उत्तरखण्डः - अध्यायः १२६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
वसिष्ठ उवाच
अधुना माघमाहात्म्यं प्रवक्ष्यामि नृपोत्तम
पृच्छते कार्तवीर्याय दत्तात्रेयेण भाषितम् ॥१॥
दत्तात्रेयं हरिं साक्षाद्वसंतं सह्य पर्वते
पप्रच्छ तं द्विजं गत्वा राजा माहिष्मतीपतिः ॥२॥
सहस्रार्जुन उवाच
भगवन्योगिनां श्रेष्ठ सर्वे धर्माः श्रुता मया
माघस्नानफलं ब्रूहि कृपया मम सुव्रत ॥३॥
दत्तात्रेय उवाच
श्रूयतां नृपशार्दूल एतत्प्रश्नोत्तरं शुभम्
ब्रह्मणोक्तं पुरा ह्येतन्नारदाय महात्मने ॥४॥
तत्सर्वं कथयिष्यामि माघस्नानफलं महत्
यथादेशं यथातीर्थं यथाविधि यथाक्रियम् ॥५॥
अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः
अमाघस्नायिनां नॄणां निष्फलं जन्मकीर्तितम् ॥६॥
असूर्यं गगनं यद्वदचन्द्रमुडुमंडलम्
तद्वन्नाभाति सत्कर्म माघस्नानं विना नृप ॥७॥
व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः
माघमज्जनमात्रेण यथा प्रीणाति केशवः ॥८॥
न समं विद्यते किंचित्तेजः सौरेण तेजसा
तद्वत्स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ॥९॥
प्रीतये वासुदेवस्य सर्वपापापनुत्तये
माघस्नानं प्रकुर्वीत स्वर्गलाभाय मानवः ॥१०॥
किं रक्षितेन देहेन सुपुष्टेन बलीयसा
अध्रुवेणाप्यशुचिना माघस्नानं विना भवेत् ॥११॥
अस्थिस्तंभं स्नायुबद्धं मांसक्षतज लेपनम्
चर्मावनद्धं दुर्गंधं पात्रं मूत्रपुरीषयोः ॥१२॥
जराशोकविपद्व्याप्तं रोगमंदिरमातुरम्
रजस्वलमनित्यं च सर्वदोषसमाश्रयम् ॥१३॥
परोपतापितापार्तं परद्रोहि परं विषम्
लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा ॥१४॥
दुष्पूरं दुर्धरं दुष्टं दोषत्रयसमन्वितम्
अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् ॥१५॥
निसर्गतोऽधर्मरतं तृष्णाशत समाकुलम्
कामक्रोध महालोभ नरकद्वार संस्थितम् ॥१६॥
क्रिमिविड्भस्मभवति परिणामे शुनां हविः
ईदृक्शरीरं व्यर्थं हि माघस्नानविवर्जितम् ॥१७॥
बुद्बुदाइव तोयेषु पूतिका इव जंतुषु
जायंते मरणायैव माघस्नानविवर्जिताः ॥१८॥
अवैष्णवो हतो विप्रो हतं श्राद्धमयोगि च
अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् ॥१९॥
सदंभश्च हतो धर्मः क्रोधेनैव हतं तपः
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥२०॥
गुर्वभक्ता हता नारी ब्रह्मचारी तया हतः
अदीप्तेऽग्नौ हतो होमो हता भुंक्तिरसाक्षिका ॥२१॥
उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता
शूद्रभिक्षो हतो यागः कृपणस्य हतं धनम् ॥२२॥
अनभ्यासा हता विद्या हतो राजा विरोधकृत्
जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥२३॥
असत्या च हता वाणी तथा पैशुन्यवादिनी
संदिग्धश्च हतो मंत्रो व्यग्रचित्तो हतो जपः ॥२४॥
हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः
अश्रद्धया हतं सर्वं कृतं यत्पारलौकिकम् ॥२५॥
इहलोको हतो नॄणां दरिद्राणां यथा नृप
मनुष्याणां तथा जन्म माघस्नानं विना हतम् ॥२६॥
मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ
कथं पापैः प्रमुच्येत कथं स त्रिदिवं व्रजेत् ॥२७॥
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः
माघस्नायी विपापः स्यात्तत्संसर्गी च पंचमः ॥२८॥
माघमासे रटंत्यापः किंचिदभ्युदिते रवौ
ब्रह्मघ्नं वा सुरापं वा कंपंतं तं पुनीमहे ॥२९॥
उपपापानि सर्वाणि पातकानि महांत्यपि
भस्मीभवंति सर्वाणि माघस्नानोद्यतं नरम् ॥३०॥
कंपंति सर्वपापानि माघस्नानसमागमे
नाशकालोऽयमस्माकं यदि स्नास्यति वारिणि ॥३१॥
एवं क्रोशंति पापानि दृष्ट्वा स्नानोद्यतं नरम्
पावका इव दीप्यंते माघस्नानैर्नरोत्तमाः ॥३२॥
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः
आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम् ॥३३॥
माघस्नानं दहेत्पापं पावकः समिधो यथा
प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् ॥३४॥
स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरे
निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम् ॥३५॥
संदेहो नात्र कर्तव्यो माघस्नाने नराधिप
सर्वेऽधिकारिणो माघे विष्णुभक्तौ यथा नृप ॥३६॥
सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनः
एष एव परो मंत्रो ह्येतदेव परं तपः ॥३७॥
प्रायश्चित्तं परं चैतन्माघस्नानमनुत्तमम्
नृणां जन्मांतराभ्यासान्माघस्नाने मतिर्भवेत् ॥३८॥
अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप
संसारकर्दमालेप प्रक्षालन विशारदम् ॥३९॥
पावनं पावनानां च माघस्नानपरं नृप
स्नांति माघे न ये राजन्सर्वकामफलप्रदे ॥४०॥
कथं ते भुंजते भोगांश्चंद्रसूर्यग्रहोपमान्
शृणु राजन्महाश्चर्यं माघस्नानप्रभावजम् ॥४१॥
कुब्जिका नाम कल्याणी ब्राह्मणी भृगुवंशजा
बालवैधव्यदुःखार्ता तपस्तेपे सुदुस्तरम् ॥४२॥
विंध्यपादे महाक्षेत्रे रेवाकपिलसंगमे
तत्र सा व्रतिनी भूत्वा नारायणपरायणा ॥४३॥
सदाचारवती नित्यं नित्यं संगविवर्जिता
जितेंद्रिया जितक्रोधा सत्यवागल्पभाषिणी ॥४४॥
सुशीला दानशीला च देहशोषणशालिनी
पितृदेवद्विजेभ्यश्च दत्वा हुत्त्वा तथानले ॥४५॥
षष्ठे काले च सा भुङ्क्ते ह्युंच्छवृत्तिः सदा नृप
कृच्छ्रातिकृच्छ्र पाराक तप्तकृच्छ्रादिभिर्व्रतैः ॥४६॥
पुण्यान्नयति सा मासान्नर्मदायाश्च रोधसि
एवं तया तपस्विन्या वल्कलिन्या सुशीलया ॥४७॥
सुमहासत्त्वशालिन्या धृति संतोषयुक्तया
षष्टिर्माघास्तया स्नाता रेवाकपिलसंगमे ॥४८॥
ततः सा तपसा क्षीणा तस्मिंस्तीर्थे मृता नृप
माघस्नानजपुण्येन तेन सा वैष्णवे पुरे ॥४९॥
उवास प्रमुदा युक्ता चतुर्युगसहस्रकम्
सुंदोपसुंदनाशाय पश्चात्पद्मभवात्पुनः ॥५०॥
तिलोत्तमेति नाम्ना सा ब्रह्मलोकेऽवतारिता
तेन पुण्यस्यशेषेण रूपस्यैकायनं ययौ ॥५१॥
अयोनिजाबलारत्नं देवानामपि मोहिनी
लावण्यहृदनी तन्वी साभूदप्सरसां वरा ॥५२॥
निपुणस्य विधेः स्रष्टुर्नूनमाश्चर्यकारिणी
तामुत्पाद्य विधाता वै तुष्टोऽनुज्ञां तदा ददौ ॥५३॥
एणशावाक्षि गच्छ त्वं दैत्यनाशाय सत्वरम्
ततः सा ब्रह्मणो लोकाद्वीणामादाय भामिनी ॥५४॥
गता पुष्करमार्गेण यत्र तौ देववैरिणौ
तत्र स्नात्वा तु रेवायाः पवित्रे निर्मले जले ॥५५॥
परिधायांबरं रक्तं बंधूककुसुमप्रभम्
रणद्वलयिनीचारु सिंजन्मेखलनूपुरा ॥५६॥
लोलमुक्तावलीकंठी चलत्कुंडलशोभना
माधवी कुसुमापीडा कंकेली विटपे स्थिता ॥५७॥
गायंती सुस्वरं सापि पीडयंती तु वल्लकीम्
मूर्च्छयंती स्वरषट्कं सुस्निग्धं कोमलं कलम् ॥५८॥
इत्थं तिलोत्तमा बाला तिष्ठंत्यशोककानने
दृष्ट्वा दैत्यभटैरिंदोः कलेव सुखदा हृदि ॥५९॥
तां दृष्ट्वा विस्मितै राजन्सानंदैः सैनिकैर्भृशम्
त्वरमाणैरदृष्ट्वैव गत्वा सुंदोपसुंदयोः ॥६०॥
कथिता संभ्रमेणैव वर्णयित्वा पुनः पुनः
हे दैत्यौ न विजानीमो देवी वा दानवी नु किम् ॥६१॥
नागांगनाथ वा यक्षी स्त्रीरत्नं सर्वथा तु सा
युवां रत्नभुजौ लोके रत्नभूता हि साबला ॥६२॥
वर्तते नाति दूरेऽग्रे अशोके शोकहारिणी
गत्वा तां पश्यतं शीघ्रं मन्मथस्यापि मोहिनीम् ॥६३॥
इति सेनापतीनां तौ श्रुत्वा वाचं मनोहराम्
चषकं सीधुनस्त्यक्त्वा विहाय जलसेचनम् ॥६४॥
उत्तमस्त्रीसहस्राणि त्यक्त्वा तस्माज्जलाशयात्
शतभारायसीं क्रूरां कालदंडोपमां गदाम् ॥६५॥
भिन्नाभिन्नां गृहीत्वा तु जवेनाभिप्लुतं गतौ
यत्र शृंगारसज्जा सा हंतुं चंडीव संस्थिता ॥६६॥
राजन्संधुक्षयंतीव दैत्ययोर्मन्मथानलम्
स्थित्वा तस्याः पुरो जाल्मौ तद्रूपेणविमोहितौ ॥६७॥
विशेषान्मधुनामत्तावूचतुस्तौपरस्परम्
भ्रातर्विरम भार्येयं ममास्तु वरवर्णिनी ॥६८॥
त्वमेवार्य त्यजैतां मे भार्यां तु मदिरेक्षणाम्
इत्याग्रहेण संरब्धौ मातंगाविव सोन्मदौ ॥६९॥
अन्योन्यं कालनिर्दिष्टौ गदया जघ्नतुस्तदा
परस्परप्रहारेण गतासू पतितौ भुवि ॥७०॥
तौ मृतौ सैनिकैर्दृष्ट्वा कृतः कोलाहलो महान्
कालरात्रिसमा केयं हा किमेतदुपस्थितम् ॥७१॥
एवं वदत्सु सैन्येषु दैत्यौ सुंदोपसुंदकौ
पातयित्वा गिरेः शृंगे ह्रादिनीव त्तिलोत्तमा ॥७२॥
प्रस्थिता गगनं शीघ्रं द्योतयंती दिशो दश
देवकार्यं ततः कृत्वा आगता ब्रह्मणः पुरः ॥७३॥
ततस्तुष्टेन देवेन विधिना सानुमोदिता
स्थानं सूर्यरथे दत्तं तव चंद्रानने मया ॥७४॥
भुंक्ष्व भोगाननेकांस्त्वं यावत्सूर्योंबरे स्थितः
इत्थं सा ब्राह्मणी राजन्भूत्वा चाप्सरसां वरा ॥७५॥
भुंक्तेद्यापि रवेर्लोके माघस्नानफलं महत्
तस्मात्प्रयत्नतो राजन्श्रद्दधानैः सदा नरैः ॥७६॥
स्नातव्यं मकरादित्ये वांच्छद्भिः परमां गतिम्
नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन ॥७७॥
नाक्षीणं पातकं कंचिन्माघे मज्जति यो नरः
तुलयंति न तेनात्र यज्ञाः सर्वे सदक्षिणाः ॥७८॥
माघस्नानेन राजेंद्र तीर्थे चैव विशेषतः
न चान्यत्स्वर्गदं कर्म न चान्यत्पापनाशनम् ॥७९॥
न चान्यन्मोक्षदं यस्मान्माघस्नानसमं भुवि ॥८०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे माघस्नानप्रशंसायां सुंदोपसुंददैत्यवधोनाम षड्विंशत्यधिकशततमोध्यायः ॥१२६॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP