उत्तरखण्डः - अध्यायः ७७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच-
पप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम्
पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम् ॥१॥
तवाग्रे संप्रवक्ष्यामि शृणु सुंदरि सांप्रतम्
इदं कथानकं दिव्यमृषीणां व्रतमुत्तमम् ॥२॥
रजस्वला तु या नारी सहसा पापरूपिणी
कृतेन च व्रतेनैव महापापैः प्रमुच्यते
पितॄणामक्षयं देयं धर्मकामार्थसाधनम् ॥३॥
श्रीविष्णुरुवाच-
पूर्वमासीन्महाबाहुर्ब्राह्मणो वेदपारगः
सदाध्ययनशीलस्तु देवशर्मा इति द्विजः ॥४॥
अग्निहोत्रक्रियायुक्तः षट्कर्मनिरतः सदा
सर्ववर्णेषु संपूज्यः सपुत्रपशुबांधवः ॥५॥
तस्य ब्राह्मणमुख्यस्य भग्ना च गृहवाहिनी
प्राप्ते भाद्रपदे मासे शुक्लपक्षे तु पंचमी ॥६॥
पितुःक्षयाहं कुरुते यतात्मा च जितेंद्रियः
रात्रौ निमंत्रयेद्विप्रान्सुखसौभाग्यदायकान् ॥७॥
प्रभाते विमले प्राप्ते भांडान्यन्यानि कारयेत्
पाकं सर्वेषु पात्रेषु स कारयति जायया ॥८॥
अष्टादशरसोपेतं पितॄणां प्रीतिदायकम्
आकारणं ततो दत्त्वा विप्राणां च पृथक्पृथक् ॥९॥
सर्वे विप्रास्तु संप्राप्ता मध्याह्ने वेदपाठकाः
अर्घपाद्यादि विधिवत्कृतवान्द्विजसत्तमः ॥१०॥
रजसा दूषितः श्राद्धे प्रक्षाल्य विधिवत्तदा
गृहमध्ये गताः सर्वे आसने ते निरूपिताः ॥११॥
प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतः
विधिना च कृतं श्राद्धं पिंडदानप्रपूर्वकम् ॥१२॥
तांबूलं दक्षिणां चैव वस्त्राणि विविधानि च
सर्वं ददौ द्विजेभ्यो वै पितृध्यानपरायणः ॥१३॥
विप्रा विसर्जिताः सर्वे आशीर्वादपरायणाः
गोत्रिणां बांधवानां च अन्येषां च बुभुक्षताम् ॥१४॥
दत्तमन्नं तदा तेन भोजने विधिपूर्वकम्
निशायां तु कुटीद्वारे उपविष्टो यदा तदा ॥१५॥
ब्राह्मण्या वारि संगृह्य पादप्रक्षालनं कृतम्
तदा शुनी बलीवर्दौ परस्परमभाषताम् ॥१६॥
शृणु कांत वचो मह्यं यादृक्कृतवती वधूः
तादृशं संप्रवक्ष्यामि नान्यथा प्रब्रवीम्यहम् ॥१७॥
कदाचिद्दैवयोगेन गताहं पुत्रसद्मनि
तत्रस्थितं पयः पातुं वध्वा दृष्टं न तत्पुनः ॥१८॥
पीतं पयस्तु सर्पेण तद्दृष्टं तु मया पुनः
पश्चात्पीतं मया सम्यक्दृष्टं वध्वा तदा पुनः ॥१९॥
तेन संपर्कदोषेणकटिर्भग्ना च मे सदा
तेन दुःखेन भो स्वामिन्जाताहं दुःखभागिनी
भग्ना कटिश्च संजाता ह्याहारो नैव रोचते ॥२०॥
बलीवर्द्द उवाच-
शृणु त्वं शुनि वक्ष्यामि मम दुःखस्य कारणम्
अस्मिन्वै दिवसे प्राप्ते ब्राह्मणानां तु भोजनम् ॥२१॥
कारितं मम पुत्रेण मम चिंता तु नो कृता
नोदकं न तृणं चैव न दत्तं केनचित्क्वचित् ॥२२॥
अनाहारोह्यहं पापी बद्धोऽस्मिन्पापभावितः
पूर्वपापविशेषेण जातं शुनि न संशयः ॥२३॥
तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमता
ममायं तु पिता साक्षाज्जातो मम गृहे पशुः ॥२४॥
इयं तु जननी साक्षान्मम चैव न संशयः
दैवयोगाच्छुनी जाता किं करोमि सुनिश्चयम् ॥२५॥
एवं विचार्यासौ विप्रो नैव निद्रामवाप सः
रात्रौ चिंतापरो भूत्वा स्मरन्विश्वेश्वरं परम् ॥२६॥
नानाधर्मपरोऽहं च ममैवं च कथं शुभम्
विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः ॥२७॥
प्रभाते विमले प्राप्ते ऋषीणां पुरतो गतः
तेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम् ॥२८॥
ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवागमनकारणम्
इति पृष्टस्तदा विप्रः प्रणाममकरोत्तदा ॥२९॥
अद्य मे सफलं जन्म अद्य मे सफला क्रिया
अद्य मे पितरस्तृप्ता दुर्लभात्तव दर्शनात् ॥३०॥
यथोक्तं च कृतं श्राद्धं द्विजाश्चैव सुभोजिताः
कुटुंबिनां तु सर्वेषां भोजनं कारितं तथा ॥३१॥
भोजनानंतरं प्राप्ता शुनी तत्र उवाच ह
अस्माकं तु गृहे ह्येको बलीवर्दस्तु वर्त्तते ॥३२॥
तं पतिं प्रतिवाक्यं यद्दिवज मत्तः शृणुष्व तत्
गृहेस्थितं दुग्धभांडमहिना दूषितं मया ॥३३॥
दृष्टं मे महती चिंता तदा जाता न संशयः
अनेन पयसा चैव पक्वमन्नं यदा भवेत् ॥३४॥
तदात्र सर्वे विप्राश्च म्रियंते भोजनात्ततः
एवं विचार्य तत्स्वामिन्दुग्धं पीतं तदा मया ॥३५॥
तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतम्
चरामि तेन संभग्ना किं करोमि सुदुःखिता ॥३६॥
तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रति
शृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम् ॥३७॥
अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनि
अद्य वै भोजिता विप्रा दत्तमन्नं तु भूरिशः ॥३८॥
न तृणं नोदकं चैव ममाग्रे संनिवेदितम्
तेन दुःखेन मे दुःखं जातं बहुतरं तदा ॥३९॥
एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप न
मम चिंता तु तत्रैव जाता वै ऋषिसत्तम ॥४०॥
वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि
अनयोश्च महद्दुःखं किं करोमीति चिंतयन्
आगतस्त्वत्समीपे तु ममकष्टं निवारय ॥४१॥
ऋषिरुवाच-
उग्रजन्मन्शृणुष्व त्वं पूर्वजन्मनि यत्कृतम्
अयं वै तु द्विजश्रेष्ठो कुंडने नगरे शुभे ॥४२॥
मासे भाद्रपदे चैव पंचमी या समागता
तद्व्रतं तेन नाज्ञातं पितुः श्राद्धादिकारणात् ॥४३॥
स्त्रीधर्मेण तु संप्राप्ता क्षयहेतु तदानघ
तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम् ॥४४॥
न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना
प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी ॥४५॥
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति
तेन पापेन सा जाता शुनी स्वगृहचारिणी
बलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत ॥४६॥
उग्रजन्मोवाच-
व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत
ब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम ॥४७॥
ऋषिरुवाच-
मासे भाद्रपदे शुक्ले जायते ऋषिपंचमी
रजसा विकृतं पापं नश्यते करणाद्यतः ॥४८॥
पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी
नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा ॥४९॥
गोमयं मंडलं कुर्यात्कुंभं तत्रैव विन्यसेत्
तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम् ॥५०॥
यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा
स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः ॥५१॥
आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः
नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम् ॥५२॥
एकभक्तेन कर्तव्यमृषीणामर्चनं तदा
पूजयेत्परया भक्त्या मंत्रेण विधिपूर्वकम् ॥५३॥
निर्वापं सघृतं देयं दक्षिणासंयुतं तदा
देयं विप्राय विधिवदृषीणां प्रीयतां प्रति ॥५४॥
कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम्
धूपं दीपं च नैवेद्यमर्घ्यं दद्यात्पृथक्पृथक् ॥५५॥
ऋषयः संतु मे नित्यं व्रतसंपूर्णकारिणः
पूजां गृह्णंतु मद्दत्तां ऋषिभ्योऽस्तु नमोनमः ॥५६॥
पुलस्त्यः पुलहश्चैव क्रतुः प्राचेतसस्तथा
वसिष्ठमरिचात्रेया अर्घं गृह्णंतु वो नमः ॥५७॥
एवं पूजा प्रकर्त्तव्या धूपैर्दीपैर्मनोरमैः
पितॄणां जायते मुक्तिः कृतस्यास्य प्रभावतः ॥५८॥
पूर्वकर्मविपाकेन रजसा दोषभावतः
कृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः ॥५९॥
तद्व्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवे
ते गता मुक्तिमार्गेण आशीर्वादपरायणाः ॥६०॥
ऋषिपंचमीव्रतं पुण्यं विप्राय परिकीर्तितम्
ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः ॥६१॥
ये कुर्वंति नरश्रेष्ठ ऋषिव्रतमनुत्तमम्
भुक्त्वात्र भोगान्विपुलान्यांति विष्णोः पदं तु ते ॥६२॥
इतिश्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारद
संवादे ऋषिपंचमीव्रतंनाम सप्तसप्ततितमोऽध्यायः ॥७७॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP