संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १५४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १५४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १५४ Translation - भाषांतर साभ्रमत्यास्तटे गुप्तं तीर्थं परमपावनम्खङ्गधारमिति ख्यातं कलौ गुप्तं भविष्यति ॥१यत्र प्रसंगतः स्नात्वा पीत्वा वापो यदृच्छयासर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥२॥यत्र साभ्रमती पुण्या कश्यपानुगता सतीरुद्रेण हि जटाजूटे धृता पातालगामिनः ॥३॥खङ्गधारेति वै नाम्ना रुद्रस्तत्रैव संस्थितःयत्र स्नात्वा दिवं याताः पापिनोऽपि सुरेश्वरि ॥४॥अत्रैवोदाहरंतीममितिहासं पुरातनम्किरातेन कृतं यच्च व्रतं परमदुष्करम् ॥५॥पार्वत्युवाचकिं नाम वै किरातोऽभूत्किं तेन व्रतमाहितम्तत्सर्वं श्रोतुमिच्छामि यथातथ्येन कथ्यताम् ॥६॥नह्यन्यो विद्यते लोके त्वां विना वदतां वरःतस्मात्कथय भो देव सर्वं शुश्रूषणे हितम् ॥७॥महादेव उवाचआसीत्पुरा महारौद्रश्चंडो नाम दुरात्मवान्क्रूरः शठो नैष्कृतिको भूतानां च भयावहः ॥८॥जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं ततःभल्लैर्मृगान्श्वापदांश्च कृष्णसारान्सशल्लकान् ॥९॥खगान्नानाविधांश्चैव विध्वा कांश्चित्प्रपातयेत्पक्षिणो घातयन्क्रुद्धो बर्हिणश्च विशेषतः ॥१०॥लुब्धको हि महापापो दुष्टो दुष्टजनप्रियःभार्या तथाविधा तस्य पुंश्चली च महामया ॥११॥एवं विहरतस्तस्य बहुकालो व्यवर्त्ततएकदा निशि पापीयान्श्रीवृक्षोपरि संस्थितः ॥१२॥कोलं हंतुं धनुःपाणिः शरं संयोज्य कार्मुकेएवं निशा गता तस्य जाग्रतो निमिषस्य हिमाघमासे सितायां वै चतुर्दश्यां नगात्मजे ॥१३॥श्रीवृक्षपत्राणि बहूनि तत्र संच्छेदयामास रुषान्वितोऽपिश्रीवृक्षमूले परिवर्त्तमानं लिगं च तस्योपरितानि पेतुः ॥१४॥श्रीवृक्षपर्णानि च दैवयोगात्जातं च सर्वं शिवपूजनं तत् ॥१५॥गंडूषकारिणा तेन स्नपनं च महत्कृतम्अज्ञानिना च तेनैव पुष्कसेन दुरात्मना ॥१६॥माघमासे सिते पक्षे चतुर्दश्यां विधूदयेपुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः ॥१७॥तस्य भार्या प्रचंडा च आगता तस्य सन्निधौनिराशा च निराहारा यत्रासौ पुष्कसः स्थितः ॥१८॥न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वाअशनार्थं च तस्यैव अन्नमादाय भामिनी ॥१९॥तेन दृष्टा प्रचंडा सा आयांती क्रूरलोचनासा तस्य भार्या नद्यां वै जलमध्ये पपात ह ॥२०॥तावत्तयोक्तश्चंडात्मा एहि शीघ्रं च भक्षयसमानीतं त्वदर्थं च मत्स्यमांसं मयाधुना ॥२१॥कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यतेनाशितं च त्वया मूढ कुटुंबं लंघते तव ॥२२॥एतच्छ्रुत्वा तु वचनं चंडायाश्चंडरूपवान्शिवरात्र्युपवासेन रात्रौ जागरणेन च ॥२३॥शुद्धांतःकरणो जातः स्नातुं नद्यां शुचिव्रतःयावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः ॥२४॥शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरिचंडा प्रकुपिता तं च श्वानं हंतुमुपस्थिता ॥२५॥निवारिता हि चंडेन चंडा प्रकुपिता तदान हंतव्यस्त्वया चैष किमनेनाशुभं कृतम् ॥२६॥तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मनाकिं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः ॥२७॥पुष्कस उवाचयच्छुना भक्षितं चान्नं तेनाहं परितोषितःकिमनेन शरीरेण नश्वरेण गतायुषा ॥२८॥ये पुष्यंति शरीरं वै सर्वभावेन भामिनिमूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः ॥२९॥तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम्स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव ॥३०॥अहमेतच्छरीरं वै खङ्गधारव्रतेन चत्यक्ष्याम्यद्य वरारोहे किं चिरंजीवनेन मे ॥३१॥इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम्आगताश्च गणास्तावद्बहवः शिवनोदिताः ॥३२॥विमानानि बहून्यत्र आगतानि तदंतिकेदृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा ॥३३॥उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रतिकस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः ॥३४॥सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराःकपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः ॥३५॥श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं ममपुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः ॥३६॥गणा ऊचुःप्रेषितास्मो वयं चंड शिवेन परमेष्ठिनाआगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह ॥३७॥लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य चतेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम् ॥३८॥तथोक्तो वीरभद्रेण उवाच प्रहसन्निवकिं मया सुकृतं चीर्णं पापिना पुष्कसेन हि ॥३९॥मृगयारसिकेनैव मूढेन च दुरात्मनापापाचारोह्यहं नित्यं कथं स्वर्गे वसाम्यहम् ॥४०॥कथं लिगार्चनं चाद्या कृतमस्ति तदुच्यताम्परं कौतुकमापन्नः पृच्छामि कृपया वद ॥४१॥वीरभद्र उवाचदेवदेवो महादेवो यो गंगाधरसंज्ञकःपरितुष्टोऽद्य ते चंड सभार्यस्य उमापतिः ॥४२॥प्रासंगिकं त्वया चाद्य कृतमर्चनमेव चकोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ॥४३॥छेदितानि त्वया चंड पतितानि तदैव हिलिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो ॥४४॥तवैवं जागरो जातो महावृक्षोपरि ध्रुवम्तेनैव जागरेणैव तुतोष जगदीश्वरः ॥४५॥छलेनैव महाभाग कोलसंदर्शनेन हिशिवरात्रिदिनं व्याध प्रसंगेनाप्युपोषितम् ॥४६॥तेनोपवासेन च जागरेणतुष्टो ह्यसौ देववरो महात्मातव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च ॥४७॥एवमुक्तस्तदा तेन वीरभद्रेण धीमतापुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम् ॥४८॥गणानां देवतानां च सर्वेषां प्राणिनामपितदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥४९॥वीणावेणुमृदंगानि लास्यनाट्य युतानि चजगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥५०॥चामरैर्विज्यमानो हि छत्रैश्च विविधैरपिमहोत्सवेन महता ह्यानीतः शिवसन्निधौ ॥५१॥पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नान शिवार्चनात्किं पुनः श्रद्धया भक्त्या शिवाय परमात्माने ॥५२॥पुष्पादिकं फलं गंधं तांबूलाक्षतमेव चये प्रयच्छंति लोकेऽस्मिंस्ते रुद्रा नात्र संशयः ॥५३॥महादेव उवाचतदाप्रभृति तत्तीर्थं खङ्गधारेति विश्रुतम्एतत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि ॥५४॥माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतःस्नानं येन प्रकुर्वंति मुक्तास्ते नगनंदिनि ॥५५॥वसिष्ठो वामदेवश्च भरद्वाजोऽथ गौतमःस्नानार्थे वै समायांति देवं द्रष्टुं पिनाकिनम् ॥५६॥त्रियुगे वर्त्तते लिंगं कलौ नैव तु पार्वतिविश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा ॥५७॥पार्वत्युवाचकथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वरतदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः ॥५८॥महादेव उवाचएकस्मिन्समये देवि विश्वामित्रो महातपाःआगतः खङ्गधारेऽस्मिंस्तीर्थे वै परमाद्भुते ॥५९॥साभ्रमत्यां कृतस्नानो दर्शनं कृतवान्ममतत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकधा ॥६०॥तत्र कोऽपि महादुष्टः कौलिकः पापरुपधृक्मांसं दत्तं तदा तेन शिवस्योपरि भामिनि ॥६१॥दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनःअब्रवीच्च तदा तत्र दुष्कृतं पापिना कृतम् ॥६२॥न दत्तस्तस्य दंडो हि शर्वेण परमात्मनातस्मादहं हि निश्चित्य शापं दास्ये न संशयः ॥६३॥विचार्यैवं तदा तेन शप्तोऽहं देवि वै तदा ॥६४॥अस्मिन्कलियुगे घोरे गुप्तस्त्वं भव सर्वथाइति दत्वाथ वै शापं गतवान्मुनिसत्तमः ॥६५॥तदा प्रभृति भो देवि गुप्तोऽहं ऋषिशापतःममस्थाने विशेषेण पूजनं कुरुते यदि ॥६६॥तेषां हि दुरितं यच्च नश्यते तत्क्षणादपिमृन्मयीं मामकीं मूर्तिं कृत्वा ये पूजयंति वै ॥६७॥अत्र स्थाने विशेषेण मामके तु वसंति हिखङ्गधारेश्वर इति नाम्ना ख्यातः कलौयुगे ॥६८॥कृते वै मंदिरं नाम त्रेतायां गौरवः स्मृतःद्वापरे विश्वविख्यातः कलौ खङ्गेश्वरः स्मृतः ॥६९॥दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरिइति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः ॥७०॥पूजनं कुरुते नित्यं वांछितं फलमाप्नुयात्धर्मार्थकाममोक्षांश्च लभते मानवो भुवि ॥७१॥धूपं दीपं च नैवेद्यं तथा वै चंदनादिकम्येऽर्पयंति हि देवेशि लोकनाथे महेश्वरिन दुःखं तु भवेत्तेषां सत्यं सत्यं वरानने ॥७२॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्रसंहितायामुउत्तरखंडे धारेश्वरमाहात्म्यं नाम चतुष्पंचाशदधिकशततमोऽध्यायः ॥१५४॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP