संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ४५

उत्तरखण्डः - अध्यायः ४५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीकृष्ण उवाच-
माहात्म्यं विजयायाश्च श्रुतं कृष्ण महत्फलम्
फाल्गुनस्यार्जुने पक्षे यन्नाम्नी तां वदाधुना ॥१॥
श्रीकृष्ण उवाच-
धर्मपुत्र महाभाग शृणु वक्ष्यामितेऽधुना
योक्ता पृष्टेन मांधात्रा वसिष्ठेन महात्मना ॥२॥
फाल्गुनस्य विशेषेण विशेषः कथितो नृप
आमलकीव्रतं पुण्यं विष्णुलोकफलप्रदम् ॥३॥
आमलक्यास्तले गत्वा जागरं तत्र कारयेत्
कृत्वा जागरणं रात्रौ गोसहस्रफलं लभेत् ॥४॥
मांधातोवाच -
आमलकी कदा ह्येषा उत्पन्ना द्विजसत्तम
एतत्सर्वं ममाचक्ष्व परं कौतूहलं हि मे ॥५॥
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी
कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेत् ॥६॥
वसिष्ठ उवाच-
कथयामि महाभाग यथेयमभवत्क्षितौ
आमलकी महावृक्षः सर्वपापप्रणाशनः ॥७॥
एकार्णवे पुरा जाते नष्टे स्थावरजंगमे
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ॥८॥
तत्र देवादिदेवेशः परमात्मा सनातनः
जगाम ब्रह्मपरममात्मनः पदमव्ययम् ॥९॥
ततोऽस्य जाग्रतो ब्रह्ममुखाच्छशिसमप्रभः
ष्ठीवनाद्बिंदुरुत्पन्नः स भूमौ निपपात ह ॥१०॥
तस्माद्बिंदोः समुत्पन्नः स्वयं धात्री नगो महान्
शाखाप्रशाखाबहुलः फलभारेण नामितः ॥११॥
सर्वेषां चैव वृक्षाणामादिरोहः प्रकीर्तितः
ब्रह्मणाथ ततः पश्चात्संसृष्टाश्च इमाः प्रजाः ॥१२॥
देवदानवगंधर्वयक्षराक्षसपन्नगान्
असृजद्भगवान्देवो महर्षींश्च तथामलान् ॥१३॥
आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया
तां दृष्ट्वा ते महाभाग परं विस्मयमागताः ॥१४॥
न जानीम इमं वृक्षं चिंतयंतोऽभिसंस्थिताः
एवं चिंतयतां तेषां वागुवाचाशरीरिणी ॥१५॥
आमलकी नगो ह्येष प्रवरो वैष्णवो मतः
अस्य संस्मरणादेव लभेद्गोदानजं फलम् ॥१६॥
स्पर्शनाद्द्विगुणं पुण्यं त्रिगुणं धारणात्तथा
तस्मात्सर्वप्रयत्नेन सेव्या आमलकी सदा ॥१७॥
सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी
तस्या मूले स्थितो विष्णुस्तदूर्ध्वे च पितामहः ॥१८॥
स्कंधे च भगवान्रुद्रः संस्थितः परमेश्वरः
शाखासु मुनयः सर्वे प्रशाखासु च देवताः ॥१९॥
पर्णेषु चासते देवाः पुष्पेषु मरुतस्तथा
प्रजानां पतयः सर्वे फलेष्वेव व्यवस्थिताः ॥२०॥
सर्वदेवमयी ह्येषा धात्री च कथिता मया
तस्मात्पूज्यतमा ह्येषा विष्णुभक्तिपरायणैः ॥२१॥
ऋषय ऊचुः -
को भवान्न हि जानीमः कस्मात्कारणतां गतः
देवो वा यदि वा चान्यः कथयस्व यथातथम् ॥२२॥
वागुवाच -
यः कर्ता सर्वभूतानां भुवनानां च सर्वशः
विस्मितान्विदुषः प्रेक्ष्य सोऽहं विष्णुः सनातनः ॥२३॥
तच्छ्रुत्वा देवदेवस्य भाषितं ब्रह्मणः सुताः
अनादिनिधनं देवं स्तोतुं तत्र प्रचक्रमुः ॥२४॥
नमो भूतात्मभूताय आत्मने परमात्मने
अच्युताय नमो नित्यमनंताय नमो नमः ॥२५॥
दामोदराय कवये यज्ञेशाय नमो नमः
एवं स्तुतस्तु ऋषिभिस्तुतोष भगवान्हरिः ॥२६॥
प्रत्युवाच महर्षींस्तानभीष्टं किं ददामि वः
ऋषय ऊचुः
यदि तुष्टोऽसि भगवन्नस्माकं हितकाम्यया ॥२७॥
व्रतं किंचित्समाख्याहि स्वर्गमोक्षफलप्रदम्
धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम् ॥२८॥
अल्पायासं बहुफलं व्रतानामुत्तमं व्रतम्
कृतेन येन देवेश विष्णुलोके महीयते ॥२९॥
विष्णुरुवाच-
फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि
भवेत्सा च महापुण्या महापातकनाशिनी ॥३०॥
विशेषस्तत्र कर्त्तव्यः शृणुध्वं द्विजसत्तमाः
आमलकीं च संप्राप्य जागरं तत्र कारयेत् ॥३१॥
सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेत्
एतद्वः कथितं विप्रा व्रतानां व्रतमुत्तमम्
अर्चयित्वाच्युतं तस्यां विष्णुलोकान्न मुच्यते ॥३२॥
ऋषय ऊचुः -
व्रतस्यास्य विधिं ब्रूहि परिपूर्णं कथं भवेत्
के मंत्राः के नमस्काराः देवता का प्रकीर्तिता ॥३३॥
कथं दानं कथं स्नानं कश्च पूजाविधिः स्मृतः
अर्घार्चनस्य मंत्रं तु कथयस्व यथातथम् ॥३४॥
विष्णुरुवाच-
श्रूयतां यो विधिः सम्यग्व्रतस्यास्य द्विजर्षभाः
एकादश्यां निराहारः स्थित्वा चैव परेऽहनि ॥३५॥
भोक्ष्येऽहं पुंडरीकाक्ष शरणं मे भवाच्युत
इति कृत्वा तु नियमं दंतधावनपूर्वकम् ॥३६॥
नालपेत्पतितांश्चौरांस्तथा पाषंडिनो नरान्
दुर्वृत्तान्भिन्नमर्यादान्गुरुदारप्रधर्षकान् ॥३७॥
अपराह्णे ततः स्नानं विधिना कारयेद्बुधः
नद्यां तडागे कूपे वा गृहे वा नियतात्मवान् ॥३८॥
मृत्तिकालंभनं पूर्वं ततः स्नानं च कारयेत्
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ॥३९॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥४०॥
इति मृत्तिकामंत्रः -
त्वमंबु सर्वभूतानां जीवनं तनुरक्षकम्
स्वेदजोद्भिज्जजातीनां रसानां पतये नमः ॥४१॥
स्नातोऽहं सर्वतीर्थेषु ह्रदप्रस्रवणेषु च
नदीषु देवखातेषु इदं स्नानं तु मे भवेत् ॥४२॥
इति स्नानमंत्रः
जामदग्न्यं मुनिं चैव कारयित्वा हिरण्मयम्
माषकस्य सुवर्णस्य तदर्द्धार्द्धेन वा पुनः ॥४३॥
गृहमागत्य पूजायाः पूजाहोमं तु कारयेत्
ततश्चामलकीं गच्छेत्सर्वोपस्करसंयुतः ॥४४॥
आमलकीं ततो गत्वा परिशोध्य समंततः
स्थापयेत्सततं कुंभमव्रणं मंत्रपूर्वकम् ॥४५॥
पंचरत्नसमोपेतं दिव्यगंधाधिवासितम्
छत्रोपानद्युगोपेतं सितचंदनचर्चितम् ॥४६॥
स्रग्दामलंबितग्रीवं सर्वधूपविधूपितम्
दीपमालाकुलं कुर्यात्सर्वतः सुमनोहरम् ॥४७॥
तस्योपरि न्यसेत्पात्रं दिव्यलाजैः प्रपूरितम्
पात्रोपरि न्यसेद्देवं जामदग्न्यं महाप्रभम् ॥४८॥
विशोकाय नमः पादौ जानुनी विश्वरूपिणे
उग्राय च ततोऽप्यूरू कटी दामोदराय च ॥४९॥
उदरं पद्मनाभाय उरः श्रीवत्सधारिणे
चक्रिणे वामबाहुं च दक्षिणं गदिने नमः ॥५०॥
वैकुंठाय नमः कंठमास्यं यज्ञमुखाय वै
नासां विशोकनिधये वासुदेवाय चाक्षिणी ॥५१॥
ललाटं वामनायेति रामायेति भ्रुवौ नमः
सर्वात्मने तु तच्छीर्षं नम इत्यभिपूजयेत् ॥५२॥
इति पूजामंत्रः
ततो देवाधिदेवाय अर्घं चैव प्रदापयेत्
फलेन चैव शुभ्रेण भक्तियुक्तेन चेतसा ॥५३॥
ततो जागरणं कुर्याद्भक्तियुक्तेन चेतसा
नृत्यैर्गीतैश्च वादित्रैर्द्धर्माख्यानैः स्तवैरपि ॥५४॥
वैष्णवैश्च तथाख्यानैः क्षपयेत्सर्वशर्वरीम्
प्रदक्षिणां ततः कुर्याद्धात्र्या वै विष्णुनामभिः ॥५५॥
अष्टाधिकं शतं चैव अष्टाविंशतिरेव वा
ततः प्रभाते समये कृत्वा नीराजनं हरेः ॥५६॥
ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयेत्
जामदग्न्य घटे तत्र वस्त्रयुग्ममुपानहौ ॥५७॥
जामदग्न्यस्वरूपेण प्रीयतां मम केशवः
ततश्चामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम् ॥५८॥
स्नानं कृत्वा विधानेन ब्राह्मणान्भोजयेत्ततः
ततश्च स्वयमश्नीयात्कुटुंबेन समावृतः ॥५९॥
एवं कृतेन यत्पुण्यं तत्सर्वं कथयामि ते
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥६०॥
सर्वयज्ञाधिकं चैव लभते नात्र संशयः
एतद्वः सर्वमाख्यातं व्रतानामुत्तमं व्रतम् ॥६१॥
एतावदुक्त्वा देवेशस्तत्रैवांतरधीयत
ते चापि ऋषयः सर्वे चक्रुः सर्वमशेषतः ॥६२॥
तथा त्वमपि राजेन्द्र कर्तुमर्हसि सत्तम
व्रतमेतद्दुराधर्षं सर्वपापप्रमोचनम् ॥६३॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे फाल्गुनशुक्लामलक्येकादशीनाम पंचचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP