संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २३५ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २३५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २३५ Translation - भाषांतर श्रीपार्वत्युवाच-पाषंडानां च संवादं वर्जयेदिति यत्त्वया ॥१॥उक्तं ममेह भगवान्श्वपचादपि गर्हितम्ते यादृशाः समाख्याताः कैर्लिंङ्गैश्चिह्निता भुविरुद्र उवाच-येऽन्यदेवं परत्वेन वदंत्यज्ञानमोहिताः ॥२॥नारायणाज्जगन्नाथात्ते वै पाषंडिनः स्मृताःकपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः ॥३॥ऋते वनस्थाश्रमाच्च जटावल्कलधारिणःअवैदिकक्रियोपेतास्तै वै पाषंडिनस्तथा ॥४॥शंखचक्रोर्ध्वपुंड्रादि चिह्नैः प्रियतमैर्हरेःरहिता ये द्विजा देवि ते वै पाषंडिनः स्मृताः ॥५॥श्रुतिस्मृत्युदिताचारं यस्तु नाचरति द्विजःस पाषंडीति विज्ञेयः सर्वलोकेषु गर्हितः ॥६॥विना वै भगवत्प्रीत्या ते वै पाषंडिनः स्मृताःसमस्तयज्ञभोक्तारं विष्णुं वै ब्रह्मदैवतम् ॥७॥उदिश्य देवता एव जुहोति च ददाति चस पाषण्डीति विज्ञेयः स्वतंत्रः सर्वकर्मसु ॥८॥स्वातंत्र्यात्कुरुते यस्तु कर्म वेदोदितं महत्यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ॥९॥सममन्यैर्निरीक्षेत स पाषंडी भवेत्सदाअवस्थात्रितये यस्तु मनोवाक्कायकर्म्मभिः ॥१०॥वासुदेवं न जानाति स पाषंडी भवेद्दिवजःकिमत्र बहुनोक्तेन ब्राह्मणा येप्यवैष्णवाः ॥११॥न स्प्रष्टव्या न वक्तव्या न द्रष्टव्याः कदाचनपार्वत्युवाच-भगवन्परमं गुह्यं पृच्छामि सुरसत्तम ॥१२॥मयि प्रीत्या समाचक्ष्व संशयो वर्त्तते भृशम्कपालभस्मचर्म्मास्थि धारणं श्रुतिगर्हितम् ॥१३॥तत्त्वया धार्य्यते देव गर्हितं केन हेतुनास्त्रीचापल्येन देवेश पृच्छामि त्वां महामते ॥१४॥महाप्रभावात्कथितं न कर्त्तव्यं क्वचिद्भवेत्त्वयेति न पुरा प्रोक्तं विस्तरेण महाप्रभो ॥१५॥अकर्त्तव्यमिति प्रश्नं क्षंतुमर्हसि मे प्रभोवसिष्ठ उवाच-इति देव्या हरः पृष्टो रहस्ये जनवर्जिते ॥१६॥उवाच परमं गुह्यं यद्यदाचरितं स्वकम्शिव उवाच-शृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतम् ॥१७॥न वक्तव्यं त्वया देवि जनेषु कथितं मयाअपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते ॥१८॥नमुच्याद्या महादैत्याः पुरा स्वायंभुवेंतरेमहाबला महावीर्या महावीरा महौजसः ॥१९॥सर्वे विष्णुरताः शुद्धाः सर्वपापविवर्जिताःत्रयीधर्मवृताः सर्वे भग्ना इंद्रपुरोगमाः ॥२०॥विष्णोः समीपमागम्य भयार्त्ताः शरणं गताःदेवा ऊचुःअजेयान्सर्वदेवानां तपोनिर्द्धूतकल्मषान् ॥२१॥त्वमेवैतान्महादैत्याञ्जेतुमर्हसि केशवमहादेव उवाच-इत्याकर्ण्य हरिर्वाक्यं देवानां च भयानकम् ॥२२॥तान्समाश्वास्य दिक्पालान्मामाह पुरुषोत्तमःश्रीभगवानुवाच-त्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् ॥२३॥पाषंडाचरणं धर्मं कुरुष्व सुरसत्तमतामसानि पुराणानि कथयस्व च तान्प्रति ॥२४॥मोहनानि च शास्त्राणि कुरुष्व च महामतेमयि मुक्ताश्च विप्रश्च भविष्यंति महर्षयः ॥२५॥मद्भक्त्या तान्समाविश्य कथयस्व च तामसान्काणादं गौतमं शक्तिमुपमन्युं च जैमिनिम् ॥२६॥कपिलं चैव दुर्वासं मृकंडुं च बृहस्पतिम्भार्गवं जामदग्न्यं च दशैतांस्तामसानृषीन् ॥२७॥भावशक्त्या समाविश्य कुर्वता जगतो शिवम्त्वच्छक्त्या च निविष्टास्ते तमसोद्रिक्तया भृशम् ॥२८॥तामसास्ते भविष्यंति क्षणादेव न संशयःकथयिष्यंति ते विप्रास्तामसानि जगत्त्रये ॥२९॥पुराणानि च शास्त्रणि त्वया सत्वेन बृंहिताःकपालचर्म्मभस्मास्थि चिह्नान्यमरसर्वशः ॥३०॥त्वमेव धृतवान्लोकान्मोहयस्व जगत्त्रयेतथा पाशुपतं शास्त्रं त्वमेव कुरु सत्कृतः ॥३१॥कंकालशैवपाषंडमहाशैवादिभेदतःअलक्ष्यं च मतं सम्यग्वेदबाह्यं नराधमाः ॥३२॥भस्मास्थिधारिणः सर्वे भविष्यंति ह्यचेतसःत्वां परत्वेन वक्ष्यंति सर्वशास्त्रेषु तामसाः ॥३३॥तेषां मतमधिष्ठाय सर्वे दैत्याः सनातनाःभवेयुस्ते मद्विमुखाः क्षणादेव न संशयः ॥३४॥अहमप्यवतारेषु त्वां च रुद्र महाबलतामसानां मोहनार्थं पूजयामि युगे युगे ॥३५॥मतमेतदवष्टभ्य पतंत्येव न संशयःमहादेव उवाच-तच्छ्रुत्वाहं यथोक्तं तु वासुदेवेन भामिनि ॥३६॥सुमहद्वदनो दीनो बभूवात्र वराननेनमस्कृत्वाथ तं देवमब्रवं परमेश्वरम् ॥३७॥त्वयोदितमिदं देव करोमि यदि भूतलेतस्मान्नाशाय मे नाथ भविष्यति न संशयः ॥३८॥तत्र शक्यं मया कर्तुमेतत्कृत्यं हरेऽधुनात्वदाज्ञापि च नोल्लंघ्या एतद्दुःखतरं महत् ॥३९॥एवमुक्ते ततो देवि समाश्वास्य च मां पुनःआत्मनाशाय तेनात्र भवत्वित्याह मां हरिः ॥४०॥देवतानां हितार्थाय कुरुष्व वचनं ममतवापि जीवनोपायं कथयामि सुरोत्तम ॥४१॥दत्तवान्कृपया मह्यमात्मनाम सहस्रकम्हृदये मां समाधाय जप मंत्रं ममाव्ययम् ॥४२॥षडक्षरं महामंत्रं तारकं ब्रह्म उच्यतेये जपंति हि मां भक्त्या तेषां मुक्तिर्न संशयः ॥४३॥इंदीवरदलश्यामं पद्मपत्रविलोचनम्शंखांगशार्ङ्गेषुधरं सर्वाभरणभूषितम् ॥४४॥पीतवस्त्रं चतुर्बाहुं जानकीप्रियवल्लभम्श्रीरामाय नम इत्येवमुच्चार्य्यं मन्त्रमुत्तमम् ॥४५सर्वदुःखहरं चैतत्पापिनामपि मुक्तिदम्इमं मंत्रं जपन्नित्यममलस्त्वं भविष्यसि ॥४६॥भस्मास्थिधारणाद्यत्तु संभूतं किल्बिषं त्वयिमंगलं तदभूत्सर्वं मन्मंत्रोच्चारणाच्छुभात् ॥४७॥तर्पितो नाशयिष्यामि पापं सर्वं सुरोत्तममदन्यदेवताभक्तिर्जायते न तु सुव्रत ॥४८॥मनसैवार्च्चय हृदि मां नाथं पुरुषोत्तमम्मदाज्ञां कुरु मत्प्रीत्या सर्वमेतच्छुभं तव ॥४९॥इति संदिश्य मां देवि विससर्ज मरुद्गणान्विसृष्टास्ते ततो देवा निवृत्ताः स्वाश्रमं ययुः ॥५०॥ततो मां प्रार्थयामासुर्देवा इंद्र पुरोगमाःइन्द्रादय ऊचुःशीघ्रं कुरु हितं देव यथोक्तं हरिणाधुना ॥५१॥महादेव उवाच-देवतानां हितार्थाय वृत्तिं पाखंडिनां शुभेकपालचर्मभस्मास्थिधारणं तत्कृतं मया ॥५२॥तामसानि पुराणानि यथोक्तं विष्णुना शुभेपाषंडशैवशास्त्राणि यथोक्तं कृतवानहम् ॥५३॥मच्छक्त्यापि समाविश्य गौतमादि द्विजानपिवेदबाह्यानि शास्त्राणि सम्यगुक्तं मयानघे ॥५४॥इमं मतमवष्टभ्य दुष्टाः सर्वे च राक्षसाःभगवद्विमुखाः सर्वे बभूवुस्तामसावृताः ॥५५॥भस्मादिधारणं कृत्वा महोग्रतपसावृताःमामेव पूजयांचक्रुर्म्मांसासृक्चंदनादिभिः ॥५६॥मत्तो वरप्रदानानि लब्ध्वा मदबलोद्धताःअत्यंतविषयासक्ताः कामक्रोधसमन्विताः ॥५७॥सत्वहीनास्तु निर्वीर्य्या जिता देवगणैस्तदासर्वधर्म्मपरिभ्रष्टाः काले यांत्यधमां गतिम् ॥५८॥ये मे मतमवष्टभ्य चरंति पृथिवीतलेसर्वधर्मैश्च रहिताः पश्यंति निरयं सदा ॥५९॥एवं देवहितार्थाय वृत्तिर्मे देवि गर्हिताविष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ॥६०॥बाह्यचिह्नमिदं देवि मोहनार्थाय विद्विषाम्अथांतर्हृदये नित्यं ध्यात्वा देवं जनार्दनम् ॥६१॥जपन्नेव च तन्मंत्रं तारकं ब्रह्मवाचकम्सहस्रनामसदृशं विष्णोर्नारायणस्य तु ॥६२॥षडक्षरं महामंत्रं रघूणां कुलवर्द्धनम्जपन्वै सततं देवि सदानंदसुधाप्लुतम्सुखमात्यंतिकं ब्रह्म ह्यश्नाम सततं शुभे ॥६३॥एतत्ते सर्वमाख्यातं त्वयापृष्टं शुभाननेकिमन्यच्छ्रोतुकामासि प्रीत्या तत्परिपृच्छ माम् ॥६४॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे पाषंडोत्पत्तिवर्णनंनाम पंचत्रिंशदधिकद्विशततमोऽध्यायः ॥२३५॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP