उत्तरखण्डः - अध्यायः ८२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
पार्वत्युवाच-
वैष्णवानां लक्षणं च कीदृशं प्रतिपादितम्
महिमा कीदृशश्चैव वद विश्वेश्वर प्रभो ॥१॥
महादेव उवाच -
विष्णोरयं यतः प्रोक्तो ह्यतो वै वैष्णवो मतः
सर्वस्यादिस्तु विज्ञेयो ब्रह्मारूपधरस्ततः ॥२॥
यतः सकाशात्संजाता ब्राह्मणा वेदपारगाः
ते वैष्णवास्तु विज्ञेया नैवान्ये तु कदाचन ॥३॥
शौचसत्यक्षांतियुक्तो रागद्वेषविवर्जितः
वेदविद्याविचारज्ञो यः स वैष्णव उच्यते ॥४॥
अग्निहोत्ररतो नित्यं नित्यं चातिथिपूजकः
पितृभक्तो मातृभक्तः स वै वैष्णव उच्यते ॥५॥
दयाधर्मेण संयुक्तस्तथा पापपराङ्मुखः
शंखचक्रांकितोयो वै स वै वैष्णव उच्यते ॥६॥
कंठे मालाधरो यस्तु मुखे रामं सदोच्चरेत्
गानं कुर्यात्सदा भक्त्या स नरो वैष्णवः स्मृतः ॥७॥
पुराणेषु रता नित्यं यज्ञेषु चरताः सदा
ते नरा वैष्णवा ज्ञेयाः सर्वधर्मेषु संमताः ॥८॥
तेषां निंदां प्रकुर्वंति ये नराः पापकारिणः
ते मृतास्तु कुयोनिं वै गच्छंति च पुनः पुनः ॥९॥
गोपालनाम्नीं मूर्तिं च येऽर्चयंति द्विजाः सदा
धातुमात्रमयीं कृत्वा चतुर्हस्तां सुशोभिताम् ॥१०॥
पूजां कुर्वंति ये विप्रास्ते ज्ञेयाः पुण्यभाजिनः
कृत्वा पाषाणजां मूर्तिं कृष्णाख्यां रूपसुंदरीम् ॥११॥
पूजां कुर्वंति ये विप्रास्ते ज्ञेयाः पुण्यमूर्त्तयः
शालग्रामशिला यत्र यत्र द्वारवती शिला ॥१२॥
उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः
मूर्तिं मंत्रेण संस्थाप्य पूजनं क्रियते यदि ॥१३॥
तदर्चनं कोटिगुणं धर्मकामार्थमोक्षदम्
नवधा तत्र वै भक्तिः कर्तव्या च जनार्दने
अतः पाषाणजा मूर्तिस्तथा धातुमयी त्वया ॥१४॥
तस्यां भक्तैः प्रकर्त्तव्यं ध्यानं पूजनमेव च
राजोपचारकीं पूजां मूर्तौ तत्र प्रकल्पयेत् ॥१५॥
सर्वात्मानं स्मरेन्नित्यं भगवंतमधोक्षजम्
दीनानाथैकशरणं लोकानां वृत्तिकारणम् ॥१६॥
मूर्त्तौ तत्र स्मरेन्नित्यं महापातकनाशनम्
गोपालोऽयं तथा कृष्णो रामोऽयमिति च ब्रुवन् ॥१७॥
पूजां करोति यः सम्यक्स वै भागवतो नरः
गोकुले तु यथा रूपं धृतं वै केशवेन तु ॥१८॥
तादृग्रूपं प्रकर्त्तव्यं वैष्णवैर्नरसत्तमैः
आत्मसंतोषणार्थाय स्वरूपं कारयेद्बुधः ॥१९॥
यतो भक्तिस्तु बहुला जायते नात्र संशयः
शंखचक्रगदादीनि विष्णोश्चैवायुधानि च ॥२०॥
तस्यां मूर्तौ विशेषेण कर्त्तव्यानि प्रमाणतः
चतुर्भुजां द्विनेत्रां च शंखचक्रगदाधराम् ॥२१॥
पीतवासः परीधानां शोभमानां गरीयसीम्
वनमालां दधानां तां लसद्वैडूर्यकुंडलाम् ॥२२॥
मुकुटे मणिसंयुक्तां कौस्तुभोद्भासितां सदा
सौवर्णीं चाथ रौप्यां वा ताम्रजां चाथ पैत्तलीम् ॥२३॥
कारयेत्परया भक्त्या वैष्णवैर्द्विजसत्तमैः
आगमोक्तैर्वेदमंत्रैः प्रतिष्ठाप्य विशेषतः ॥२४॥
पश्चाद्वै अर्चनं कार्यं यथाशास्त्रानुसारतः
षोडशोपचारैर्मंत्रैः पूजनं विधिपूर्वकम् ॥२५॥
पूजिते तु जगन्नाथे सर्वे देवाश्च पूजिताः
अतो येन प्रकारेण पूजनीयो महाप्रभुः ॥२६॥
अनादिनिधनो देवः शंखचक्रगदाधरः
सर्वं ददाति सर्वेशो वैष्णवान्पुण्यरूपिणः ॥२७॥
यथा विष्णुस्तथा शर्वो नांतरं वर्त्तते क्वचित्
एवं ज्ञात्वा तु भो देवि ह्युभयोर्मूर्तिकल्पनम् ॥२८॥
शिवपूजां प्रकुर्वाणो विष्णुनिंदासु तत्परः
रौरवेषु नरकेषु वसते नात्र संशयः ॥२९॥
अहं विष्णुरहं रुद्रो ह्यहं ब्रह्मा पितामहः
सर्वभूतेषु सततं संवसामि पुनः पुनः ॥३०॥
पार्वत्युवाच-
के दासा वैष्णवाः के तु के भक्ता भुवि कीर्तिताः
तेषां वै लक्षणं ब्रूहि यथार्थं वै महेश्वर ॥३१॥
महादेव उवाच-
शूद्रा भवंति वै दासा वैष्णवा नारदादयः
प्रह्लादश्चांबरीषाद्या भक्तास्ते नगनंदिनि ॥३२॥
ब्रह्मक्रियारतो नित्यं वेदवेदांगपाठकः
शंखचक्रांकितो यस्तु स वै वैष्णव उच्यते ॥३३॥
द्विजसेवारतो नित्यं नित्यं विष्णुप्रपूजकः
शृणोति बहुधा चैव पुराणं वेदसंमितम् ॥३४॥
स शूद्रो हरिदासस्तु इत्युक्तो नगनंदिनि
पंचवर्षत्वमाश्रित्य कृता भक्तिरनेकधा ॥३५॥
स वै भक्त इति प्रोक्तः सर्वसाधुषु संमतः
ध्रुवादयस्ते विज्ञेया अंबरीषादयश्च ये ॥३६॥
भक्ताश्च मुनिभिः प्रोक्ताः सर्वकालेषु भामिनि
कलौ धन्यतमाः शूद्रा विष्णुध्यानपरायणाः ॥३७॥
इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम्
शंखचक्रांकितो यस्तु विष्णुभक्तिप्रकारकः ॥३८॥
चतुर्विधमहोत्साहकर्त्ता चैव विशेषतः
स शूद्रो विष्णुदासस्तु यथादृष्टं यथाश्रुतम् ॥३९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे दासवैष्णवानां महिमानाम द्व्यशीतितमोऽध्यायः ॥८२॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP