उत्तरखण्डः - अध्यायः ५५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिर उवाच
श्रावणस्य सिते पक्षे किं नामैकादशीभवेत्
कथयस्व प्रसादेन ममाग्रे मधुसूदन ॥१॥
श्रीकृष्ण उवाच-
शृणुष्वावहितो राजन्कथां पापहरां पराम्
यस्याः श्रवणमात्रेण वाजपेयफलं भवेत् ॥२॥
द्वापरस्य युगस्यादौ पुरा माहिष्मती पुरे
राजा महीजिदाख्यातो राज्यं पालयति स्वकम् ॥३॥
पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम्
अपुत्रस्य सुखं नास्ति इहलोके परत्र च ॥४॥
चिंतयास्य सुतस्यैवं कालो बहुतरो गतः
न प्राप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणाम् ॥५॥
दृष्ट्वात्मानं प्रवयसं राजा चिंतापरोऽभवत्
तदागतः प्रजामध्ये इदं वचनमब्रवीत् ॥६॥
इहजन्मनि भो लोका न मया पातकं कृतम्
अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि ॥७॥
ब्रह्मस्वं देवद्रविणं न गृहीतं मया क्वचित्
न्यासापहारो न कृतः परस्य बहुपापदः
पुत्रवत्पालितो लोको धर्मेण विजिता मही ॥८॥
दुष्टेषु पातितो दंडो बंधुपुत्रोपमेष्वपि
शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः ॥९॥
इत्येवं ब्रुवतो मार्गं धर्मयुक्तं द्विजोत्तमाः
कस्मान्मम गृहे पुत्रो न जातस्तद्विमृश्यताम् ॥१०॥
इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः
मंत्रयित्वा नृपहितं जग्मुस्ते गहनं वनम् ॥११॥
इतस्ततश्च पश्यंत आश्रमानृषिसेवितान्
नृपतेर्हितमिच्छंतो ददृशुर्मुनिसत्तमम् ॥१२॥
तप्यमानं तपो घोरं निरालंबं निरामयम्
निराहारं जितात्मानं जितक्रोधं सनातनम् ॥१३॥
लोमशं धर्मतत्वज्ञं सर्वशास्त्रविशारदम्
दीर्घायुषं महात्मानं सकेशं ब्रह्मसंमितम् ॥१४॥
कल्पेकल्पे गते तस्य एकं लोम विशीर्यते
अतो लोमशनामायं त्रिकालज्ञो महामुनिः ॥१५॥
तं दृष्ट्वा हर्षिताः सर्वे आजग्मुस्तस्य सन्निधिम्
यथान्यायं यथार्हं ते नमश्चक्रुर्यथोदितम् ॥१६॥
विनयावनताः सर्वे ऊचुस्ते च परस्परम्
अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः
तास्तथा स प्रजा वीक्ष्य उवाच ऋषिसत्तमः ॥१७॥
लोमश उवाच-
किमर्थमिह संप्राप्तः कथयध्वं सकारणम्
दर्शनाद्धृष्टमनसः स्तुवंतश्चैव मां किमु ॥१८॥
असंशयं करिष्यामि भवतां यद्धितं भवेत्
परोपकृतये जन्म मादृशानां न संशयः ॥१९॥
जना ऊचुः -
श्रूयतामभिधास्यामो वयं स्वागमकारणम्
संशयच्छेदनार्थाय तव सान्निध्यमागताः ॥२०॥
पद्मयोनेः परतरस्त्वत्तः श्रेष्ठो न विद्यते
अतः कार्यवशात्प्राप्ताः समीपं भवतो वयम् ॥२१॥
महीजिन्नाम राजासौ पुत्रहीनोऽस्ति सांप्रतम्
वयं तस्य प्रजा ब्रह्मन्पुत्रवत्तेन पालिताः ॥२२॥
तं पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः
तपः कर्तुमिहायाता मतिं कृत्वा तु नैष्ठिकीम् ॥२३॥
तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं द्विजोत्तम
महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम् ॥२४॥
उपदेशं वद मुने राज्ञः पुत्रो यथा भवेत्
इति तेषां वचः श्रुत्वा मुहूर्त्तं ध्यानमास्थितः
प्रत्युवाच मुनिर्ज्ञात्वा तस्य जन्म पुरातनम् ॥२५॥
लोमश उवाच-
पुरा जन्मनि वैश्योऽयं धनहीनो नृशंसकृत्
वाणिज्यकर्मनिरतो ग्रामाद्ग्रामांतरं भ्रमन् ॥२६॥
ज्येष्ठे मासि सिते पक्षे दशमी दिवसे तथा
मध्यगे द्युमणौ प्राप्ते ग्रामसीम्नि जलाशयम् ॥२७॥
कूपिकां सजलां दृष्ट्वा जलपाने मनोदधे
सद्यस्ततः सवत्सा च धेनुस्तत्र समागता ॥२८॥
तृष्णातुरा निदाघार्ता तस्यामंबुपपौ तु सा
पिबंतीं वारयित्वा तामसौ तोयं पपौ स्वयम् ॥२९॥
कर्मणा तेन पापेन पुत्रहीनो नृपो भवेत्
कस्यापि जन्मनः पुण्यात्प्राप्तं राज्यमकंटकम् ॥३०॥
लोका ऊचुः -
पुण्यात्पापं क्षयं याति पुराणे श्रूयते मुने
पुण्योपदेशं कथय येन पापक्षयो भवेत्
यथा भवत्प्रसादेन पुत्रो भवति भूपतेः ॥३१॥
लोमश उवाच-
श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता
एकादशी वांच्छितदा कुरुध्वं तद्व्रतं जनाः ॥३२॥
इति श्रुत्वा नमस्कृत्य मुनिमेत्य पुरं व्रतम्
यथाविधियथान्यायं कृतं तैर्जागरान्वितम् ॥३३॥
तस्य पुण्यं सुविमलं दत्तं नृपतये जनैः
दत्ते पुण्येऽथ सा राज्ञी गर्भमाधत्त शोभनम् ॥३४॥
प्राप्तो प्रसवकाले सा सुषुवे पुत्रमूर्जितम्
श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ॥३५॥
द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम्
हेम रौप्य ताम्र क्षौमैः सूत्रैः कौशेयपद्मजैः ॥३६॥
कुशैः काशैश्च कार्पासैर्ब्राह्मण्या कर्तितैः शुभैः
स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत् ॥३७॥
गोदोहांतरिते काले पूर्वेद्युरधिवासनम्
ब्राह्मणेभ्यो नमस्कृत्य गुरुपादौ प्रणम्य च ॥३८॥
गीतमंगलनिर्घोषः कुर्याज्जागरणं ततः
ब्राह्मणाः क्षत्रिया वैश्या भिल्लाः शूद्रास्तथैव च ॥३९॥
स्वधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम्
ततः पवित्रं गुरवे दद्याद्वै विधिपूर्वकम् ॥४०॥
ब्राह्मणान्वैष्णवांश्चैव गंधपुष्पादिनार्चयेत्
अतो देवेति मंत्रेण द्विजो विष्णौ निवेदयेत् ॥४१॥
शूद्रस्तु मूलमंत्रेण यथा विष्णौ तथा शिवे
वर्षेवर्षे प्रकर्त्तव्यं पवित्रारोपणं नरैः ॥४२॥
भुक्तिं मुक्तिं च इच्छद्भिः संसारे शोकसागरे
न करोति विधानेन पवित्रारोपणं तु यः ॥४३॥
तस्य सांवत्सरी पूजा निष्फला वैष्णवस्य तु
श्रुत्वा माहात्म्यमेतस्या नरः पापात्प्रमुच्यते
इह पुत्रसुखं प्राप्य परत्र स्वर्गतिं भवेत् ॥४४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिता
यामुत्तरखंडे उमापतिनारदसंवादे श्रावणशुक्लापवित्रारोपणी पुत्रदैकादशीनाम पंचपंचाशत्तमोऽध्यायः ॥५५॥
N/A
References : N/A
Last Updated : November 19, 2020
TOP