संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ६४

उत्तरखण्डः - अध्यायः ६४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
चातुर्मास्यां तु नियमा ये केचिद्भुवि विश्रुताः
तानहं श्रोतुमिच्छामि कथयस्व महेश्वर ॥१॥
चातुर्मास्ये हरौ सुप्ते कर्त्तव्यं किं जनार्दने
षड्रसानां परित्यागे नखकेशविधारणे
अन्यैश्च नियमैः स्वामिन्यत्फलं तद् ब्रवीहि मे ॥२॥
सूत उवाच-
एतच्छ्रुत्वा त्वसौ देवः प्रहस्योत्फुल्ललोचनः
प्रोवाच तं द्विजवरं नारदं तपसान्निधिम् ॥३॥
महादेव उवाच-
शृणु त्वमिह देवर्षे कथयामि सविस्तरम्
आषाढस्य सिते पक्षे एकादश्यामुपोषितः ॥४॥
चातुर्मास्यव्रतानीह गृह्णीयाद्भक्तिपूर्वकम्
भूमिशय्यासमारूढो योगनिद्रां गते हरौ ॥५॥
नयेत चतुरो मासान्यावद्भवति कार्तिकी
प्रतिष्ठा न प्रवर्त्तंते तथा यज्ञादिकाः क्रियाः ॥६॥
विवाहव्रतसंबंध अन्यन्माङ्गल्यकर्म च
भूपयानं तथा यात्रा अन्याश्च विविधाः क्रियाः ॥७॥
प्रसुप्ते च जगन्नाथे अच्युते गरुडध्वजे
व्रतक्रियां चरेद्यस्तु तस्य व्रतफलं शृणु ॥८॥
अश्वमेधसहस्रैस्तु यत्फलं प्राप्नुयान्नरः
चातुर्मास्यव्रतैश्चीर्णैस्तत्फलं समवाप्नुयात् ॥९॥
मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनम्
तुलाराशौ गते सूर्ये पुनरुत्थापयेद्धरिम् ॥१०॥
अधिमासे तु पतिते तदा चैष विधिक्रमः
स्थापयेत्प्रतिमां विष्णोः शंखचक्रगदाधरीम् ॥११॥
पीतांबरधरां सौम्यां पर्यंके स्थापयेत्शुचौ
श्वेतवस्त्रसमाच्छन्ने सोपधाने तु नारद ॥१२॥
इतिहासपुराणज्ञो विष्णुभक्तोऽथवा पुनः
स्नापयित्वा दधिक्षीरमधुलाजघृतस्तथा ॥१३॥
समालभ्य शुभैर्गंधैर्धूपैः पुष्पैर्मनोरमैः
पूजितां कुसुमैः शुभ्रैर्मंत्रेणानेन वाडव ॥१४॥
सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम्
विबुद्धे त्वयि बुध्येत जगत्सर्वं चराचरम् ॥१५॥
एवं तां प्रतिमां विष्णोः स्थापयित्वा तु नारद
तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमं ततः ॥१६॥
स्त्री वा नरो वा तद्भक्तो धर्माधर्मविभागतः
चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि ॥१७॥
गृह्णीयान्नियमानेतान्दंतधावनपूर्वकम्
उपवासं ततः कृत्वा प्रभाते विमले सति ॥१८॥
नित्यं कर्म चरित्वा तु विष्णोरग्रे जितात्मवान्
तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक्पृथक् ॥१९॥
मधुरत्वं लभेद्विद्वान्पुरुषो गुडवर्जनात्
तथैव संततिं दीर्घां तैलस्य वर्जनाद्यतः ॥२०॥
घृतस्य वर्जनाद्विप्र सुंदरांगः प्रजायते
कटुतैलपरित्यागी शत्रुनाशमवाप्नुयात् ॥२१
सुगंधतैलत्यागेन सौभाग्यमतुलं लभेत्
पुष्पभोगपरित्यागी स्वर्गे विद्याधरो भवेत् ॥२२॥
योगाभ्यासी नरो यस्तु स ब्रह्मपदमाप्नुयात्
कट्वम्लमधुरक्षारतीक्ष्णकाषाय षड्रसान् ॥२३॥
वर्जयेद्यस्तु वैरूप्यं दौर्गंध्यं नाप्नुयान्नरः
तांबूलवर्जनाद्भोगी रक्तकंठस्तु जायते ॥२४॥
घृतत्यागाच्च लावण्यं सदा स्निग्धतनुर्भवेत्
फलत्यागाच्च विपेंद्र बहुपुत्रश्च जायते ॥२५॥
पलाशपत्राशनकृद्रूपवान्भोगवान्भवेत्
दीप्तिमान्दीप्तिकरणः साक्षाद्द्रव्यपतिर्भवेत् ॥२६॥
दधिदुग्धपरित्यागी गोलोकं लभते नरः
मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् ॥२७॥
इंद्रासनमवाप्नोति स्थालीपाकस्य वर्जनात्
एवमादि परित्यागाद्धर्मस्थो धर्मनंदनः ॥२८॥
नमोनारायणायेति जप्त्वा शतगुणं फलम्
एक एव स वै स्वर्गे विद्याधरपतिर्भवेत् ॥२९॥
पुष्करस्नानमात्रेण गंगायाः स्नानजं फलम् ॥३०॥
भूमौ भुंक्ते सदा यस्तु स पृथिव्यधिपो भवेत्
विष्णोश्चैव गृहे कुर्यादुपलेपनमार्जनम् ॥३१॥
कल्पस्थायी भवेद्विद्वन्वैकुंठे नात्र संशयः
प्रदक्षिणं च यः कुर्याच्छतमष्टोत्तरं नरः ॥३२॥
हंसयुक्तविमानेन दिव्येन सह गच्छति
गीतवाद्यकरो विष्णोर्गांधर्वं लोकमाप्नुयात् ॥३३॥
पंचगव्याशनो विद्वन्चांद्रायणफलं लभेत्
नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधयेत् ॥३४॥
स व्यासरूपी विष्ण्वग्रे ततो विष्णुपदं लभेत्
तुलसीदलपूजां तु कृत्वा विष्णुपुरं व्रजेत् ॥३५॥
कृत्वा प्रोक्षणकं दिव्यं स्थानमप्सरसां लभेत्
शीतांबुना गृहे स्नानात्निर्मलं देहमाप्नुयात् ॥३६॥
उष्णोदकं परित्यज्य स्नानं वै पौष्करं लभेत्
पत्रेषु यो नरो भुंक्ते कुरुक्षेत्रफलं लभेत् ॥३७॥
भुंक्ते शिलायां यो नित्यं तस्य पुण्यं प्रयागजम्
धर्मोदयजलत्यागी न रोगैः परिभूयते ॥३८॥
ताम्रपात्रेषु भुंजानो नैमिषं फलमाप्रुयात्
कांस्यपात्रं परित्यज्य शेषपात्रमुपाचरेत् ॥३९॥
अलाभे सर्वपात्राणां मृन्मयं पात्रमुत्तमम्
स्वगृहीतैः कृतैर्वापि पात्रैः पालाशसंभवैः ॥४०॥
यस्तु संवत्सरं पूर्ण अग्निहोत्रमुपासते
पात्रैर्वा भोजनं विद्वान्सेवते तत्समं स्मृतम् ॥४१॥
चांद्रायणसमं प्रोक्तं ब्रह्मपात्रेषु भोजने
एकैकं भोजनं विद्वन्ब्रह्मपत्रेषु भुंजतः ॥४२॥
त्रिरात्रेण समं प्रोक्तं महापातकनाशनम्
एकादश्युपवासेन यत्पुण्यं परिकीर्तितम् ॥४३॥
सर्वदानफलं चैव सर्वतीर्थफलं लभेत्
न चापि नरकं पश्येत्पद्मपत्रेषु भोजनात् ॥४४॥
ब्राह्मणो याति वैकुंठेऽन्यो जनः स्वर्गमाप्नुयात्
एष ब्रह्म महावृक्षः पापहा सर्वकामदः ॥४५॥
मध्यमं वर्जितं पत्रं शूद्रजातेर्नृपोत्तम
भुंजन्नरकमाप्नोति यावदिंद्राश्चतुर्दश ॥४६॥
वर्जयेन्मध्यमं पत्रं शेषपत्रेषु भोजनम्
मध्यपत्रे च यः शूद्रो भोजनं कुरुते द्विज ॥४७॥
कपिलां ब्रह्मणे दत्त्वा शुद्धिर्भवति नान्यथा
कपिलां दोहयेद्यस्तु शूद्रो भुंक्ते निजे गृहे ॥४८॥
दशवर्षसहस्राणि विष्ठायां जायते कृमिः
कृमियोनिविनिर्मुक्तः पशुयोनिमवाप्नुयात् ॥४९॥
कपिलं योह्यनड्वाहं शूद्रो भूत्वात्र वाहयेत्
यावंति तस्य रोमाणि तावद्वर्षाणि नारद ॥५०॥
कुंभीपाकेषु पच्येत स नरो नात्र संशयः
अजा चैव गृहे तस्य शूद्रस्य च विशेषतः ॥५१॥
तस्या वै दुग्धपानेन शूद्रो यातीह रौरवम्
ब्राह्मणैः सह व्यापारो यस्य शूद्रस्य दृश्यते ॥५२॥
स विप्रो वेदबाह्यः स्याच्छूद्रः कौलिक उच्यते
व्यापारे प्रेरितो विप्रः शूद्राज्ञां च करोति यः ॥५३॥
यावत्पदानि चलते तावद्भवति नारकी
उदकार्थं तु यो विप्रः शूद्रेण प्रेषितो गृहे ॥५४॥
तदुदकं मद्यतुल्यं पीत्वा वै नरकं व्रजेत्
शूद्रेण सर्वदा नित्यं दानं देयं द्विजन्मने ॥५५॥
तेषां चैव तु वै भक्तिः कर्त्तव्या च विशेषतः
इहलोके सुखं भुक्त्वा परलोकं च गच्छति ॥५६॥
पांचभौतिकमेतद्धि अनर्थकमुदाहृतम्
अतो देयं हि गुरवे यतोऽनंतफलं लभेत् ॥५७॥
अस्मिन्कलियुगे घोरे पापाचारे दुरात्मनः
निंदां कुर्वंति विप्रेंद्र जनानां पुण्यकर्मणाम् ॥५८॥
निंदया लभते दुःखं यावदाभूतसंप्लवम्
नानाधर्माः प्रवर्त्तंते कलौ चैव महामते ॥५९॥
धर्मोऽयं दुर्ल्लभो लोके धर्मकामार्थमोक्षदः
भूमिशायी भवेद्यस्तु नरः कोऽपि महीतले ॥६०॥
दशवर्षसहस्राणि न रोगैः परिपीड्यते
बहुपुत्रो धनैर्युक्तो ह्यकुष्ठी जायते नरः ॥६१॥
नक्तभोजी नरो यस्तु तीर्थयात्राफलं लभेत्
अयाचितेन चाप्नोति वापीकूपक्रिंया फलम् ॥६२॥
वर्जयेद्यस्तु वै द्रोहं प्राणहिंसापराङ्मुखः
अहिंसा परमो धर्म इति वेदेषु गीयते ॥६३॥
दानं दया दम इति सर्वत्र हि श्रुतं मया
तस्मात्सर्वप्रयत्नेन कार्यं वै महतामपि ॥६४॥
गुरवे ये प्रयच्छंति शरीरं पुत्रपौत्रकम्
तत्र दानप्रभावेन विष्णोर्वल्लभतामियात् ॥६५॥
शूद्रेण दीक्षितो यस्तु शूद्रः शूद्रेण दीक्षितः
उभौ तौ पापिनौ प्रोक्तौ यावदाभूतसंप्लवम् ॥६६॥
हिंसामतिं यदादत्ते शूद्रो वै पापसत्तमः
एकविंशतिकुलं तेन नरकं प्रतिपात्यते ॥६७॥
कलौ पाखंडिनः शूद्रा दृश्यंते बहवो भुवि
तेषां संभाषणादेव नरको भवति द्विज ॥६८॥
ब्रह्मज्ञानरता ये च गायत्रीजापिनो द्विज
तेषां दर्शनमात्रेण ब्रह्महत्या दिने दिने ॥६९॥
शंखचक्रधरा विप्रा विष्णुधर्मेषु संमताः
वेदधर्मरता नित्यं पंक्तिपावनपावनाः ॥७०॥
चातुर्मास्यमिदं कर्म कर्त्तव्यं तैः सदा नरैः
किमन्यद्बहुनोक्तेन भूयोभूयश्च वाडव ॥७१॥
ते धन्याः पृथिवी मध्ये नरा ये वैष्णवा भुवि
तेषां कुलं धन्यतमं जातिर्धन्यतमा स्मृता ॥७२॥
मधु भक्षयते यस्तु सुप्ते देवे जनार्दने
महत्पापं भवेत्तस्य वर्जने यच्छृणुष्व तत् ॥७३॥
सर्वयज्ञैश्च विविधैर्यत्फलं तदवाप्नुयात्
दाडिमं मातुलिगं च नालिकेरं च वर्जयेत् ॥७४॥
देवो वैमानिको भूत्वा ह्यंते विष्णुपदं व्रजेत्
वित्तवान्सुभगश्चैव कुले श्रीमति जायते ॥७५॥
यः क्षिपेदेकभक्तेन नरो मासचतुष्टयम्
यावंति च मुहूर्तानि उदितोदितभास्करे ॥७६॥
ताद्वर्षसहस्राणि विष्णुलोके महीयते
व्रीहींश्च यवगोधूमान्वर्जयेद्यस्तु मानवः ॥७७॥
अश्वमेधादिके कृते विधिवद्वै सदक्षिणे
यत्फलं मुनिभिः प्रोक्तं तत्फलं लभते नरः ॥७८॥
धनधान्यसमायुक्तो बहुपुत्रश्च जायते
तुलसीतिलदर्भैश्च ये कुर्वंति च तर्पणम् ॥७९॥
तत्फलं कोटिगुणितं चातुर्मास्ये विशेषतः
यदा सुप्ते हृषीकेशे कुर्याच्चैतत्त्रयान्वितम् ॥८०॥
तेऽपि युगसहस्राणि मोदंते विष्णुसंनिधौ
पदं वा पदमर्द्धं वा ऋचां चार्द्धऋचां तथा ॥८१॥
विष्ण्वग्रे ये प्रगायंति मुक्तास्ते वै न संशयः
मैथुनं वर्जयेद्यस्तु सुप्ते देवे जनार्दने ॥८२॥
एकमन्वंतरं सोऽपि विष्णुलोके महीयते
दधिदुग्धं तथा तक्रं गुडं शाकं तथैव च ॥८३॥
वर्जनादेव भो विप्र मुक्तिभागी न संशयः
स्नानमामलकेनैव ये कुर्वंति च मानवाः ॥८४॥
दिनेदिने महत्पुण्यं प्राप्नुवंति च ते मुने
धात्रीफलं पापहरं प्रवदंति मनीषिणः ॥८५॥
त्रैलोक्यतारणार्थाय निर्मिता ब्राह्मणा पुरा
संध्यामौनं चरेद्यस्तु भुंक्ते मासचतुष्टयम् ॥८६॥
मन्वंतराणि चत्वारि वैकुंठे मोदते पुनः
स्वयंपाकी नरो यस्तु भुंक्ते मासचतुष्टयम् ॥८७॥
दशवर्षसहस्राणि इंद्रलोके महीयते
चतुरो वार्षिकान्मासान्मौनं चैव समाचरेत् ॥८८॥
स च विष्णुपुरं गच्छेद्ब्राह्मं च तदनंतरम्
मौनभोजी नरो यस्तु कदाचिन्नावसीदति ॥८९॥
मौनेन भुंजमानास्तु राक्षसास्त्रिदिवं गताः
कृमिकीटसमायुक्तं पक्वान्नमशुची भवेत् ॥९०॥
गवां मांससमं ज्ञेयमन्नं चापि द्विजोत्तम
तदन्नमशुचि ज्ञेयं ग्रसते मानुषो यदि ॥९१॥
एतद्वै भोजनं प्रोक्तं राक्षसानां प्रियं सदा
तोषितो हि पुरा ब्रह्मा तेन दत्तं महात्मना ॥९२॥
मौनेन भोजयित्वा तु स्वर्गं प्राप्ता न संशयः
संजल्पन्भुंजते यस्तु तेनान्नमशुची भवेत् ॥९३॥
पापं स केवलं भुंक्ते तस्मान्मौनं समाचरेत्
उपवाससमं भोज्यं ज्ञेयं मौनेन नारद ॥९४॥
पंचप्राणाहुतीर्यस्तु मौनभोजी नरोत्तमः
पंच वै पातकान्यस्य नश्यंति नात्र संशयः ॥९५॥
न कुर्यात्संधितं वस्त्रं पितृकर्मणि वाडव
अशुच्यंगे स्थितं चैव वस्त्रं तदशुची भवेत् ॥९६॥
कटिपृष्ठस्थिते वस्त्रे पुरीषं कुरुते तु यः
मूत्रं वा मैथुनं वापि तद्वस्त्रं परिवर्जयेत् ॥९७॥
पितृकर्मविशेषेण वर्जनीयं च वाडव
सर्वदा च मुने प्राज्ञैर्देवार्चा चक्रपाणिनः ॥९८॥
कर्त्तव्या च विशेषेण शुचिभिर्विजितेंद्रियैः
संप्रसुप्ते हृषीकेशे तृणशाककुसुंभिकाः ॥९९॥
संधितानि च वस्त्राणि वर्जितानि प्रयत्नतः
चातुर्मास्ये हरौ सुप्ते यस्तु एतानि वर्जयेत् ॥१००॥
नरकं न तु संगच्छेत्यावदाभूतसंप्लवम्
मद्यं मांसं न भक्षेत शाशकं सौकरं तथा ॥१०१॥
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने
सोऽपि देवत्वमाप्नोति अहिंसानिरतो नरः ॥१०२॥
मिथ्याक्रोधं तथा रौक्ष्यं तथा पर्वसु मैथुनम्
वर्जितं येन विप्रेंद्र सोऽश्वमेधफलं लभेत् ॥१०३॥
ब्रह्मचर्ये प्रजावृद्धिरायुर्वृद्धिस्तथैव च
पुष्पं पत्रं फलं शय्या अभ्यंगं च विलेपनम् ॥१०४॥
वृथादुग्धानि मांसं च मद्यं च परिवर्जयेत्
चातुर्मास्ये हरौ सुप्ते नियतं यद्विवर्जितम् ॥१०५॥
प्रथमं तत्तु दातव्यं ब्राह्मणाय न संशयः
तद्धनं चाक्षयं विद्वन्प्रदत्तं यद्दिवजातये ॥१०६॥
कोटिकोटिगुणं विप्र लभते नात्र संशयः
येनकेनापि विप्रेंद्र नियमेनार्चितो हरिः ॥१०७॥
ददाति विष्णुभवनं नात्र कार्या विचारणा
चातुर्मास्ये हरौ सुप्ते नियमं यो न कारयेत् ॥१०८॥
सोऽपि नरकमाप्नोति तस्य जन्म वृथागतम्
यत्पुमान्कारयेन्नित्यं द्विजोक्तं विधिमुत्तमम् ॥१०९॥
तथोक्तान्नियमांश्चैव स याति परमं पदम्
त्रिवर्गरहितं दानं दत्तं भवति निष्फलम् ॥११०
तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम्
तोषयेन्नियमैर्दानैर्यथाशक्त्या नरोत्तमः ॥१११॥
अकृतस्नानदानं च ब्राह्मणानां च पूजनम्
वृथागतं तु तत्सर्वं यावदिंद्राश्चतुर्दश ॥११२॥
नारद उवाच-
कीदृशं ब्रह्मचर्यं च वद विश्वेश्वर प्रभो
येन चीर्णेन गोविंदः परितुष्टो भवेन्नृणाम् ॥११३॥
महादेव उवाच-
स्वदारनिरतश्चैव ब्रह्मचारी स्मृतो बुधैः
चांडालादधिको विद्वन्यः स्वभार्यां परित्यजेत् ॥११४॥
ऋतावभिगमं कृत्वा ब्रह्मचर्यं विधीयते
परित्यजति यो भार्यां भक्तां दोषविवर्जिताम् ॥११५॥
पापकर्मा नरो लोके भ्रूणहत्यामवाप्नुयात्
अश्वमेधसहस्राणि वाजपेयशतानि च ॥११६॥
एकादश्युपवासस्य कलां नार्हंति षोडशीम्
स्नानं दानं जपो होमः स्वाध्यायं देवतार्चनम् ॥११७॥
चातुर्मास्यकृतं यच्च सर्वं हि चाक्षयं भवेत्
एककालं द्विकालं वा पुराणं शृणुते तु यः ॥११८॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
हरौ सुप्ते विशेषेण हरेर्नामपठन्जपन् ॥११९
तत्फलं कोटिगुणितं लभते द्विजसत्तम
वैष्णवो ब्राह्मणो यस्तु पूजनं यः करोति हि ॥१२०॥
स एव सर्वधर्मात्मा पूज्य एव न संशयः
चातुर्मास्यमिदं पुण्यं पवित्रं पापनाशनम्
श्रुत्वा तु लभते पुण्यं गंगास्नानफलं लभेत् ॥१२१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्र्यां संहितायामुमापतिनारदसंवादे उत्तरखंडे चातुर्मास्यमहिमानाम चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP