संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १४ Translation - भाषांतर युधिष्ठिर उवाच-इति मायामहेशेन मोहिता गिरिजा यदाअतः किं समभूद्ब्रह्मन्तन्ममाख्यातुमर्हसि ॥१॥नारद उवाच-क्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेःअकस्मादेव राजेंद्र नयनेऽश्रुपरिप्लुते ॥२॥दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततःउत्थाय शेषपर्यंकान्मां च वायुं विलोक्य च ॥३॥किं कार्यमिति गोविंदस्तन्नागारिमथास्मरत्स चाग्रे स्मृतिमात्रेण तस्थौ बद्धांजलिः प्रभो ॥४॥विनतानंदनं दृष्ट्वा पुरतः प्राह केशवःसुपर्ण तत्र गच्छ त्वं यत्र युद्धं प्रवर्तते ॥५॥हतो जालंधरो वीरो हरो वा तेन मोहितःदृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम् ॥६॥जालंधरेशयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हिकोऽन्यो महाहवे तस्मिन्ज्ञात्वा याति शरीरवान् ॥७॥कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिःअथ त्वं बाणसंचारं गत्वापि हितविग्रहः ॥८॥संदृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसिदैत्यमायानिरासार्थं विचिंत्य भगवांस्त्वरन् ॥९॥गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिःअनया न भ्रमो वीर तथेत्युक्त्वा मुखेक्षिपत् ॥१०॥एवं संप्रेरितः पत्री हरिं कृत्वा प्रदक्षिणम्निश्चक्राम खमाविश्य जगामाद्भुतवेगवान् ॥११॥तत्र गत्वा रणं घोरं दैत्यसंघैः स दुःसहम्दृष्टवानखिलेनासौ न किंचिज्ज्ञातवान्किल ॥१२॥तस्मादुत्पत्य वेगेन गतोऽसौ मानसोत्तरम्शैलं तुंगतरं दुर्गमगम्यं मरुतामपि ॥१३॥विलोकयन्न ददृशे गौरीस्थानं पतंगराट्तत्रागत्य भुजंगारिर्ध्वनिं संश्रुतवान्किल ॥१४॥गत्वा समीपे ददृशे मायापशुपतिं ततःगरुडो गुटिकां क्षिप्य मुखेन भ्रममाप सः ॥१५॥ज्ञात्वा बुद्ध्वाथ दैत्योऽयमिति नायं वृषध्वजःहा कष्टमिति चोक्त्वा च रुदन्नागत्य चार्णवम् ॥१६॥कथयामास वृत्तांतं पुरतः कैटभद्विषःदेव जालंधरेणायं हरो देवो विडंबितः ॥१७॥उमा प्रतारिता तेन पापेन छद्मरूपिणासुरस्त्वं यदि गोविंद समरं प्रतियाह्यतः ॥१८॥मायायुद्धं तु देवेश कुरु जालंधरं प्रतितस्य राज्ञी मया दृष्टा पीठे जालंधरे शुभे ॥१९॥प्रासादभूम्यां क्रीडंती वाद्यगीतादिवर्त्तनैःसा सुंदरतरा गौर्या रंभोर्वश्योः शतादपि ॥२०॥नेदानीं मानुषे लोके न पातालेषु तत्समाभार्या तेन समा वेश्या नारीणां का कथा हरे ॥२१॥यस्तां स्पृशति देहेन सकृतार्थः पुमान्भवेत्तव श्यालकपत्नी च हर त्वं तां रम प्रियाम्शंकरस्योपकारं च कुरु चैवात्मनः सुखम् ॥२२॥नारद उवाच-श्रुत्वा तार्क्ष्यस्य वचनं तं निर्भर्त्स्य रमाप्रियःसम्यग्व्यवस्य चोपायं विससर्ज द्रुतं द्विजम् ॥२३॥श्रियंपतार्य्य संछाद्य मंचके पीतवाससानिर्गतोऽन्येन रूपेण योगि मायाबलेन च ॥२४॥वृंदारिकानुरागेण मोहितो मधुसूदनःदृष्ट्वा हरिं तु गच्छंतं प्रतिछन्नं युधिष्ठिर ॥२५॥शेषोप्यन्यतमेनासौ रूपेणागत्य केशवम्जगाद भक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि ॥२६॥किं करोमि क्व गच्छामि ब्रूहि कार्यं जनार्दनसदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत्सुखम् ॥२७॥श्रीभगवानुवाच-जालंधरस्त्रियं रम्यां हरिष्ये हरकारणात्पार्वत्याश्चोपकाराय संछाद्य स्वात्मनस्तनुम् ॥२८॥एहि यामो वयं बंधो कांतारं दुरतिक्रमम्वृंदाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ ॥२९॥ततो विष्णुश्च शेषश्च जटावल्कलधारिणौआश्रमं चक्रतुः पुण्यं सर्वकामफलप्रदम् ॥३०॥तयोः शिष्याः प्रशिष्याश्च बभूवुः कामरूपिणःसिंहव्याघ्रवराहाश्च ऋक्षवानरमर्कटाः ॥३१॥अथ तस्मिन्वने वृंदां मंत्रेणाकर्षयद्धरिःतस्या हृदयसंतापं चकार मधुसूदनः ॥३२॥एतस्मिन्नंतरे राज्ञी तापमुग्रमुपागताचामरांश्चालयामास दिव्यस्त्रीकरचालितान् ॥३३॥प्रियस्यागमनं तन्वीं चिंतयंती मुहुर्मुहुःचंदनागुरुलिप्तांगी मूर्च्छां याति हि सत्वरम् ॥३४॥तुर्ययामे विभावर्याश्चतुर्दश्यां नृपांगनास्वप्नं ददर्श भयदं वैधव्यभयसूचकम् ॥३५॥जालंधरशिरः शुष्कं मर्दितं पांडुभस्मनागृध्रेण कृष्टनयनं छिन्नकर्णाग्रनासिकम् ॥३६॥मुक्तकेशी करालास्या कृष्णवर्णारुणांबराचखाद काली रक्तास्या हस्ते विधृतखर्परा ॥३७॥ईदृशं ददृशे स्वप्नं तथात्मानं विडंबितम्दैत्यक्षयगुणोपेतं सा ददर्श नृपांगना ॥३८॥ततः प्रबुद्धाऽसुरराजपत्नी गीतेन वाद्येन च मागधानाम्गेयप्रबंधैः स्तवनैर्व चोभिर्वं शस्तवैः किंपुरुषप्रपाठितैः ॥३९॥ततस्तान्सकलान्श्रांतान्धनं दत्वा प्रसादजम्निवार्य विप्रानाहूय स्वप्नं दृष्टं न्यवेदयत्तं स्वप्नं ब्राह्मणाः श्रुत्वा तामूचुः शास्त्रपारगाः ॥४०॥द्विजा ऊचुः -देवि दुःस्वप्नमत्युग्रमचिंत्यं भयदायकम्देहि दानं द्विजातिभ्यो ह्यचिंत्य भयनाशकम् ॥४१॥धेनुर्वासांसि रत्नानि गजांश्चाभरणानि चब्राह्मणाः परिसंतुष्टाः सिषिचुस्तां नृपस्त्रियम् ॥४२॥अभिषिक्तापि सा वृंदा ज्वरेण परितप्यतेविसृज्य विप्रप्रवरान्प्रासादमगमत्तदा ॥४३॥तत्र स्थितापि स्वपुरं ददृशे दीप्तमंगलाततः स्वकर्मणा राजन्नाकृष्टा हरिणा तु सा ॥४४॥न शशाक गृहे स्थातुं ततो राज्ञी वनं ययौरथमश्वतरीयुक्तं स्मरदूतीसखीवहम् ॥४५॥समारुह्य क्षणात्तन्वी प्राप्ता सौभाग्यकाननम्नानावृक्षसमायुक्तं नानापक्षिगणान्वितम् ॥४६॥पुष्पप्रस्रवणोपेतं स्वर्गनारीविभूषितम्मंदानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचित् ॥४७॥वनं वृंदारिका दृष्ट्वा सस्मार पतिमात्मनःकथं जालंधरं वीरं द्रक्ष्यामि प्राप्तमग्रतः ॥४८॥सा तत्र न सुखं लेभे विवेशान्यतमं वनम्सखीरथसमायुक्ता विष्णुमायाविमोहिता ॥४९॥ततो विलोकयामास विपिनं तरुसंकुलम्उरुपाषाणसंरुद्धं कुरंगाक्षी भयावहम् ॥५०॥सिंहव्याघ्रभयाकीर्णंशृगालव्यालसेवितम्द्रुमैः स्पृशच्छिखाकाशैर्गुहासु ध्वांतपूरितम् ॥५१॥वनं विलोक्य सा भीमं चकिता चपलेक्षणास्मरदूतीं सखीं वृंदा जगाद रथवाहिनीम्रथं प्रेषय मे शीघ्रं स्मरदूति गृहं प्रति ॥५२॥स्मरदूतिरुवाच-नाहं जानामि दिग्भागं न यामि क्व रथं सखिश्रांता अश्व्यः प्रवर्तंते मार्गश्चात्र न विद्यते ॥५३॥प्रेरितो दैवकेनापि स्यंदनो यातु यत्र चअत्र कोपि च मांसादो भक्षयिष्यति नान्यथा ॥५४॥इत्युक्ता सा द्रुततरा रथं शीघ्रमवाहयत्स रथो वेगतः प्राप्तो यत्र सिद्धा मुदान्विताः ॥५५॥तत्र सिद्धाश्च दृश्यंते काननं च भयावहम्न यत्र प्रबलो वायुर्न शब्दः पक्षिणामपि ॥५६॥न च तेजः प्रकाशोऽस्ति न जलं प्रदिशो दिशःतत्र प्राप्तरथस्यापि लक्षणेऽभूद्विपर्ययः ॥५७॥अश्वतर्यो न हेषंते न च शब्दश्च नेमिजःन चलंति पताकास्ता घंटिका न क्वणंति च ॥५८॥न स्वनंति महाघंटा ध्वजस्तंभे निवेशिताःविलोक्यैवंविधं प्राह तत्र वृंदा सखीं प्रति ॥५९॥स्मरदूति क्व यास्यामो व्याघ्रसिंहभयं वनम्न गृहे न सुखं राज्ये मम जातं वने सखि ॥६०॥स्मरदूतिरुवाच-शृणुष्व देवि पश्य त्वं पुरः शैलोऽतिदारुणःदृष्ट्वाग्रतो न गच्छंति तुरंग्यो भयविह्वलाः ॥६१॥तस्यास्तद्वचनं श्रुत्वा संत्रस्ता सा नृपांगनादृष्ट्वा हारं स्वकंठस्थं स्यंदनाच्छीघ्रमुत्थिता ॥६२॥एतस्मिन्नंतरे प्राप्तो राक्षसो भीषणाकृतिःत्रिपादः पंचहस्तश्च सप्तनेत्रोऽतिदारुणः ॥६३॥पिंगलो व्याघ्रकर्णश्च सिंहस्कंधस्तथाननःविहंगेशसमाः केशा लंबंते रुधिरारुणाः ॥६४॥तं दृष्ट्वा पद्मकोशांगी सहसा सभयाभवत्नेत्रे कराभ्यामाच्छाद्य चकंपे कदलीव सा ॥६५॥प्रतिहारी प्रतोदं तु त्यक्त्वा राज्ञीमभाषतभीतां मां त्राहि देवि त्वमयं धावति भक्षितुम् ॥६६॥एतस्मिन्नंतरे प्राप्तो राक्षसो रथसंनिधौरथमुत्क्षिप्य हस्तेन भ्रामयंश्चाश्विनीयुतम् ॥६७॥सा राज्ञी पतिता भूमौ मृगी व्याघ्रभयादिवस्मरदूती तरोर्मूले छिन्नाशोकलता यथा ॥६८॥ततस्ताश्चाश्विनीः सर्वाः भक्षयामास राक्षसःतेन राज्ञी धृता हस्ते सिंहेनैणवधूरिव ॥६९॥तामुवाच ततो रक्षः प्राणैस्ते कारणं यदितव भर्ता हतः संख्ये हरेणेति श्रुतं मया ॥७०॥मामासाद्याद्य भर्तारं चिरंजीवाकुतोभयापिबाथ वारुणीं स्वाद्वीं महामांससमन्विताम्शृण्वंतीति वचो राज्ञी गतसत्वा इवाभवत् ॥७१॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे जालंधरोपाख्याने श्रीमन्माधवमायाकथनंनाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : November 15, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP