संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २५४

उत्तरखण्डः - अध्यायः २५४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


वसिष्ठ उवाच-
एवमुक्ता तु सा देवि पतिना शूलपाणिना
प्रणिपत्य महात्मानमुवाच प्रांजलिस्तदा ॥१॥
पार्वत्युवाच-
साधूक्तं हि त्वया नाथ वैष्णवं धर्ममुत्तमम्
गुह्याद्गुह्यतमं विष्णोः स्वरूपं परमात्मनः ॥२॥
धन्यास्मि कृतकृत्यास्मि सर्वदेवनमस्कृत
तव प्रसादाद्देवेशमर्चयामि सनातनम् ॥३॥
वसिष्ठउवाच-
ततस्तद्वचनं श्रुत्वा स भवस्त्रिपुरांतकः
समाश्लिष्यावदद्देवीं प्रहृष्टेनांतरात्मनाः ॥४॥
रुद्र उवाच-
साधुसाधु महादेवि साधुसाधु वरानने
अर्चयस्व हृषीकेशं लक्ष्मीभर्त्तारमच्युतम् ॥५॥
कृतकृत्योऽस्म्यहं भद्रे वैष्णव्या भार्यया त्वया
गुरुणा तव चार्वंगि वामदेवेन धीमता ॥६॥
अनुज्ञातार्चयस्वेशं पुराणं पुरुषोत्तमम्
गुरूपदेशमार्गेण पूजयित्वैव केशवम्
प्राप्नोति वाछितं सर्वं नान्यथा भूधरात्मजे ॥७॥
वसिष्ठ उवाच-
एवमुक्ता तदा देवि वामदेवांतिकं नृप
जगाम सहसा हृष्टा विष्णुपूजनलालसा ॥८॥
समेत्य तं गुरुं देवि पूजयित्वा प्रणम्य च
विनीता प्रांजलिर्भूत्वा उवाच मुनिसत्तमम् ॥९॥
पार्वत्युवाच-
भगवंस्त्वत्प्रसादेन सम्यगाराधनं हरेः
करिष्यामि द्विजश्रेष्ठ त्वमनुज्ञातुमर्हसि ॥१०॥
वसिष्ठ उवाच-
इत्युक्तस्तु तया देव्या वामदेवो महामुनिः
तस्यै मंत्रवरं श्रेष्ठं ददौ स विधिना गुरुः ॥११॥
नाम्नां सहस्रं विष्णोश्च प्रोक्तवान्मुनिसत्तमः
निवेदयित्वा पूजाया विधानमपि देशिकः
उवाच परमप्रीत्या पार्वतीं संशितव्रताम् ॥१२॥
वामदेव उवाच-
अर्चयित्वा हृषीकेशं प्रातर्नित्यं वरानने
सहस्रनामपठनं कुरुष्व तदनंतरम् ॥१३॥
वसिष्ठ उवाच-
द्वत्युक्ता तेन गुरुणा प्रहृष्टेनांतरात्मना
पूजयित्वा नमस्कृत्य पुनरायात्स्वमालयम् ॥१४॥
शिक्षिता गुरुणा तेन वामदेवेन पार्वती
ततः कतिपयाहस्तु द्वादश्यां वृषभध्वजः ॥१५॥
कैलासशिखरे रम्ये विष्णुमाराध्य शंकरः
उपविष्टस्ततो भोक्तुं पार्वतीं शंकरोऽब्रवीत् ॥१६॥
शंकर उवाच-
पार्वत्ये हिमया सार्द्धं भोक्तुं भुवनवंदिते
वसिष्ठ उवाच-
तमाह पार्वती देवी जप्त्वा नामसहस्रकम् ॥१७॥
ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो
ततस्तां पार्वतीं प्राह प्रहसन्परमेश्वरः ॥१८॥
शंकर उवाच-
धन्यासि कृतकृत्यासि विष्णुभक्तासि पार्वति
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि ॥१९॥
रामरामेति रामेति रमे रामे मनोरमे
सहस्रनामतत्तुल्यं रामनाम वरानने ॥२०॥
रकारादीनि नामानि शृण्वतो मम पार्वति
मनः प्रसन्नतां याति रामनामाभिशंकया ॥२१॥
रामेत्युक्त्वा महादेवि भुंक्ष्व सार्धं मयाधुना
वसिष्ठ उवाच-
ततो रामेति नामोक्त्वा सह भुंक्त्वाऽथ पार्वती ॥२२॥
रामेत्युक्ता महादेवी शंभुना सह संस्थिता
पप्रच्छ शंकरं देवं प्रीतिप्रणवमानसा ॥२३॥
पार्वत्युवाच-
सहस्रनामभिस्तुल्यं रामनाम त्वयोदितम्
तस्यापराणि नामानि संति चेद्रावणद्विषः
कथ्यतां मम देवेश तत्र मे भक्तिरुत्थिता ॥२४॥
श्रीमहादेव उवाच-
शृणु नामानि वक्ष्यामि रामचंद्रस्य पार्वति
लौकिका वैदिकाः शब्दाः ये केचित्संति पार्वति ॥२५॥
नामानि रामचंद्रस्य सहस्रं तेषु चाधिकम्
तेषु चात्यंतमुख्यं हि नाम्नामष्टोत्तरं शतम् ॥२६॥
विष्णोरेकैकनामैव सर्ववेदाधिकं मतम्
तादृङ्नामसहस्राणि रामनामसमानि च ॥२७॥
यत्फलं सर्ववेदानां मंत्राणां जपतः प्रिये
तत्फलं कोटिगुणितं रामनाम्नैव लभ्यते ॥२८॥
नामानि शृणु रामस्य मुख्यानि शुभदर्शने
ऋषिभिः परिगीतानि तानि वक्ष्यामि ते प्रिये ॥२९॥
ॐ श्रीरामो रामचंद्रश्च रामभद्रश्च शाश्वतः
राजीवलोचनः श्रीमान्राजेंद्रो रघुपुंगवः ॥३०॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः
विश्वामित्रप्रियो दांतः शरण्य त्राणतत्परः ॥३१॥
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः ॥३२॥
कौशलेयः खरध्वंसी विराधवधपंडितः
विभीषणपरित्राता दशग्रीवशिरोहरः ॥३३॥
सप्ततालप्रभेत्ता च हरकोदंड खंडनः
जामदग्नि महादर्प्पदलनस्ताडकांतकृत् ॥३४॥
वेदांतपारो वेदात्मा भवबंधैकभेषजम्
दूषणत्रिशिरोरिश्च त्रिमूर्त्तिस्त्रिगुणस्त्रयी ॥३५॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्त्तनः
त्रिलोकरक्षको धन्वी दंडकारण्यवासकृत् ॥३६॥
अहल्यापावनश्चैव पितृभक्तो वरप्रदः
जितेंद्रियो जितक्रोधो जितलोभो जगद्गुरुः ॥३७॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः
जयंतत्राणवरदः सुमित्रापुत्रसेवितः ॥३८॥
सर्वदेवाधिदेवश्च मृतवानरजीवनः
मायामारीचहंता च महाभागो महाभुजः ॥३९॥
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः
महायोगी महोदारः सुग्रीवस्थिरराज्यदः ॥४०॥
सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ॥४१॥
पुण्योदयो महासारः पुराणपुरुषोत्तमः
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ॥४२॥
अनंतगुणगंभीरो धीरो दांतगुणोत्तरः
मायामानुषचारित्रो महादेवाधिपूजितः ॥४३॥
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः
श्यामांगः सुंदरः शूरः पीतवासा धनुर्द्धरः ॥४४॥
सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः
शिवलिंगप्रतिष्ठाता सर्वाद्यगुणवर्जितः ॥४५॥
परमात्मा परब्रह्म सच्चिदानंदविग्रहः
परंज्योतिः परंधाम पराकाशः परात्परः ॥४६॥
परेशः पारगः पारः सर्वभूतात्मकः शिवः
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ॥४७॥
गुह्याद्गुह्यतरं देवि तव स्नेहात्प्रकीर्तितम्
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥४८॥
सर्वैः प्रमुच्यते पापैः कल्पकोटिशतोद्भवैः
जलानि स्थलतां यांति शत्रवो यांति मित्रताम् ॥४९॥
राजानो दासतां यांति वह्नयो यांति सौम्यताम्
आनुकूल्यं च भूतानि स्थैर्यं यांति चलाः श्रियः ॥५०॥
अनुग्रहं ग्रहा यांति शांतिमायांत्युपद्रवाः
पठतो भक्तिभावेन नरस्य गिरिसंभवे ॥५१॥
पठेत्परमया भक्त्या तस्य वश्यं जगत्त्रयम्
यंयं कामं प्रकुरुते तंतमाप्नोति कीर्त्तनात् ॥५२॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
वैकुंठे मोदते नित्यं दशपूर्वैर्दशापरैः ॥५३॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवंति नामभिर्द्दिव्यैर्न ते संसारिणो जनाः ॥५४॥
रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः ॥५५॥
इमं मंत्रं महादेवि जपन्नेव दिवानिशम्
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥५६॥
इति ते रामचंद्रस्य माहात्म्यं वेदसंमितम्
कथितं वै मया सुभ्रूस्तव प्रीत्या शुभाह्वयम् ॥५७॥
वसिष्ठ उवाच-
तच्छ्रत्वा शंकरेणोक्तं माहात्म्यं परमात्मनः
प्रहर्षमतुलं लेभे आनंदाश्रुजलाप्लुता ॥५८॥
प्रणम्य प्राह देवेशं भर्तारं वृषभध्वजम्
पार्वत्युवाच-
अहो माहात्म्यमतुलं रामस्य परमात्मनः
श्रोत्रतृप्तिर्हि मे न स्यात्कल्पायुतशतैरपि ॥५९॥
धन्याहं कृतकृत्यास्मि सर्वमुक्तं त्वयानघ
त्वत्प्रसादाद्धरेर्भक्तिर्जन्मजन्मनि चास्तु मे ॥६०॥
वसिष्ठ उवाच-
एवमुक्त्वा स्वभर्तारं गौरी भागवतोत्तमा
रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः ॥६१॥
इममेव जपन्मंत्रं सर्वावस्थासु पार्वती
उवास च सुखेनैव कैलासे पतिना सह ॥६२॥
एतत्ते सर्वमाख्यातं गुह्याद्गुह्यतमं नृप
रुद्रप्रोक्तानि शास्त्राणि तामसान्येव पार्थिव ॥६३॥
संमोहनार्थं लोकानां प्रोक्तवान्वृषभध्वजः
रहसि प्रोक्तवान्देव्या इदमेकं हरः प्रभुः ॥६४॥
यथार्थमर्थं गुह्यं च सारं मंत्रस्य भूपते
देव्या प्रीत्यै महादेवः कथयामास तत्परः ॥६५॥
उमामहेश्वरं राजन्संवादमिममद्भुतम्
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥६६॥
स सर्ववंद्यः सर्वज्ञो महाभागवतो भवेत्
सर्वधर्मविनिर्मुक्तः प्राप्नोति परमं पदम् ॥६७॥
धन्यः खलु भवान्लोके पार्थिवेंद्र महाबल
त्वदन्वये हरिः श्रीमान्पुराणः पुरुषोत्तमः ॥६८॥
उत्पत्स्यते दाशरथिः सर्वलोकहिताय वै
तस्मादिक्ष्वाकवः पूज्याः सुराणामपि पार्थिव ॥६९॥
येषां जातो हि भगवान्रामो राजीवलोचनः
इति श्रीपाद्मे महापुराणे पंचपचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे
रामचंद्राष्टोत्तरशतनामकथनं नाम चतुःपंचाशदधिक द्विशततमोऽध्यायः ॥२५४॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP