संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १७

उत्तरखण्डः - अध्यायः १७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
अथ जालंधरोऽपश्यत्कबंधचयभीषणम्
रणं रुधिरमांसौघ मज्जा मेदोऽस्थिदुर्गमम् ॥१॥
तत्र जालंधरो दैत्यः प्रियाहरणदुःखितः
रणे विलोकयामास वृषस्थं पार्वतीपतिम् ॥२॥
घोराहिभोगेनविभूषितांगं जटाकलापे शशिभूषणांकितम्
नेत्राग्निकीलोपरिशोभितांगं विना रणं संप्रददर्श सिंधुजः ॥३॥
शीघ्रं स्वरथमारुह्य समुद्रतनयस्तदा
संरुष्टः प्राह तं शुंभं तापसो न हतस्त्वया ॥४॥
प्राह जालंधरं शुंभस्तपस्तेन महत्कृतम्
हंतुं न शक्यतेऽस्माभिर्हरः संग्रामदुर्जयः ॥५॥
इतिशुंभोक्तमाकर्ण्यसिंधुजःक्रोधमूर्च्छितः
हरं पद्मसहस्रेण दैत्यसैन्येन संवृतम् ॥६॥
गृहीत्वा कालकेदारं धनुर्जालंधरो ययौ
बाणांस्तीक्ष्णानतिस्थूलान्लोहस्तंभान्तथा बहून् ॥७॥
मुमोच युधि दुर्धर्षो वर्षन्मेघ इवागमे
आयांतं रुरुधुः सिंधुसूनुं शंभुगणा युधि ॥८॥
ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा
रुद्रबाणैस्तदा तस्य कवचं भुवि पातितम् ॥९॥
विवर्मापि बभौ सोऽथ मेघमुक्तो यथाचलः
पुनर्जालंधरस्यांगं शंभुना कीलितं शरैः ॥१०॥
रुधिरं बहु सुस्राव जालंधरशरीरतः
तेनाशु रुधिरौघेण प्लाविता सकला मही ॥११॥
ततो देवा भयं जग्मुर्दानवाश्च चकंपिरे
त्यक्त्वा ते प्रमथा वीरा रणभूमिं प्रदुद्रुवुः ॥१२॥
नद्या इव परा मूर्त्तिः प्रसृता सर्वतोऽपि च
अथाहार्णवजो रुद्रं धनुर्धर वरो ह्यसि ॥१३॥
इदानीं तत्करिष्यामि येन गच्छसि संक्षयम्
इत्युक्त्वा कालकेदारं सशरं प्रतिगृह्य तत् ॥१४॥
शीघ्रं संपूरयामास शरैर्नानाविधैः शिवम्
शिवः सहस्रकोटीभिः पूरितांगो रणे बभौ ॥१५॥
विहंगमैर्यथाकाशं वृक्षैरिव महागिरिः
दैत्यमुक्तैस्तुतैर्बाणैर्दृष्ट्वा व्याप्तं महेश्वरम् ॥१६॥
वीरभद्रस्तथा कोपाज्जालंधरमधावत
अपीडयदमेयात्मा समुद्रतनयं बली ॥१७॥
जालंधरोऽथ संक्रुद्धो विध्यन्बाणैः सहस्रशः
धनुः शरान्रथं छत्रं सारथिं तिलशः शरैः ॥१८॥
चकार वीरभद्रस्य सिंधुसूनुः प्रतापवान्
वीरभद्रोऽथ विरथो हतवान्गदयाब्धिजम् ॥१९॥
तथैव गदया सोऽपि तं हत्वापातयद्भुवि
गदाप्रहारपतितमालोक्यातिविमूर्च्छितम् ॥२०॥
मणिभद्रोऽथ समरे जालंधरमधावत
अतिक्रुद्धं तमायांतं दृष्ट्वा दैत्यो महारणे ॥२१॥
शरैर्व्यस्तोपकरणं स चकार नदीसुतः
अथ मूर्च्छां परित्यज्य उत्तस्थौ सिंहवन्नदन् ॥२२॥
वीरभद्रस्ततः कोपान्मणिभद्रः प्रतापवान्
जघ्नतुः पर्वताभ्यां तौ व्योमस्थं तटिनीसुतम् ॥२३॥
तदंगे पतितौ दृष्ट्वा पर्वतौ विनिनद्य च
जघान मुष्टिपातेन वीरभद्रो नदीसुतम् ॥२४॥
मणिभद्रश्चरणयोर्धृत्वा सागरनंदनम्
स्यंदनाद्भ्रामयामास तदद्भुतमिवाभवत् ॥२५॥
मणिभद्र गृहीतोऽपि दैत्यराट्स महाबलः
हत्वा चरणघातेन मणिभद्रमपातयत् ॥२६॥
जालंधरो महाबाहुर्वीरभद्रं च मुष्टिना
अथागतः परिवृतो गणैर्वै नंदिकेश्वरः ॥२७॥
शुंभस्तमागतं दृष्ट्वा रुरोध सह सैनिकैः
द्वंद्वयुद्धैरथाजग्मुर्गणा दैत्यैः परस्परम् ॥२८॥
शुंभः शिलादजं राहुर्महाकालं रणे ययौ
कोलाहलं निशुंभोऽथ केतुः कालमधावत ॥२९॥
शैलोदरो गुहं जंभो माल्यवंतं महाबलः
महापार्श्वो ययौ चंडं चंडीशो रोमकंटकम् ॥३०॥
विकटास्योऽथ वै भृंगिमुरुनेत्रो विनायकम्
एवं दैत्येश्वरैः सार्द्धं गणानामधिपा ययुः ॥३१॥
अथ शुंभायुधैर्बाणैः प्रहतश्च शिलादजः
चूर्णीचकाराद्रिशृंगैः कपितुंडो महत्तरैः ॥३२॥
शुंभस्तेनार्दितः शक्त्या शिलादं च जघान तम्
महाकालो जघानाथ तं राहुं रणमूर्द्धनि ॥३३॥
शक्त्याथ तस्य हतवान्स्यंदनं स महाद्रिणा
कोलाहलो हतः शक्त्या निशुंभेन प्रतापवान् ॥३४॥
शक्तिं गृहीत्वा ह्यहनद्रथं सारथिना सह
विरथेनाथ दैत्येन भृशं क्रुद्धेन संयुगे ॥३५॥
कोलाहलो सुरेंद्रेण सहस्रफणिना हतः
तं हत्वा चातिवेगेन रथं चान्यमुपागतः ॥३६॥
फणिचक्रहतः संख्ये क्षणान्मूर्च्छां विहाय च
स्वरथात्शीघ्रमुत्तीर्य गृहीत्वा खड्गचर्मणी ॥३७॥
सर्वं चक्रे निशुंभस्य स रथाद्यसिना पृथक्
पुनः स्वरथमारुह्य दैत्यं बाणैरताडयत् ॥३८॥
निशुंभोऽप्यतिरोषाच्च तत्पराक्रमविस्मितः
शक्त्या महाबलस्तस्य रथं साश्वं न्यषूदयत् ॥३९॥
कोलाहलो रणे धावन्निशुंभं विरथो बली
गतः स सरथं चक्रे विरथं भुजबंधनात् ॥४०॥
केतुपुच्छं गृहीत्वा च भ्रामयामास चांबरे
कालश्चिक्षेप सोऽप्यद्रिं स चिच्छेद गिरिं जवात् ॥४१॥
तं नगं चूर्णितं दृष्ट्वा ताडयामास मुष्टिना
कालश्चूर्णितसर्वांगः केतुना प्राद्रवद्भयात् ॥४२॥
शैलोदरस्तथा स्कंदं जघान गदयोरसि
षडाननोऽपि तं शक्त्या हत्वा भूमावपातयत् ॥४३॥
शक्तिप्रहारेण मृतं दानवं वीक्ष्य षण्मुखः
जगर्ज तत्र वैचित्र्यं यथा क्रौंचे विदारिते ॥४४॥
माल्यवानथ बाणौघैर्जंभमभ्यर्दयद्रणे
जंभोऽपि सायकैस्तीक्ष्णैर्भित्त्वा तं मूर्च्छितं जहौ ॥४५॥
महापार्श्वो रथं धृत्वा बाणौघैर्वाजिवर्जितम्
लीलयैव च खे नीत्वा व्यश्वं चंडमपातयत् ॥४६॥
व्यश्वं रथं विलोक्याथ ततश्चंडोऽग्रहीद्गजम्
आपतंतं महापार्श्वं चंडस्तं गदयाहनत् ॥४७॥
अचिंत्यैव गदापातं सोऽसुरो भृशदारुणः
प्रहत्य मुष्टिना चंडं पातयामास भूतले ॥४८॥
चंडीशशस्त्राभिहतो रोमकंठो महासुरः
चंडीशं पादयोर्धृत्वा रथमूर्ध्नि न्यपातयत् ॥४९॥
पपात सहसा भूमौ ययौ तं भीषणेक्षणः
उरुनेत्रेण समरे हतो लंबोदरः शरैः ॥५०॥
दंतेनोरसि तं हत्वा पातयामास भूतले
ऊरुनेत्रः क्षणाच्छांतिमागत्याशु रथं क्षणात् ॥५१॥
जघान मुद्गरेणासौ मूर्ध्नि सिंदूरमंडिते
गणेश्वरः पट्टिशेन जघानोरसि दानवम् ॥५२॥
तन्मुखादथ निष्क्रांतो नवशीर्षोऽसुरो महान्
अष्टादशभुजो राजन्सोऽप्यधावत शांकरिम् ॥५३॥
नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः
जर्जरीकृतदेहोऽपि जग्राह परशुं रुषा ॥५४॥
तेन चिच्छेद शस्त्राणि तयोराजौ गणेश्वरः
रुद्धं गणेश्वरं दृष्ट्वा ताभ्यां संख्येऽथ षण्मुखः ॥५५॥
शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम्
नवशीर्षं रणे हत्वा उरुनेत्रमधावत ॥५६॥
स्कंदः स्वशक्तिघातेन पातयामास तं नृप
पश्यञ्जालंधरः स्कंदं ययौ सैन्येन संवृतः ॥५७॥
पुत्रप्रीत्यासुरान्हंतुं सगणः शंकरोऽपि च
ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः ॥५८॥
हरसिंधुजयोर्युद्धे गतप्राणेव रोदसी
अथ जालंधरः क्रुद्धो बाणं संधाय दारुणम् ॥५९॥
सहस्रशतसंख्याकैः पत्रैः सर्वत्र भूषितम्
दैत्येंद्रस्तेन बाणेन ललाटेताडयच्छिवम् ॥६०॥
ममज्जापुंखमर्यादं ललाटे शंकरस्य च
भाले शशांकवच्छंभोः स रराज महाप्रभः ॥६१॥
यथादित्यो हि घर्मांते संध्याकालेंबुदागमे
अथ रुद्रो महाबाणं जग्राह ज्वलनोपमम् ॥६२॥
यस्य वेगे तु पवनः फले यस्याग्निभास्करौ
कालो ग्रंथिषु सर्वेषु शरे देवी धरा स्थिता ॥६३॥
हरस्तेन शरेणाशु विव्याध हृदि सिंधुजम्
तेन बाणप्रहारेण रुधिरौघपरिप्लुतः ॥६४॥
पपात शरभिन्नांगो वज्राहत इवाचलः
तदा दैत्याः समाक्रंदन्जगर्जुः प्रमथास्तथा ॥६५॥
सिंधुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम्
रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः ॥६६॥
यावज्जालंधरो मूर्छां प्राप्तो वारिधिनंदनः
तावद्रुद्रेण नाराचैर्हता जालंधरी चमूः ॥६७॥
चिराज्जालंधरस्त्यक्त्वा मूर्छां सैन्यं हतं नृप
दृष्ट्वा भयान्वितः सेनां विकीर्णां च तथा रणे ॥६८॥
ततः काव्यं स सस्मार मनसा परमं गुरुम्
स्मृतस्तेन त्वरन्प्राप्तः कविर्जालंधरं प्रति ॥६९॥
स्वस्ति कृत्वा जगादाथ भार्गवः सिंधुनंदनम्
किं करोमि महाराज तव कार्यं महाबल ॥७०॥
नारद उवाच-
इति काव्यवचः श्रुत्वा भार्गवं बहु मानयन्
नत्वा गुरुमुवाचाथ राजा जालंधरस्तथा ॥७१॥
राजोवाच-
जीवयैतान्मृताञ्छुक्र दैत्यान्सर्वान्समंततः
इत्युक्तः सिंधुजेनाजौ सैन्यं तत्र व्यलोकयत् ॥७२॥
पंचविंशत्सहस्राणि योजनानां प्रमाणतः
दैत्यांगरथसंकीर्णमुपर्युपरि पार्थिव ॥७३॥
उच्छ्रये पंचनवतियोजनानां महीं चिताम्
योधवाहनदेहाद्यैरिव पूर्णां धरां ततः ॥७४॥
मंत्रोदकेन चाभ्युक्ष्य दैत्यानुत्थापयत्कविः
यावद्रुद्रो जटाजूटं बबंध भुजगैर्दृढम् ॥७५॥
तावत्काव्येन तत्सैन्यं मंत्रेणोत्थापितं नृप
व्याघ्रान्यथा केसरिणो गजेंद्राः शूकरान्यथा ॥७६॥
आगतान्दानवान्दृष्ट्वा चिंतयामास शंकरः
किमेतदिह संजातं मृतान्सृजति कुत्रचित् ॥७७॥
ददर्श चिंतयन्काव्य इति तस्मिन्रणे भवः
जीवयंतं रणे दैत्यान्धावंतं वेगवत्तरम् ॥७८॥
ततः क्रुद्धो महादेवः शुक्रं हंतुं मनो दधे
त्रिशूलिनमनुज्ञाय रहश्चोवाच तं कविः ॥७९॥
ब्राह्मणोऽहं कथं हंसि सर्वविद्याविशारदम्
ब्रह्महत्या मयि हते तव रुद्र भविष्यति ॥८०॥
इति श्रुत्वा कवेर्वाक्यं शूलं तत्याज शंकरः
स्मृत्वा तत्पूर्ववृत्तांतं यल्लग्नं ब्रह्मणः शिरः ॥८१॥
ब्राह्मणो न हि हंतव्यो हरन्प्राणानपि प्रियान्
अयं तु जीवयन्दैत्यान्निग्राह्यः सर्वथा मया ॥८२॥
तस्मादेनं क्षिपाम्याशु स्त्रीयोनौ दैत्यजीवनम्
एवमुक्तवतः शंभोस्तृतीयनयनाद्द्रुतम् ॥८३॥
कृत्या विवासा चात्युग्रा मुक्तकेशी महोदरा
स्थूललंबस्तनी योनी दंष्ट्रालोचनभीषणा ॥८४॥
आज्ञापयेति स तया प्रोक्तस्तामब्रवीच्छिवः
कृत्ये त्वं दानवाचार्यं स्वयोनौ क्षिप दुर्मतिम् ॥८५॥
यावज्जालंधरं हन्मि तावदेनं भगे वह
हते जालंधरे दैत्ये पश्चान्निस्तीर्य मोचय ॥८६॥
हरेणोक्तेति सा कृत्या भार्गवं समधावत
पपात भूमौ तां दृष्ट्वा कविर्दैत्याः प्रदुद्रुवुः ॥८७॥
केशेष्वाकृष्य धुन्वाना नग्नमालिंग्य भार्गवम्
योनौ दधार सा कृत्या हसंती जयनंदन ॥८८॥
भगे क्षिप्तं गुरुं दृष्ट्वा यावज्जालंधरोऽसुरः
संदधे मार्गणांस्तावत्सा कृत्यादृश्यतां गता ॥८९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां युधिष्ठिरनारदसम्वादे
जालंधरोपाख्याने शुक्रयोनिप्रवेशोनाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP