संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २१८

उत्तरखण्डः - अध्यायः २१८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
भूयः शृणु महाभाग माहात्म्यं परमाद्भुतम्
अत्रस्थितस्य तीर्थस्य पुष्करस्य शिवप्रदम् ॥१॥
प्रसादात्तस्य तीर्थस्य विष्णुः सर्वसुरेश्वरः
प्रसन्नं पुंडरीकस्य मासमेकं गृहे वसेत्
अत्र मुक्तिं तदनुजो लेभे पापरतोऽपि हि ॥२॥
शिबिरुवाच-
कः पुंडरीको धर्मात्मा कृतं तेन च कर्म्म किम्
येन प्रसन्नो भगवांस्तद्गृहे मासमावसत् ॥३॥
कथं तदनुजः प्राप पापात्मा श्रीहरेः पदम्
तीर्थस्यास्य प्रसादेन सर्वमाख्याहि मे मुने ॥४॥
शृण्वतोऽस्य न संतोषो माहात्म्यं मम जायते ॥५॥
नारद उवाच-
विदर्भनगरे राजन्मालवाख्ये महायशाः
ब्राह्मणो ब्रह्मविच्छांतो विद्वान्विष्णुपरायणः ॥६॥
देवर्षिपितृभूतानां मानुषाणां च पोषकः
विषयेषु न संसक्तो लोभमोहादिवर्जितः ॥७॥
स एकदा महाभाग सिंहं प्राप्ते बृहस्पतौ
गोदावरीं महापुण्यां स्नातुं प्रतिजगाम ह ॥८॥
दातुं तत्र सुवर्णस्य गृहान्निन्ये पलायुतम्
गच्छन्पथि स धर्मात्मा मनसैतदचिंतयत् ॥९॥
मालव उवाच-
गृहाद्दानार्थमानीतं मया हेमपलायुतम्
यस्मै कस्मै न दातव्यं दातव्यं पूज्य साधवे ॥१०॥
निष्किंचनाय विप्राय पात्रायानुपकारिणे
पूज्याय देशे काले च दत्तमक्षयतां व्रजेत् ॥११॥
उञ्छवृत्त्या समानीतं दत्त्वा दुर्वाससे मुनिः
शिलोंच्छवृत्तिर्धर्मात्मा स्वं त्यक्त्वा गात्परं पदम् ॥१२॥
दानवेंद्रो बली राजा पात्रं विज्ञाय वामनम्
विपक्षायाप्यदात्तस्मै त्रिलोकीं स्वभुजार्जिताम् ॥१३॥
तस्मात्पात्राय दातव्यं धनं धर्म्माजितं मया
गोविंदतुष्टये सम्यक्वांच्छनीयं न तत्फलम् ॥१४॥
पुंडरीकस्तु धर्मात्मा भागिनेयो गजाह्वयात्
आयास्यति मयाहूतः सर्वपात्रशिरोमणिः ॥१५॥
आनीतस्य धनस्यार्द्धं तस्मै पात्राय सूनवे
स्वसुर्द्दास्यामि शेषं तु श्रोत्रियेभ्यो यथाविधि ॥१६॥
नारद उवाच-
एवं विचिंत्य धर्मात्मा मालवं स द्विजोत्तमः
कतिचिद्वासरैः प्राप्तः पुण्यां गोदावरीं नृप ॥१७॥
मिलितस्तस्य धर्मात्मा पुंडरीकः स्वसुः सुतः
तस्य वै पूर्वमायातो मालवस्य महीपते ॥१८॥
स तत्र विधिना स्नात्वा सिंहसंक्रमवासरे
पुंडरीकाय वित्तार्द्धं ददौ मे प्रीयतां हरिः ॥१९॥
पुंडरीकोऽपि धर्मात्मा स्नात्वा गोदावरीजले
स्ववित्तस्य चतुर्थांशं श्रोत्रियेभ्यो ददौ मुदा ॥२०॥
स तत्र विधिवत्स्नात्त्वा दत्वा दानं च शक्तितः
गच्छंतं स्वगृहान्राजन्नित्युवाच स्वसुः सुतम् ॥२१॥
मालव उवाच-
गुरून्प्रति नमस्कारो वाच्यो आशीर्लघून्प्रति
यथावयोर्हि संयोगः क्षणिकोऽयं बभूव ह ॥२२॥
एवं हि सर्वजंतूनां पुत्रदारादिभिः सह
तस्मात्क्षणिकसंयोगात्संसाराद्यः सुधीर्नरः ॥२३॥
विरज्येत कृपापात्रं स हरे स्याद्विनिश्चितम्
कृपातः श्रीहरेः प्राणी सत्संगमरतो भवेत् ॥२४॥
तस्तस्य हरेर्लीलाश्रवणेच्छा हि जायते
श्रुत्वा च कीर्तिता सद्भिर्हरिलीला अपि स्वयम् ॥२५॥
सुस्पृहं कीर्त्तयत्येव ततः स्मरति केवलम्
ततस्तस्य भवेत्प्रेमगोविंदपदसेवने ॥२६॥
नरस्ततस्तरत्याशु पोतेनेव महार्णवम्
एतदर्थं हि साधूनां ज्ञानिनां कर्मणां तथा
यत्नो भवति धर्मात्मन्नपि त्वं यत्नवान्भव ॥२७॥
नारद उवाच-
एवमुक्त्वा स वैदर्भः सुतं कथमपि स्वसुः
विसृज्याश्रुमुखो वाष्पपर्याकुलदृशं ययौ ॥२८॥
पुंडरीकोऽपि धर्मात्मा चचाल स्वगृहं प्रति
कतिभिर्वासरै राजन्नागतोऽत्र शुभास्पदे ॥२९॥
भरताख्यं कनीयांसं भ्रातरं पतितं भुवि
श्वसंतं क्षतनिर्गच्छद्रुधिराक्तमवैक्षत ॥३०॥
पप्रच्छ च रुदन्नुर्च्च्भ्रातः केनेदृशीं दशाम्
गमितोसि किमर्थं वा गृहादिह समागतः ॥३१॥
इति पृच्छति राजेंद्र पुंडरीके सपीडया
महत्या भरतः सद्यः पीडितोसूनमुंचत ॥३२॥
अवातरत्तदा यानमेकं सगणमद्भुतम्
आकाशात्पश्यतां भूप जनानां तद्गुरोरपि ॥३३॥
तदारुह्य स दिव्यांगो भरतः पापकार्यपि
उवाच वचनं ज्येष्ठं भ्रातरं विनमन्निदम् ॥३४॥
भरतोवाच-
पुंडरीक महाबुद्धे तीर्थस्यास्य प्रसादतः
पुष्करस्य मया प्राप्ता पापिनापि दिवि स्थितिः ॥३५॥
मदीयं दारुणं कर्म भ्रातर्जानासि यद्यपि
तथापि कथयाम्यद्य किंचिदज्ञातमस्ति ते ॥३६॥
यथा मया प्रभावत्या वेश्यया रमितं सह
तद्गृहं व्ययितं भूरि धनं च मदिराकृते ॥३७॥
द्यूतेन हारितं यच्च चौरकर्मसमार्जितम्
शिवरात्र्यां मया शंभुनिर्माल्यं यच्च भक्षितम् ॥३८॥
यत्कृते भवता विप्रो जेबुको नाम दूषितः
एतन्मया कृतं कर्म्म विदितं पुंडरीक ते ॥३९॥
गोदावरीं गते भ्रातस्त्वयि यत्कृतवानहं
न तत्ते विदितं कर्म कथयामि तदप्यहो ॥४०॥
चलितेत्वय्यतिक्रांतोयदापक्षस्तदाह्यहम्
श्रुतवानिति लोकेभ्यो वचनं हरिदुःसहम् ॥४१॥
पुंडरीको धनं दातुमाहूतो मातुलेन हि
निजसोदरमाहत्य पुंडरीकं तदा हृतम् ॥४२॥
गृहीष्यामि धनं भूरि मालवेन समर्पितम्
महता वसुना तेन तोषयामि प्रभावतीम् ॥४३॥
दुरोदरेण क्रीडामि स्वेच्छया तद्विदैः सह
इत्यालोच्य त्वदध्वानं निरुध्याहमिह स्थितः ॥४४॥
हत्वा त्वां च धनं भूरि गृहीतुं च महामते
अतिक्रांते धने भ्रातः कुतश्चित्सार्थमागतः ॥४५॥
वणिजामत्र सुप्तोऽहं रात्रौ तत्र महामते
अथ कश्चिन्निशीथे तु तस्करो वणिजां धनम् ॥४६॥
हर्तुं तत्र समाविष्टः सार्थे जनसमाकुले
नीत्वा यदा धनं किंचित्स चौरस्तु पलायितः
तमन्वधावन्सहसा क्रोशंत इव सेवकाः ॥४७॥
सेवका ऊचुः
गृह्यतां गृह्यतामेष चौरोऽयं याति सत्वरम्
मध्याद्बहूनामस्माकमपहृत्य धनं बहु ॥४८॥
भरत उवाच-
इत्याकर्ण्य वचस्तेषां पुरतस्तु तमन्वहम्
अधावं सहसा भ्रातस्तद्गृहीतुं जिहीर्षया ॥४९॥
ततस्ते वणिजां भृत्या ज्ञात्वा मां तस्य रक्षकम्
प्रजहुस्तरसा सर्वे सखड्गं खड्गपाणयः ॥५०॥
तेषु कश्चिद्द्विजश्रेष्ठो ब्राह्मणोऽहमिति ब्रुवन्
खड्गेन शितधारेण मया पापीयसा हतः ॥५१॥
वणिजां सेवकैस्तैस्तु खड्गधारैरहं हतः
गतास्ते वणिजः प्रातर्निजगंतव्यनीवृतम् ॥५२॥
ततो भवानिह प्राप्तः श्वसंतं मां ददर्श ह
चलद्रुधिरलिप्तांगं पीडामोहविचेतनम् ॥५३॥
इत्येतत्कथितं भ्रातर्यदर्थमहमागतः
अपमृत्युं यथा प्राप्तस्तच्चापि कथितं मया ॥५४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कालिंदीमाहात्म्येऽष्टादशाधिकद्विशततमोऽध्यायः ॥२१८॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP