संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १६०

उत्तरखण्डः - अध्यायः १६०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
अस्मात्तीर्थात्परं तीर्थं तीर्थराजेति विश्रुतम्
सप्तनद्यो वहंत्यत्र चंदनोदकमिश्रितम् ॥१॥
अन्यतीर्थाच्छतगुणं स्नानं चात्र विशिष्यते
देवानां प्रवरो देवो यत्रास्ते वामनः स्वयम् ॥२॥
द्वादश्यां माघमासस्य दद्याद्यस्तिलधेनुकम्
विमुक्तः सर्वपापेभ्यः कुलानां तारयेच्छतम् ॥३॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदंति ॥४॥
तीर्थेऽस्मिन्भोजयेद्यो वै ब्राह्मणान्गुडपायसैः
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् ॥५॥

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तर खंडे वामनतीर्थं नाम षष्ट्यधिकशततमोऽध्यायः ॥१६०॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP