संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ७८ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ७८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७८ Translation - भाषांतर महादेव उवाच-अथातः संप्रवक्ष्यामि अपामार्जनमुत्तमम्पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने ॥१॥सर्वेषां रोगदोषाणां नाशनं मंगलप्रदम्तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनंदिनि ॥२॥श्रीदालभ्य उवाच-भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैःकुष्ठग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ॥३॥आभिचारिककृत्याद्या बहुरोगाश्च दारुणाःन भवंति मुनिश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ॥४॥पुलस्त्य उवाच-व्रतोपवासनियमैर्विष्णुर्वै तोषितस्तु यैःते नरा नैव रोगार्त्ता जायंते मुनिसत्तम ॥५॥यैर्न कृतं व्रतं पुण्यं न दानं न तपस्तदान तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ॥६॥ते वै लोकास्तदा ज्ञेया रोगदोषैः प्रपीडिताःआरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ॥७॥तत्तदाप्नोत्यसंदिग्धं विष्णोः सेवी विशेषतःनाधिं प्राप्नोति न व्याधिं न विषग्रहबंधनम् ॥८॥कृत्यास्पर्शभयं नापि तोषिते मधुसूदनेसमस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ॥९॥देवानामप्यधृष्योऽसौ तोषिते च जनार्दनेयः सर्वेषु च भूतेषु यथात्मनि तथापरे ॥१०॥उपवासादिना तेन तोषितो मधुसूदनःतोषिते तत्र जायंते नराः पूर्णमनोरथाः ॥११॥अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तमतेषां च शत्रवो नैव न च रोगाभिचारिकम् ॥१२॥ग्रहरोगादिकं चैव पापकार्यं न जायतेअव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वैरक्षंति सकलापद्भ्यो येन विष्णुरुपासितः ॥१३॥श्रीदालभ्य उवाच-अनाराधितगोविंदा ये नरा दुःखभागिनःतेषां दुःखाभिभूतानां यत्कर्त्तव्यं दयालुभिः ॥१४॥पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम्समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः ॥१५॥श्रीपुलस्त्य उवाच-तद्वक्ष्यामि मुनिश्रेष्ठ समाहितमनाः शृणुरोगदोषाशुभहरं विज्वरादि विनाशनम् ॥१६॥शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा॥हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् ॥१७ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम्विभुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च ॥१८॥नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम्चक्षुषोः पुंडरीकाक्षं तदधो भूधरं न्यसेत् ॥१९॥कपोलयोः कल्किनाथं वामनं कर्णमूलयोःशंखिनं शंखयोर्न्यस्य गोविंदं वदने तथा ॥२०॥मुकुंदं दंतपंक्तौ तु जिह्वायां वाक्पतिं तथारामं हनौ तु विन्यस्य कंठे वैकुंठमेव च ॥२१॥बलघ्नं बाहुमूलाधश्चांसयोः कंसघातिनम्अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये ॥२२॥संकर्षणं करांगुष्ठे गोपमंगुलिपंक्तिषुवक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः ॥२३॥स्तनयोस्त्वनिरुद्धं च दामोदरमथोदरेपद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् ॥२४॥मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम्पीतांबरधरं कट्यामूरुयुग्मे मधोर्द्विषम् ॥२५॥मुरद्विषं पिंडकयोर्जानुयुग्मे जनार्दनम्फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् ॥२६॥पादांगुष्ठे श्रीपतिं च पादाधो धरणीधरम्रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः ॥२७॥मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत्वाराहं तु वसामध्ये सर्वास्थिषु तथाच्युतम् ॥२८॥द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथासर्वांगे यज्ञपुरुषं परमात्मानमात्मनि ॥२९॥एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत्यावन्न व्याहरेत्किंचित्तावद्विष्णुमयः स्थितः ॥३०॥गृहीत्वा तु समूलाग्रान्कुशान्शुद्धान्समाहितःमार्जयेत्सर्वगात्राणि कुशाग्रैरिह शांतिकृत् ॥३१॥विष्णुभक्तो विशेषेण रोगग्रहविषार्दितेविषार्त्तानां रोगिणां च कुर्याच्छांतिमिमां शुभाम् ॥३२॥जायते तेन भो विप्र सर्वरोगप्रणाशनम्ॐनमः श्रीपरमार्थाय पुरुषाय महात्मने ॥३३॥अरूपबहुरूपाय व्यापिने परमात्मनेवाराहं नारसिंहं च वामनं च सुखप्रदम् ॥३४॥ध्यात्वा कृत्वा नमो विष्णोर्नामान्यंगेषु विन्यसेत्निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ॥३५॥गोविंदपद्मनाभाय वासुदेवाय भूभृतेनमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३६॥त्रिविक्रमाय रामाय वैकुंठाय नराय चश्रीवाराहनृसिंहाय वामनाय महात्मने ॥३७॥हयग्रीवाय शुभ्राय हृषीकेश हराशुभम्परोपतापमहितं प्रमुक्तं चाभिचारिकम् ॥३८॥गरस्पर्शमहारोगप्रयोगं जरयाजरनमोऽस्तु वासुदेवाय नमः कृष्णाय खड्गिने ॥३९॥नमः पुष्करनेत्राय केशवायादिचक्रिणेनमः किंजल्कवर्णाग्र्य पीतनिर्मलवाससे ॥४०॥महादेव वपुष्कंध धृतचक्राय चक्रिणेदंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ॥४१॥महायज्ञवराहाय श्रीवल्लभ नमोस्तु तेतप्तहाटककेशांत ज्वलत्पावकलोचनः ॥४२॥वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु तेकश्यपायातिह्स्वाय ऋग्यजुः सामलक्षण ॥४३॥तुभ्यं वामनरूपाय क्रमते गां नमोनमःवाराहाशेषदुःखानि सर्वपापफलानि च ॥४४॥मर्दमर्द महादंष्ट्र मर्दमर्द च तत्फलम्नृसिंहकुलिशस्पर्श दंतप्रांत नखोज्वल ॥४५॥भंजभंज निनादेन दुःखान्यस्यार्त्तिनाशनऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ॥४६॥प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनःएकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम् ॥४७॥चातुर्थिकं तथात्युग्रं तथा वै सततज्वरम्दोषोत्थं सन्निपातोत्थं तथैवागंतुकज्वरम् ॥४८॥शमं नयतु गोविंदो भित्वा छित्वास्य वेदनाम्नेत्रदुःखं शिरोदुःखं दुःखं तूदरसंभवम् ॥४९॥अनुच्छ्वासं महाश्वासं परितापं सवेपथुम्गुदघ्राणांघ्रिरोगांश्च कुष्ठरोगं तथाक्षयम् ॥५०॥कामलादींस्तथारोगान्प्रमेहादींश्च दारुणान्ये वातप्रभवा रोगा लूताविस्फोटकादयः ॥५१॥ते सर्वे विलयं यांतु वासुदेवापमार्जिताःविलयं यांति ते सर्वे विष्णोरुच्चारणेन वा ॥५२॥क्षयं गच्छंतु चाशेषास्ते चक्राभिहता हरेःअच्युतानंतगोविंद नामोच्चारणभेषजात् ॥५३॥नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम्स्थावरं जंगमं यच्च कृत्रिमं चापि यद्विषम् ॥५४॥दंतोद्भवं नखोद्भूतमाकाशप्रभवं च यत्भूतादिप्रभवं यच्च विषमत्यंतदुःसहम् ॥५५॥शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनःग्रहान्प्रेतग्रहांश्चैव तथान्याञ्छाकिनीग्रहान् ॥५६॥मुखमंडलिकान्क्रूरान्रेवतीं वृद्धिरेवतीम्वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ॥५७॥बालस्य विष्णोश्चरितं हंतु बालग्रहानपिवृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ॥५८॥नृसिंहदर्शनादेव नश्यंते तत्क्षणादपिदंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ॥५९॥तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यांति विशेषतःश्रीनृसिंहमहासिंहज्वालामालोज्ज्वलानन ॥६०॥ग्रहानशेषान्सर्वेश नुदस्वास्य विलोचनये रोगा ये महोत्पाता ये द्विषो ये महाग्रहाः ॥६१॥यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाःशस्त्रक्षतेषु ये रोगा ज्वालगर्दभिकादयः ॥६२॥विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताःत्रैलोक्यरक्षाकर्त्तस्त्वं दुष्टदानववारण ॥६३॥सुदर्शनमहातेजश्छिंधि छिंधि महाज्वरम्छिंधि वातं च लूतां च छिंधि घोरं महाविषम् ॥६४॥उद्दंडामरशूलं च विषज्वालासगर्दभम्ॐ हांहांहूंहूं प्रधारेण कुठारेण हनद्दिवषः ॥६५॥ॐ नमो भगवते सुदर्शनाय दुःखदारणविग्रहयानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ॥६६॥तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनःकिंचिद्रूपं समास्थाय वासुदेव नमोस्तु ते ॥६७॥क्षिप्त्वा सुदर्शनं चक्रं ज्वालमालाविभीषणम्सर्वदुष्टोपशमनं कुरु देव वराच्युत ॥६८॥सुदर्शनमहाचक्र गोविंदस्य वरायुधतीक्ष्णधार महावेग सूर्यकोटिसमद्युते ॥६९॥सुदर्शनमहाज्वाल छिंधि छिंधि महारवसर्वदुःखानि रक्षांसि पापानि च विभीषण ॥७०॥दुरितं हन चारोग्यं कुरु त्वं भो सुदर्शनप्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ॥७१॥रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैःभूम्यांतरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतःरक्षां करोतु भगवान्बहुरूपी जनार्दनः ॥७२॥यथा विष्णुमयं सर्वं सदेवासुरमानुषम्तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ॥७३॥यथा योगेश्वरो विष्णुः सर्वदेवेषु गीयतेतेन सत्येन सकलं दुःखमस्य प्रणश्यतु ॥७४॥परमात्मा यथा विष्णुर्वेदांगेषु च गीयतेतेन सत्येन विश्वात्मा सुखदोऽस्त्वस्य केशवः ॥७५॥शांतिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम्वासुदेवशरीरोत्थैः कुशैः संमार्जितं मया ॥७६॥अपामार्जितगोविंद नमो नारायणस्तथातथापि सर्वदुःखानां प्रशमो वचनाद्धरेः ॥७७॥शांताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि चभूतानि च प्रशाम्यंति संस्मृते मधुसूदने ॥७८॥एते कुशा विष्णुशरीरसंभवा जनार्दनोऽहं स्वयमेव चाग्रतःहतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः ॥७९॥शांतिरस्तु शिवं चास्तु प्रणश्यतु सुखं च यत्यदस्य दुरितं किंचित्क्षिप्तं तल्लवणांभसि ॥८०॥स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात्यद्यतोऽत्रागतं पापं तत्तु तत्र प्रगच्छतु ॥८१॥एतद्रोगेषु पीडासु जंतूनां हितमिच्छुभिःविष्णुभक्तैश्च कर्त्तव्यमपामार्जनकं परम् ॥८२॥अनेन सर्वदुःखानि विलयं यांत्यशेषतःसर्वपापविशुध्यर्थं विष्णोश्चैवापमार्जनम् ॥८३॥आर्द्रं शुष्कं लघुस्थूलं ब्रह्महत्यादिकं तु यत्तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ॥८४॥नश्यंति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथाग्रहभूतपिशाचादि श्रवणादेव नश्यतु ॥८५॥द्रव्यार्थं लोभपरमैर्न कर्त्तव्यं कदाचनकृतेपामार्जने किंचिन्न ग्राह्यं हितकाम्यया ॥८६॥निरपेक्षैः प्रकर्तव्यमादिमध्यांतबोधकैःविष्णुभक्तैः सदा शांतैरन्यथा सिद्धिदं भवेत् ॥८७॥अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम्भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ॥८८॥उक्तं हि ब्रह्मणा पूर्वं पुलस्त्याय सुताय वैएतत्पुलस्त्यमुनिदालभ्यायोतं स्वयम् ॥८९॥सर्वभूतहितार्थाय दालभ्येन प्रकाशितम्त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ॥९०॥तवाग्रे कथितं देवि यतो भक्तासि मे सदाश्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ॥९१॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे अपामार्जनस्तोत्रंनाम अष्टसप्ततितमोऽध्यायः ॥७८॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP