उत्तरखण्डः - अध्यायः ६६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारदउवाच-
यमस्याराधनं ब्रूहि मद्धितार्थं सुरोत्तम
कथं न गम्यते देव नरेण नरकांतरे ॥१॥
श्रूयते यमलोके तु सदा वैतरणी नदी
अनाधृष्यात्वपारा च दुस्तरा बहुशोणिता ॥२॥
दुस्तरा सर्वभूतानां सा कथं सुतरा भवेत्
भयमेतन्महादेव यमलोकं प्रति प्रभो ॥३॥
तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः
भगवन्देवदेवेश कृपां कृत्वा ममोपरि ॥४॥
महादेव उवाच-
द्वारवत्यां पुरा विप्र स्नातोऽहं लवणांभसि
ददृशे मुनिमायांतं मुद्गलं नाम वाडव ॥५॥
ज्वलंतमिवचादित्यं तपसा द्योततांगकम्
मां प्रणम्य मुनिः प्राह मुद्गलो विस्मयान्वितः ॥६॥
मुद्गल उवाच-
अकस्मान्मूर्च्छितो देव पतितोऽस्मि धरातले
प्रज्वलंति ममांगानि गृहीतो यमकिंकरैः ॥७॥
बलादाकृष्यमाणोऽहं पुरुषॐगुष्ठमात्रकः
बद्धो यमभटैर्गाढं नीतोऽस्मि शमनांतिकम् ॥८॥
क्षणात्सभायां पश्यामि यमं पिंगललोचनम्
कृष्णमुखं महारौद्रं मृत्युव्याधिशतान्वितम् ॥९॥
वातपित्त श्लेष्मदोषैर्मूर्तिमद्भिस्तु सेवितम्
कायशोषज्वरातंक स्फोटिका लूतकादिभिः ॥१०॥
ज्वालांगमर्दशीर्षार्ति भगंदर बलक्षयैः
कंठमालाक्षिरोगैश्च मूत्रकृच्छ्रज्वरव्रणैः ॥११॥
विमूर्च्छिका गलग्राह हृद्रोगैर्भूततस्करैः
इत्थं बहुविधै रौद्रैर्नानारूपैर्भयंकरैः ॥१२॥
कपालशिरोहस्तैश्च संग्रामे नरके तथा
राक्षसैर्दानवैर्घोरैरुपविष्टैः पुरः स्थितैः ॥१३॥
धर्माधिकारिभिश्चात्र चित्रगुप्तादि लेखकैः
व्याघ्र सिंह वराहैश्च शिखासर्पैः सुदुर्द्धरैः ॥१४॥
वृश्चिकैर्दंष्ट्रिभिर्भूतैः कीटकैर्मत्कुणादिभिः
वृक चित्रादि शुनकैः कंकैर्गृध्रैश्च जंबुकैः ॥१५॥
तस्करैर्भूतदारिद्रैर्मारिभिर्डाकिनीग्रहैः
मुक्तकेशैः श्वासकासैर्भ्रुकुटी कुटिलाननैः ॥१६॥
बृहत्प्रतापैर्नोभीतैः शासकैः पापकर्मणाम्
यमः सभायां शुशुभे सेव्यमानः परिग्रहैः ॥१७॥
भीमाटविकजीवैश्च यथा व्यालांजनो गिरिः
ततो विश्वेश्वरः प्राह समयः किंकरान्प्रति ॥१८॥
नामभ्रांतैर्भवद्भिश्च समानीतः कथं मुनिः
भीमकस्यात्मजो ग्रामे कौंडिन्ये मुद्गलाभिधः ॥१९॥
क्षीणायुः क्षत्रियः सोऽस्ति आनेयो मुच्यतामसौ
श्रुत्वैतत्ते गतास्तस्मादायाताः पुनरेव ते ॥२०॥
धर्मराजं पुनः प्राहुः सर्वे ते यमकिंकराः
तत्रास्माभिर्गतैर्देही क्षीणायुर्नोपलक्षितः ॥२१॥
यम उवाच-
किं कारणमदृश्यास्ते प्रायेण भवतां नराः
सुकृता द्वादशीयैस्तु ख्याता वैतरणी नदी ॥२२॥
उज्जयिन्यां प्रयागे वा यमुनायां च ये मृताः
तिलहस्तिहिरण्यादि दत्तं यैस्तु गवाह्निकम् ॥२३॥
दूता ऊचुः -
तद्व्रतं कीदृशं ब्रह्मन्ब्रूहि सर्वमशेषतः
किं तत्र देव कर्त्तव्यं पुरुषैस्तवतोषदम् ॥२४॥
येन कृता नरश्रेष्ठ द्वादशी कृष्णपक्षजा
उपवासे च तेनैव कथं पापात्प्रमुच्यते ॥२५॥
तद्व्रतं केन विधिना कर्त्तव्यं च यथा वद
सुप्रसन्नेन वक्तव्यं दयां कृत्वा दयानिधे ॥२६॥
श्रीमुद्गल उवाच-
दूतानां वचनं श्रुत्वा उवाच मधुरं तदा
सर्वं वदामि भो दूता यथादृष्टं यथाश्रुतम् ॥२७॥
यम उवाच-
मार्गशीर्षादि मासे तु या इमाः कृष्णपक्षजाः
तासु पूर्वासु विधिवद्दूता वैतरणीव्रतम् ॥२८॥
प्रतिमासं च कर्त्तव्यं यावद्वर्षं भवेद्ध्रुवम्
यां तु कृत्वा तु भो दूता मुच्यते नात्र संशयः ॥२९॥
उपवासस्य नियमः कर्त्तव्यो विष्णु तुष्टिदः
अद्य मे देवदेवेश उपवासो भविष्यति ॥३०॥
द्वादश्यां पूज्य गोविंदं भक्तिभावसमन्वितम्
स्वप्नेंद्रियस्य वैकल्याद्भोजनं यच्च मैथुनम् ॥३१॥
तत्सर्वं क्षम मे देव कृपां कृत्वा ममोपरि
एवं वै नियमं कृत्वा मध्याह्ने तीर्थमाव्रजेत् ॥३२॥
मृद्गोमय तिलान्नीत्वा गंतव्यं विधिपूर्वकम्
स्नानं तत्र प्रकर्तव्यं व्रतसंपूर्णहेतवे ॥३३॥
अश्वक्रांतेति मंत्रेण स्नानं कुर्याद्विशेषतः
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ॥३४॥
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम्
तया हतेन पापेन सर्वपापैः प्रमुच्यते ॥३५॥
काश्यां चैव तु संभूतास्तिला वै विष्णुरूपिणः
तिलस्नानेन गोविंदः सर्वं पापं व्यपोहति ॥३६॥
विष्णुदेहोद्भवा देवि महापापापहारिणी
सर्वं पापं हर त्वं वै सर्वेषां हि नमोऽस्तु ते ॥३७॥
तुलसीपत्रकं धृत्वा नामोच्चारणपूर्वकम्
स्नानं सुकृतिभिः प्रोक्तं कर्तव्यं विधिपूर्वकम् ॥३८॥
एवं स्नात्वा समुत्तीर्य परिधाय सुवाससी
तर्पयित्वा पितॄन्देवांस्ततो विष्णोस्तु पूजनम् ॥३९॥
संस्थाप्य चाव्रणं कुंभं पंचपल्लवसंयुतम्
पंचरत्नसमोपेतं दिव्यस्रग्गंधवासितम् ॥४०॥
जलपूर्णं सद्रव्यंच ताम्रपात्रसमन्वितम्
तत्रस्थं श्रीधरं देवं देवदेवं तपोनिधिम् ॥४१॥
पूर्णेन विधिना राजन्कुर्यात्पूजां गरीयसीम्
मृद्गोमयादिरचितं मंडलं कारयेच्छुभम् ॥४२॥
तंडुलैः शुक्लधौतैश्च अश्मपिष्टैश्च कारयेत्
धर्मराजः प्रकर्त्तव्यो हस्ताद्यव यवान्वितः ॥४३॥
नदीं वैतरणीं ताम्रां स्थापयित्वा तदग्रतः
पूजयेच्च पृथक्सम्यक्समावाहनपूर्वकम् ॥४४॥
आवाहयामि देवेशं यमं वै विश्वरूपिणम्
इहाभ्येहि महाभाग सान्निध्यं कुरु केशव ॥४५॥
इदं पाद्यं श्रियः कांत सोपविष्टं हरे प्रभो
विश्वोद्यानरतो नित्यं कृपां कुरु ममोपरि ॥४६॥
भूतिदाय नमः पादावशोकाय च जानुनी
उरू नमः शिवायेति विश्वमूर्ते नमः कटिम् ॥४७॥
कंदर्पाय नमो मेढ्रमादित्याय फलं तथा
दामोदराय जठरं वासुदेवाय वै स्तनौ ॥४८॥
श्रीधराय मुखं केशान्केशवायेति वै नमः
पृष्ठं शार्ङ्गधरायेति चरणौ वरदाय च ॥४९॥
स्वनाम्ना शंखचक्रासिगदापरशुपाणये
सर्वात्मने नमस्तुभ्यं शिर इत्यभिधीयते ॥५०॥
मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम्
रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते५१॥
सर्वपापौघनाशार्थं पूजयामि नमो नमः
एभिश्च सर्वशो मंत्रैर्विष्णुं ध्यात्वा प्रपूजयेत् ॥५२॥
धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते
दक्षिणाशापते तुभ्यं नमो महिषवाहन ॥५३॥
चित्रगुप्त नमस्तुभ्यं विचित्राय नमोनमः
नरकार्तिप्रशांत्यर्थं कामान्यच्छ ममेप्सितान् ॥५४॥
यमाय धर्मराजाय मृत्यवे चांतकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥५५॥
वृकोदराय चित्राय चित्रगुप्ताय वै नमः
नीलाय चैव दध्नाय नित्यं कुर्यान्नमो नमः ॥५६॥
एवं द्वादशभिः पूज्यो नामभिर्धर्मराट्प्रभुः
वैतरणी सुदुःपारे पापघ्नि सर्वकामदे ॥५७॥
इहाभ्येहि महाभागे गृहाणार्घं मया कृतम्
यमद्वारपथे घोरे ख्याता वैतरणी नदी ॥५८॥
तस्यामुद्धरणार्थाय जन्ममृत्युजरातिगा
या दुस्तरा दुष्कृतिभिः सर्वप्राणिभयापहा ॥५९॥
यस्यां भयात्प्रमज्जंति प्राणिनो यातनापराः
तर्तुकामस्तु तां घोरं जया देवि नमोनमः ॥६०॥
तस्यां देवाधितिष्ठंति या सा वैतरणी नदी
सा चापि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च ॥६१॥
यस्यास्तटे प्रविशंति ऋषयः पितरस्तथा
सा चापि सिंधुरूपेण पूजिता पापहारिका ॥६२॥
तरीतुं तां प्रदास्यामि सर्वपापविमुक्तये
पुण्यार्थं संप्रवक्ष्यामि तुभ्यं वैतरणी नदीम् ॥६३॥
मयासि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च
कृष्णकृष्णजगन्नाथ संसारादुद्धरस्व माम् ॥६४॥
नामग्रहणमात्रेण सर्वं पापं हरस्व मे
यज्ञोपवीतं परमं कारितं नवतंतुभिः ॥६५॥
प्रतिगृह्णीष्व देवेश प्रीतो यच्छ ममेप्सितम्
इदं तव च तांबूलं यथाशक्त्या सुशोभनम् ॥६६॥
प्रतिगृह्णीष्व देवेश मामुद्धर भवार्णवात्
पंचवर्ती प्रदीपोऽयं देवेशारार्तिकं तव ॥६७॥
मोहांधकारद्युमणे भक्तियुक्तो भवार्तिहृत्
परमान्नं सुपक्वान्नं समस्तरससंयुतम् ॥६८॥
निवेदितं मया भक्त्या भगवन्प्रतिगृह्यताम्
द्वादशाक्षरमंत्रेण यथासंख्य जपेन च ॥६९॥
प्रीयतां मे श्रियःकांतः प्रीतो यच्छतु वांछितम्
पंच गावः समुत्पन्ना मथ्यमाने महोदधौ ॥७०॥
तासां मध्ये तु या नंदा तस्यै धेन्वै नमोनमः
गां संपूज्य विधानेन अर्घ्यं दद्यात्समाहितः ॥७१॥
सर्वकामदुघे देवि सर्वांतकनिवारिणी
आरोग्यं संततिं दीर्घां देहि नंदिनि मे सदा ॥७२॥
पूजिता च वसिष्ठेन विश्वामित्रेण धीमता
कपिले हर मे पापं यन्मया पूर्वसंचितम् ॥७३॥
गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः
नाके मामुपतिष्ठंतु हेमशृंगी पयोमुचः ॥७४॥
सुरभ्यः सौरभेयाश्च सरितः सागरा यथा
सर्वदेवमये देवि सुभद्रे भक्तवत्सले ॥७५॥
एवं संपूज्य विधिवद्दद्याद्गोषु गवाह्निकम्
सौरभेयः सर्वहिताः पवित्राः पापनाशनाः ॥७६॥
प्रतिगृह्णंतु मे ग्रासं गावस्त्रैलोक्यमातरः
गंगदायै नमो भूत्यै सर्वपापप्रहाणये ॥७७॥
अनेनैव तु मंत्रेण गदां वैधारयेद्बुधः
पं नमः पद्मनाभाय पद्मं वै धारयेत्सुधीः ॥७८॥
चं चक्ररूपिणे विष्णो धारणं चक्रजं स्मृतम्
शं शंखरूपिणे तुभ्यं नमोऽस्तु सुखकारिणे ॥७९॥
मंत्रेणानेन वै दूता धारणं शंखजं स्मृतम्
चतुर्णामायुधानां तु धारणं मुनिभिः स्मृतम् ॥८०॥
अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं तथा
ब्राह्मणस्य तथैवेदं तप्तमुद्रादि धारणम् ॥८१॥
चंदनेन सुगंधेन गोपिकाचंदनेन तु
धारणं च विशेषेण ब्राह्मणैर्वेदपारगैः ॥८२॥
चांडालोऽपि भवेच्छुद्धो धारणाच्च न संशयः
ऊर्ध्वं पुंड्रमृजुं सौम्यं सचिह्नं धारयेद्यदि ॥८३॥
स चांडालोऽपि शुद्धात्मा पूज्य एव सदा द्विजैः
चांडालानां गृहे दूतास्तुलसी यत्र दृश्यते ॥८४॥
तत्रत्या तुलसी ग्राह्या भक्तिभावेन चेतसा ॥८५॥
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्साहस्र्यांसंहितायामुमापतिनारदसंवादे यमाराधनं नाम षट्षष्टितमोऽध्यायः ॥६६॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP