संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १२०

उत्तरखण्डः - अध्यायः १२०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच
इति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः
शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः ॥१॥
कार्तिकेय उवाच
भगवन्योगिनां श्रेष्ठ सर्वेधर्माः श्रुता मया
शालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो ॥२॥
ईश्वर उवाच
साधुसाधु महाप्राज्ञ यन्मां हि परिपृच्छसि
तदहं संप्रवक्ष्यामि श्रूयतां मम वत्सल ॥३॥
शालग्रामशिलायां तु त्रैलोक्यं सचराचरम्
महाशय महासेन नित्यं तिष्ठति संहितम् ॥४॥
दृष्टं प्रणमितं येन स्नापितं पूजितं तथा
यज्ञकोटिगुणं पुण्यं गवां कोटिफलं लभेत् ॥५॥
छिन्नस्तेन तथा वत्स गर्भवासः सुदारुणः
पीतं येन सदा विष्णोः शालग्रामशिलाजलम् ॥६॥
कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः
शालग्रामशिला पुत्र पूजयित्वाच्युतो भवेत् ॥७॥
शालग्रामशिला बिंबं हत्वा कोटिविनाशनम्
स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥८॥
शालग्रामशिलां दृष्ट्वा यांति पापान्यनेकशः
सिंहं दृष्ट्वा यथा यांति वने मृगगणा भयात् ॥९॥
नमस्कारं तु मनुजः शालग्रामशिलार्चने
भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात् ॥१०॥
वैवस्वतभयं नास्ति तथा मरणजन्मनोः
यः करोति नरो नित्यं शालग्रामशिलार्चनम् ॥११॥
गंधपाद्यार्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैः
गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम् ॥१२॥
कुरुते मानवो यस्तु कलौ भक्तिपरायणः
कल्पकोटिसहस्राणि रमते विष्णुसद्मनि ॥१३॥
शालग्रामनमस्कारो भावेनापि नरैः कृतः
मानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि ॥१४॥
मद्भक्तास्तीव्रपापिष्ठा मत्प्रभुं न नमंति ये
वासुदेवं न ते ज्ञेया मद्भक्ताः पापमोहिताः ॥१५॥
मद्भक्तोऽपि च यो भूत्वा भुंक्ते त्वेकादशीदिने
स याति ह्यंधतामिस्रे निरयं मम घातकः ॥१६॥
मल्लिंगस्पर्शनं कार्यं नान्या शुद्धिर्विधीयते
या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा ॥१७॥
यस्तां नोपवसेन्मर्त्यः स पापी श्वपचाधिकः
शालग्रामशिलायां तु सदा पुत्र वसाम्यहम् ॥१८॥
दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः
पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम् ॥१९॥
तत्फलं कोटिगुणितं शालग्रामशिलार्चनात्
पूजितोऽहं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः ॥२०॥
न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम्
शालग्रामशिलाग्रे तु यः करोति ममार्चनम् ॥२१॥
तेनार्चितोऽहं सेनानीर्युगानामेकविंशतिम्
किमर्चितैर्लिंगशतैर्विष्णुभक्तिविवर्जितैः ॥२२॥
शालग्रामशिलाबिंबं नार्चितं यदि पुत्रक
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ॥२३॥
शालग्रामशिलाग्रे तु सर्वं याति पवित्रताम्
भुक्त्वान्यदेवनैवेद्यं द्विजश्चांद्रायणं चरेत् ॥२४॥
भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत्
पादोदकेन देवस्य हत्याकोटिसमन्विताः ॥२५॥
शुद्ध्यंति नात्र संदेहस्तथा शंखोदकेन हि
यो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेत् ॥२६॥
द्वेष्टा च याति नरकं यावदिंद्राश्चतुर्दश
ज्येष्ठाश्रमी गृहे यस्य मुहूर्त्तमपि विश्रमेत् ॥२७॥
पितामहा युगान्यष्टौ भवत्यमृतभोजिनः
संसारे दुःखकांतारे निमज्ज्यंते नराधमाः ॥२८॥
वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताः
स्नेहादभ्यर्चितैर्लिंगैः शालग्रामसमुद्भवैः ॥२९॥
मुक्तिं प्रयांति मनुजा योगसांख्येन वर्जिताः
मल्लिंगकोटिभिर्दृष्टैर्यत्फलं पूजितैः स्तुतैः ॥३०॥
शालग्रामशिलायां तु एकस्यामिह तद्भवेत्
द्वादशैव शिला यो वै शालग्रामसमुद्भवाः ॥३१॥
अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं न बोध मे
कोटिलिंगसहस्रैस्तु पूजितैर्जाह्नवी तटे ॥३२॥
काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत्
किं पुनर्बहुना यस्तु पूजयेद्वैष्णवो नरः ॥३३॥
नाहं ब्रह्मादयो देवाः संख्यां कर्तुं समीहते
तस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थं मम पुत्रक ॥३४॥
कर्त्तव्यं मम तद्भक्त्या शालग्रामशिलार्च्चनम्
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ॥३५॥
तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥३६॥
सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेत्
तत्फलं कीर्त्तनादेव केशवे सुकृतं कलौ ॥३७॥
शालग्रामशिलाग्रे तु सकृत्पिंडेन तर्पिताः
वसंति पितरस्तस्य न संख्या तत्र विद्यते ॥३८॥
ये पिबंति नरा भक्त्या शालग्रामशिलाजलम्
पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥३९॥
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः
चांद्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः ॥४०॥
यः करोति तडागे तु प्रतिमां जलशायिनीम्
कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः ॥४१॥
विष्णुमुख्यास्तु वै देवास्तत्र जल्पंति वै सह
प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक ॥४२॥
फलप्रमाणं नैवास्तिशालग्रामशिलार्चन
यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम् ॥४३॥
विप्राय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैः
गृहेऽपि वसतस्तस्य गंगास्नानं दिनेदिने ॥४४॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
शालग्रामशिलातोयैरभिषेकं समाचरेत् ॥४५॥
स्वर्गे मर्त्ये च पाताले पाषाणाः संति वै गुह
शालग्रामशिला ग्राव्णा नास्ति नास्ति समा पुनः ॥४६॥
मानुषे दुर्ल्लभे लोके सफलं तस्य जीवितम्
तिलप्रस्थशतं भक्त्या यो ददाति दिनेदिने ॥४७॥
तत्फलं समवाप्नोति शालग्रामशिलार्चनात्
पत्रं पुष्पं फलं तोयं मूलं दूर्वादलं तथा ॥४८॥
जायते मेरुणा तुल्यं शालग्रामे समर्पितम्
विधिहीनोऽपि यः कश्चित्क्रियामंत्रविवर्जितः ॥४९॥
चक्रांकभुज आप्नोति सम्यक्शास्त्रोदितं फलम्
यत्तु पूर्वं मया दृष्टं केशवे क्लेशनाशनम् ॥५०॥
तत्सर्वं कथयिष्यामि तव स्नेहेन पुत्रक
क्व त्वं वससि हे विष्णो किमाधारः किमाश्रयः ॥५१॥
कथं वा प्रीयसे देव तत्सर्वं कथयस्व मे
श्रीकृष्ण उवाच
निवसामि सदा शंभो शालग्रामोद्भवेऽश्मनि ॥५२॥
तत्रैव रथचक्रांके यानि नामानि मे शृणु
द्वारदेशे समे चक्रे दृश्येते नांतरं यदि
वासुदेवः स विज्ञेयः शुक्लश्चैवातिशोभनः ॥५३॥
प्रद्युम्नः सूर्यवक्त्रस्तु नीलदीप्तिस्तथैव च
सुषिरं च्छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ॥५४॥
अनिरुद्धस्तु पीताभो वर्त्तुलश्चातिशोभनः
रेखात्रयांकितो द्वारि दृष्टपद्मेन चिह्नवत् ॥५५॥
श्यामो नारायणो देवो नाभिचक्रे तथोन्नते
दीर्घ रेषा समोपेतो दक्षिणे सुषिरान्वितः ॥५६॥
ऊर्ध्वंमुखं च जानीयात्सुंदरं हरिरूपिणम्
कामदं मोक्षदं चैव अर्थदं च विशेषतः ॥५७॥
परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः
बिंबाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्कलम् ॥५८॥
कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने
द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः ॥५९॥
कपिलो नरसिंहश्च पृथुचक्रः सुशोभितः
ब्रह्मचर्येण पूज्योसावन्यथा विघ्नदो भवेत् ॥६०॥
वाराहः शक्तिलिंगस्तु चक्रे च विषमे स्मृते
इंद्र नीलनिभः स्थूलस्त्रिरेखो नाभितः शुभः ॥६१॥
दीर्घाकांचनवर्णाया बिंदुत्रयविभूषिता
मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ॥६२॥
कूर्मस्तथोन्नतः पृष्ठे वर्तुलश्चक्रपूरितः
हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः ॥६३॥
हयग्रीवो हयाकारो रेखापंचकभूषितः
बहुबिंदुसमाकीर्णः पृष्ठे नीलं च रूपकम् ॥६४॥
वैकुंठमविभिन्नांगं चक्रमेकं तथा ध्वजम्
द्वारोपरि तथा रेखा गुंजाकारा सुशोभना ॥६५॥
श्रीधरस्तु तथा देवश्चिह्नितो वनमालया
कदंबकुसुमाकारो रेखापंचकभूषितः ॥६६॥
वर्तुलश्चापि हृस्वश्च वामनः परिकीर्तितः
अतसीकुसुमप्रख्यो बिंदुना परिशोभितः ॥६७॥
सुदर्शनस्ततो देवः श्यामवर्णो महाद्युतिः
वामपार्श्वे गदाचक्रे रेखा चैव तु दक्षिणे ॥६८॥
दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम्
दूर्वाभं द्वारसंकीर्णं पीतरेखं तथैव च ॥६९॥
नानावर्णो ह्यनंतस्तु नानाभोगेन चिह्नितः
अनेकमूर्तिकोभिन्नः सर्वकामफलप्रदः ॥७०॥
विदिक्षुदिक्षुसर्वासु यस्योर्ध्वं दृश्यते मुखम्
पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः ॥७१॥
दृश्यते शिखरे लिंगं शालग्रामशिलोद्भवम्
यस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति ॥७२॥
आरक्तः पद्मनाभस्तु पंकजं वक्त्रसंयुतम्
तस्याभ्यर्चनतो नित्यं द्ररिद्रस्त्वीश्वरो भवेत् ॥७३॥
चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत्
सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम् ॥७४॥
अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च
पांडुरा पापदहनी पितापुत्रफलप्रदा ॥७५॥
नीला प्रयच्छती लक्ष्मीं रक्ता रोगप्रदायिनी
रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ॥७६॥
एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम्
तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम् ॥७७॥
पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च
संकर्षर्णं सप्तमं च अष्टमं पुरुषोत्तमम् ॥७८॥
नवमं च नवव्यूहं दशमं तु तदात्मकम्
एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम् ॥७९॥
अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञके
खंडिते त्रुटिते भग्ने सालग्रामे न दोषभाक् ॥८०॥
इष्टा च यस्य या मूर्तिः स तां यत्नेन पूजयेत्
स्कंधे कृत्वा तु योऽध्वानं वहते शैलनायकम् ॥८१॥
तस्य वश्यं भवेत्सर्वं त्रैलोक्यं सचराचरम्
शालग्रामशिला यत्र तत्र संनिहितो हरिः ॥८२॥
तत्र दानं जपः स्नानं वाराणस्याः शताधिकम्
कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा ॥८३॥
तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम्
ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः ॥८४॥
तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम्
शालग्रामोद्भवो देवो यत्र द्वारावतीभवः ॥८५॥
उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः
ब्रह्मचारि गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥८६॥
भोक्तव्यं विष्णुनैवेद्यं नात्र कार्या विचारणा
तत्पूजनेन मंत्राश्च न जपो न च भावना ॥८७॥
न स्तुतिर्नापि चाचारः शालग्रामशिलार्चने
शालग्रामशिलाग्रे तु कृत्वा स्वस्तिकमादरात् ॥८८॥
कार्तिके तु विशेषेण पुनात्यासप्तमं कुलम्
अणुमात्रं तु यः कुर्यान्मंडलं केशवाग्रतः ॥८९॥
मृदाधातुविकारैश्च कल्पकोटिं दिवं वसेत्
यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते ॥९०॥
कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः
अगम्यागमने चैव ह्यभक्षस्य तु भक्षणे ॥९१॥
तत्पापं नाशमायाति मंडयित्वा हरेर्गृहम्
मंडलं कुरुते नित्यं या नारी केशवाग्रतः
सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन ॥९२॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शालिग्राममाहात्म्यंनाम विंशत्यधिकशततमोऽध्यायः ॥१२०॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP