संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २३४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २३४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २३४ Translation - भाषांतर पार्वत्युवाच-भगवञ्छ्रोतुमिच्छामि द्वादश्याश्च विधानकम्विष्णोः पूजाविधानं च कर्त्तव्यं तत्र वै प्रभो ॥१॥एकादश्याः प्रभावं च सर्वपापहरंनृणाम्आचक्ष्व विस्तरेणैव मयि प्रीत्या महेश्वर ॥२॥महादेव उवाच-शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम्तस्याः स्मरणमात्रेण संतुष्टः स्याज्जनार्दनः ॥३॥एकादश्यां तु प्राप्तायां समुपोष्येह मानवःसर्वपापविनिर्मुक्ता यांति विष्णोः परम्पदम् ॥४॥सप्तजन्मार्जितं पाप ज्ञानतोऽज्ञानतः कृतम्क्षणादेव लयं याति द्वादश्यां हरिपूजनात् ॥५॥अश्वमेधसहस्राणि वाजपेयशतानि चएकादश्युपवासस्य कलां नार्हंति षोडशीम् ॥६॥धर्म्मदा ह्यर्थदा चैव कामदा मोक्षदा किलसर्व्वकामदुघा नॄणां द्वादशी वरवर्णिनी ॥७॥एकादशी समं किंचित्पापत्राणं न विद्यतेएकादशीसमंकिचिद्व्रतं नास्ति शुभेक्षणे ॥८॥एकादशीं परित्यज्य यो ह्यन्यद्व्रतमाचरेत्स करस्थं महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते ॥९॥एकादशेंद्रियैः पापं यत्कृतं भवति प्रियेएकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ॥१०॥रटंतीह पुराणानि भूयोभूयो वराननेन भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ॥११॥अभक्ष्यं सर्वदा प्रोक्तं किं पुनः शुक्लकृष्णयोःवर्णानामाश्रमाणां च सर्वेषां वरवर्णिनी ॥१२॥एकादश्युपवासस्तु कर्त्तव्यो नात्र संशयःएकादश्यां च प्राप्तायां मातापित्रोर्मृतेऽहनि ॥१३॥द्वादश्यां तु प्रदातव्यं नोपवासदिने क्वचित्गर्हितान्नं न वाश्नंति पितरश्च दिवौकसः ॥१४॥एकादश्यां न भोक्तव्यं सुरां वा न पिबेत्क्वचित्ब्राह्मणं नैव हन्यात्तु सममेतत्त्रयं मतम् ॥१५॥तस्मादेकादशीं शुद्धामुपवासं समाचरेत्अवस्थात्रितये यस्तु यत्नो वाक्कायकर्म्मभिः ॥१६॥दशमीमिश्रितां तां तु प्रयत्नेन विवर्ज्जयेत्अरुणोदयवेलायां दशमीमिश्रिता भवेत् ॥१७॥तां त्यक्त्वा द्वादशीं शुद्धामुपोष्येहाविचारयन्कलायां विद्यमानायां सूर्य्यस्योदयनं प्रति ॥१८॥त्रयोदश्यां तथा देवि द्वादशी परिविद्यतेतथा च द्वादशी शुद्धा ह्युपवासे विधीयते ॥१९॥अरुणोदयवेलायां कृत्यं सर्वं समाचरेत्कलायामपि द्वादश्यां पारणं तत्र चोदितम् ॥२०॥शुद्धामेकादशीं चापि त्यजेदत्र न संशयःकलाप्येकादशी यत्र द्वादश्यामुदिते रवौ ॥२१॥सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद्द्विजःएवं विधिं विनिश्चित्य समुपोष्यं हरेर्द्दिनम् ॥२२॥सायमाद्यंतयोरह्नोः सायंप्रातस्तु मध्यमेतत्रोपवासं कुर्वीत त्यक्त्वा भुक्तिचतुष्टयम् ॥२३॥दशम्यामेकभक्तस्तु नारीसंगमवर्जितःअवनीतल्पशायी च परेऽहनि वसेच्छुचिः ॥२४॥धात्रीफलानुलिप्तांगः स्नानं संध्यां समाचरेत्उपवासपरो भूत्वा रात्रौ संपूजयेद्धरिम् ॥२५॥पाखंडिनं विकर्मस्थं पतितं श्वपचं तथानावलोकेन्न संभाषेन्न स्पृशेत्तत्र वैष्णवः ॥२६॥अवैष्णवस्तु यो विप्रः स पाषण्डः प्रकीर्तितःशिखोपवीतत्यागी च विकर्मस्थ इतीरितः ॥२७॥महापापोपपापाभ्यां युक्तः पतित उच्यतेअंत्यजः श्वपचः प्रोक्तो वेदैस्तत्र सुनिर्णयः ॥२८॥रात्रौ संपूज्य देवेशं जागरं च समाचरेत्गंधैः पुष्पैस्तथा दीपैर्वस्त्रैराभरणैः शुभैः ॥२९॥जपैस्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितःततः प्रभातसमये तुलसीमिश्रितैर्जलैः ॥३०॥स्नात्वा सम्यग्विधानेन संतर्प्य पितृदेवताःपूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम् ॥३१॥कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगंधिभिःदीपान्नीराजयेत्तत्र वारमष्टोत्तरं शतम् ॥३२॥शतपत्रकृतां मालां ताभ्यां सम्यङिनवेदयेत्धूपं दीपं च नैवेद्यं तांबूलं च समर्प्पयेत् ॥३३॥शर्करासहितं दिव्यं पायसान्नं समर्पयेत्कर्पूरेण च संयुक्तं तांबूलं च निवेदयेत् ॥३४॥प्रदक्षिणे नमस्कारं कृत्वा भक्त्या समन्वितःआज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा ॥३५॥प्रत्यृचं पुरुषसूक्तेन लक्ष्मीसूक्तेन पायसम्ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीतवाग्यतः ॥३६॥पुराणादि प्रपाठेन क्षपयेत्तद्दिनं महत्क्षितिशायी ब्रह्मचारी तस्यामेव निशि स्वपेत् ॥३७॥एवं संपूज्यमानं स द्वादश्यां कमलापतिःक्षणात्प्रसन्नो भगवान्सर्वाभीष्टप्रदो ध्रुवम् ॥३८॥इत्येतत्कथितं देवि द्वादशीव्रतमुत्तमम्किमन्यच्छ्रोतुकामासि तद्वक्तव्यं ब्रवीम्यहम् ॥३९॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे द्वादशीमाहात्म्यंनाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३४॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP