संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २७ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २७ Translation - भाषांतर महादेव उवाच-पानीयदानं परमं दानानामुत्तमं सदातस्माद्वापीश्च कूपांश्च तडागानि च कारयेत् ॥१॥अर्द्धं पापं संहरंति पुरुषस्य विकर्मणःकूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः ॥२॥स च तारयते वंशं यस्य खात जलाशयेगावः पिबंति विप्राश्च साधवश्च नराः सदा ॥३॥निदाघकाले पानीयं यस्य तिष्ठति नारददुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते ॥४॥तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताःत्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥५॥अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम्कीर्तिसंजननं श्रेष्ठं तडागस्योपलक्षयेत् ॥६॥धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणःतडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ॥७॥चतुर्विधानां भूतानां तडागस्योपलक्षयेत्तडागानि च सर्वाणि दिशंति श्रेयमुत्तमम् ॥८॥देवामनुष्यागंधर्वाः पितरो नाग राक्षसाःस्थावराणि च भूतानि संश्रयंति जलाशयम् ॥९॥वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठतिअग्निहोत्रफलं तस्य जायते नात्र संशयः ॥१०॥हेमंते शिशिरे चैव सलिलं यस्य तिष्ठतिगोसहस्रफलं तस्य लभते नात्र संशयः ॥११॥वसंतेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदिअतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः ॥१२॥अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणुअतीतानागतौ चोभौ पितृवंशौ महाऋषे ॥१३॥तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत्पुत्रपौत्रा भवंत्येते पादपा नात्र संशयः ॥१४॥परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान्पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन् ॥१५॥छायया चातिथीन्सर्वान्पूजयंति महीरुहाःकिन्नरोरगरक्षांसि देवगंधर्वमानवाः ॥१६॥तथा ऋषिगणाश्चैव संश्रयंति महीरुहान्पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् ॥१७॥इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताःतडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः ॥१८॥एते स्वर्गान्नहीयंते ये चान्ये सत्यवादिनःसत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥१९॥सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्सत्यं देवेषु जागर्ति सत्यं च परमं पदम् ॥२०॥तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम्आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ॥२१॥सत्यं यज्ञस्तथा दानं मंत्रा देवी सरस्वतीव्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ॥२२॥सत्येन वायुरभ्येति सत्येन तपते रविःसत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति ॥२३॥पूजनं सर्वदेवानां सर्वतीर्थावगाहनम्सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः ॥२४॥अश्वमेधसहस्रं च सत्यं च तुलया धृतम्सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते ॥२५॥सत्येन देवाः प्रीयंते पितरो ऋषयस्तथासत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ॥२६॥सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि तेमुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् ॥२७॥सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताःअप्सरोगणसंघुष्टैर्विमानैः परितो वृताः ॥२८॥वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम्अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि ॥२९॥स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम्आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाःअनृतं ये न भाषंते ते नराः स्वर्गगामिनः ॥३०॥वेदा यज्ञास्तथा मंत्राः संति विप्रेषु नित्यशःन भांत्युज्झित सत्येषु तस्मात्सत्यं समाचरेत् ॥३१॥नारद उवाच-तपसां मे फलं ब्रूहि पुनरेव विशेषतःसर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम् ॥३२॥प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम्सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥३३॥तपो हि परमं प्रोक्तं तपसा विंदते फलम्तपोरतो हि यो नित्यं मोदते सह दैवतैः ॥३४॥तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशःतपसा मोक्षमाप्नोति तपसा विंदते महत् ॥३५॥ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव चतपसा लभते सर्वं मनसा यद्यदिच्छति ॥३६॥नातप्ततपसो यांति ब्रह्मलोकं कदाचनयत्कार्यं किंचिदास्थाय पुरुषस्तप्यते तपः ॥३७॥तत्सर्वं समवाप्नोति परत्रेह च मानवःसुरापः परदारी च ब्रह्महा गुरुतल्पगःतपसा तरते सर्वं सर्वतश्च विमुच्यते ॥३८॥अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनःब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥३९॥षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम्तपसा दिवि मोदंते समेता दैवतैः सह ॥४०॥तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराःतपसा पालयन्सर्वानहन्यहनि वृत्तिदाः ॥४१॥सूर्याचंद्रमसौ देवौ सर्वलोकहिते रतौतपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा ॥४२॥सर्वं च तपसाभ्येति सर्वं च सुखमश्नुतेतपस्तपति योऽरण्ये वनमूलफलाशनः ॥४३॥योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुनेश्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः ॥४४॥तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुतेजगद्यथा निरालोकं जायते शशिभास्करौ ॥४५॥विना तथा पुराणं हि ध्येयमस्मान्महामुनेतप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः ॥४६॥संबोधयति लोकं च तस्मात्पूज्यतमो गुरुःसर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित् ॥४७॥पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम्धनं धान्यं हिरण्यं वा वासांसि विविधानि च ॥४८॥ये यच्छंति सुपात्राय ते यांति च परां गतिम्गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् ॥४९॥यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणुअक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् ॥५०॥महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम्स तारयति वै वंशान्दशपूर्वान्दशापरान् ॥५१॥विमानेन च दिव्येन विष्णुलोकं स गच्छतिन यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि ॥५२॥बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैःविष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ॥५३॥देव्याः शंभोर्गणेशस्य अर्कस्य च तथा पुनःराजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥५४॥इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम्सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः ॥५५॥सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छतिस्थित्वा कल्पशतान्यत्र राजा भवति भूतले ॥५६॥अश्वमेधसहस्रस्य यत्फलं समुदाहृतम्तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत् ॥५७॥तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम्इतिहासपुराणाभ्यां विष्णोरायतने शुभम्नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम् ॥५८॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे वृक्षप्रपासरोवरतपोऽध्ययनधर्मव्याख्यान माहात्म्यंनाम सप्तविंशोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : November 18, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP