संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १

उत्तरखण्डः - अध्यायः १

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ॐ श्रीविष्णवे नमः
ॐ श्रीवेदव्यासाय नमः
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥२॥
ऋषय ऊचुः -
श्रुतं पातालखंडं च त्वयाख्यातं विदांवर
नानाख्यानसमायुक्तं परमानंददायकम् ॥३॥
अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्द्धनम्
पाद्मे यच्छेषमस्तीह तद्ब्रूहि कृपया गुरो ॥४॥
सूत उवाच-
शृणुध्वं मुनयः सर्वे यदुक्तं शंकरेण हि
पृच्छते नारदायैव विज्ञानं पापनाशनम् ॥५॥
एकादा नारदो लोकान्पर्यटन्भगवत्प्रियः
गतोऽद्रि मंदरं शंभुं प्रष्टुं किंचिन्मनोगतम् ॥६॥
तत्रासीनमुमानाथं प्रणिपत्य शिवाज्ञया
उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः ॥७॥
नारद उवाच
पप्रच्छ इदमेवेशं यन्मां पृच्छथ सत्तमाः
भगवन्देवदेवेश पार्वतीश जगद्गुरो ॥८॥
भगवत्तत्वविज्ञानं येन स्यात्तन्ममादिश
शिव उवाच
शृणु नारद वक्ष्यामि पुराणं वेदसंमितम् ॥९॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
प्रथमोत्तरकीर्तिः स्यात्पर्वताख्यानमेव च ॥१०॥
जालंधरं तथाख्यानं श्रीशैलाख्यं ततः परम्
हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा ॥११॥
प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत्
तुलसीमहिमाचैव शंखचक्रगदादिकम् ॥१२॥
द्वारकायास्तथाख्यानं महोत्सवविधिस्ततः
तडाकजं तथा पुण्यं वापीकूपप्रपादिकम् ॥१३॥
गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च
जीर्णोद्धारस्य माहात्म्यं मंदाकिनी समागमम् ॥१४॥
साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा
स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम् ॥१५॥
उमामहेशसंवादे प्रोक्तं नामसहस्रकम्
कैलासात्तत्समानीतं नारदेनाग्रजन्मना ॥१६॥
लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः
स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः ॥१७॥
इदं पवित्रं परमं पुण्यमायुष्यवर्धनम्
पठितव्यं विशेषेण विष्णोः सायुज्यमाप्नुयात् ॥१८॥
विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम्
चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत् ॥१९॥
तेषां च मातापितरावंतरं च ब्रवीम्यहम्
गोत्रं वेदांश्चतेषां वै कर्माणीह तथैव च ॥२०॥
स्त्रियस्तेषां प्रवक्ष्यामि यथाविज्ञानदर्शनात्
चतुर्विंशत्येकादशीनां द्वादशीनां प्रभावताम् ॥२१॥
गोदावर्याश्च माहात्म्यं शंखचक्रादिधारणम्
ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम् ॥२२॥
यमुनायाश्च माहात्म्यं गंडिकायास्तथा मुने
वेत्रवत्यास्तु माहात्म्यं वच्म्यहं ते न संशयः ॥२३॥
गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत्
तत्सर्वं संप्रवक्ष्यामि खंडे उत्तरसंज्ञके ॥२४॥
अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत्
सरस्वत्याश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत् ॥२५॥
पद्मनाभसमुत्पत्तिं तुलस्याश्चैव धारणम्
गोपीचंदनमाहात्म्यं पट्टपूजां तथैव च ॥२६॥
निरंजनस्य माहात्म्यं तथा विज्ञानदर्शनम्
तत्र दीपप्रदानं च धूपदानं विशेषतः ॥२७॥
कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा
सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम् ॥२८॥
शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम्
यं दृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात् ॥२९॥
यत्र सिद्धं तथा भुक्तं पारलौकिकदायकम्
ब्राह्मणा यत्र भुंजन्ति वेदशास्त्र विशारदः ॥३०॥
अन्येषां चैव लोकानां का कथा चैव सुव्रत
पंचविंशत्यत्र नागा नर्तक्यो विविधास्तथा ॥३१॥
ब्रह्महत्या बालहत्या गवांहत्या तथैव च
ताः सर्वा विलयं यांति जगन्नाथस्य दर्शनात् ॥३२॥
जगन्नाथेत्युच्चरञ्जंतुर्महापापैः प्रमुच्यते
विष्णोः पूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे ॥३३॥
पर्वतानां वर्णनं च देशानां वर्णनं तथा
गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम् ॥३४॥
सिक्थे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहम्
कदलीगर्भदानं च वृक्षदानं ततः परम् ॥३५॥
अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम्
मंत्रदीक्षागमं चैव गुरोर्लक्षणमेव च ॥३६॥
शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः
चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत् ॥३७॥
पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः
ग्रहणं चंद्रसूर्यस्य तत्र दानं च यद्भवेत् ॥३८॥
शालग्रामस्य दानस्य माहात्म्यं माल्यगंधयोः
दशम्यैकादशीवेधं द्वादशी हरिवासरम् ॥३९॥
तेषां चैव तुमाहात्म्यं रुद्रनामादिकं च यत्
मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा ॥४०॥
सेतुबंधस्य चाख्यानं श्रीरामेश्वरजं तथा
त्र्यंबकस्य च माहात्म्यं पंचवट्याश्च यत्फलम् ॥४१॥
दंडकारण्यमाहात्म्यं शृणु वाडवसत्तम
दंडकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम् ॥४२॥
गीतायाश्चैव माहात्म्यं तथा भागवतस्य च
कालिंद्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम् ॥४३॥
रुक्मांगदचरित्रं तु महिमा वैष्णवस्य च
वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम ॥४४॥
ससागरां च पृथिवीं दत्त्वा चैव तु यत्फलम्
तत्फलं समवाप्नोति भुक्ते ह्येके तु वैष्णवे ॥४५॥
सात्विकाः सत्त्वसंपन्ना राजसाः कामुकाः स्मृताः
तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम् ॥४६॥
ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः
तेषां माहात्म्यं वक्ष्यामि यथोक्तं चैव नारद ॥४७॥
विष्णुनिंदारता ये वै द्रव्यलोभेन सत्तम
तेषां पापं तु वक्ष्यामि सांप्रतं ऋषिसत्तम ॥४८॥
ज्वालामुख्यास्तथाख्यानं हिमशैलेक्षणं तथा
ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहम् ॥४९॥
कायस्थानां समुत्पतिर्गयाव्याख्यानमेव च
गदाधरस्वरूपं च फल्गुवर्णनमेव च ॥५०॥
एतेषां चैव माहात्म्यं पाद्मे दृष्टं तथा श्रुतम्
महाबोधस्वरूपं च सकल्केर्यश एव च ॥५१॥
रामगयाया माहात्म्यं तथा प्रेतशिलाभवम्
ब्रह्मणश्च तथाख्यानं शिलाख्यानं वदाम्यहम् ॥५२॥
ब्रह्मयोनेस्तथाख्यानमक्षयाख्य वटस्य च
श्राद्धे तत्र महत्पुण्यं यत्तत्सर्वं वदाम्यहम् ॥५३॥
महेश्वरकृतां भक्तिं विष्णुना च महात्मना
अद्यापि काश्यां जपति महारुद्रो ह्यनामयम् ॥५४॥
माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद
तिलतर्पणजं पुण्यं यवजं पुण्यमेव च ॥५५॥
तुलसीदलसंयुक्तं तर्पणं देवजं तथा
तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम ॥५६॥
शंखनादस्य माहात्म्यं पुण्यं चासंख्यसंज्ञकम् ॥५७॥
रवेर्वारस्य माहात्म्यं योगस्य विष्णुसंज्ञिनः
वैधृतस्य च माहात्म्यं व्यतीपातस्य वै तथा ॥५८॥
एतत्सर्वं प्रवक्ष्यामि यथोक्तं चैव नारद
अन्नदानं वस्त्रदानं भूमिदानं तथैव च ॥५९॥
शय्यादानं च गोदानं तथा वृषभमेव च
जन्माष्टम्याश्च माहात्म्यं मत्स्यमाहात्म्यमेव च ॥६०॥
कूर्ममाहात्म्यं तत्प्रोक्तं वाराहस्य तथैव च
माहात्म्यं च गवादीनां दानानां प्रवदाम्यहम् ॥६१॥
प्रह्लादमुखभक्ता ये ये केचिद्भुवि विश्रुताः
तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम ॥६२॥
जागरे महिमा चैव दीपदाने कृते च यत्
प्रहरेषु पृथक्पूजाफलं देवर्षिसत्तम ॥६३॥
पर्शुरामस्य चाख्यानं रेणुकाया वधस्तथा
ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतम् ॥६४॥
रामस्याश्रमजं पुण्यं वदाम्यहमशेषतः
नर्मदायास्तथाख्यानं पुण्यपूजनयोस्तथा ॥६५॥
दानं वेदपुराणानामाश्रमाणां निरूपणम्
हिरण्यदानपुण्यं च ब्रह्मांडदानमेव च ॥६६॥
पद्मपुराणदानं च खंडानां व्यक्तयस्तथा
प्रथमं सृष्टिखंडं च द्वितीयं भूमिखंडकम् ॥६७॥
स्वर्गखंडं तृतीयं च तुर्यं पातालसंज्ञकम्
उत्तरं पंचमं प्रोक्तं खंडान्यनुक्रमेण वै ॥६८॥
एतत्पद्मपुराणं तु व्यासेन तु महात्मना
कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा ॥६९॥
शूद्राणां पुण्यजननं तीव्रदारिद्र्यनाशनम्
मोक्षदं सुखदं चाशु कल्याणप्रदमव्ययम्
श्रुत्वा दानं तथा कुर्याद्विधिना तत्र नारद ॥७०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे महेशनारदसंवादे बीजसमुच्चयोनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP