उत्तरखण्डः - अध्यायः १७५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
पार्वत्युवाच
भगवन्सर्वतत्वज्ञ श्रीविष्णोस्त्वत्प्रसादतः
श्रुता नानाविधा धर्मा लोकनिस्तारहेतवः ॥१॥
अधुना श्रोतुमिच्छमि गीतामाहात्म्यमप्यहम्
श्रुतेन येन देवेश हरौ भक्तिर्विवर्द्धते
तद्वदस्वाधुना देव यद्यहं तव वल्लभा ॥२॥
ईश्वर उवाच
अतसीपुष्पसंकाशं खगेंद्रासनमच्युतम्
शयानं शेषशय्यायां महाविष्णुमुपास्महे ॥३॥
कदाचिदासने रम्ये सुखासीनं मुरद्विषम्
आनंदयित्री लोकानां लक्ष्मीः पप्रच्छ सादरात् ॥४॥
श्रीरुवाच
शयालुरसि दुग्धाब्धौ भगवन्केन हेतुना
उदासीन इवैश्वर्यं जगंति स्थापयन्निव ॥५॥
ईश्वर उवाच
इति देव्या वचः श्रुत्वा मुरभिज्ज्ञानगर्वितम्
उवाच श्लक्ष्णया वाचा विस्मयस्मेरलोचनः ॥६॥
श्रीभगवानुवाच
नाहं सुमुखि निद्रालुर्निजं माहेश्वरं वपुः
दृशा तत्वानुवर्त्तिन्या पश्याम्यंतर्निमग्नया ॥७॥
कुशाग्रया धिया देवि यदंतर्योगिनो हृदि
पश्यंति यच्च वेदानां सारं मीमांसते भृशम् ॥८॥
तदेवमक्षरं ज्योतिरात्मरूपमनामयम्
अखंडानंद संदोह निष्पादि द्वैतवर्जितम् ॥९॥
यदाश्रया जगद्वृत्तिर्यन्मया चानुभूयते
न येन रहितं किंचिज्जगत्तत्वं चराचरम् ॥१०॥
निर्मथ्य बहुधालोक्य वेदशास्त्रांबुधिं सुधीः
द्वैपायनो यदासाद्य गीताशास्त्रं निसृष्टवान् ॥११॥
यदास्थाय महानंदमानंदीकृतमानसः
निद्रालुरिव देवेशि दुग्धाब्धौ प्रतिभामि वै ॥१२॥
इति तस्य मुरारातेर्मितमानंदवद्वचः
सा हर्षोत्फुल्ललोलाक्षी लक्ष्मी श्रुत्वा विसिस्मिरे ॥१३॥
श्रीरुवाच
भवानेव हृषीकेश ध्येयोऽसि यमिनां सदा
तस्मात्त्वत्तः परं यत्तच्छ्रोतुं कौतूहलं हि मे ॥१४॥
चराचराणां लोकानां कर्त्ता हर्त्ता स्वयं प्रभुः
यथास्थितस्ततोऽन्यत्वं यदि मां बोधयाच्युत ॥१५॥
श्रीभगवानुवाच
मायामयमिदं देवि वपुर्मे न तु तात्विकम्
सृष्टिस्थित्योपसंहारक्रियाजालोपबृंहितम् ॥१६॥
अतोऽन्यदात्मनोरूपं द्वैताद्वैतविवर्जितम्
भावाभावविनिर्मुक्तमाद्यंतरहितं प्रिये ॥१७॥
शुद्धसंवित्प्रभालाभं परानंदैकसुंदरम्
रूपमैश्वरमात्मैक्यगम्यं गीतासु कीर्तितम् ॥१८॥
इत्याकर्ण्य वचो देवि देवस्यामिततेजसः
शंकमाना ह वाक्येषु परस्परविरोधिषु ॥१९॥
स्वयं चेत्परमानंदमवाङ्मनसगोचरम्
कथं गीता बोधयति इति मे च्छिंधि संशयम् ॥२०॥
ईश्वर उवाच
श्रियः श्रुत्वा वचोयुक्तमितिहासपुरःसरम्
आत्मानुगामिनीं दृष्टिं गीतां बोधितवान्प्रभुः ॥२०॥
अहमात्मा परेशानि परापरविभेदतः
द्विधा ततः परः साक्षी निर्गुणो निष्कलः शिवः ॥२१॥
अपरः पंचवक्त्रोऽहं द्विधा तस्यापि संस्थितिः
शब्दार्थभेदतो वाच्यो यथात्माहं महेश्वरः ॥२२॥
गीतानां वाक्यरूपेण यन्निरुच्छिद्यते दृढः
मदीयपाशबंधोऽयं संसारविषयात्मकः ॥२३॥
यदाभ्यासपराधीनौ पंचवक्त्रमहेश्वरौ
इति तस्य वचः श्रुत्वा गीतासारमहोदधेः ॥२४॥
इदं परविभेदेन बुध्यते भवभीरुभिः
तमपृच्छदिदं लक्ष्मीरंगप्रत्यंगसंस्थितम् ॥२५॥
माहात्म्यं सेतिहासं च सर्वं तस्यै न्यवेदयत्
श्रीभगवानुवाच
शृणु सुश्रोणि वक्ष्यामि गीतासु स्थितिमात्मनः ॥२६॥
वक्त्राणि पंच जानीहि पंचाध्यायाननुक्रमात्
दशाध्याया भुजाश्चैक उदरं द्वौ पदांबुजे ॥२७॥
एवमष्टादशाध्याया वाङ्मयी मूर्तिरैश्वरी
विज्ञेया ज्ञानमात्रेण महापातकनाशिनी ॥२८॥
अतोध्यायं तदर्धं वा श्लोकमर्द्धं तदर्धकम्
अभ्यस्यति सुमेधा यः सुशर्मेव समुच्यते ॥२९॥
श्रीरुवाच
सुशर्मा नाम को देव किं जातीयः किमात्मकः
कुतस्तस्य च वै मुक्तिः केनाजायत हेतुना ॥३०॥
श्रीभगवानुवाच
सुशर्मा नाम दुर्मेधाः सीमा पापात्मनामभूत्
जातो नात्मविदां वंशे विप्राणां क्रूरकर्मणाम् ॥३१॥
न ध्यानं न जपो होमो न चैवातिथिपूजनम्
केवलं विषयेष्वेव बलाढ्येनाभिवर्त्तते ॥३२॥
कृषिकर्मरतो नित्यं पर्णजीवी सुराप्रियः
मांसोपहारी सुचिरं कालमेवं निनाय सः ॥३३॥
आनेतुकामः पर्णानि पर्यटनृषिवाटिकाम्
ततः स तत्र दष्टोऽभूत्कालसर्पेण मूढधीः ॥३४॥
कालधर्मं समासाद्य गत्वा च निरयान्बहून्
पुनरागत्य मर्त्येषु बलीवर्दत्वमीयिवान् ॥३५॥
पंगुना केन विक्रीतः स स्वजीवनहेतवे
नयन्पृष्ठेन शरदः सप्ताष्टौ कष्टतोनयत् ॥३६॥
कदाचित्पंगुनासोऽपि चिरमावर्तितो जवात्
पपात तरसा भूमौ मूर्च्छां च प्रतिपेदिवान् ॥३७॥
विकलांगो विवृत्ताक्षः फेनसंततिमुद्गिरन्
न जीवति न मृत्युं वा प्रतिपेदे स्वकर्मणा ॥३८॥
कौतुकाकृष्टलोकेऽस्मिंस्तस्मिन्जनसमागमे
श्रेयसे तस्य सुकृती कश्चित्पुण्यं वितीर्णवान् ॥३९॥
कर्माणि स्वान्यनुस्मृत्य ददुरन्ये च केचन
गणिका कापि तत्रस्था लोकयात्रानुवर्तिनी ॥४०॥
अज्ञात निजपुण्या सा किंचिदुत्सृष्टवत्यभूत्
परेतनगरीमादौ स नीतः कालकिंकरैः ॥४१॥
गणिकादत्तपुण्येन पुण्यवानिति मोचितः
पुनरागत्य भूर्लोकं कुलशीलवतां गृहे ॥४२॥
द्विजन्मनामसौ जज्ञे जातिं स्वामनुसंस्मरन्
काले महति जिज्ञासुः श्रेयः स्वाज्ञाननोदनम् ॥४३॥
उपेत्य गणिकां दत्तं ख्यापयित्वा स पृष्टवान्
आचष्ट मां शुको नित्यं पंजरस्थः पठत्यसौ ॥४४॥
तेन पूतांतरात्माहं तत्पुण्यं पर्यकल्पयम्
ताभ्यां शुकस्तु पृष्टोऽसौ व्याख्यातुमुपचक्रमे ॥४५॥
आख्यायिकां पुरावृत्तां स्मृत्वा जातिं निजामपि
शुक उवाच
पुरा विद्वानहं भूत्वा वैदुष्य स्मयमोहितः ॥४६॥
रागद्वेषेण विद्वत्सु गुणवत्स्वपि मत्सरी
कालेनाहं ततः प्रेत्य प्राप्य लोकाञ्जुगुप्सितान् ॥४७॥
सोऽहं कीरकुलेऽभूवं सद्गुरावतिनिंदकः
काले धर्मणि दुष्कर्मा पितृभ्यां च वियोजितः ॥४८॥
निदाघेऽध्वनिसंतप्ते आनीतो ऋषिपुंगवैः
पातितः पंजरस्थोऽहं माश्रमे महदाश्रये ॥४९॥
आवर्तयद्भ्यो गीतानामाद्यमध्यायमादरात्
श्रुत्वा ऋषिकुमारेभ्यः पाठं चाकरवं मुहुः ॥५०॥
एतस्मिन्नंतरे कश्चिद्वागुरिश्चौरकर्मकृत्
मामाहृत्य तदाक्रीणादिति वृत्तमुदाहृतम् ॥५१॥
श्रीभगवानुवाच
अध्यायोऽयं पुराम्नातो येन पापमनोदयम्
पूतांतरात्मा येनासौ मोचितश्च द्विजोत्तमः ॥५२॥
एवमन्योन्यमाभाष्य तन्माहात्म्यं प्रशस्य च
ते जपंतोनिशं धीरा मुक्तिं गेहे प्रपेदिरे ॥५३॥
तस्मादध्यायमाद्यं यः पठते शृणुते स्मरेत्
अभ्यसेत्तस्य न भवेद्भवांभोधिर्दुरुत्तरः ॥५४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सतीश्वरसंवादे गीतामाहात्म्ये पंचसप्तत्यधिकशततमोऽध्यायः ॥१७५॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP