संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १३२ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १३२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १३२ Translation - भाषांतर पार्वत्युवाचअनंतवासुदेवस्य कीदृशं स्मरणं स्मृतम्यच्छ्रुत्वा न पुनर्मोहो मानुषाणां प्रजायते ॥१॥महादेव उवाचदृष्टतत्वेन देवेशि स्मरंति विष्णुं नित्यशःतृषातुरो यथा वारि तद्वद्विष्णुं स्मराम्यहम् ॥२॥हिमेनाकुलितं विश्वं स्मरत्यग्निं यथा तथातद्वदेव तु वै विष्णुं स्मरंति विबुधादयः ॥३॥पतिव्रता यथा नारी पतिं स्मरति नित्यशःतथा स्मरंति लोकेशं विष्णुं विश्वेश्वरेश्वरम् ॥४॥भयार्त्तः शरणं यद्वदर्थलोभी यथा धनम्पुत्रकामो यथा पुत्रं तथा विष्णुं स्मराम्यहम् ॥५॥दूरस्थोऽपि यथा गेहं चातको माधवं यथाब्रह्मविद्यां ब्रह्मविदस्तथा विष्णुं स्मराम्यहम् ॥६॥हंसा मानसमिच्छंति ऋषयः स्मरणं हरेःभक्ताश्च भक्तिमिच्छंति तथा विष्णुं स्मराम्यहम् ॥७॥प्राणिनां वल्लभो देहो यत्र आत्माऽवतिष्ठतिआयुर्वांच्छंति ये जीवास्तथा विष्णुं स्मराम्यहम् ॥८॥भ्रमराश्च यथा पुष्पं चक्रवाका दिवाकरम्यथात्मवल्लभा भक्तिस्तथा विष्णुं स्मराम्यहम् ॥९॥अंधेनाकुलिता लोका दीपं वांच्छंति वै यथातथा वै पुरुषा लोके स्मरणं केशवस्य च ॥१०॥यथा श्रमार्त्ता विश्रामं निद्रा व्यसनिनो यथागतालस्या यथा विद्यां तथा विष्णुं स्मराम्यहम् ॥११॥मातंगाः पार्वतीं भूमिं सिंहा वनगजादिकम्तथैव स्मरणं विष्णोः कर्तव्यं पापभीरुभिः ॥१२॥सूर्यकांते रवेर्योगाद्वह्निस्तत्र प्रजायतेएवं वै साधुसंयोगाद्धरौ भक्तिः प्रजायते ॥१३॥शीतरश्मेर्यथा कांतश्चंद्रयोगादपः श्रयेत्एवं वैष्णवसंयोगान्मुक्तिर्भवति शाश्वती ॥१४॥कुमुद्वती यथा सोमं दृष्ट्वा पुष्पं विकासतेतद्वद्देवे कृता भक्तिर्मुक्तिदा सर्वदा नृणाम् ॥१५॥यथानलायाः संत्रस्ता भ्रमरी स्मरणं चरेत्तेन स्मरणयोगेन नलासारूप्यतामियात् ॥१६॥गोपीभिर्जारबुद्ध्या च विष्णोश्च स्मरणं कृतम्ताश्च सायुज्यतां नीतास्तथा विष्णुं स्मराम्यहम् ॥१७॥केऽपि वै दुष्टभावेन च्छद्मभावेन केचनके चापि लोभभावेन चिंतयंति जनार्दनम् ॥१८॥भक्त्या वा स्नेहभावेन द्वेषभावेन वा पुनःकेऽपि स्वामित्त्वभावेन बुद्धया वा बुद्धिपूर्वकम् ॥१९॥येनकेनापि भावेन चिंतयंति जनार्दनम्इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् ॥२०॥अहो विष्णोश्च माहात्म्यमद्भुतं लोमहर्षणम्यदृच्छयापि स्मरणं त्रिधामुक्तिप्रदायकम् ॥२१॥न धनेन समृद्धेन विपुलाविद्यया तथाएकेन भक्तियोगेन समीपे दृश्यते क्षणात् ॥२२॥सांनिध्येऽपि स्थितो दूरे नेत्रयोरंजनं यथाभक्तियोगेन दृश्येन भक्तैश्चैव सनातनः ॥२३॥इदं तत्वमिदं तत्वं मोहितो देवमाययाभक्तितत्वं यदा प्राप्तं तदा विष्णुमयं जगत् ॥२४॥इंद्राद्यैरमृतं प्राप्तं सुखार्थे शृणु सुंदरितथापि दुःखितास्ते वै भक्त्या विष्णोर्यथा विना ॥२५॥भक्तिमेवामृतं प्राप्य पुनर्दुःखं न जायतेवैकुंठाख्यं पदं प्राप्य मोदते विष्णुसन्निधौ ॥२६॥वारि त्यक्त्वा यथा हंसः पयः पिबति नित्यशःएवं धर्मान्परित्यज्य विष्णोर्भक्तिं समाश्रयेत् ॥२७॥अन्यभक्तिं परित्यज्य विष्णुभक्तिं समाश्रयेत्तोयं बद्ध्वा तु वस्त्रेण कृतं कार्यं कथं भवेत् ॥२८॥प्राप्य देहं विना भक्तिं क्रियते स वृथाश्रमःविष्णुभक्तिं विना धर्मानुपदिशंति ये जनाःते पतंति सदा घोरे नरके नात्र संशयः ॥२९॥बाहुभ्यां सागरं तर्तुं यद्वन्मूर्खोऽभिवांछतिसंसारसागरं तद्वद्विष्णुभक्तिं विना नरः ॥३०॥विष्णुभक्तिं च रक्षंति कर्मणा पात्यते यदिअकिंचनः स्पृहायुक्तो मेरौ धत्ते यथा स्पृहाम् ॥३१॥तव भक्तौ तथा देव मया हि क्रियते स्पृहाजन्मांतरे हि सा भक्तिर्मामकी यत्करोति हि ॥३२॥वह्निर्यथेह स्वल्पोऽपि दहते विविधं वनम्तद्वदेव तु सा भक्तिरणुमात्रा कृता मया ॥३३॥शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यतेतेषां मध्ये तु देवेशि भक्तोह्येकः प्रजायते ॥३४॥बुद्धिं परेषां दास्यंति लोके बहुविधा जनाःस्वयमाचरते सोऽपि नरः कोटिषु दृश्यते ॥३५॥पूजया हस्यते भक्तिर्जयेन परिहस्यतेएवं भावो हि देवेशे भक्तिस्तेनैव गृह्यते ॥३६॥सागरे च यथा पातः कूपे त्राणोपवेशनम्यस्य भावो हि तद्वच्च भक्तिः सा तेन गृह्यते ॥३७॥मूले सिक्तस्य वृक्षस्य पत्रं शाखासु दृश्यतेभजनादेव भो देवि फलमग्रे प्रतिष्ठितम् ॥३८॥पानीयहारिणा यद्वत्घटे चित्तं प्रधीयतेतद्वद्देवे हरौ चित्तं धृत्वा मोक्षमवाप्नुयात् ॥३९॥शैशवे च यथा माता गुडं स्तोकं ददाति वैपुनर्याचति वै बालो गुडं वै लोभकारणात् ॥४०॥नीरे नीरं यथाक्षिप्तं दुग्धे दुग्धं घृते घृतम्तद्वद्भेदं न पश्यंति विष्णुभक्तिप्रसादतः ॥४१॥भानुः सर्वगतो यद्वद्वह्निः सर्वगतो यथाभक्तिः स्थितस्तथा भक्तः कर्मभिर्नैव बाध्यते ॥४२॥अजामिलः स्वधर्मं च त्यक्त्वा पापं समाचरन्पुत्रं नारायणं स्मृत्वा मुक्तिं वै प्राप्तवान्ध्रुवम् ॥४३॥दिवारात्रौ च ये भक्ता नाममात्रोपजीविनःवैकुंठवासिनस्ते वै तत्र वेदा हि साक्षिणः ॥४४॥अश्वमेधादियज्ञानां फलं स्वर्गेऽपि दृश्यतेतत्फलं तु समग्रं वै भुक्त्वा वै संपतंति च ॥४५॥विष्णुभक्तिस्तथा देवि भुक्त्वा भोगाननेकशःवैकुंठं प्राप्य वा तेषां पुनरागमनं कदा ॥४६॥विष्णुभक्तिः कृता येन विष्णुलोके वसत्यसौदृष्टांतं पश्य देवेशि विष्णुभक्तिप्रसादतः ॥४७॥ग्रावाणो जलमध्यस्थाः शतशस्तेन तारिताःविना जलं सोमकांतो विष्णुभक्तस्य मानसम् ॥४८॥दर्दुरो वसते नीरे षट्पदो हि वनांतरेगंधं वेत्ति कुमुद्वत्या भक्तो भक्तौ तथा हरेः ॥४९॥गंगातटे वसंत्येके एके वै शतयोजनम्कश्चिद्गंगाफलं वेत्ति विष्णुभक्तिं परस्तथा ॥५०॥कर्पूरागुरुभारं हि उष्ट्रो वहति नित्यशःमध्यगंधं न जानाति तथा विष्णुं बहिर्मुखाः ॥५१॥मृगाः शालं हि जिघ्रंति कस्तूरीगंधमिच्छवःस्वनाभिस्थं न जानंति तथा विष्णुं बहिर्मुखाः ॥५२॥उपदेशो हि मूर्खाणां वृथा वै नगनंदिनितथैव विष्णुभक्तेर्हि उपदेशो बहिर्मुखे ॥५३॥अहिना च पयः पीतं तत्पयो हि विषायतेतथा वै चान्यभक्तानां विष्णुभक्तिर्विषायते ॥५४॥चक्षुर्विना यथा दीपं दृष्ट्वा दर्पणमेव चसमीपस्था न पश्यंति तथा विष्णुं बहिर्मुखाः ॥५५॥पावको हि यथा धूमैरादर्शोपि मलेन चयथोल्बेनावृतो गर्भो देहे कृष्णस्तथावृतः ॥५६॥दुग्धे सर्पिः स्थितं यद्वत्तिले तैलं तु सर्वदाचराचरे तथा विष्णुर्दृश्यते नगनंदिनि ॥५७॥एकसूत्रे मणिगणा धार्यंते बहवो यथाएवं ब्रह्मादिभिर्विश्वं संप्रोतं ब्रह्मचिन्मये ॥५८॥यथा काष्ठे स्थितो वह्निर्मंथनादेव दृश्यतेएवं सर्वगतो विष्णुर्ध्यानादेव प्रदृश्यते ॥५९॥आदिरेको भवेद्दीपस्तस्माज्जाताः सहस्रशःएवमेकः स्थितो विष्णुः सर्वव्याप्य प्रतिष्ठति ॥६०॥यथा सूर्योदये ज्योतिः पुष्करे तिष्ठते सदादृश्यते बहुधा नीरे लोके विष्णुस्तथा हि सः ॥६१॥मारुतः प्रकृतिस्थोऽपि नानागंधवहः सदाईश्वरः सर्वजीवस्थो भुंक्ते प्रकृतिजान्गुणान् ॥६२॥शर्करा विषसंयोगान्नीरं भवति यादृशम्संभूत्त्वा तादृशो ह्यात्मा कर्मणः फलमश्नुते ॥६३॥उर्वी च नीरसंयोगान्नानावृक्षा प्रजायतेप्रकृतेर्गुणसंयोगान्नानायोनिषु जायते ॥६४॥गजे वै मशके चैव देवे वा मानुषेऽपि वानाधिको न च न्यूनो वै निष्ठो देहे स निश्चलः ॥६५॥ब्रह्मादिस्तंबपर्यंता ये चात्र भुवि मानवाःदेवा यज्ञास्तथा नागा गंधर्वाः किन्नरादयः ॥६६॥तेषु सर्वेषु दृश्यंते जले चंद्रमसो यथास सच्चिदानंदशिवः स महेशो हि दृश्यते ॥६७॥स वै विष्णुस्तथा प्रोक्तः सोऽयं सर्वगतो हरिःवेदांतवेद्यः सर्वेशः कालातीतो ह्यनामयः ॥६८॥एवं तं वेत्ति यो देवि स भक्तो नात्र संशयःएको हि बहुधा ज्ञेयो बहुधाप्येक एव सः ॥६९॥नामरूपविभेदेन जल्प्यते बहुधा भुविचक्षुषा न रवेर्ज्योतिर्भानुना चक्षुरेधते ॥७०॥परमात्मा तथा चात्मा प्रतिदेहे तु सर्वदाघटे घटे यथाकाशस्तस्मिन्भग्ने यथा स्थितः ॥७१॥रूपे रूपे तथा त्वं हि भग्ने तस्मिन्सुनिश्चलःयथा काष्ठमयं रूपं पतते प्रभुणा विना ॥७२॥क्रिमिभेदमयो देहो पतते चात्मना विनाहेम्नो भवंति वर्णाश्च वह्निना यांति पूर्ववत् ॥७३॥तद्वज्जीवाः प्रपद्यंते भक्ता वै पूर्वरूपताम्स्वघनेनावृतं सूर्यं मूढाः पश्यंति निष्प्रभम् ॥७४॥तथाऽज्ञानधियो मूढा न जानंति तमीश्वरम्निर्विकल्पं निराकारं वेदां तैः परिपाठ्यते ॥७५॥निराकाराच्च साकारं स्वेच्छया च प्रकाशतेतस्मात्संजातमाकाशं निःशब्दं गुणवर्जितम् ॥७६॥आकाशान्मारुतो जातः सशब्दं च तदाऽभवत्वातादजायत ज्योतिर्ज्योतिषश्चाभवज्जलम् ॥७७॥तज्जले रुक्मगर्भश्च विराड्वै विश्वरूपधृक्तस्य नाभिसरोजे च ब्रह्मांडानां च कोटयः ॥७८॥प्रकृतिः पुरुषस्तस्मान्निर्मितं तु त्रिधा जगत्तयोर्द्वयोश्च संयोगात्तत्त्वयोगो ऽभ्यजायत ॥७९॥सात्विकी विष्णुसंभूतिर्ब्रह्मा वै राजसः स्मृतःशिवस्तु तामसः प्रोक्त एभिः सर्वं प्रवर्तितम् ॥८०॥एका ब्राह्मी स्थितिर्लोके कर्मबीजानुसारतःतया संहरते विष्णुः सर्वलोकानुशेषतः ॥८१॥तिष्ठत्यसौ तदा तत्र भगवान्विष्णुरव्ययःएवं सर्वगतो विष्णुरादिमध्यांत एव च ॥८२॥अविद्यया न जानंति लोका वै कर्मनिश्चिताःवर्णोचितानि कर्माणि यः कालेषु प्रकारयेत् ॥८३॥यत्कर्मविष्णुदैवत्यं न हि गर्भस्य कारणम्वेदांतशास्त्रे मुनिभिः सर्वदैव विचार्यते ॥८४॥ब्रह्मज्ञानमिदं देहे तदहं परिकीर्त्तयेशुभाशुभस्य कार्यं च कारणं मन एव हि ॥८५॥मनसा शुध्यते सर्वं तदा ब्रह्म सनातनम्मन एव सदा बंधुर्मन एव सदा रिपुः ॥८६॥मनसा तारिताः केचिन्मनसा यातिताश्च केमध्ये सर्वपरित्यागः बाह्ये कर्म तथाचरन् ॥८७॥एवमेव कृतं कर्म कुर्वन्नपि न लिप्यतेपद्मपत्रं यथा नीर लेशैरपि न लिप्यते ॥८८॥अग्निरग्नौ यथा क्षिप्तो भक्त्या च किं प्रयोजनम्यदा भक्तिरसो ज्ञातो न मुक्ती रोचते तदा ॥८९॥योगैरष्टविधैर्विष्णुर्न प्राप्यश्चेह जन्मनिभक्त्या वा प्राप्यते विष्णुः सर्वदा सुलभो भवेत् ॥९०॥वेदांतैः प्राप्यते ज्ञानं ज्ञानेन ज्ञेयमेव चतत्तु ज्ञेयं यदा प्राप्तं तदा शून्यमिदं जगत् ॥९१॥बलेन प्राप्यते विष्णुर्योगैरष्टविधैश्च किम्सर्वेषामेव भावानां भावशुद्धिः प्रशस्यते ॥९२॥आलिंग्यते यथा कांता यथा भावस्तथा फलम्उपानद्युक्तपादो हि वेत्ति चर्ममयीं महीम् ॥९३॥बुद्धिर्यथाविधा यस्य तद्वत्स मन्यते जगत्दुग्धेन सिक्तो निंबोऽपि कटुभावं न तु त्यजेत् ॥९४॥प्रकृतिं यांति भूतानि उपदेशो निरर्थकःछित्वा वै सहकारं च फलं पत्रं कथं लभेत् ॥९५॥इंद्रियाणां सुखार्थेन वृथा जन्म कथं नयेत्स्थाल्यां वैडूर्यमय्यां हि पच्यते चौषधं यथा ॥९६॥दह्यते चागदस्तद्वद्वृथाजन्म कथं भवेत्निधानं च गृहे क्षिप्त्वा शुभः सेवां कथं चरेत् ॥९७॥त्यक्त्वा वैकुंठनाथं तमन्यमार्गे कथं रमेत्भक्तिहीनैश्चतुर्वेदैः पठितैः किं प्रयोजनम् ॥९८॥श्वापचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यतेस्वकरे कंकणं बद्ध्वा दर्पणैः किं प्रयोजनम् ॥९९॥ब्रह्मरुद्रादिभिर्देवैर्दत्तैश्वर्याश्च सेवकाःअर्पितं नैव गृह्णंति प्रभोश्चैव तु किंचन ॥१००॥अकिंचनाय भक्ताय दातुं नालं गतो वरम्निःशरीरस्य कृष्णस्य तत्र ध्यानं कथं भवेत् ॥१०१॥साकारं बहवो दृष्ट्वा गता भक्त्या च तत्पदम्पूजा भक्तिः कथं शून्ये साकारे कथ्यते बुधैः ॥१०२॥शून्यमार्गे कथं याति आधारेण विना नरःसाकारो यः स्वयं स्वामी निराकारः स वै प्रभुः ॥१०३॥साकारो हि सुखेनैव निराकारो न दृश्यतेसेवारसश्च साकारे निराकारेण वैरसः ॥१०४॥साकारेण निराकारो ज्ञायते स्वयमेव हिहरिस्मृतिप्रसादेन रोमांचित तनुर्यदा ॥१०५॥नयनानंदसलिलं मुक्तिर्दासी भवेत्तदाबाल्ये च यत्कृतं पापं तत्कथं न विनश्यति ॥१०६॥पूजादानव्रतैस्तीर्थैर्जपहोमैस्त्वदर्पितैःनिजधर्मं परित्यज्य तपो घोरं कथं चरेत् ॥१०७॥स्वधर्मे निधनं श्रेयः परमधर्मो भयावहःविधिं संत्यज्य शास्त्रीयं तपो घोरं कथं चरेत् ॥१०८॥आश्रमेण विना मूढो नैव सिद्धिमवाप्नुयात्ब्रह्मणा निर्मिता वर्णाः स्वे स्वे धर्मे नियोजिताः ॥१०९॥स्वधर्मेणागतं द्रव्यं शुक्लद्रव्यं तदुच्यतेशुक्लद्रव्येण यद्दानं दीयते श्रद्धयान्वितम् ॥११०॥स्वल्पेनापि महत्पुण्यं तस्य संख्या न विद्यतेनीचसंगेन यद्द्रव्यमानीतं गृहकर्मसु ॥१११॥तेन द्रव्येण यद्दानं कृतं वै मनुजादिभिःतत्फलं न भवेत्ते वै नैव तत्फलभागिनः ॥११२॥यादृशं कुरुते कर्म इंद्रियाणां सुखेच्छयातादृशीं योनिमाप्नोति मूढो हि ज्ञानदुर्बलः ॥११३॥इह यत्कुरुते कर्म तत्परत्रोपभुज्यतेपुण्यमाचरतः पुंसो यदि दुःखं प्रजायते ॥११४॥तदा तापो न कर्त्तव्यस्तत्कर्म पूर्वदेहजम्पापमाचरतः पुंसो जायते दुःखमेव च ॥११५॥न कर्त्तव्यस्तदा हर्षः सुखे तत्र सुरेश्वरिरज्जुबद्धाश्च पशवः प्रभुणा स्वेच्छया यथा ॥११६॥नीयंते कर्मबंधेन मनुजा अपि भूतलेशाखामृगो वनचरो नृत्यते च गृहे गृहे ॥११७॥एवं च कर्मणा जीवा नीयंते सर्वयोनिषुक्रीडता कंदुको यद्वत्प्रेर्यते प्रभुणेच्छया ॥११८॥कर्मणा वा तथा जंतुर्नीयते सुखदुःखयोःप्राणी स्वकर्मभिर्बद्धो न शक्तो बंधनिग्रहे ॥११९॥देवा वै कर्मभिर्बद्धा ऋषयश्च तथापरेकैलासे रुद्रदेहस्था भुजंगा विषभोजिनः ॥१२०॥असमर्थाः सुधा भोक्तुं कर्मयोनिर्बलीयसीनीरोगदेहदाता यो बुधैः सूर्यो हि कथ्यते ॥१२१॥तद्रथे सारथिः पंगुः कर्मयोनिर्बलीयसीइंद्रद्युम्नो हि राजर्षिर्गजत्वं कर्मणा गतः ॥१२२॥समर्थस्वामिना तस्मिन्कर्मयोनिर्वृथा कृतारुद्रब्रह्मादयो देवा मानवाश्चासुराश्च ये ॥१२३॥ते सर्वे कर्मबद्धाश्च विचरंति महीतलेकर्माधीनं जगत्सर्वं विष्णुना निर्मितं पुरा ॥१२४॥तत्कर्मकेशवाधीनं रामनाम्ना विनश्यतिसर्वत्रापि स्थितं तोयं मुक्तिदं तु सितासिते ॥१२५॥एवमाचरतां कर्म मुक्तिदं केशवार्चनम्इंद्रियाणां सुखार्थाय यः कर्म मनसाचरेत् ॥१२६॥अहं कृतेन मन्येत केवलं देहमेव हिमनसा संस्मरन्जंतुः प्रायश्चित्तं समाचरेत् ॥१२७॥स पूर्वकर्मभोक्ता च अग्रे कर्म न वर्द्धतेप्रशंसंति ग्रहान्केचित्केचित्प्रेतपिशाचकान् ॥१२८॥केचिद्देवान्प्रशंसंति ह्योषधीः केचिदूचिरेकेचिन्मंत्रं च सिद्धिं च केचिद्बुद्धिपराक्रमम् ॥१२९॥उद्यमं साहसं धैर्यं केचिन्नीतिं बलं तथाअहंकर्मप्रशंसाभिः सर्वे कामानुवर्तिनः ॥१३०॥इति मे निश्चिता बुद्धिः कथ्यते पूर्वसूरिभिःयदा पुण्यमयो जंतुः पापं किंचिन्नः विद्यते ॥१३१॥ज्ञानं हि द्विविधं चैव तदा पुण्यं सुखं भवेत्पापं पुण्यं समं यस्य तदा कर्मसु विद्यते ॥१३२॥समं योगं यदा द्वंद्वं तदानंदपदं व्रजेत्बाह्ये सर्वपरित्यागी मनसा संस्पृही भवेत् ॥१३३॥तद्वृथाचरितं तस्य तेन तत्पापभोगिनःबाह्ये करोति कर्माणि मनसा निःस्पृहो भवेत् ॥१३४॥त्यागोऽसौ मध्यमो ज्ञेयो न तु पूर्णफलं लभेत्बाह्यमध्ये परित्यज्य बुद्ध्या शून्यावलंबनम् ॥१३५॥त्यागः स उत्तमो ज्ञेयो योगिनामपि दुर्ल्लभःक्रोधात्सर्वं त्यजंत्येके केचिद्वादप्रभावतः ॥१३६॥कष्टात्सर्वं त्यजंत्येके त्यागाः सर्वेनुमध्यमाःसुबुद्ध्या श्रद्धया युक्तो न क्रोधादिवशंगतः ॥१३७॥कर्मणां ह्यवलिप्तोऽपि सुगतिं याति मानवःशुचीनां श्रीमतां गेहे धीमतां योगिनामपि ॥१३८॥योगाद्भ्रष्टस्तु जायेत कुले वै द्विजपूर्वकेस्वल्पेनैव तु कालेन पूर्णं योगं च विंदति ॥१३९॥चिदानंदपदं गच्छेद्योगभक्तिप्रसादतःपंकेनैव यथा पंकं रुधिरं रुधिरेण वै ॥१४०॥हिंसया कर्मणा कर्म कथं क्षालयितुं क्षमःहिंसाकर्ममयोयज्ञः कथं कर्मक्षये क्षमः ॥१४१॥स्वर्गकामकृता यज्ञा स्वर्गे ते चाल्पसौख्यदाःअनित्यानि तु सौख्यानि भवंति च बहून्यपि ॥१४२॥नित्यं सौख्यं न तेष्वस्ति विना भक्त्या हरेः क्वचित्सार्वभौमसुखं राज्यं स्वर्गे चापि तथा सुखम् ॥१४३॥अन्यत्किंचिन्न वांछामि गर्भवासाद्बिभेम्यहम्ग्रावा वै भिद्यते लोहैर्माणिक्यं नैव भिद्यते ॥१४४॥नानाकाममयी बुद्ध्या विष्णुभक्तिर्न भिद्यतेबको जलचरान्भुंक्ते मंडूकादींश्च वर्जयेत् ॥१४५॥तथा यमः सर्वहंता वर्जयेत्कृष्णसेवकान्यो रक्षति स हर्ता च स वै पालक उच्यते ॥१४६॥अपराधशतैर्युक्तं स्वं स्थाने यत्र वासितायथा कृतापराधस्य कृष्णस्तस्य कृपाकरः ॥१४७॥फलं च लभते वाद्य रक्षकः किं करोति चेत्एवमात्मा च देहेस्मिन्परवश्यकृपाकरः ॥१४८॥प्राप्तो न पारः शनकैर्मल्लैर्युक्ता न वापि ताव्याधस्य मुक्तिदाता च कुब्जका तारिता स्वयम् ॥१४९॥ब्रह्माद्यैर्दुर्लभः स्वप्ने सुलभो गोपमंदिरेगोपोच्छिष्टं यदा भुक्तं तदा ते तारिताः स्वयम् ॥१५०॥योगिभिर्गीयते नित्यं परमात्मा जनार्दनःअव्ययः पुरुषः श्रीमान्दृष्ट्वा तैर्देवि विस्मये ॥१५१॥एतत्स्मरणकं दिव्यं ये पठंति दिने दिनेसर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम् ॥१५२॥अनया भावबुद्ध्या च पठनं विष्णुसन्निधौइहलोके सुखं भुक्त्वा परं पदमवाप्नुयात् ॥१५३॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे विष्णुस्मरणंनाम द्वात्रिंशाधिकशततमोऽध्यायः ॥१३२॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP