संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १२४

उत्तरखण्डः - अध्यायः १२४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ईश्वर उवाच
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम्
मुक्तिदं तत्वबुद्धीनां शृणुष्व सुरसत्तम ॥१॥
तावद्गर्जति सेनानि गंगा भागीरथी क्षितौ
यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी ॥२
तावद्गच्छंति तीर्थानि आसमुद्र सरांसि च
यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके ॥३॥
अश्वमेधसहस्राणि राजसूयशतानि च
एकेनैवोपवासेन प्रबोधिन्यां यथाऽभवत् ॥४॥
दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे
तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी ॥५॥
ऐश्वर्यं संसृतिं ज्ञानं राज्यं च सुखसंपदम्
ददात्युपोषिता विप्र हेलया हरिबोधिनी ॥६॥
मेरुमंदरतुल्यानि पापान्युपार्जितानि च
एकेनैवोपवासेन दहते हरिबोधिनी ॥७॥
उपवासं प्रबोधिन्यां यः करोति स्वभावतः
विधिना नरशार्दूल यथोक्तं लभते फलम् ॥८॥
पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम्
जागरेण प्रबोधिन्यां दह्यते तूलराशिवत् ॥९॥
शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम्
यस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः ॥१०॥
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा
धूपं दीपं च नैवेद्यं पुष्पं गंधानुलेपनम् ॥११॥
फलमर्घ्यं च श्रद्धा च दानमिंद्रियसंयमम्
सत्यान्वितं विनिद्रं च मुदायुक्तं क्रियान्वितम् ॥१२॥
साश्चर्चं चैव सोत्साहमालस्यादिविवर्जितम्
प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरम् ॥१३॥
नीराजनसमायुक्तमनिर्विण्णेन चेतसा
यामे यामे महाभाग कुर्वन्नीराजनं हरेः ॥१४॥
एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः
एकाग्रमानसो यस्तु न पुनर्जायते भुवि ॥१५॥
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितैः
जागरं वासरे विष्णोर्नीयते परमां गतिम् ॥१६॥
पुरुषसूक्तेन यो नित्यं कार्तिके अर्चयेद्धरिम्
वर्षकोटिसहस्राणि पूजितस्तेन केशवः ॥१७॥
यथोक्तेन विधानेन पंचरात्रोदितेन वै
कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः ॥१८॥
नमोनारायणायेति कार्तिके योऽर्चयेद्धरिम्
स मुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयम् ॥१९॥
हरेर्नामसहस्रं च गजराजस्य मोक्षणम्
कार्तिके पठते यस्तु पुनर्जन्म न विंदति ॥२०॥
युगकोटिसहस्राणि मन्वंतरशतानि च
द्वादश्यां कार्तिके मासि जागरी वसते दिवि ॥२१॥
कुले तस्य च संजाताः शतशोऽथ सहस्रशः
प्राप्नुवंति पदं विष्णोस्तस्मात्कुर्वीत जागरम् ॥२२॥
कार्तिके पश्चिमे यामे स्तवं गानं करोति यः
श्वेतद्वीपे तु वसते पितृभिः सह भामिनि ॥२३॥
नैवेद्यदानं हरये कार्तिके दिनसंक्षये
युगानि वसते स्वर्गे तावंति मुनिसत्तमाः ॥२४॥
अक्षयं मुनिशार्दूल मालतीकमलार्चनम्
अर्चयेद्देवदेवेशं स याति परमं पदम् ॥२५॥
कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः
प्रातर्दत्त्वा शुभान्कुंभान्स याति मम मंदिरम् ॥२६॥
कार्त्तिकेय उवाच
भगवन्नुच्यतां पुण्यं व्रतानां परमं व्रतम्
कर्तव्यं कार्तिके मासि भवता भीष्मपंचकम् ॥२७॥
विधानं तस्य च फलं तथैव सुरसत्तम
कथयस्व प्रसादान्मे मुनीनां च पितामह ॥२८॥
ईश्वर उवाच
प्रवक्ष्यामि महापुण्यं व्रतं विधिमतां वरः
भीष्मेणैतद्यतः प्राप्तं व्रतं पंचदिनात्मकम् ॥२९॥
सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपंचकम्
व्रतस्यास्य गुणान्वक्तुं कः शक्तः केशवादृते ॥३०॥
कार्त्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम्
वसिष्ठभृगुगर्गाद्यैश्चीर्णं कृतयुगादिषु ॥३१॥
अंबरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु
ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ॥३२॥
क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः
दुष्करं सत्यहीनानामशक्यं बालचेतसाम् ॥३३॥
दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः
यस्तत्करोति विप्रेंद्र तेन सर्वं कृतं भवेत् ॥३४॥
व्रतं चैतन्महापुण्यं महापातकनाशनम्
अतो नरैः प्रयत्नेन कर्त्तव्यं भीष्मपंचकम् ॥३५॥
कार्तिकस्यामलेपक्षे स्नात्वा सम्यग्विधानतः
एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम् ॥३६॥
प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती
नद्यां निर्झरगर्ते वा समालभ्य च गोमयम् ॥३७॥
यवव्रीहितिलैः सम्यक्पितॄन्संतर्पयेत्क्रमात्
स्नात्वा मौनं नरः कृत्वा धौतवासा दृढव्रतः ॥३८॥
भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः
पूजा भीष्मस्य कर्त्तव्या दानं दद्यात्प्रयत्नतः ॥३९॥
पंचरत्नं विशेषेण दत्त्वा विप्राय यत्नतः
वासुदेवोऽपि संपूज्यो लक्ष्मीयुक्तः सदा प्रभुः ॥४०॥
पंचके पूजयित्वा तु कोटिकल्पानि तुष्यति
यत्किंचित्क्रियते सर्वं पंचधातुप्रकल्पयेत् ॥४१॥
संवत्सरव्रतानां च लभते सकलं फलम्
कृत्वा तूदकदानं तु तथार्घ्यस्य च दापनम् ॥४२॥
मंत्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः ॥४३॥
वैयाघ्रपादगोत्राय सांकृते प्रवराय च
अपुत्राय ददाम्येतदुदकं भीष्मवर्मणे ॥४४॥
वसूनामवताराय शंतनोरात्मजाय च
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ॥४५
इति अर्घ्यमंत्रः
अनेन विधिना यस्तु पंचकं तु समापयेत्
अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः ॥४६॥
पंचाहमपि कर्तव्यं नियमं च प्रयत्नतः
नियमेन विना पुत्र न भाव्यं व्रतकर्मणा ॥४७॥
उत्तरायणहीनाय भीष्माय प्रददौ हरिः
उत्तरायणहीनोऽपि शुद्धिं लग्नं विना शुभाः ॥४८॥
ततः संपूजयेद्देवं सर्वपापहरं हरिम्
अनंतरं प्रयत्नेन कर्तव्यं भीष्मपंचकम् ॥४९॥
स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च
तथैव पंचगव्येन गंधचंदनवारिणा ॥५०॥
चंदनेन सुगंधेन कुंकुमेनाथ केशवम्
कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् ॥५१॥
अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः
गुग्गुलुं घृतंसंयुक्तं दहेत्कृष्णाय भक्तिमान् ॥५२॥
दीपकं तु दिवारात्रौ दद्यात्पंचदिनादिषु
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत् ॥५३॥
एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च
ॐ नमो वासुदेवाय जपेदष्टोत्तरं शतम् ॥५४॥
जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः
षडक्षरेण मंत्रेण स्वाहाकारान्वितेन च ॥५५॥
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम्
जपित्वा पूर्ववन्मंत्रं क्षितिशायी भवेद्व्रती ॥५६॥
सर्वमेतद्विधानं तु कार्यं पंचदिनानि तु
विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत् ॥५७॥
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती
द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ॥५८॥
ततोनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः
कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ॥५९॥
अर्चित्वा तं हृषीकेशमेकादश्यां समासतः
निष्प्राश्य गोमयं सम्यगेकादश्यामुपावसेत् ॥६०॥
गोमूत्रं मंत्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती
क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि ॥६१॥
संप्राश्य कायशुद्ध्यर्थं लंघयित्वा चतुर्दिनम्
पंचमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ॥६२॥
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ॥६३॥
मद्यं मांसं परित्यज्य मैथुनं पापकारिणम्
शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः ॥६४॥
ततो नक्तं समाश्नीयात्पंचगव्यपुरः सरम्
एवं सम्यक्समाप्तस्य यथोक्तं फलमाप्नुयात् ॥६५॥
मद्यपो यत्पिबेन्मद्यं जन्मनो मरणांतिकम्
एतद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदम् ॥६६॥
स्त्रीभिर्ब्राह्मणवाक्येन कर्तव्यं धर्मवर्द्धनम्
विधवाभिश्च कर्तव्यं मोक्षसौख्याभिवृद्धये ॥६७॥
सर्वकामसमृद्ध्यर्थं पुण्यार्थमपि पावके
नित्यस्नाने तथा दाने ये कार्तिकमुपासते ॥६८॥
वैश्वदेवश्च कर्तव्यो विष्णुध्यानपरायणैः
आरोग्य पुत्रदो वत्स महापातकनाशनः ॥६९॥
तीर्थेषु कार्तिकं कुर्यात्सर्वयत्नेन षण्मुख
संवत्सरव्रतानां तु समाप्तिः कार्तिके मता ॥७०॥
पापस्य प्रतिमा कार्या रौद्रवस्त्राति भीषणा
खड्गहस्ता विनिष्क्रांता लोहदंष्ट्राकरालिनी ॥७१॥
तिलप्रस्थोपरि स्थाप्या कृष्णवस्त्राभिवेष्टिता
रक्तपुष्पकृतापीडा ज्वलत्कांचनकुंडला ॥७२॥
संपूज्य परया भक्त्या धर्मराजस्य नामभिः
इममुच्चारयेन्मंत्रं गृहीतकुसुमांजलिः ॥७३॥
यदन्यजन्मनि कृतमिह जन्मनि वा पुनः
पापं प्रशममायातु तव पादप्रसादतः ॥७४॥
एवं संपूज्य विधिवत्प्रतिमां तां च कांचनीम्
कृत्वा पूजां यथाशक्त्या विप्राणां वेदवादिनाम् ॥७५॥
प्रीतये देवदेवस्य कृष्णस्याक्लिष्टकर्मणः
ब्राह्मणाय प्रदातव्यं धर्मो मे प्रीयतामिति ॥७६॥
वाचकाय प्रदातव्या यथाशक्त्या च दक्षिणा
दद्याद्धिरण्यं गाश्चैव कृष्णो मे प्रीयतामिति ॥७७॥
कृतकृत्य स्थितो भूत्वा विरक्तः संयतो भवेत्
अन्येषामपि दातव्यं स्वशक्त्या दानमुत्तमम् ॥७८॥
शांतचित्तो निरपराधः परं पदमवाप्नुयात्
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ॥७९॥
अष्टपादैकनयनः शंकुकर्णः खरस्वनः
जडी द्विजिह्वस्ताम्राक्षो मृगराजतनुच्छदः ॥८०॥
चिंतनीयो महादेवो यस्य रूपं न विद्यते
इदं भीष्मेण कथितं शरतल्पगतेन मे ॥८१॥
तदेतत्ते मयाख्यातं दुष्करं भीष्मपंचकं
धन्यं पुण्यं पापहरं युधिष्ठिर महाव्रतम्॥
यत्कृत्वा ब्रह्महा गोघ्नः सर्वपापैः प्रमुच्यते ॥८२॥
यद्भीष्मपंचकमिति प्रथितं पृथिव्यामेकादशीप्रभृतिपंचदशी निरुद्धम्
उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन्व्रते शुभफलं प्रददाति विष्णुः ॥८३॥
सूत उवाच
एतत्सर्वाधिकं पुण्यं दुर्लभं भुवने कृतम्
इदं गुह्यं मयाख्यातं शास्त्रसारसमुच्चयम् ॥८४॥
सुराणां गोपितं सर्वमतिगुह्यं च मोक्षदम्
श्रुत्वा चैकपदे देवि अगम्यागमने रताः ॥८५॥
कन्याविक्री स्वसाविक्री ह्युभयं तु विमोचयेत्
मोक्षदं च इदं शास्त्रं प्रकाशं नेतरे जने ॥८६॥
श्रुत्वा चैकपदे यस्तु मोक्षं गच्छति मानवः
गोपनीयं प्रयत्नेन ये चापि त्यागिनो नराः ॥८७॥
न तेषां कथ्यते पुण्यं सत्यं सत्यं च षण्मुख
इत्येतत्सर्वमाख्यातं कार्तिकस्य तु यत्फलम् ॥८८॥
श्रीविष्णुरुवाच
कथितं देवदेवेन पुत्राय हितकाम्यया
पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ॥८९॥
ऊचुः प्रांजलयः सर्वे तं देवं जगदायुषम्
कृतकृत्या वयं जाताः श्रुत्वा कार्तिकजं फलम् ॥९०॥
अपरं नास्ति श्रोतव्यं प्राप्तं मे जन्मनः फलम्
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ॥९१॥
गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः
वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः ॥९२॥
तथा तं पूजयेन्नित्यं यदीच्छेत्सफलं शुभम्
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ॥९३॥
पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता
पुराणविद्या दातारो ह्यनंतफलभोजिनः ॥९४॥
यः पठेत इदं भक्त्या श्रुत्वा चैवावधारयेत्
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥९५॥
धनं धान्यं यशः पुत्रानायुरारोग्यमेव च
माहात्म्यश्रवणादेव लभ्यते च न संशयः ॥९६॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्त्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे चतुर्विंशत्यधिकशततमोध्यायः ॥१२४॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP