उत्तरखण्डः - अध्यायः १०९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
गणावूचतुः
कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विजः
पाककर्माकरोद्यावदहरत्कोप्यलक्षितः ॥१॥
तमदृष्ट्वाप्यसौ पाकं पुनर्नैवाकरोत्तदा
सायंकालार्चनस्यासौ व्रतभंगभयाद्द्विजः ॥२॥
द्वितीयेऽह्नि ततः पाकं कृत्वा यावत्स विष्णवे
उपहारार्पणं कर्तुं तावत्कोप्यहरत्पुनः ॥३॥
एवं सप्तदिनं तस्य पाकं कोप्यहरद्द्विज
जातः सविस्मयः सोऽथ मनस्येव व्यचारयत् ॥४॥
अहो नित्यं समभ्येत्य कः पाकं हरते मम
क्षेत्रसंन्यासिनां स्थानमत्याज्यं सर्वथा मया ॥५॥
पुनः पाकं विधायात्र भुज्यते यदि चेन्मया
सायंकालार्चनं चैतत्परित्याज्यं कथं मया ॥६॥
किंचित्पाकं विधायैतद्भोक्तव्यं तु मया नहि
अनिर्वेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते ॥७॥
उपोषितोऽहं च कथं तिष्ठाम्यत्र व्रतस्थितः
अद्य संरक्षणं सम्यक्पाकस्यात्र करोम्यहम् ॥८॥
इति पाकं विधायासौ तत्रैवालक्षितः स्थितः
तावद्ददर्श चांडालं पाकान्नहरणे स्थितम् ॥९॥
क्षुत्क्षामं दीनवदनमस्थिचर्मावशेषितम्
तमालोक्य द्विजाग्र्योभूत्कृपयापन्नमानसः ॥१०॥
विलोक्यान्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत
कथमत्ति भवान्रूक्षं घृतमेतद्गृहाण भोः ॥११॥
इत्थं ब्रुवंतं विप्राग्र्यं आयांतं च विलोक्य सः
वेगादधावत्तद्भीत्या मूर्च्छितश्च पपात ह ॥१२॥
भीतं तं मूर्च्छितं दृष्ट्वा चांडालं स द्विजोत्तमः
वेगादभ्येत्य कृपया स्ववस्त्रांतैरवीजयत् ॥१३॥
अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत्
साक्षान्नारायणं देवं शंखचक्रगदाधरम् ॥१४॥
पीतांबरं चतुर्बाहुं श्रीवत्सांकं किरीटिनम्
अतसीपुष्पसंकाशं कौस्तुभोरःस्थलं विभुम् ॥१५॥
तं दृष्ट्वा सात्विकैर्भावैरावृतो द्विजसत्तमः
स्तोतुं चापि नमस्कर्तुं तदानालं बभूव सः ॥१६॥
अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा
गंधर्वाप्सरसश्चापि जगुश्च ननृतुर्मुदा ॥१७॥
विमानशतसंकीर्णं देवर्षिगणसंकुलम्
गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा ॥१८॥
ततो विष्णुः समालिंग्य स्वभक्तं सात्विकं तथा
सायुज्यमात्मनो दत्त्वानयद्वैकुंठमंदिरम् ॥१९॥
विमानवरसंस्थानमास्थितं विष्णुसन्निधौ
दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श ह ॥२०॥
वैकुंठभवनं यांतं विष्णुदासं विलोक्य सः
स्वगुरुं मुद्गलं वेगादाह्वयेत्थं वचोऽब्रवीत् ॥२१॥
चोल उवाच
यत्स्पर्धया मया चैतद्यज्ञदानादिकं कृतम्
स विष्णुरूपधृग्विप्रो याति वैकुंठमंदिरम् ॥२२॥
दीक्षितेन मया सम्यक्सत्रेऽस्मिन्विष्णवे त्वया
हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः ॥२३॥
नैवाद्यापि समे देवः प्रसन्नो जायते ध्रुवम्
भक्त्यैव तस्य विप्रस्य साक्षात्कारं ददौ हरिः ॥२४॥
तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति
भक्तिरेव परं तस्य निदानं दर्शने विभोः ॥२५॥
गणावूचतुः
इत्युक्त्वा भागिनेयं स्वमभिषिच्य नृपासने
आबाल्याद्दीक्षितो यज्ञे सा पुत्रत्वमगाद्यतः ॥२६॥
तस्मादद्यापि तद्देशे सदा राज्यांशभागिनः
स्वस्रेया एव जायंते तत्कृताचारवर्तिनः ॥२७॥
यज्ञवाटं ततोऽभ्येत्य वह्निकुंडाग्रतः स्थितः
त्रिरुच्चैर्व्याजहाराशु विष्णुं संबोधयंस्तदा ॥२८॥
विष्णो भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिः
इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् ॥२९॥
मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम्
ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखाभवन् ॥३०॥
तावदाविरभूद्विष्णुः कुंडाग्नौ भक्तवत्सलः
तमालिंग्य विमानाग्र्यं समारोहयदच्युतः ॥३१॥
तमालिंग्यात्मसारूप्यं दत्त्वा वैकुंठमंदिरम्
तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ॥३२॥
नारद उवाच
यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशील नामा
एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥३३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानंनाम नवाधिकशततमोऽध्यायः ॥१०९॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP