उत्तरखण्डः - अध्यायः २०२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
देवल उवाच-
शृणुष्व भो महाप्राज्ञ दिलीपस्य महीपतेः
कथां दिव्यां विचित्रां च शृणुतां पापनाशिनीम् ॥१॥
वैवस्वतमनोर्वंशे दिलीपो भूभुजां वरः
आसीत्प्राचीनबर्हिस्तु स्वायंभुवमनोरिव ॥२॥
स तु धर्मभृतां श्रेष्ठो धर्मेण प्रतिपालयन्
महीं महीपतिर्लोकान्गुणैराद्धैररंजयत् ॥३॥
मगधाधिपतेः पुत्री महिषी तस्य भूपतेः
सुदक्षणाख्यया ख्याता शचीवासीद्दिवस्पतेः ॥४॥
गते महति काले तु महिष्यां नाभवत्सुतः
दध्याविति निजस्वांते स सम्राट्कोशलाधिपः ॥५॥
रत्नाकरसुमेर्वादि नगरत्नैर्विराजितम्
धृतं भूवलयं दोषो भूषायै नाप्रजस्य मे ॥६॥
वर्गत्रयी यथाकालं सेविता न विरोधिता
तथापि मेऽनपत्यस्य न सौख्यं विद्यते हृदि ॥७॥
यज्ञैराराधितो विष्णुरिंद्राद्याश्च सुरोत्तमाः
दीर्घिकारामकूपाश्च कारिताः सर्वतो भुवि ॥८॥
गोभूहिरण्यवासोभिः षड्रसान्वितभोजनैः
विप्रा अतिथयश्चैव भक्त्या संतोषिता मया ॥९॥
वृत्यर्थं पृथिवीपालानुद्धृत्य युधि धर्मतः
धनेन महता कोशो मया हि बहुलीकृतः ॥१०॥
उन्मार्गगामिनो मत्ता निजधर्मविलंघिनः
विमुखः पितृदेवेभ्यो दंड्यास्ते दंडिता मया ॥११॥
पंचपर्वसु वैष्णव्यां रवौ पित्र्ये च कर्मणि
दशम्यैकादशीतिथ्योर्न स्त्रीसेवा कृता मया ॥१२॥
ऋतुकालावधौ स्नातां स्वस्त्रियं नाहमत्यजम्
अनृतावपि तद्योग्ये काले चेत्प्रार्थितस्तया ॥१३॥
तदा तस्यां सकामिन्यां सकामं रमितं मया
एवं धर्मार्थकामा मे यथाकालं निषेविताः ॥१४॥
महिष्यां केन दोषेण जायते मे न संततिः
अतीतानागतज्ञानो वसिष्ठो गुरुरेव नः ॥१५॥
कथयिष्यति तं दोषं यन्मे पुत्रो न जायते
देवल उवाच-
इत्यालोच्य स भूपालो गमिष्यन्नाश्रमं गुरोः
मंत्रिष्वारोपयामास कोशलामृद्धिकोशलाम् ॥१६॥
अथ प्रजासृजं देवं पूजयित्वाश्रमं गुरोः
प्रतस्थाते पुत्रकामौ दंपती तौ शुभेऽहनि ॥१७॥
कतिचिद्वासरैर्मार्गमुल्लंघ्यैकरथे स्थितौ
तौ दंपती गुरोः सायमाश्रमं प्रापतुः शुभम् ॥१८॥
वैश्वदेवांत संप्राप्तातिथिसत्कारकृन्मुनिम्
हुताशनहुतद्रव्यप्रसरद्धूममालया ॥१९॥
पवित्रयंतमात्मस्थान्मुनीनागंतुकानपि
मृगैर्दूर्वाप्रतानौघप्रपूर्णोदरमंथरम् ॥२०॥
अभ्यागच्छद्भिरभितो मंडपं स मृगीगणैः
वासवृक्षमिलत्पक्षिकुलकोलाहलाकुलम् ॥२१॥
परस्परविनिर्मुक्तवैरव्याघ्रमृगादिकम्
जपध्यानपरर्षीणां क्षणश्रांतश्रुतिध्वनिम् ॥२२॥
अनध्ययनकालोत्थ क्रीडारक्तकुमारकम्
तस्मिन्वसिष्ठमद्राष्टां दंपती तौ कृतक्रियम् ॥२३॥
बृस्यां निषणमव्यग्रमरुंधत्योपसेवितम्
स ववंदे गुरोः पादौ महिषी सा च तत्स्त्रियः ॥२४॥
आशिषा गुरुरप्येनं युयोजारुंधती च ताम्
अतिथिं तमथाभ्यर्च्य मधुपर्कादिभिर्गुरुः ॥२५॥
अर्हणैरर्हतां श्रेष्ठो वसिष्ठ इति पृष्टवान्
वसिष्ठ उवाच-
भो भो भूमिभृतां श्रेष्ठ राज्ये कुशलमस्ति ते ॥२६॥
कुले च कच्चिल्लोके च निजधर्मानुवर्त्तिनि
धर्मेण पालिता कच्चित्वया वीरवसुंधरा ॥२७॥
संवर्द्धयति ते कोशं धर्मधीरिव सात्विकी
तव जानपदा राजन्पौराश्च स्थितिमात्मनः ॥२८॥
सारवंतो विमुंचंति कच्चिन्नांबुधयो यथा
स्नेहेन साहचर्येण सहवासतया प्रभो ॥२९॥
लक्ष्मीनारायणायेते कच्चित्ते पुरदंपती
काम्यव्रतानि राजेंद्र प्रजानां नगरे तव
फलंति वांछितं कच्चिद्धरिचंदनवद्दिवि ॥३०॥
देवल उवाच-
पृष्ट्वैवं स मुनिश्रेष्ठो वसिष्ठो मुनिपुंगवः
योगप्रभावोपनतैर्नृपं भोज्यैरभोजयत् ॥३१॥
अरुंधतीच तां राज्ञीं बह्वादरसमन्विता
नानाव्यंजनपक्वान्नैरभोजयदुदारधीः ॥३२॥
कृतभोजनमासीनं स्वस्थः स्वस्थं मुनिर्नृपम्
पुनः पप्रच्छ संगृह्य पाणिना पाणिमानतम् ॥३३॥
वसिष्ठ उवाच-
सप्तांग संयुतं राज्यं निजधर्मरतप्रजम्
प्रीतबंधुजनामात्यं शस्त्रास्त्रविधिवद्भटम् ॥३४॥
वश्यमित्रं हृतामित्रं कृष्णार्चापरमानसम्
यस्यास्ति नृपते राज्यं स्वर्गराज्येन तस्य किम् ॥३५॥
इक्ष्वाकुवंशराजानः पुत्रानुत्पाद्य धार्मिकाः
राज्यं च तेषु विन्यस्य प्रपन्नास्तपसि प्रभो ॥३६॥
त्वं युवा दृष्टपुत्रास्यो नाधिकारी तपोविधौ
किमर्थमागतो ह्यत्र राज्यं त्यक्त्वा तथाविधम् ॥३७॥
राजोवाच-
ब्रह्मन्नाहं तपः कर्तुमागतस्तावकाश्रमे
स्वर्गकामनया त्यक्त्वा राज्यमत्र तथाविधम् ॥३८॥
ब्रह्मन्सत्यमिदं चोक्तं भवता यत्तपोवनम्
राज्यमारोप्य पुत्रेषु प्राप्ता इक्ष्वाकुवंशजाः ॥३९॥
न तैस्त्यक्तं महीराज्यमिदं स्वर्गगतैरपि
तन्मूर्तिरस्यां विमनास्तिष्ठति ह्येव संततिः ॥४०॥
यथा बाल्यं गतं तात यौवनं च समागतम्
यास्यत्यदोपि च तथा जराप्येष्यति निश्चितम् ॥४१॥
जरसोऽनतरं मृत्युः पुरुषस्य न संशयः
मृत्युंगते मयि ब्रह्मन्विनातनयसंभवम् ॥४२॥
कस्येदं जगतीराज्यं भविष्यति गुरो वद
तस्मादपत्यहीनस्य राज्येऽपि मम तिष्ठतः ॥४३॥
ममत्वं विद्यते नात्र पुरस्तात्तदभावतः
वर्गत्रयस्य वै सम्यक्संवेत्ता त्वं गुरो मम ॥४४॥
केन दोषेण मे पुत्रो जायते न तपोनिधे
ध्यानेन दोषमालोक्य तं गुरो कथयाशुमे ॥४५॥
तस्य प्रतिक्रियां कुर्यां श्रुत्वा संतानलब्धये
देवल उवाच-
इत्याकर्ण्य वसिष्ठस्तु वचस्तस्य महीपतेः ॥४६
उवाच संततिस्तंभहेतुं वीक्ष्य समाधिना
वसिष्ठ उवाच-
त्वं पुरा राजशार्दूल संसेव्य सुरनायकम् ॥४७॥
स्नातामिमां वधूं स्मृत्वा चलितो निजमंदिरम्
गच्छतस्त्वरया तात संतानोत्कंठितस्य ते ॥४८॥
आसीत्सुरतरोर्मूले कामेधनुः स्थिता पथि
उत्पादिता त्वया तस्याः पूज्यांघ्रिरजसोऽतिरुट् ॥४९॥
प्रदक्षिणनमस्कारसदाचारमकुर्वता
साऽशपत्त्वामतिक्रोधात्पुत्रो नोत्पत्स्यते तव ॥५०॥
मम संतानशुश्रूषां यावत्त्वं न करिष्यसि
गच्छंस्त्वमृतुदानाय त्वरया सुतकामुकः ॥५१॥
तन्मना नाश्रृणोः शापं नयंताक्षनिनादतः
तस्याः सुतासुतां धेनुं नंदिनीं ससुतां मम ॥५२॥
आराधयानया वध्वा सार्द्धं सा दास्यते सुतम्
देवल उवाच-
इत्युक्तवति तत्रर्षौ वसिष्ठे सा तु नंदिनी ॥५३॥
तपोवनात्समायाता वत्सस्नेहस्नुतस्तनी
तां दृष्ट्वा हृष्टहृदयो वसिष्ठो मुनिपुंगवः
उवाच भूपतिं भूयो दर्शयित्वा च नंदिनीम् ॥५४॥
वसिष्ठ उवाच-
राजन्समागता ह्येषा स्मृतमात्रशुभाह्वया
अतो विद्धि समीपस्थां कार्यसिद्धिमिहात्मनः ॥५५॥
आराधितानुगत्येयं त्वयारण्ये तथाश्रमे
वध्वा प्रसादात्ते पुत्रं दास्यते नात्र संशयः ॥५६॥
यथानाभिभवेदेनां जंतुः कश्चिद्वनोद्भवः
तथा चारय राजेंद्र वने हिंस्रो धनुर्द्धर ॥५७॥
देवल उवाच-
तथेति लघुवादिने नृपतये स्नुषायै च सक्षपाशयनहेतवे सदुटजं ददौ तापसः
स तत्र सहभार्यया समधिशय्यदर्भास्तृतां महीमगमयन्निशां नियतमानसो विश्पतिः ॥५८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्व्यधिकद्विशततमोध्यायः ॥२०२॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP