उत्तरखण्डः - अध्यायः २२२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उवाच-
आकर्णय शिबे राजन्वर्णयामि तवाग्रतः
पुण्यं यशस्यमायुष्यं काश्या माहात्म्यमुत्तमम् ॥१॥
इंद्रप्रस्थतटस्थायां काश्यामेकस्तु पादपः
शिंशपाख्योभवेद्राजन् पुरा पुण्ययुगे कृते ॥२॥
तत्रैको वायसो ह्यासीत्कृतनीडो वनस्पतौ
तस्याधस्तान्महासर्पं कोटरेव सति स्म ह ॥३॥
एकदा तस्य काकस्य भार्यांडद्वयमालये
प्रतिमुच्य गता क्वापि न नीडे स्वे समागता ॥४॥
स्वयमेव स काकस्तु पालयन्नंडकद्वयम्
तामेव शिंशपामुच्चैरध्यतिष्ठन्महीपते ॥५॥
अथैकदा निशीधे तु महावात्या समागता
अभनक्शिंशपां राजन्मूलादपि दृढादपि ॥६॥
वात्यया पात्यमानाया शिंशपायास्तदा तले
चूर्णितौ काकसर्पौ तौ गतप्राणौ बभूवतुः ॥७॥
दिव्यांगास्ते त्रयो भूत्वा शिंशपा वायसादयः
विमानत्रयमारूढा जग्मुः श्रीपतिकेतनम् ॥८॥
शिबिरुवाच-
देवर्षे केन पुण्येन प्राप्ता तैर्मुक्तिदा पुरी
आसंस्ते के त्रयः पूर्वं सर्वं कथय नारद ॥९॥
नारद उवाच-
कुरुजांगलदेशीयो ब्राह्मणः श्रवणाभिधः
तस्य भार्या कुडा नाम भ्राताभूच्च कुरंटकः ॥१०॥
अस्नातभोक्ता नित्यं स कवलो मिष्टभुग्रहः
श्रवणस्तेन दोषेण बभूव ग्रामवायसः ॥११॥
कुरंटकस्तु तद्भ्राता नास्तिकोऽभवदुल्बणः
श्रुतिस्मृतिपथोच्छेत्ता देवतानां च निंदकः ॥१२॥
तेन दोषेण स मृतो ह्यभवत्कालकुंडली
सा कुंडा श्रवणस्य स्त्री बभूवोभयदोषभाक् ॥१३॥
अतः सा स्थावरत्वं हि लब्ध्वासीदुभयाश्रया
एतत्ते कथितं भूप तद्वृत्तं पूर्वजन्मनि ॥१४॥
अतः परं प्रवक्ष्यामि तेषां पुण्यं यतस्त्रयः
प्रापुस्तेन पुरीं रम्यां काशीं वैश्वेश्वरीं नृप ॥१५॥
ग्रामांतरादेकदा तौ प्रत्यायातौ निजालयम्
कस्यचित्पथिकस्याथ कूपमग्नां पयस्विनीम् ॥१६॥
अवलोक्य तदुद्धारं चक्रतुस्तेन नोदितौ
ताभ्यांगदितमाकर्ण्य कुंडा साध्वित्यभाषत ॥१७॥
ते त्रयस्तेनपुण्येन मरणं प्राप्य दुर्लभम्
इंद्रप्रस्थतटस्थायां काश्यां वैकुंठमारुहन् ॥१८॥
इयं काशी महेशस्य पुरी यद्यपि भूपते
तथाप्यस्यां मृतं जंतुर्वैकुंठे स्यात्सुखी हरेः ॥१९॥
एतत्ते कथितं राजन्काश्या माहात्म्यमुत्तमम्
किमन्यच्छ्रोतुमिच्छा ते विद्यते तद्वदस्व मे ॥२०॥
शिबिरुवाच-
मुने त्वया महेशस्य क्षेत्रत्रयमुदीरितम्
काशी च शिवकांची च गोकर्णं च तथापरम् ॥२१॥
एकस्य महिमा प्रोक्तो त्वया काश्या महामुने
गोकर्णशिवकांच्योश्च कथ्यतां यदि विद्यते ॥२२॥
नारद उवाच-
गोकर्णं केवलं शैवं क्षेत्रं परमपावनम्
तस्मिन्मृतो नरो राजन्शिवः स्यान्नात्र संशयः ॥२३॥
स्थले जलेंतरिक्षे च जंतुस्तत्र मृयेत चेत्
तदा कैलासशिखरो शिवः संभूय दीव्यति ॥२४॥
अत्र गोकर्णतीर्थे स्यान्मृतस्य न पुनर्भवः
शिवेन स समं राजन्मुक्तिं यास्यति कर्हिचित् ॥२५॥
अस्यापि तव माहात्म्यं गोकर्णस्य महामते
वर्णयामि यदाकर्णि मया ब्रह्ममुखात्प्रभो ॥२६॥
प्रयागादेकगव्यूतौ गुरुतीर्थसमीपगः
मर्यादापर्वतो योऽयं दृश्यते पुण्यदर्शनः ॥२७॥
तत्रैकः कर्कटो नाम भिल्ल आसीत्सुदारुणः
तस्य भार्या जरा नाम सा जघ्ने पतिपंचकम् ॥२८॥
सा जरा विषसंयुक्तं षष्ठं कर्कटकं तदा
अकरोन्मोदकं हंतुं तदा तेन स्वसुः श्रुतम् ॥२९॥
निजाया मुखतो राजन्भिल्लेन च महात्मना
बालां तां हंतुमारेभे कर्कटो भृशदारुणः ॥३०॥
खङ्गपाणिर्यदा याति तद्वधाय स भिल्लपः
यावत्तावत्तु सा यायाज्ज्ञात्वा निजवधोद्यमम् ॥३१॥
वनमभ्यद्रवद्भीता निजप्राणपरीप्सया
तामनुद्रवता तेन कर्कटेन महीपते ॥३२॥
अत्र गोकर्णतीर्थे तु गृहीता खङ्गपाणिना
शिरश्छित्वा तु खङ्गेन पातयित्वा जले वपुः ॥३३॥
तस्य गोकर्णतीर्थस्य निजस्थानमगाच्च सः
सा जरा तत्र गोकर्णे पापापि निधनं गता ॥३४॥
कैलासशिखरे राजन्पार्वत्या अभवत्सखी
अहं कथितवानेतत्तव गोकर्णवैभवम् ॥३५॥
शिवकांच्याश्च माहात्म्यं पवित्रं वर्णयामि ते
इंद्रप्रस्थतटस्थायां शिवकांच्यामपि प्रभो ॥३६॥
गतिः सा परमा पुंसां गोकर्णे या मयोदिता
अत्र श्रीमन्महादेवो विष्णुं सर्वसुरेश्वरम् ॥३७॥
आराध्य भक्तराजत्वं लेभे ज्ञानं च तात्विकम्
अतः सर्वे वयं पुत्रा ब्रह्मणस्तं महेश्वरम् ॥३८॥
आराधयामः सततं सद्भक्तिज्ञानलिप्सया
अत्र बाणासुरो राजन्नारराध महेश्वरम् ॥३९॥
निराहारो वर्षशतं तद्गुणत्वबुभूषया
तस्मै प्रसन्नो भगवान्गणत्वं दत्तवान्निजम् ॥४०॥
स्वयं च सर्वदा तस्य पुरपालो बभूवह
इयं पुरी पुरा राजन्नासीद्विष्णोर्महात्मनः ॥४१॥
दत्ता शिवाय तुष्टेन तपसा तस्य विष्णुना
अस्यामेकं पुरावृत्तं महदाश्चर्यकारकम् ॥४२॥
विप्रस्य शिवभक्तस्य वैकुंठाप्तिर्यथाभवत्
एकस्तु ब्राह्मणो राजन् हेरंबो नाम धार्मिकः ॥४३॥
कायेन मनसा वाचा शिवपूजारतः सदा
एकदा स महाभागः शिवतीर्थानि पर्यटन् ॥४४॥
शिवभक्तः शिवे राजन्शिवकांच्यामिहागतः
एनां मनोहरां चैव न तत्याज स बुद्धिमान् ॥४५॥
पश्चात्तत्रैव तत्याज प्राणानस्या जलांतरे
तत्रैव श्रीमहादेवगणास्तं ब्राह्मणोत्तमम् ॥४६॥
नीत्वा कैलासमचलं चेलुस्तदनुशासनात्
अथ मध्ये समायाता गणा वैकुंठतो हरेः ॥४७॥
तेभ्यो बलात्समादातुं तं द्विजश्रेष्ठमुद्यताः
आसीत्तेषां महयुद्धं गणानां हरिशर्वयोः ॥४८॥
तत्र युद्धेन वैकेषां विजयो न पराजयः
तत्र वैकुंठतो विष्णुरागतो गरुडासनः ॥४९॥
कैलासाद्वृषभारूढो महेशश्च त्रिलोकधृक्
तावन्योन्यं मुखं दृष्ट्वा विहस्य जगदीश्वरौ ॥५०॥
पश्यतस्म महद्युद्धं नभस्येव गणैः कृतम्
अथ स्वीयान्गणान्विष्णुः शैवांश्च दिवि युद्धतः ॥५१॥
निवार्य तं द्विजं तार्क्ष्यमारोप्यागाच्छिवालयम्
शिवेन तद्गणैश्चापि स्वकीयैरपि माधवः ॥५२॥
वृतो गछन्पथि श्रीमान्स्तुतस्त्रिदशवंदितः
गत्वा विवेश तं चागं महादेवपुरःसरः ॥५३॥
तस्मै द्विजाय वै तस्य दर्शयन्रमणीयताम्
अथ तस्मात्तु कैलासान्महादेवेन वंदितः ॥५४॥
माधवः परया भक्त्या वैकुंठमगमत्तदा
द्विजः सोऽपि महाभागस्तीर्थस्यास्य प्रसादतः ॥५५
गोविंददर्शनं प्राप्य मुमुदे हरसन्निधौ
एतत्ते कथितं राजन्शिवकांच्यास्तु वैभवम् ॥५६॥
तीर्थसप्तकनाम्नस्तु शृणुष्व सुसमाहितः
तीर्थमेतन्महाराज चतुर्वर्गफलप्रदम् ॥५७॥
दर्शनात्स्पर्शनाद्ध्यानात्स्मरणादपि भूपते
वसिष्ठादिभिरेतस्मिन्महर्षिभिरनुष्ठितम् ॥५८॥
महत्तपस्तु सृष्ट्यर्थं तत्रासंस्तु क्षमा नृप
मरीचिरपि धर्मात्मा पुत्रार्थं स्नानमाचरन् ॥५९॥
अत्र लेभे महाभागः कश्यपं सुतमुत्तमम्
अत्रिरत्रापि तपसा तोषयद्देवपुंगवान् ॥६०॥
सोमं दुर्वाससं दत्तं तेभ्यो लेभे सुतत्रयम्
अंगिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः ॥६१॥
लेभे सुतांस्तुतद्वंश्या जाता आंगिरसा द्विजाः
पुलहोऽपि सुतं लेभे दंभोलि गुणवत्तरम् ॥६२॥
योऽगस्त्योभूत्पुरा राजंस्तीर्थेऽत्रैव निमज्जनात्
पुलस्त्यस्यात्र तीर्थे वै पुत्रो लब्धो तपस्यतः ॥६३॥
कुबेरोभून्महाभागो यः सखासीदुमापतेः
क्रतोरपि सुता जाता वालखिल्याः सहस्रशः ॥६४॥
तीर्थस्यास्य प्रसादेन ते सर्वे ह्यूर्ध्वरेतसः
रजआदीन्सुताँ लेभे वसिष्ठोऽपि महातपाः ॥६५॥
सप्तैव राजशार्दूल महिमा तस्य वर्णितः
अन्यान्यपि च तीर्थानि संत्यनेकानि भूपते ॥६६॥
कपिलाश्रमकेदारप्रभासादीनि वै प्रभौ
नियुतैरपि वर्षाणां तेषां च महिमा नृप
अनंतेनापि नो वक्तुं शक्यते किमु मादृशैः ॥६७॥
सौभरिरुवाच-
एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिपुंगवः
शिवं जगाम नभसो नारायणगुणान्गृणन् ॥६८॥
शिबिरौशीनरो राजा शक्रप्रस्थस्य वैभवम्
श्रुत्वा मुनिमुखाद्राजन्कृतार्थं स्वममन्यत ॥६९॥
तत्र स्नात्वा हि विधिवदिंद्रप्रस्थे स भूपतिः
विधाय सत्क्रियाः सर्वा जगाम निजपत्तनम् ॥७०॥
इंद्रप्रस्थस्य माहात्म्यमेतत्तव मया विभो
यमुनातीरतीर्थस्य वर्णितं जनपावनम् ॥७१॥
नास्यादरं करिष्यंति कलौ श्रद्धाविवर्जिताः
इंद्रप्रस्थस्य राजेंद्र सर्वतीर्थशिरोमणेः ॥७२॥
अष्टादशपुराणानां श्रवणाद्भारतस्य च
यत्फलं तन्महिम्नस्य शक्रप्रस्थस्य जायते ॥७३॥
अरुणोदयवेलायां माघलक्षैकमज्जनात्
यत्फलं तन्महिम्नोस्य श्रवणाच्छ्रद्धया भवेत् ॥७४॥
श्रद्धयास्य तु माहात्म्यं यः शृणोति महीपते
तर्पितास्तेन पितरो देवाश्च मुनयस्तथा ॥७५॥
कृच्छ्रातिकृच्छ्रपाराक चांद्रायण व्रतादिभिः
यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ॥७६॥
अश्वमेधादियज्ञानां समस्तानां महीपते
यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ॥७७॥
सूत उवाच-
एवं युधिष्ठिरो राजा श्रुत्वा शौनक सौभरेः
इंद्रप्रस्थस्य माहात्म्यं स ययौ हस्तिनं पुरम् ॥७८॥
ततो विनीय सद्भ्रातॄन्दुर्योधनपुरःसरान्
इंद्रप्रस्थमगात्पुण्यं राजसूयचिकीर्षया ॥७९॥
द्वारकायाः समागम्य गोविंदं कुलदैवतम्
राजसूयेन यज्ञेन स इयाज महीपतिः ॥८०॥
मुक्तिदं तीर्थमेतत्तु शपतोस्याप्यजायत
इति मत्वा हरिस्तत्र शिशुपालं जघान ह ॥८१॥
शिशुपालोऽपि तस्यैव तीर्थस्य मरणाद्भुवि
सायुज्यमगमत्कृष्णे निखिलार्थप्रदायके ॥८२॥
शिशुपालो हतो यत्र विहितो यत्र चक्रतुः
गदया तत्र भीमेन कृतं कुंडं सुविस्तरम् ॥८३॥
भीमकुंडं तु विज्ञातं जातं तद्भुविपावनम्
कालिंद्या दक्षिणे भागे गव्यूत्यर्धं महीतले ॥८४॥
इंद्रप्रस्थगताया यत्कालिंद्याः स्नानतः फलम्
तत्फलं तत्र कुंडे तु जायते नात्र संशयः ॥८५॥
सूत उवाच-
यस्मिन्क्षेत्रे स्थितो जंतुस्तं क्षेत्रमनुवत्सरम्
प्रदक्षिणादिभिर्धर्मैः स्वापराधान्क्षमापयतेत् ॥८६॥
प्रतिसंवत्सरं चैव परिक्रामति यो नरः
क्षेत्रापराधदोषैश्च न स लिप्येत्तु पातकैः ॥८७॥
प्रदक्षिणमकुर्वाणः क्षेत्रसिद्धिं न विंदति
तस्मात्प्रदक्षिणा तीर्थे दातव्या च फलार्थिभिः ॥८८॥
हरेर्नाम निसंजल्पन्प्रकरोति प्रदक्षिणाम्
पदेपदे स लभते कपिलादानजं फलम् ॥८९॥
चैत्रकृष्णचतुर्दश्यां शक्रप्रस्थप्रदक्षिणाम्
यः करोति नरो धन्यः सर्वपापैः प्रमुच्यते ॥९०॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदी
माहात्म्ये इंद्रप्रस्थगत काशीगोकर्णशिवकांचीतीर्थसप्तक भीमकुंडवर्णनोनाम
द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP