः
पूर्वेण विधिना चैव दशम्येकादशी तथा ॥१०॥
मोक्षा चैकादशी नाम्ना महापातकनाशिनी
रात्रौ जागरणं कार्यं नृत्यगीतस्तवैर्मम ॥११॥
शृणु राजन्प्रवक्ष्यामि दिव्यां पौराणिकीकथाम्
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥१२॥
अधोयोनिगतश्चैव पितरो यस्य पापतः
अस्याश्च पुण्यदानेन मोक्षं यांति न संशयः ॥१३॥
चंपके नगरे रम्ये वैष्णवैश्च विभूषिते
वैखानसो नाम नृपः पुत्रवत्पालयेत्प्रजाः ॥१४॥
वसंति बहवो विप्रा वेदवेदांगपारगाः
ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैखानसस्य हि ॥१५॥
एवं राज्यं प्रकुर्वाणो रात्रौ स्वप्नस्य मध्यतः
स्वकीयपितरो दृष्ट्वा अधोयोनिगता नृप ॥१६॥
एवं दृष्ट्वा च तान्सर्वान्विस्मयाविष्टमानसः
कथयामास वृत्तांतं स्वप्नजातं द्विजान्प्रति ॥१७॥
राजोवाच-
मया स्वपितरो दृष्ट्वा नरकोपगता द्विजाः
तारयेति तनूजत्वमस्मान्निरयसागरात् ॥१८॥
एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः
मया दृष्टा द्विजश्रेष्ठा एतस्माच्च न मे सुखम् ॥१९॥
एतद्राज्यं मम महत्सुखदायि न विद्यते
अश्वा गजास्तथा सर्वे रोचंते मे न भो द्विजाः ॥२०॥
न दारा न सुता मह्यं रोचंते द्विजसत्तमाः
किं करोमि क्व गच्छामि हृदयं मेऽवरुध्यते ॥२१॥
तद्व्रतं तं तपोयोगं येनैव मम पूर्वजाः
मोक्षं प्रयांति सद्यो वै कथ्यतां च द्विजोत्तमाः ॥२२॥
पुत्रे तु जीवितप्राये बलीयसि महात्मनि
पितास्ति नरके घोरे तस्य पुत्रस्य किं फलम् ॥२३॥
ब्राह्मणा ऊचुः -
पर्वतस्य मुने राजन्निकटे चाश्रमो महान्
गम्यतां राजशार्दूल भूतं भव्यं विजानतः ॥२४॥
तेषां श्रुत्वा ततो वाक्यं राजा वैखानसो महान्
जगाम चाशु तत्रैव चाश्रमं पर्वतस्य च ॥२५॥
ब्राह्मणैर्वेष्टितो राजा राजभिश्च समन्वितः
आश्रमं विपुलं तस्य संप्राप्तो राजसत्तमः ॥२६॥
तत्रर्ग्वेद यजुर्वेद सामाध्ययनकोविदैः
वेष्टितं मुनिभिश्चैव द्वितीयं ब्रह्मणो यथा ॥२७॥
दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा
दंडवत्प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः ॥२८॥
पप्रच्छ कुशलं तस्य सप्तस्वंगेष्वसौ मुनिः
राज्ये निष्कंटकत्वं च राज्ञः सौख्यसमन्वितम् ॥२९॥
राजोवाच -
तव प्रसादाद्भो स्वामिन्कुशलं मेऽङ्गसप्तसु
भक्ता ये विष्णुविप्रेषु कथं तेषां च विघ्नता ॥३०॥
मया स्वपितरो दृष्टाः स्वप्ने च नरके स्थिताः
कस्य पुण्यस्य सामर्थ्यान्मोक्षं यांति द्विजोत्तम ॥३१॥
अयं मे संशयः स्वामिन्प्रष्टुं तं त्वामुपागतः
उपायः कश्चिदेवात्र कर्तव्यो मुनिसत्तम ॥३२॥
एतद्वाक्यं ततः श्रुत्वा पर्वतो मुनिसत्तमः
ध्यानस्तिमितनेत्रोऽभूत्तपस्वी ब्रह्मसंनिभः ॥३३॥
मुहूर्तमेकं ध्यानस्थो भूपतिं प्रत्युवाच ह
ज्ञातं हि तव राजेंद्र पितॄणां पूर्वचेष्टितम् ॥३४॥
पूर्वजन्मनि तातस्ते क्षत्रियो राज्यगर्वितः
सपत्न्या ऋतुकाले तु राजधर्मप्रवर्तितः ॥३५॥
गतो ग्रामे तु तां त्यक्त्वा कार्यार्थी निजयोषितम्
तव पित्रा तु तस्याश्च न दत्तमृतुदानकम् ॥३६॥
तेन पापप्रभावेन नरके पितृभिः सह
पतितो राजशार्दूल तव तातः सुदारुणे ॥३७॥
ततः पुनरुवाचेदं राजा वैखानसो मुनिम्
केन व्रतप्रभावेन मोक्षस्तेषां भवेन्मुने ॥३८॥
मुनिरुवाच-
मार्गशीर्षे सिते पक्षे मोक्षा नामेति नामतः
सर्वैश्चेतद्व्रतं कार्यं पित्रे पुण्यं प्रदीयताम् ॥३९॥
तेन पुण्यप्रभावेन मोक्षस्तेषां भविष्यति
सत्यमेतन्महाभाग ब्रह्मणो वचनं यथा ॥४०॥
मुनेर्वाक्यं ततः श्रुत्वा स्वगृहं पुनरागतः
मार्गशीर्षस्तथा मासः प्राप्तः कष्टेन तेन वै ॥४१॥
मुनेर्वाक्येन तत्कृत्वा व्रतं वैखानसो नृपः
अददत्पुण्यमखिलैः सार्द्धं पित्रे स भूमिपः ॥४२॥
दत्ते पुण्यक्षणेनैव पुष्पवृष्टिरभूद्दिवि
वैखानसस्य तातो वै पितृभिर्मोक्षमाविशत् ॥४३॥
राजानं चांतरिक्षे स गिरं पुण्यामुवाच ह
स्वस्तिस्वस्तीति ते पुत्र प्रोच्य चैवं दिवं गतः ॥४४॥
एवं यः कुरुते राजन्मोक्षामेकादशीं शुभाम्
तस्य पापानि नश्यंति मृतो मोक्षमवाप्नुयात् ॥४५॥
नातः परतरा काचित्मोक्षदैकादशी भवेत्
पुण्यसंख्यां न जानामि राजन्मे प्रियकृद्व्रतम् ॥४६॥
चिंतामणिसमा ह्येषा नृणां मोक्षप्रदायिनी
पठनाच्छ्रवणादस्या वाजपेयफलं लभेत् ॥४७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे
उमापतिनारदसंवादे मार्गशीर्षशुक्ल मोक्षदा एकादशीनामैकोनचत्वारिंशोऽध्यायः ॥३९॥
N/A
References : N/A
Last Updated : November 18, 2020
TOP