संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २२ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २२ Translation - भाषांतर महादेव उवाच-गांगं वक्ष्यामि माहात्म्यं यथोक्तं मुनिसत्तमयस्य श्रवणमात्रेण अघं नश्यति तत्क्षणात् ॥१॥गंगागंगेति योब्रूयाद्योजनानां शतैरपिमुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥२॥चरणाब्जसमुद्भूता गंगा नामेति विश्रुतापापानां स्थूलराशीनां नाशिनी चेति नारद ॥३॥नर्मदा सरयूश्चैव तथा वेत्रवती नदीतापी पयोष्णी चंद्रा च विपाशा कर्मनाशिनीम् ॥४॥पुष्या पूर्णा तथा दीपा विदीपा सूर्यतेजसासहस्रवृषदानात्तु यत्फलं लभते ध्रुवम् ॥५॥तत्फलं समवाप्नोति गंगादर्शनतः क्षणात्इयं गंगा महापुण्या ब्रह्मघ्नानां विशेषतः ॥६॥तेषां निरययुक्तानां गंगा पापप्रहारिणीचंद्र सूर्योपरागे च यत्फलं विद्यतेऽनघ ॥७॥तत्फलं समवाप्नोति गंगादर्शनमात्रतःयथा सूर्योदये तात तमो गच्छति दूरतः ॥८॥तथा गंगाप्रभावेन विलयं याति पातकम्मान्येयं सर्वदा लोके पवित्रा पापनाशिनी ॥९॥कल्याणरूपा सततं विष्णुना निर्मिता पुरादिव्यरूपा तु जननी दीनानां पावनी स्मृता ॥१०॥देवानां च यथा विष्णुस्तथा गंगोत्तमा नदीये कुर्वंति नराः स्नानं माघमासे निरंतरम् ॥११॥न तेषां विद्यते दुःखं कल्पानां च शतत्रयम्यत्र गंगा च यमुना यत्र चैव सरस्वतीतत्र स्नात्वा च पीत्वा च मुक्तिभागी न संशयः ॥१२॥महादेव उवाच-त्वद्वार्तां प्रियतो ब्रवीमि यदहं सा स्तुस्तुतिस्ते प्रभो यद्भुंजे तव तन्निवेदनमथो यद्यामि सा प्रेष्यतायच्छांतः स्वपिमि त्वदंघ्रियुगले दंडप्रणामोऽस्तु नःस्वामिन्यच्च करोमि तेन स भवान्विश्वेश्वरः प्रीयताम् ॥१३॥दृष्टेन वंदितेनापि स्पृष्टेन च धृतेन के ।नरा येन विमुच्यंते तदेतद् यामुनं जलम्॥ ॥१४॥॥तावद् भ्रमंति भुवने मनुजा भवोत्थ दारिद्य्र रोग मरण व्यसनाभिभूताः ।यावज्जलं तव महानदि नीलनीलं पश्यंति नो दधति मूर्धसु सूर्यपुत्रि ॥१५॥॥यत्संस्मृतिः सपदि कृंतति दुष्कृतौघं पापावलीं जयति योजन लक्षतोऽपि ।यन्नाम नाम जगदुच्चरितं पुनाति दिष्ट्या हि सा पथिदृशो भविताद्य गंगा ॥१६॥आलोकोत्कंठितेन प्रमुदित मनसा वर्त्म यस्याः प्रयातं सद्यस्मिन्कृत्यमेतामथ प्रथम कृती जज्ञिवान्स्वर्गसिंधुम् ।स्नानं संध्या निवापः सुर यजनमपि श्राद्ध विप्राशनाद्यं सर्वं संपूर्णमेतत्भवति भगवतः प्रीतिदं नातिचित्रम् ॥१७॥देवीभूत परं ब्रह्म परमानंददायिनी ।अर्घं गृहाण मे गंगे पापं हर नमोस्तुते ॥१८॥साक्षाद्धर्म द्रवौघं मुररिपु चरणांभोज पीयूषसारं।दुःखस्याब्धेस्तरित्रं सुरमनुजनुतं स्वर्गसोपान मार्गम्।सर्वांहोहारि वारि प्रवर गुणगणंभासि या संवहंती।तस्यै भागीरथि श्रीमति मुदितमना देवि कुर्वे नमस्ते ॥१९॥स्वःसिंधो दुरिताब्धिमग्न जनता संतारणि प्रोल्लसत्कल्लोला।मलकांतिनाशिततमस्तोमे जगत्पावनि ।गंगे देवि पुनीहि दुष्कृतभयक्रांतं कृपाभाजनं मातर्मां शरणागतं शरणदे रक्षाथभोभीषितम् ॥२०॥हं हो मानस कंपसे किमु सखे त्रस्तोभयान्नारकात्किं तेभीतिरिति श्रुतिर्दुरितकृत्संजायते नारकी ।माभैषीः शृणु मे गतिं यदि मया पापाचलस्पर्द्धिनी प्राप्ता ते निरयं कथः किमपरं किं मे न धर्मं धनम् ॥२१॥सर्वेशादि प्रशंसा मुदमनुभवनं मज्जनं यत्र चोक्तं स्वर्नार्योवीक्ष्यहृष्टाविबुध सुरपतिः प्राप्तिसंभावनेन ।नीरे श्रीजह्नु कन्येयम् अनियमरताः स्नांति ये तावकीने।देवत्वं ते लभंते स्फुटम् अशुभकृतोप्यत्र वेदाः प्रमाणम् ॥२२॥बुद्धे सद्बुद्धिरेवं भवतु तव सखे मानस स्वस्तिते ऽस्तु।आस्तां पादौ पदस्थौ सततमिह युवां साधु दृष्टी च दृष्टी ।वाणि प्राणप्रियेधि प्रकट गुण वपुः प्राप्नुहि प्राणि पुष्टिं यस्मात्सर्वैर्भवद्भिः।सुखमतुलमहं प्राप्नुवं तीर्थपुण्यम् ॥२३॥श्रीजाह्नवी रविसुता परमेष्ठिपुत्री सिंधुत्रयाभरणतीर्थवर प्रयाग।सर्वेश मामनुगृहाण नयस्व चोर्ध्वमंतस्तमो दशविधं दलय स्वधाम्ना ॥२४॥वागीश विष्ण्वीश पुरंदराद्याः पापप्रणाशाय विदांविदोऽपि।भजंति यत्तीरमनीलनीलं सतीर्थराजो जयति प्रयागः ॥२५॥कलिंदजा संगम वाप्ययत्र प्रत्यग्गता स्वर्गधुनीधुनोति।अध्यात्म तापत्रितयं जनस्य स तीर्थराजो जयति प्रयागः ॥२६॥श्यामो वटः श्यामगुणोवृणोति स्वच्छायया श्यामल याजनानाम्।श्यामश्रमं कृंतति यत्रदृष्टः स तीर्थराजो जयति प्रयागः ॥२७॥ब्रह्मादयोप्यात्मकृतिं विहाय भजंति पुण्यात्मक भागधेयम् ।यत्रोज्झितादंडधरः स्वदंडं स तीर्थराजो जयति प्रयागः ॥२८॥यत्सेवया देव नृदेवतादि देवर्षयः प्रत्यहमामनंति।स्वर्गं च सर्वोत्तम भूमिराज्यं स तीर्थराजो जयति प्रयागः ॥२९॥एनांसि हंतीति प्रसिद्धवार्ता नाम प्रतापेन दृशो भवंति।यस्य त्रिलोकीं प्रतताप गोभिः स तीर्थराजो जयति प्रयागः ॥३०॥धत्ते ऽभितश्चामर चारुकांतिं सितासिते यत्रसरिद्वरेण्ये ।आद्यो वटश्छत्रमिवातिभाति स तीर्थराजो जयति प्रयागः ॥३१॥ब्राह्मीनपुत्री त्रिपथास्त्रिवेणी समागमे साक्षतयागमात्रात् ।यत्राप्नुतान्ब्रह्मपदं नयंति स तीर्थराजो जयति प्रयागः॥ ॥३२॥केषांचिज्जन्मकोटिर्व्रजति सुवचसां यामियामीति यस्मिन्केषां।चित्प्रेप्सतां यं नियतमतियतेद् वर्षवृंदं वरिष्ठम्।यत्प्राप्तं भाग्यलक्षैर्भवति भवति नो वास वाचामवाच्यो।दिष्ट्या वेणी विशिष्टो भवति दृगतिथिः कं प्रयाग प्रयागः ॥३३॥लोकानामक्षमाणां मखकृतिषु कलौ स्वर्गकामैर्जय स्तुत्यादि स्तोत्रैर्वचोभिः।कथममरपद प्राप्ति चिंतातुराणाम् ।अग्निष्टोमाश्वमेध प्रमुख मखफलं सम्यगालोच्यसांगं।ब्रह्माद्यैस्तीर्थराजो ऽभिमतद उपदिष्टो ऽयमेव प्रयागः ॥३४॥मया प्रमादातुरतादि दोषतः संध्या विधिर्नो समुपासितोऽभूत्।चेदत्र संध्यां चरते प्रसादतः संध्यास्तु पूर्णा ऽखिलजन्मनोऽपि मे ॥३५॥अन्यत्रापि प्रगर्जन्महिमनि तपसि प्रेमभिर्विप्रकृष्टैर्ध्यातः।संकीर्तितो योऽभिमत पद विधातानिशं निर्व्यपेक्षंम् ।श्रीमत्पांशुं त्रिवेणीपरिवृढम् अतुलं तीर्थराजं प्रयागं गोलंकारप्रकाशं स्वयममरवरं चेतनं तं नमामि ॥३६॥अस्माभिः सुतपोन्वतप्त किमहो एज्यंत किंवाध्वराःपात्रे दानमदायि किं बहुविधं किं वा सुराश्चार्चिताःकिं सत्तीर्थमसेवि किं द्विजकुलं पूजादिभिः सत्कृतं येन प्रापि सदाशिवस्य शिवदा सा राजधानी स्वयम् ॥३७॥भाग्यैर्मेऽधिगता ह्यनेकजनुषां सर्वाघविध्वंसिनीसर्वाश्चर्यमयी शिवपुरी संसारसिंधोस्तरीलब्धं सज्जनुषः फलं कुलमलं चक्रे पवित्रीकृतःस्वात्मा चाप्यखिलं कृतं किमपरं सर्वोपरिष्टात्स्थितम् ॥३८॥जीवन्नरः पश्यति भद्र लक्षमेवं वदंतीति मृषा न यस्मात्तस्मान्मया वै वपुषे दृशे न प्राप्तापि काशी क्षणभंगुरेण ॥३९॥काश्यां विधातुममरैरपि दिव्यभूमौ सत्तीर्थ लिंगगणनार्चनता न शक्यायानीह गुप्त विवृतानि पुरातनानि सिद्धानि योजितकरः प्रणमामि तेभ्यः ॥४०॥किं भीत्या दुरितव्रजात्किमु मुदा पुण्यैरगण्यैः कृतैःकिं विद्याभ्यसनान्मदेन जडतादोषाद्विषादेन किम्किं गर्वेण धनोदयादधनतातापेन किं भोजनाःस्नात्वा श्रीमणिकर्णिकापयसि चेद्विश्वेश्वरो दृश्यते ॥४१॥अल्पस्फीति निरामयापि तनुता प्रव्यक्तशक्यात्मता प्रोत्साहाढ्य बलेनकेवलमनोरागद्वितीयेन यत्अप्राप्यापि मनोरथैरविषयास्वप्नप्रवृत्तेरपि प्राप्ता सापि गदाधरस्य नगरी सद्योपवर्गप्रदा ॥४२॥मन्येनात्मकृतिर्नपूर्वपुरुषप्राप्तेर्बलं चात्र यन्नापीदं स्वजनप्रमाणमचलं किंस्वापतापादिकम्यादुष्प्राप गयाप्रयागयमुना काशीसुपर्वागमात्प्राप्तिस्तत्रमहाफलो विजयते श्रीशारदानुग्रहः ॥४३॥यः श्राद्धसमये दूरात्स्मृतोऽपि पितृमुक्तिदःतं गयायां स्थितं साक्षान्नमामि श्रीगदाधरम् ॥४४॥पंथानं समतीत्य दुस्तरमिमं दूरादवीयस्तरंक्षुद्र व्याघ्रतरक्षुकंटकफणिप्रत्यार्थिभिःसंकुलम्आगत्य प्रथमव्ययं कृपणवाग्याचेज्जनःकर्परीश्रीमद्वारिगदाधर प्रतिदिनं त्वां द्रष्टुमुत्कंठते ॥४५॥सर्वात्मन्निजदर्शनेन च गयाश्राद्धेन वै देवताःप्रीणन्विश्वमनीहवत्कथमिहौदासीन्यमालंबसेकिं ते सर्वदनिर्दयत्वमधुना किं वा प्रभुत्वं कलेः किं वा सत्वनिरीक्षणं नृषु चिरं किं वास्य सेवारुचिः ॥४६गदाधर मया श्राद्धं संचीर्णं त्वत्प्रसादतःअनुजानीहि मां देव गमनाय गृहं प्रति ॥४७॥चतुर्णां देवतानां च स्तोत्रं स्वर्गार्थदायकम्श्राद्धकाले पठेन्नित्यं स्नानकाले तु यः पठेत् ॥४८॥सर्वतीर्थसमं स्नानं श्रवणात्पठनाज्जपात्प्रयागस्य च गंगाया यमुनायाः स्तुतेर्द्विजश्रवणेन विनश्यंति दोषाश्चैव तु कर्मजाः ॥४९॥इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे गंगाप्रयागयमुनास्तुतिर्नामद्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : November 18, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP