संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
विषयानुक्रमणिका

उत्तरखण्डः - विषयानुक्रमणिका

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


अथ पाद्मपुराणोत्तरखण्डस्थ विषयानुक्रमणिका

अध्यायः १ - महेशनारदसंवादे धर्मबीजसमुच्चयवर्णनम्। श्लो० ७० ॥

अध्यायः २ - नारदोमापतिसंवादे बदरीनारायणमाहात्म्ये रुद्रप्रसादवर्णनम्। श्लो० १८ ॥

अध्यायः ३ - युधिष्ठिरनारदसंवादे जालंधरोत्पत्तिवर्णनम्, तत्र ब्रह्मण आगमनवर्णनम् । श्लो० ५२ ॥

अध्यायः ४ - जालंधरोपाख्याने वृंदाविवाहः, जालंधरस्याभिषेकवर्णनं च। श्लो० ५२॥

अध्यायः ५ - क्षीरोदधेर्मंथनकारणज्ञानाय जालंधरेण शक्रं प्रति दूतप्रेषणम्, दैत्यसैन्यानां देवसैन्यैः सह युद्धवर्णनम्। श्लो० ९३ ॥

अध्यायः ६ - विष्ण्वादीनां कालनेम्यादिभिः सह द्वंद्वयुद्धम्, इंद्रबलयोर्द्वंद्वयुद्धे इंद्रकृतमु- द्गरप्रहारेण बलदैत्यस्यांगविशरणम्, तेन तदंगेभ्यो रत्नाद्युत्पत्तिः, इंद्रेण बलस्य वधकरणम्, तत्पन्याः प्रभावत्याः पत्याज्ञया नदीरूपप्राप्तिवर्णनम्। श्लो० ४१ ॥ ।

अध्यायः ७ - जालंधरेणैंद्रपराभवकरणम्, विष्णुजालंधरयोर्युद्धम्, विष्णुकृतजालंधरसे नावधः, जालंधरेण द्रोणाचलानयनम्, जालंधरकृतबाण प्रहारेण विष्णोर्मूर्च्छा प्राप्तिः, लक्ष्मीप्रेरणया कृतनमस्कारस्य जालंधरस्य विष्णुना वरदानम्, जालंध- रप्रार्थनया विष्णुना तद्गृहे वासकरणम्। श्लो० ८६ ॥

अध्यायः ८ - जालंधरस्य सकलदेवपराजयपूर्वकं सौराज्यप्रतिष्ठापनम्। श्लो० २६ ॥

अध्यायः ९ - सर्वदेवप्रार्थनया शंकरेण सर्वदेवतेजोमयचक्रनिर्माणम्। श्लो० ३८ ॥

अध्यायः १० - नारदमुखाज्जालंधरेण पार्वतीसौंदर्यं निशम्य शंकरं प्रति राहुदूतप्रेषणम्, राहुणा शंभवे जालंधरसंदेशकथनम्, अत्रांतरे शिवजटाजूटात्कीर्तिमुखगणोत्पत्तिः, राहोः प्रत्यागमनम्। श्लो० ५३ ॥

अध्यायः ११ - जालंधरस्य युद्धार्थयात्रावर्णनम्, नंदिप्रमुखैः शिवगणैर्जालंधरसैन्यपराभव करणम्। श्लो० ६८ ॥

अध्यायः १२ - शुंभादीनां नंद्यादिभिः सह युद्धम्, तत्र नंद्यादीनां पराजयः, शंकरेण दैत्यपराभवकरणम्। श्लो० ६४ ॥

अध्यायः १३ - शिवजालंधरयोर्घोरसंग्रामः, मायाशंकरस्य जालंधरस्य पार्वतीं प्रत्यागमनम्, पार्वत्या सह तस्य संवादः, पार्वतीकृतचिंतावर्णनम्। श्लो० ५१ ॥

अध्यायः १४ - विष्णुना जालंधरकृतपार्वतीच्छलं परिज्ञाय वृंदाहरणविषयकोद्योगकरणम्, स्वप्ने वृंदयाकालीकृतपतिशिरोभक्षणदर्शनम्, दुःस्वप्नदर्शनानुतप्ताया वृंदाया वन- गमनम, तत्र राक्षसदर्शनं च। श्लो० ७१ ॥

अध्यायः १५ - विष्णुना तापसवेषधारणम्, राक्षससकाशाद्वृंदायाः परिमोचनम, व्याधभी- ताया वृंदायास्तापसस्य विष्णोराश्रमगमनम, विप्णुवचनाच्चित्रशालायां वृंदाया गमनम्, मायाजालंधरेण विष्णुना वृंदारतिकरणम्, सुरतान्ते वृंदया विष्णुं ज्ञात्वा तद्भर्त्सनम्, वृन्दया विष्णवे भार्याहरणरूपशापदानम्, वृंदया योगबलेन शरीरत्यागपूर्वकं ब्रह्मपदप्रतिगमनम्, वृंदादेहस्य तत्सख्या दहनकरणम्, वृंदादेहत्यागस्थलस्य वृंदावनत्वप्राप्तिवर्णनम्। श्लो० ७२ ॥

अध्यायः १६ - मायाशिवस्य जालंधरस्य परीक्षार्थं पार्वत्याऽग्रे सखीप्रेषणम्, सखीदर्शना- लिङ्गनमात्रेणैव जालंधरवीर्यच्युतिं सखीमुखाज्ज्ञात्वा नायं शिव इति निश्चित्य पार्वत्याः कमलकोशे प्रवेशः, तत्सखीनां च भृंगरूपेण कमलपरिसरे भ्रमणम् , चंडमुंडप्रेषित रक्तलोचनदूतमुखात्स्वभार्याया वृंदाया विष्णुकृतपातिव्रत्यभंग- वार्ताश्रवणानंतर जालंधरस्य संग्रामं प्रत्यागमनम्। श्लो० ३९ ॥

अध्यायः १७ - जालंधरस्य शंकरेण सह युद्धम्, जालंधरसैनिकानां वीरभद्रादिभिः सह युद्धम्, शुक्रेण मृतदैत्यानां पुनरुज्जीवनम्, शंकरेण कृत्योत्पादनम्, कृत्यया स्वयोनौ शुक्रस्य स्थापनम्। श्लो० ८९ ॥

अध्यायः १८ - दैत्यानां शिवगणैः सह युद्धवर्णनम्, जालंधरेण मायया पार्वतीं निर्माय तस्याः शिवसंमुखे वधकरणाच्छंकरस्य मोहप्राप्तिः, ब्रह्मकृतबोधेन शिवेन दैत्य- मायां विज्ञाय जालंधरस्य वधकरणम्, जालंधरस्य शिवसायुज्यमुक्तिप्राप्तिः, कैलासोत्तरदिशि स्थितस्य नगरस्य जालंधररक्तपातेन शोणितपुरत्वप्राप्तिवर्णनम, शंकरस्याज्ञया योगिनीभिस्तत्पुरपतितमांसभक्षणम, शंकरेण योगिनीनां वरप्रदानम्, जालंधरवधाख्यानश्रवणफलम्, वृंदाप्रसंगेन तुलसीप्रशंसा। श्लो० १५५ ॥

अध्यायः १९ - श्रीशैलमाहात्म्यवर्णनम्। श्लो० १८ ॥

अध्यायः २० - हरिद्वारमाहात्म्यवर्णनम्, तत्र गंगोत्पत्तिकथाप्रसंगेन सगरवृत्तांतवर्णनम्। श्लो० ४२ ॥

अध्यायः २१ - गंगायाः पृथिवीतले गमनवृत्तांतवर्णनपुरःसरं हरिद्वारप्रशंसावर्णनम्। श्लो० २८ ॥

अध्यायः २२ - गंगामाहात्म्यवर्णनम्, तत्र गंगायमुनाप्रयागकाशीस्तोत्राणि, गयाप्रशंसा । श्लो० ४९ ॥
 
अध्यायः २३ - तुलसीशालग्राममाहात्म्यवर्णनम्। श्लो० ४६ ॥

अध्यायः २४ - प्रयागतीर्थमाहात्म्यवर्णनम्। श्लो० २३ ॥

अध्यायः २५ - तुलसीत्रिरात्रव्रतविधिमाहात्म्यवर्णनम्। श्लो० ४३ ॥

अध्यायः २६ - दानेषु मुख्यस्यान्नदानस्य प्रशंसा, अन्नदाने पात्रापात्रनिरीक्षणप्रयोजनम्। श्लो० २१ ॥

अध्यायः २७ - पानीयदानतडागाद्युत्सर्गवृक्षारोपणसत्यतपोऽध्ययनपात्रदानपृथ्व्यादिदानानां प्रशंसा, इतिहासपुराणपठनविधिफलवर्णनं च। श्लो० ५८ ॥

अध्यायः २८ - इतिहासपुराणपठनप्रशंसावर्णने धरापालवृत्तांतवर्णनम्। श्लो० ४३ ॥

अध्यायः २९ - गोपीचन्दनमाहात्म्यम्, तस्य विलेपनविधानवर्णनम्। श्लो० २६ ॥

अध्यायः ३० - कार्त्तिकशुक्लैकादश्यां दीपव्रतविधानवर्णनम्, तत्फलवर्णनं च, तत्र सिद्धाश्रम- स्थकपिलब्राह्मणस्य तद्ग्रहस्थमार्जारस्य च वृत्तांतवर्णनम्। श्लो० ११८ ॥

अध्यायः ३१ - हरिश्चंद्रसनत्कुमारसंवादे जन्माष्टमीव्रतविधानवर्णनम्। श्लो० ४५ ॥

अध्यायः ३२ - पृथ्वीदानवस्त्रदानयोः प्रशंसा, गयागमनप्रशंसा, नीलवृषलक्षणकथनम्, दत्तायाः पृथिव्याः पुनर्हरणे दोषवर्णनम्, हिरण्यार्थेऽसत्यवचने ब्राह्मणधनहरणे च दुर्गतिप्राप्तिः, पात्रे दानस्य प्रशंसा, वाप्यादीनामुत्सर्गे फलम्, जलदानमाहात्म्यम्, भूमिधेनुस्त्रीणां बलाद्ध्रत्वा पुनरदाने ब्रह्महत्याप्राप्तिः, दीपदानस्य फलम्, विवाहयज्ञादिषु विघ्नकरस्य दुर्गतिवर्णनम् फलमूलभक्षणप्रायोपवेशनतः स्वर्गलोका वाप्तिः, नित्यस्नानाग्निप्रवेश रसत्यागोपवासभूमिशयनकराणां तत्तत्फलावाप्तिवर्णनम्। श्लो० ७१ ॥

अध्यायः ३३ - दशरथेन वसिष्ठवचनाद्रथमारुह्य रोहिणीपृष्ठे स्थित्वा शनिसंमुखे संहारास्त्रेयो- जिते सति शनिना दशरथाय वरत्रयप्रदानम्, दशरथेन शनिस्तोत्रकरणम्, शनि- स्तोत्रपठनफलवर्णनम्। श्लो० ५१ ॥

अध्यायः ३४ - माधवजाह्नवीसंवादे त्रिस्पृशैकादशीव्रतविधानम्, तत्र त्रिस्पृशैकादशीलक्षण कथनम्। श्लो० ९५ ॥

अध्यायः ३५ - उन्मीलिन्येकादशीव्रतविधानवर्णनम्। श्लो. ६८ ॥

अध्यायः ३६ - पक्षवर्द्धन्येकादशीव्रतविधानकथनम्। श्लो० ३२ ॥

अध्यायः ३७ - एकादश्यां जागरणस्य फलविधानलक्षणवर्णनम्। श्लो० ९२ ॥

अध्यायः ३८ - जयाविजयाजयंत्येकादशीमाहात्म्यवर्णनम्, मार्गशीर्षकृष्णपक्षे एकादश्युत्पत्तिकथानकवर्णनम्, तत्र मुरदैत्यवधार्थं विष्णुदेहादेकादशीकन्याप्रादुर्भावः, तया मुरदैत्यवधकरणम्, विष्णुना तस्यै वरप्रदानवर्णनम्। श्लो० ११८ ॥

अध्यायः ३९ - मार्गशीर्षशुक्लपक्षमोक्षैदैकादशीमाहात्म्यवर्णनम्। श्लो० ४७ ॥

अध्यायः ४० - पौषकृष्णपक्षसफलैकादशीमाहात्म्यवर्णनम। श्लो० ४९ ॥

अध्यायः ४१ - पौषशुक्लपक्षपुत्रदैकादशीमाहात्म्यवर्णनम्। श्लो० ५३ ॥

अध्यायः ४२ - माघकृष्णपक्षषट्तिलैकादशीमाहात्म्यवर्णनम्। श्लो० ५२ ॥

अध्यायः ४३ - माघशुक्लपक्षजयैकादशीमाहात्म्यवर्णनम्। श्लो० ५४ ॥

अध्यायः ४४ - फाल्गुनकृप्णपक्षविजयामाहात्म्यवर्णनम्। श्लो० ३६ ॥

अध्यायः ४५ - फाल्गुनशुक्लपक्षामलक्येकादशीमाहात्म्यवर्णनम्। श्लो० ६७ ॥

अध्यायः ४६ - चैत्रकृष्णपक्षपापमोचन्येकादशीमाहात्म्यवर्णनम्। श्लो० ४९ ॥

अध्यायः ४७ - चैत्रशुक्लपक्षकामदैकादशीमाहात्म्यवर्णनम्। श्लो० ३९ ॥

अध्यायः ४८ - वैशाखकृष्णपक्षवरूथिन्येकादशीमाहात्म्यवर्णनम्। श्लो० २७ ॥

अध्यायः ४९ - वैशाखशुक्लपक्षमोहिन्येकादशीमाहात्म्यवर्णनम्। श्लो० ३९ ॥

अध्यायः ५० - ज्येष्ठकृष्णपक्षापरैकादशीमाहात्म्यवर्णनम्। श्लो० २० ॥

अध्यायः ५१ - ज्येष्ठशुक्लपक्षनिर्जलैकादशीमाहात्म्यवर्णनम्। श्लो० ६४ ॥

अध्यायः ५२ - आषाढकृष्णपक्षयोगिन्येकादशीमाहात्म्यवर्णनम्। श्लो० ३४ ॥

अध्यायः ५३ - आषाढशुक्लपक्षदेवशयन्येकादशीमाहात्म्यवर्णनम्। श्लो० ३७ ॥

अध्यायः ५४ - श्रावणकृष्णपक्षकामिकैकादशीमाहात्म्यवर्णनम्। श्लो० ५९ ॥

अध्यायः ५५ - श्रावणशुक्लपक्षपवित्रारोपण्येकादशीमाहात्म्यवर्णनम्। श्लो० ४४ ॥

अध्यायः ५६ - भाद्रपदकृष्णपक्षाजैकादशीमाहात्म्यवर्णनम्। श्लो० २३ ॥

अध्यायः ५७ - भाद्रपदशुक्लपक्षपद्मैकादशीमाहात्म्यवर्णनम्। श्लो० ४१ ॥

अध्यायः ५८ - आश्विनकृप्णपक्षेंदिरामाहात्म्यवर्णनम्। श्लो० ३६ ॥

अध्यायः ५९ - आश्विनशुक्लपक्षपाशांकुशैकादशीमाहात्म्यवर्णनम्। श्लो० २८ ॥

अध्यायः ६० - कार्तिककृष्णपक्षरमैकादशीमाहात्म्यवर्णनम्. श्लो० ५४ ॥

अध्यायः ६१ - कार्तिकशुक्लपक्षप्रबोधिन्येकादशीमाहात्म्यवर्णनम्। श्लो० ६८ ॥

अध्यायः ६२ - पुरुषोत्तममासकृष्णपक्षकमलैकादशीमाहात्म्यवर्णनम्। श्लो० ४३ ॥

अध्यायः ६३ - पुरुषोत्तममासशुक्लपक्षकामप्रदैकादशीमाहात्म्यवर्णनम्। श्लो० २२ ॥

अध्यायः ६४ - चातुर्मास्यव्रतविधिमाहात्म्यवर्णनम्। श्लो० १२१ ॥

अध्यायः ६५ - चातुर्मास्यव्रतोद्यापनविधिवर्णनम्। श्लो० २० ॥

अध्यायः ६६ - यमाराधनम्, वैतरणीव्रतम्, तत्र मुद्गलवृत्तांतवर्णनम्। श्लो० ८५ ॥

अध्यायः ६७ - गोपीचन्दनमाहात्म्यकथनम्। श्लो० १३ ॥

अध्यायः ६८ - वैष्णवलक्षणमाहात्म्यवर्णनम्। श्लो० २० ॥

अध्यायः ६९ - श्रवणद्वादशीव्रतविधानकथनम्, तत्र मरुदेशस्थ प्रेतकथानकवर्णनम्। श्लो० ७५ ॥

अध्यायः ७० - नदीत्रिरात्रव्रतमाहात्म्यवर्णनम, श्लो० ३२ ॥

अध्यायः ७१ - भगवन्नाममाहात्म्यवर्णनम्, तत्र पार्वतीशिवसंवादे विष्णुसहस्रनामस्तोत्रवर्ण- नम्- श्लो० ३३१ ॥

अध्यायः ७२ - विष्णुसहस्रनाममाहात्म्यवर्णनम्। श्लो० १७ ॥

अध्यायः ७३ - रामरक्षास्तोत्रवर्णनम्। श्लो० १२ ॥

अध्यायः ७४ - धर्मप्रशंसापूर्वकदानधर्ममाहात्म्यवर्णनम् ।श्लो० २६ ॥

अध्यायः ७५ - गंडिकातीर्थमाहात्म्यम्। श्लो० २६ ॥

अध्यायः ७६ - आभ्युदयिकौर्ध्वदेहिकस्तोत्रवर्णनम्। श्लो० ४२ ॥

अध्यायः ७७ - ऋषिपंचमीव्रतविधानम्, तत्र देवशर्मब्राह्मणस्य बलीवर्दत्वप्राप्तिप्रसुत्याख्या- यिकाकथनम्। श्लो० ६२ ॥

अध्यायः ७८ - अपामार्जनस्तोत्रवर्णनम। श्लो० ९१ ॥

अध्यायः ७९ - अपामार्जनस्तोत्रपाठविधिकथनम्, तत्फलमाहात्म्यवर्णनं च। श्लो० १६ ॥

अध्यायः ८० - विष्णुमाहात्म्यवर्णनम्, विप्णुमंत्रमाहात्म्यवर्णनम्, पुंडरीककथानकवर्णनम्, तत्र नारदेन सह पुंडरीकस्य समागमः, नारदेन पुंडरीकाय शास्त्रसिद्धांतरह- स्योपदेशकरणम्, पुंडरीकस्य नारदोपदेशं श्रुत्वा भगवदाराधनेन भगवतः प्रत्य- क्षदर्शनम्, पुंडरीककृतभगवत्स्तुतिः, भगवतः प्रसादात्पुंडरीकस्य मोक्षवर्णनम्। श्लो० १६९ ॥

अध्यायः ८१ - गंगामाहात्म्यवर्णनम्। श्लो० ४२ ॥

अध्यायः ८२ - वैष्णवलक्षणवर्णनम्, वैप्णवप्रशंसा, विष्णुमूर्तिपूजनफलवर्णनम्. शाल- ग्रामपूजनफलवर्णनम्। श्लो० ३९ ॥

अध्यायः ८३ - सर्वमासविधिवर्णनम्, तत्र चैत्रशुक्लैकादश्यां दोलामहोत्सवविधिवर्णनम्। श्लो० ३४ ॥

अध्यायः ८४ - चैत्रशुक्लद्वादश्यां दमनकमहोत्सववर्णनम्।. श्लो० ३१ ॥

अध्यायः ८५ - वैशाखज्येष्ठाषाढेषु भगवतो जलशयनमहोत्सववर्णनम्। श्लो० ३० ॥

अध्यायः ८६ - श्रावणे पवित्रारोपणविधिवर्णनम्। श्लो० ४१ ॥

अध्यायः ८७ - चैत्रादिमासक्रमेण चंपकादिपुष्पैर्विष्णुपूजनवर्णनम्, तत्फलकथनं च। श्लो० २७ ॥

अध्यायः ८८ - कार्तिकमाहात्म्यारंभः, तत्र नारदस्य कृष्णदिदृक्षया द्वारकायामागमनम, नारदेन कृष्णाय कल्पवृक्षपुप्पोपहारदानम्, कृप्णेन सत्यभामां विस्मृत्यान्यस्त्रीभ्यो विभज्य पुष्पदानम्, पुष्पालाभरुष्टायाः सत्यभामायाः कल्पद्रुम- दानाय तया सह गरुडमारुह्य स्वर्गं प्रति गत्वेंद्रं विजित्य स्वर्गात्कल्पद्रुममानी- य सत्यभामाया अंगणे तस्य रोपणम्, सत्यभामया तुलापुरुषदानकरणम्, श्रीकृष्णसत्यासंवादे सत्यभामया महाभाग्यशालित्वप्रापककारणजिज्ञासया प्रश्ने कृते सति कृष्णेन तस्याः पूर्वजन्मवृत्तांतवर्णनम्, तत्र मायापुरीस्थ देवशर्मब्राह्मणकन्यायाश्चरित्रम्। श्लो० ४५ ॥

अध्यायः ८९ - तस्या गुणवत्याः कार्तिकसेवनात्सत्यात्वप्राप्तिवर्णनम्। श्लो० ३० ॥

अध्यायः ९० - पृथुनारदसंवादे शंखासुराख्यानवर्णनम्, तत्र शंखासुरकृतवेदहरणवर्णनम्, विष्णुना कार्तिकप्रशंसाकरणम् । श्लो० ६१ ॥

अध्यायः ९१ - विष्णुना मत्स्यावतारं धृत्वा शंखासुरवधकरणम्, प्रयागोत्पत्तिमाहात्म्यव - र्णनम्। श्लो० ३० ॥

अध्यायः ९२ - कार्तिकव्रतिनां नियमवर्णनम्। श्लो० ३२ ॥

अध्यायः ९३ - कार्तिक स्नानार्घ्यादिवर्णनम्। श्लो० ३२ ॥

अध्यायः ९४ - कार्तिकमास्यनुष्ठेयानां नियमानां वर्णनम्, कार्तिकव्रतवतां प्रशंसा। श्लो० २८॥

अध्यायः ९५ - कार्तिकव्रतोद्यापनविधानवर्णनम्। श्लो० ३१ ॥

अध्यायः ०६ - तुलसीमाहात्म्यवर्णनप्रसंगेन जालंधरोत्पत्तिवर्णनम्। श्लो० ३३ ॥

अध्यायः ९७ - जालंधरदैत्यकृतदेवपराजयपूर्वकममरावतीविजयवर्णनम्। श्लो० ३३ ॥

अध्यायः ९८ - जालंधरदैत्यभयत्रस्तदेवकृत संकष्टनाशनविष्णुस्तोत्रम्, विष्णोर्जालंधरेण सह युद्धम्, विष्णोर्जार्लंधरेण सह युद्धे संतुष्टस्य तस्मै वरप्रदानम्, तद्याचितवरपूर्तये लक्ष्म्या सह विष्णुना जालंधरगृहे वासकरणम्, जालंधरस्य राज्यस्थितिवर्णनम्। श्लो० २९ ॥

अध्यायः ९९ - जालंधरेण नारदमुखात्पार्वत्याः सौंदर्यातिशयं निशम्य शिवं प्रति राहोर्दौत्येन प्रेषणम्, शिवभ्रूमध्यात्कीर्तिमुखगणोत्पत्तिवर्णनम्, कीर्तिमुखपूजावश्यकत्वकथनम् कीर्तिमुखोत्सृष्टस्य राहोर्बर्बरदेशे पतनम्। श्लो० ३४ ॥

अध्यायः १०० - शंकरेण सर्वदेवतेजोभिः सुदर्शनचक्रनिर्माणम्, शिवगणानां दैत्यगणैः सह संग्रामः। श्लो० ३२ ॥

अध्यायः १०१ - नंद्यादीनां शिवगणानां कालनेम्यादिभिः सह द्वंद्वयुद्धवर्णनम्, तत्र शिव- गणानां पराजयवर्णनम्। श्लो० ३१ ॥

अध्यायः १०२ - शिवेन दैत्यपराभवकरणम्, शिवजालंधरयुद्धम्, जालंधरेण गांधर्वमायया शंकरं मोहयित्वा शिवरूपं धृत्वा पार्वतीसमीपं प्रति गमनम्, पार्वत्या तस्य दानवत्वं परीक्ष्याकस्मादन्तर्धाय मानसोत्तरं प्रतिगमनम्, पार्वतीमदृष्ट्वा जालंधरस्य रणांगणं प्रत्यागमनम् पार्वतीकृतस्मरणेन विष्णोस्तत्समीपं प्रत्यागमनम् तद्वृत्तांतं श्रुत्वा विष्णुना वृंदापातिव्रत्यभंगाय प्रतिज्ञाकरणम्। श्लो० ३२ ॥

अध्यायः १०३ - वृंदया दुःस्वप्नं दृष्ट्वोद्विग्नया वनांतरे भ्रमणम्, तत्र राक्षसोपद्रुताया वृंदायाः तापसवेषधारिणा विष्णुना राक्षसौ निवार्य रक्षणम् मायया गगनात्कपिभ्यां जालंधरशिरःकबंधानयनम्, वृंदायाः स्वपतिशिरःकबन्धनिरीक्षणेन शोककरणम्, विप्णुमायया जालंधरवेषं धृत्वा वृंदायाः पातिव्रत्यभंगकरणम्, कदाचिद्वृंदया जालंधररूपधारिणं विष्णुं विज्ञाय तस्य भार्याहरणरूपशापं दत्वाग्नौ प्रवेशनम्, विष्णोस्तच्चिताभस्मावगुण्ठनम्। श्लो० ३१ ॥

अध्यायः १०४ - शंकरेण युद्धे जालंधरस्य वधकरणम्, जालंधरस्य शिवसायुज्यप्राप्तिः, शिवाज्ञया देवैर्वृंदामोहितविष्णुमोहविनाशायादिमायास्तोत्रकरणम्, आदिमायाज्ञया गौरीलक्ष्मीस्वराभिर्देवेभ्यः स्वस्वबीजदानम्, वृंदाचितास्थाने देवैर्गौ र्याज्ञया तद्बीजारोपणम्। श्लो० २९ ॥

अध्यायः १०५ - तद्बीजत्रयोत्पन्नानां स्त्रीरूपधारिणीनां धात्रीमालतीतुलसीनां दर्शनेन विष्णो- र्भ्रांतिनिरासः, मालत्या बर्बरीनामप्राप्तिकारणवर्णनम् धात्रीतुलस्योर्माहात्म्यम्। श्लो० २९ ॥

अध्यायः १०६ - कलहाचरित्रवर्णनम् धर्मदत्तब्राह्मणेन सह राक्षसीत्वं प्रति प्राप्तायाः कल- हाया मध्येमार्ग समागमः, धर्मदत्तेन तस्या उपरि तुलसीमिश्रजलसेचनम, कलहया धर्मदत्ताग्रे स्वपूर्वजन्मवृत्तान्तवर्णनम्। श्लो० ३१ ॥

अध्यायः १०७ - धर्मदत्तेन द्वादशाक्षरमन्त्रं जपित्वा तदङ्गे तुलसीमिश्रजलप्रक्षेपात्कलहाया दिव्यदेहावाप्तिवर्णनम्, वैकुंठं प्रति कलहां नेतुमागताभ्यां विष्णुदूताभ्यां । धर्मदत्तं प्रति कलहयान्याभ्यां च स्त्रीभ्यां सह दशरथो भविष्यसीति वरप्रदानम् । श्लो० २६ ॥ ।

अध्यायः १०८ - धर्मदत्तविष्णुगणसंवदि विष्णुव्रतमाहात्म्यवर्णनम्, तत्र विष्णुदासविप्रचोलराजयोः कथानकवर्णनम्। श्लो० ३० ॥

अध्यायः १०९ - विष्णुदासविप्रचोलराजयोर्भगवन्निरतिशयभक्त्या वैकुंठप्राप्तिवर्णनम्, मुद्गल- गोत्रोद्भवानां शिखाहीनत्वकारणवर्णनम्। श्लो० ३३ ॥

अध्यायः ११० - जयविजयद्वारपालयोः पूर्वजन्मवृत्तान्तवर्णनम्, कलहाया विष्णुगणैर्वैकुण्ठ- प्रापणम्। श्लो० ३२ ॥

अध्यायः १११ - कृष्णावेण्याद्यनेकनदीनां माहात्म्यवर्णनम्, तत्र कृष्णावेण्योरुत्पत्तिवर्णनम्, तत्र ब्रह्मदेवकृतयज्ञवर्णनम्। श्लो० ३१ ॥

अध्यायः ११२ - एकादशीमाघकार्तिकतुलसीद्वारकानां भगवप्रियत्त्वम्, संसर्गवशात्पुण्यपापां शप्राप्तिवर्णनम्। श्लो० ३० ॥

अध्यायः ११३ - कार्तिकव्रतप्रशंसायां धनेश्वरविप्रवृत्तांतवर्णनम्, धनेश्वरस्यकार्तिकव्रतिसंसर्गः। श्लो० ३४ ॥

अध्यायः ११४ - धनेश्वराय यमेन नरकदर्शनानंतरं धनेश्वरस्य धनयक्षेति नाम्ना कुबेरानु- गत्वप्राप्तिवर्णनम्। श्लो० २९ ॥

अध्यायः ११५ - सत्यभामायै कृष्णेन कार्तिकमाहात्म्यमुक्त्वा सायंसंध्योपासनार्थं जननी- गृहंप्रति गमनम्, अश्वत्थवटप्रशंसाकरणम्। श्लो० २९ ॥

अध्यायः ११६ - अश्वत्थवृक्षस्यास्पृश्यत्वकारणवर्णनेऽलक्ष्मीवृत्तांतवर्णनम्। श्लो० २८ ॥

अध्यायः ११७ - शिवषडाननसंवादे कार्तिकस्नानमाहात्म्यवर्णनम्। श्लो० ३२ ॥

अध्यायः ११८ - कार्तिके तिलधेन्वादिदानवर्णनम्, कार्तिकव्रतिनां परान्नवर्जनादिविविध नियमवर्णनम्, विष्णुपूजनफलवर्णनम्। श्लो० ६० ॥

अध्यायः ११९ - माघमासस्नानमाहात्म्यम्, शूकरक्षेत्रमाहात्म्यवर्णनम्, मासोपवासव्रतविधा- नवर्णनम्। श्लो० ५३ ॥

अध्यायः १२० - शालिग्रामशिलार्चनविधिमाहात्म्यवर्णनम्, शालिग्रामशिलायां वासुदे- वादिमूर्तिलक्षणवर्णनम्, कार्तिकमासे शालिग्रामपूजाफलवर्णनम्। श्लो० ९२ ॥

अध्यायः १२१ - धात्रीवृक्षच्छायायां पिण्डदानमाहात्म्यवर्णनम्, केतकीप्रभृतिभिः पूजनस्य फलवर्णनम्, दीपदानविधिवर्णनम् तत्र गोपवृत्तांतवर्णनम्। श्लो० ३७ ॥

अध्यायः १२२ - दीपावलीदिनपंचके त्रयोदश्यादिद्वितीयान्तेकर्तव्यकृत्यनिर्णयः, दीपा- वलीमहोत्सवे राज्ञां कर्तव्यवर्णनम्, यमद्वितीयामाहात्म्यवर्णनम्। श्लो० १०३ ॥

अध्यायः १२३ - मासोपवासविधिमाहात्म्यकथनम्। श्लो० ४२५ ॥

अध्यायः १२४ - प्रबोधिन्येकादशीमाहात्म्यवर्णनम, भीष्मपंचकव्रतमाहात्म्यवर्णनम्, कार्ति- कमाहात्म्यश्रवणपठनफलवर्णनम्। श्लो० ९६ ॥

अध्यायः १२५ - माघमासमाहात्म्यारंभः, माघमाहात्म्यजिज्ञासया सूतं प्रति मुनीनां प्रश्नः, सूतेनोमामहेश्वरसंवादेन माघमाहात्म्यकथनम्, तत्र दिलीपस्य मृगयार्थं वनप्रवेशवर्णनम्, तत्प्रसंगेन वनशोभावर्णनम्, मृगयां विधाय पुरं प्रत्यावृत्तस्य दिलीपस्य हारीतेन मुनिना सह समागमः, हारीतानुज्ञया दिली- पस्य वसिष्ठं प्रत्यागमनम्, वसिष्ठदिलीपसंवादः, माघमासे प्रातःस्नानदान- माहात्म्यवर्णनम्, तत्र मणिकूटपर्वतस्थव्याघ्रमुखविद्याधरस्य भृगुमहर्ष्युपदेशेन माघशुक्लैकादश्यां स्नानात्सुमुखत्वप्राप्तिवर्णनम्। श्लो० १७१ ॥

अध्यायः १२६ - माघस्नानमाहात्म्यवर्णने कार्तवीर्यदत्तात्रेयसंवादवर्णनम् तत्र दत्तात्रेयेण शरी- रानित्यतादिरहस्यकथनपुरःसरं माघस्नानमाहात्म्यवर्णनम्., तत्प्रसंगेन कुब्जिकाब्राह्मणी चरित्र, सुंदोपसुंदवधवृत्तान्तवर्णनम्। श्लो० ८० ॥

अध्यायः १२७ - माघस्नानविधिवर्णनम्, तत्र कांचनमालिन्यप्सरसा राक्षसस्य धर्मोपदेश- करणम्, तदुपदेशेन राक्षसस्य स्वर्गप्राप्तिवर्णनम्। श्लो० १७७ ॥

अध्यायः १२८ - माघस्नानमाहात्म्यवर्णन गंधर्वकन्यानां वेदनिधिमुनिपुत्रस्याग्निपस्य च परस्परं शापदानेन पिशाचत्वप्राप्तौ दैववशाल्लोमशसमागमः, लोमशेन माघ- मासस्नानमाहात्म्यकथनम्, तत्रावंतिदेशस्थवीरसेनराजवृत्तान्तनिरूपणम्, पिशाचमोचनेतिहासवर्णने प्लक्षप्रस्रवणस्थदेवद्युतिविप्रचरित्रवर्णनम, देवद्युतिना विष्णुस्तोत्रकरणम्। श्लो० २९६ ॥

अध्यायः १२९ - द्राविडदेशस्थचित्रनामकभूपतेरधर्माचारतया पैशाच्यप्राप्तौ देवद्युतिना सह समागमः, देवद्युतिना तस्य प्रयागे माघस्नानाज्ञाकरणपूर्वकं माघस्नानमाहात्म्य कथनम्, तत्र केरलस्थवसुनामकब्राह्मणवृत्तांतकथनम्, तस्य वसुब्राह्मणस्य प्रेतत्वप्राप्तौ केनचित्कार्पटिकेन सह समागमः, कार्पटिकाय केरलपिशाचेन स्ववृत्तांतनिवेदनम्, तत्र सारसवानरवृत्तांतवर्णनम्, तत्र सारसेन वानराय निज वृत्तांतकथनम्, प्रेतप्रार्थनया कार्पटिकेन मनसि विचार्य प्रेताय गंगाजलप्रदानम्, तेन गंगाजलप्राशनेन केरलवसुपिशाचस्य मुक्तिः,प्रयागमाहात्म्यश्रवणाद्द्राविडदे शपतेश्चित्रराजस्य मोक्षः, लोमशवचनात्पिशाचीनां पिशाचस्य च व्योममार्गेण भूग तलोमशेन सह प्रयागं प्रति गमनम्, लोमशेन तेभ्यः प्रयागदर्शनपूर्वकं प्रयागमा- हात्म्यकथनम्, प्रयागे लोमशवचनाद्गंधर्वकन्यानां मुनिपुत्रस्य पैशाच्यान्मुक्तिः, लोमशवचनेन तासां गंधर्वकन्यानामग्निपेन सह विवाहः। श्लो० २९८ ॥

अध्यायः १३० - विष्णुभक्तिमाहात्म्यवर्णनम्। श्लो० १९ ॥

अध्यायः १३१ - शालिग्रामशिलामाहात्म्यवर्णनम्। श्लो० २९ ॥

अध्यायः १३२ - विष्णुस्मरणमाहात्म्यवर्णनम्। श्लो० १५३ ॥

अध्यायः १३३ - जंबुद्वीपस्थविविधतीर्थवर्णनम्। श्लो० ४० ॥

अध्यायः १३४ - वेत्रवतीनदीमाहात्म्यवर्णनम्। श्लो० ३१ ॥

अध्यायः १३५ - साभ्रमतीनदीमाहाम्यवर्णनम्। श्लो० १३५ ॥

अध्यायः १३६ - साभ्रमतीप्रवाहागतनंदिकुंडकपालकुंडमाहात्म्यवर्णनम्। श्लो० १९ ॥

अध्यायः १३७ - साभ्रमत्याः सप्तस्रोतोमाहात्म्यवर्णनम्, श्वेतातीर्थमाहात्म्यवर्णनं च। श्लो० २३ ॥

अध्यायः १३८ - बकुलासंगमे गणतीर्थमाहात्म्यवर्णनम्। श्लो० १५ ॥

अध्यायः १३९ - अग्निपालेश्वरमाहात्म्यवर्णनम्। श्लो० ४६ ॥

अध्यायः १४० - साभ्रमतीहिरण्यासंगममाहात्म्यवर्णनम्। श्लो ० १६ ॥

अध्यायः १४१ - मधुरादित्यमाहात्म्यवर्णनम्। श्लो० ४५ ॥

अध्यायः १४२ - कपितीर्थमाहात्म्यवर्णनम्। श्लो० १३ ॥

अध्यायः १४३ - सप्तधारतीर्थमाहात्म्यवर्णनम्। श्लो० २६ ॥

अध्यायः १४४ - ब्रह्मवल्लीतीर्थ वृषतीर्थ खंडह्रद गोह्रद माहात्म्यवर्णनम्। श्लो० २९ ॥

अध्यायः १४५ - साभ्रमती हस्तिमती संगमेश्वरतीर्थमाहात्म्यवर्णनम्, तत्र सोमेश्वरमाहात्म्य क- थनं च। श्लो० १६ ॥

अध्यायः १४६ - रुद्रमहालयतीर्थमाहात्यवर्णनम् श्लो० ८॥

अध्यायः १४७ - खड्गतीर्थ खङ्गधारेश्वरमाहात्म्यवर्णनम्। श्लो० ७ ॥

अध्यायः १४८ - मालार्कतीर्थमाहात्म्यवर्णनम्। श्लो० ९ ॥

अध्यायः १४९ - चन्दनेश्वरमाहात्म्यवर्णनम् श्लो० ११ ॥

अध्यायः १५० - जांबवंततीर्थमाहात्म्यवर्णनम् श्लो० १४ ॥

अध्यायः १५१ - इन्द्रग्रामतीर्थ धवलेश्वरतीर्थ माहात्म्यवर्णनम्। श्लो० १०० ॥

अध्यायः १५२ - बालापेंद्रतीर्थमाहात्म्यवर्णनम्। श्लो० ४४ ॥

अध्यायः १५३ - दुर्धर्षेश्वरतीर्थमाहात्म्यवर्णनम्। श्लो० २३ ॥

अध्यायः १५४ - खड्गधारेश्वरतीर्थमाहात्म्यवर्णनम्। श्लो० ७२ ॥

अध्यायः १५५ - दुग्धेश्वरतीर्थमाहात्म्यवर्णनम्। श्लो० ४० ॥

अध्यायः १५६ - चंद्रभागानदीवर्तिचंद्रेश्वरमाहात्म्यवर्णनम्। श्लो० ५१ ॥

अध्यायः १५७ - पिप्पलादतीर्थमाहात्म्यवर्णनम्। श्लो० ११ ॥

अध्यायः १५८ - पिचुमंदार्कतीर्थमाहात्म्यवर्णनम्। श्लो० १४ ॥

अध्यायः १५९ - सिद्धक्षेत्रकोटराक्षीतीर्थमाहात्म्यवर्णनम्। श्लो० १३ ॥

अध्यायः १६० - बामनतीर्थराजमाहात्म्यवर्णनम्। श्लो० ५ ॥

अध्यायः १६१ - सोमतीर्थमाहात्म्यवर्णनम्। श्लो० १७ ॥

अध्यायः १६२ - कापोतिकतीर्थमाहात्म्यवर्णनम्। श्लो० १८ ॥

अध्यायः १६३ - गोतीर्थमाहात्म्यवर्णनम्। श्लो० ५ ॥.

अध्यायः १६४ - कश्यपह्रदमाहात्म्यवर्णनम्। श्लो० ९ ॥

अध्यायः १६५ - भूतेश्वरतीर्थ घटेश्वरतीर्थ वैद्यनाथतीर्थ विजयितीर्थ माहात्म्यवर्णनम्। श्लो० १० ॥

अध्यायः १६६ - पांडुरार्यातीर्थ माहात्म्यवर्णनम्। श्लो० ८ ॥

अध्यायः १६७ - चंडेशतीर्थ गाणपत्यतीर्थ माहात्म्यवर्णनम्। श्लो० ८ ॥

अध्यायः १६८ - वार्त्रघ्नीनदी माहात्म्यवृत्तांतवर्णनम्। श्लो० ७१ ॥

अध्यायः १६९ - वाराहतीर्थमाहात्म्यवर्णनम्। श्लो० ११ ॥

अध्यायः १७० - साभ्रमतीसंगमतीर्थमाहात्म्यवर्णनम्। श्लो० ५ ॥

अध्यायः १७१ - संगमस्थ सत्तीर्थ माहात्म्यवर्णनम्। श्लो० ४ ॥

अध्यायः १७२ - नीलकंठतीर्थमाहात्म्यवर्णनम्। श्लो० ४ ॥

अध्यायः १७३ - दुर्गा साभ्रमती समुद्रसंगमतीर्थ माहात्म्यवर्णनम्। श्लो० ६ ॥

अध्यायः १७४ - श्रीनृसिंहव्रतनृसिंहतीर्थमाहात्म्यवर्णनम्। श्लो० ९७ ॥

अध्यायः १७५ - भगवद्गीता प्रथमाध्याय माहात्म्य वर्णनम्, तत्र विष्णुलक्ष्मीसंवादे सुशर्मवृत्तांत वर्णनम्। श्लो० ५४ ॥

अध्यायः १७६ - गीता द्वितीयाध्यायमाहात्म्यम्, तत्र देवशर्मवृत्तांतवर्णनम्। श्लो० ६२ ॥

अध्यायः १७७ - गीता तृतीयाध्यायमाहात्म्यवर्णने जडब्राह्मणवृत्तांतवर्णनम्। श्लो० ६० ॥

अध्यायः १७८ - गीताचतुर्थाध्यायमाहात्म्यवर्णने वाराणसीस्थ भरतकृतावलंवनतो बदर्योः कन्यात्वप्राप्तिवृत्तांतवर्णनम्। श्लो० ३८ ॥

अध्यायः १७९ - गीतापंचमाध्यायमाहात्म्यवर्णने पुरुकुत्सपुरस्थ पिंगलब्राह्मण तत्पत्नी वृत्तांत वर्णनम्। श्लो० २४ ॥

अध्यायः १८० - गीता षष्ठाध्यायमाहात्म्यवर्णने गोदावरीतीरवर्ति प्रतिष्ठानपुरस्थ ज्ञानश्रुतिराज रैक्यमहर्षि वृत्तान्त वर्णनम्। श्लो० १०४ ॥

अध्यायः १८१ - गीता सप्तमाध्यायमाहात्म्यवर्णने पाटलिपुत्रस्थ शंकुकर्णब्राह्मण वृत्तांत वर्णनम् श्लो० ३४ ॥

अध्यायः १८२ - गीताष्टमाध्यायमाहात्म्यवर्णने आमर्दकपुरस्थ भावशर्मब्राह्मणवृत्तान्त वर्ण- नम्। श्लो० ३२ ॥

अध्यायः १८३ - गीता नवमाध्यायमाहात्म्यवर्णने माहिष्मतीपुरीस्थ माधवब्राह्मणवृत्तान्तवर्ण नम्। श्लो० ६० ॥

अध्यायः १८४ - गीता दशमाध्यायमाहात्म्यवर्णने काशीपुरीस्थ धीरधीविप्रवृत्तान्तवर्णनम्। श्लो० ९९ ॥

अध्यायः १८५ - गीतैकादशाध्यायमाहात्म्यवर्णने मेघकरनगरस्थ सुनंदब्राह्मणवृत्तान्तवर्णनम् । श्लो० ११० ॥

अध्यायः १८६ - गीता द्वादशाध्यायमाहात्म्यवर्णने कोल्हापुरस्थ सिद्धसमाधिवृत्तांतवर्णनम्। श्लो० ६२ ॥

अध्यायः १८७ - गीता द्वादशाध्यायमाहात्म्यवर्णने तुंगभद्रानदीतीरवर्ति हरिपुरस्थ हरिदीक्षित ब्राह्मणपत्न्या द्रुराचाराया वृत्तांतवर्णनम्। श्लो० ६१ ॥

अध्यायः १८८ - गीता चतुर्दशाध्यायमाहात्म्यवर्णने शशशुनीवृत्तांतवर्णनम्। श्लो० ४५ ॥

अध्यायः १८९ - गीता पंचदशाध्यायमाहात्म्यवर्णने गौडदेशीय नरसिंहराजस्य तत्सैनिकस्य स- रभभेरुंडस्य च वृत्तांतवर्णनम् श्लो० ४६ ॥

अध्यायः १९० - गीता षोडशाध्यायमाहात्म्यवर्णने गुर्जरमंडलान्तर्गत सौराष्ट्रिकपुरस्थ खड्गबाहु राज वृत्तान्तवर्णनम्। श्लो० ३४ ॥

अध्यायः १९१ - गीता सप्तदशाध्यायमाहात्म्यवर्णने खड्गबाहुनृपसुतभृत्यस्य दुःशासनस्य वृत्तांतवर्णनम्। श्लो० २७ ॥ .

अध्यायः १९२ - गीताष्टादशाध्यायमाहात्म्यवर्णने इंद्रवृत्तान्तवर्णनम्। श्लो० ६३ ॥

अध्यायः १९३ - श्रीमद्भागवतमाहात्म्यवर्णनम्, तत्र सूतशौनकसंवादे नारदसनत्कुमार संवादः, नारदेन भक्तिज्ञानवैराग्यवृत्तांतकथनम्, तत्र कलिदोषेण ज्ञानवैराग्ययोर्वार्द्धक्यम्, भक्त्याश्च वृंदावनप्रभावेण यौवनम, भक्तिनारदसमागमे भक्त्या नारदाग्रे स्वदुःखवृत्तांतनिवेदनम्। श्लो० ८४ ॥

अध्यायः १९४ - नारदेन भक्तिं सांत्वयित्वा तद्दुःखनिवारणार्थमुपायं चिंतयित्वा नारदस्य सनकादिसमीपं प्रत्यागमनम्, सनकादिभिर्ज्ञानवैराग्ययोर्बलप्राप्तये भागवता लापकरणोपदेशकरणम्, तत्र भागवतस्य श्रैष्ठ्यवर्णनम्। श्लो० ७४ ॥

अध्यायः १९५ - कुमाराणामुपदेशान्नारदस्य गंगाद्वारसमीपस्थकामदापुरे भृग्वादिभिः सह गमनम् कुमारैर्भागवतमाहात्म्यवर्णनम्, भागवतसप्ताहपठनमाहात्म्यवर्णनम्, भगवतोद्धवाय भागवतोपदेशकरणम्, नारदाद्यैर्भागवतसप्ताहकरणम, तत्र भक्तेरागमनम् कुमारैर्भक्तेः स्थानदानम्। श्लो० ७८ ॥

अध्यायः १९६ - भागवतमाहात्म्यवर्णने गोकर्णवृत्तांतवर्णनम्, तत्र तुंगभद्रानदीतीरवर्ति कोहलपुरस्थस्यात्मदेवब्राह्मणस्यपुत्राप्राप्तिखिन्नतया वनं गतस्य सिद्धेनसह स- मागमः, सिद्धेन तस्मै पुत्रप्रात्यर्थं फलदानम्, आत्मदेवेन धुंधुलीनाम्न्यै फलसमर्पणम्, धुंधुल्याप्रसूतिदुःखभीतया पतिं वंचयित्वा गुर्विणीवेषंविधाय अंगणस्थाया गोः फलदानम्, स्वभगिन्यां प्रसूतायां तस्याः पुत्रमादाय स्वस्याः प्रसूतिप्रसिद्धिकरणम्, तस्य पुत्रस्य धुंधुकारिनामकरणम् मासत्रयानंतरं धेनोः सकाशाद्गोकर्णपुत्रप्रसूतिः, धुंधुकारिणा पितृपीडनम्, गोकर्णपुत्रेणात्म- देवस्य सांत्वनम्, गोकर्णोपदेशादात्मदेवस्य वनं गत्वा सत्संगेन मुक्तिप्राप्तिः। श्लो० ८६ ॥

अध्यायः १९७ - धुंधुकारिपीडिताया धुंधुल्याः कूपे पतित्वा मरणम्, गोकर्णस्य तां निर्हृत्य तीर्थ यात्रार्थं गमनम्, धुंधुकारिणो वेश्याभिर्धनलोभेन वधकरणम्, तस्य पैशाच्य प्राप्तिश्च, कदाचित्तीर्थयात्रां विधाय गृहं प्रत्यागतेन गोकर्णेन स्वभ्रातुः पैशाच्यवस्थानिरीक्षणम्, तदुपरि गोकर्णेन तीर्थजलप्रक्षेपात्तस्य वागुत्पत्तौ पिशाचे नात्मवृत्तांतवर्णनम्, धुंधुकारिणोमुक्त्युपायार्थं गोकर्णेन ब्राह्मणविज्ञापनम्, ब्राह्मणैस्तन्मुक्त्युपायचिंतनाय सूर्यस्तुतिकरणम्, सूर्येण द्विजान्प्रति धुंधुकारिणो विमुक्तये भागवतसप्ताहाज्ञाकरणम् , सूर्याज्ञया गोकर्णद्रारा भागवत सप्ताहे संपूर्णे धुंधुकारिणो मोक्षप्राप्तिः, भागवतसप्ताहश्रवणायागतानामन्येषां द्विजानां विष्णुसारूप्यमुक्तिप्राप्तिपुरःसरं गोलोकप्राप्तिवर्णनम्। श्लो० ११४ ॥

अध्यायः १९८ - सप्ताहपठनश्रवणविधिवर्णनम्, नारदसनत्कुमारादिसंवादे प्रचलति सत्यकस्मात्तत्र शुकागमनम् शुकागमनोत्तरं विष्णुशंकरादीनामागमनम्, प्रह्लादादिकृत नृत्यगीतादिसमारंभः, तत्र भक्तिज्ञानवैराग्याणां नवरूपप्राप्तिपुरःसरं नर्तनम् सप्ताहयज्ञेन प्रसन्नेन भगवता वरप्रदानम्, शौनकस्य भागवतस्य निर्मागत आरभ्य सप्ताहप्रवृत्तिकालविषयक शंकायां निर्माणकालावधिसप्ताहप्रवृत्तिका लकथनम्, नैमिषारण्ये शौनकमहासत्रे तीर्थयात्रां पर्यटतो बलरामस्यागमनम्, बलरामेणोच्चासनस्थस्य सूतस्याविचार्य वधकरणम्, मुनीनां वचन माकर्ण्य बलरामेण सूतपुत्रस्योग्रश्रवसः शास्त्रकथनविषयकसूचनम, बलरामेण मुनीनां सुखाय बल्वलासुरस्य वधकरणम्, रोमहर्षणपुत्रेणोग्रश्रवसा सूतेनावशिष्टपुराणकथनम्, व्यासेन सप्तदशपुराणानि विरच्याप्यतुष्यद्धृदयेन नारदोप- देशाद्रागवतपुराणनिमार्णण, भागवतमाहात्म्यवर्णनम्। श्लो० १२१ ॥

अध्यायः १९९ - कालिंदीमाहात्म्यवर्णने नारदपर्वतयोः शिविराजस्य संवादे नारदेनेंद्रकृत- यज्ञवृत्तांतवर्णनम्। श्लो० ४७ ॥

अध्यायः २०० - इंद्रयागसमाप्तिवर्णनपूर्वकं शिवशर्मब्राह्मणगृहे इंद्रजन्मवर्णनम्, तस्य विष्णु नामकरणम्, तस्य विष्णुशर्मणः पित्रासहेंद्रप्रस्थमागत्य तत्र पूर्वजन्मनि कृतस्य यागस्य स्मरणम्, पित्रे सर्वपूर्ववृत्तांतं निवेद्य तत्रत्यतीर्थदर्शनम्, इंद्रवाक्या- च्छिवशर्मणा निगमोद्बोधकतीर्थे स्नानार्थमुद्योगकरणम्, तत्र भिल्लीसिंहयोर्मु क्तिदर्शनम्, इद्रप्रस्थक्षेत्रमाहात्म्यम्। श्लो० ११८ ॥

अध्यायः २०१ - शिवशर्मणो निगमोद्बोधकतीर्थे स्नानमात्रेण जातिस्मरत्वप्राप्तिः, शिवशर्मणा- ऽऽत्मनः पूर्वजन्मवृत्तान्तवर्णनम्, तत्र शरभवैश्यस्य गृहे देवलर्षिगमनम्, देवलेन शरभं प्रति पुत्रप्राप्त्युपायकथनम्। श्लो० १०४ ॥

अध्यायः २०२ - दिलीपसुदक्षिणाभ्यां पुत्रप्राप्त्युपायजिज्ञासया वसिष्ठाश्रमं प्रतिगमनम्, वसिष्ठेन तस्मै गोसेवाज्ञाकरणम्। श्लो० ५८ ॥

अध्यायः २०३ - दिलीपेन गोसेवाकरणम्, तत्कृतां सेवां गवा मायया सिंहमुत्पाद्य परीक्ष्य तस्मै पुत्रप्रातिकरवरप्रदानवर्णनम्। श्लो० ६९ ॥

अध्यायः २०४ - शरभस्य चण्डिकाराधनम्, चंडिकावचनाच्छरभस्येंद्रप्रस्थं प्रत्यागत्य निगमो द्बोधकतीर्थे स्नानदानादिना पुत्रप्राप्तिः, वार्द्धक्ये शरभस्येंद्रप्रस्थंप्रति गमनम्, तत्र तस्य ज्वरप्राप्तौ केनचित्पांथेन शिबिकामानाय्य तस्यामारुह्य तेनैव सह स्वगृहं प्रत्यागमने मध्येमार्गं केनचिद्राक्षसेन सह समागमः, तेन राक्षसेन तदी- यवाहभक्षणम्, शरभसमीपवर्तिनिगमोद्बोधकतीर्थजलप्राशनेन तस्य राक्षसस्य पूर्वजन्मवृत्तान्तस्मरणम्, शरभराक्षसयोःसंवादः, वाहानांपथिकस्य च कुबेरलो- कावाप्तिः, राक्षसेन शरभं पृष्ठमारोप्येंद्रप्रस्थंप्रति प्रत्यावृत्त्यागमनम, इंद्रप्रस्थे श- रभं प्रति पुत्रस्यागमनम्, तत्र तीर्थे शरभवैश्यस्यमरणाद्वैकुंठलोकावाप्तिः, पुत्रस्य च रक्षसासहेंद्रप्रस्थे स्थितिकरणम। श्लो० १४३ ॥

अध्यायः २०५ - इंद्रप्रस्थे निगमोद्बोधकतीर्थपंकनिमग्नाया गोरुद्धरणं कुर्वतो राक्षसस्यांबुहस्ति- ना जलमध्ये नयनान्मृत्युप्राप्त्यनंतरं मुक्तिः, शरभपुत्रस्य तत्र तीर्थे वासवर्णनम, दुर्वासःशापाच्छरभपुत्रस्य शिवशर्मत्वप्राप्तिः, शिवशर्मणो निगमोद्बोधकतीर्थे देह- त्यागान्मुक्तिप्राप्तिः। श्लो० ५१ ॥

अध्यायः २०६ - इन्द्रप्रस्थस्थद्वारकामाहात्म्यवर्णनम्, तत्र कांपिल्यनगरवासि पुष्पेषुब्राह्मणचरि त्रम्, तद्रूपमुग्धपौरस्त्रीणां विषभक्षणात्पैशाच्यप्राप्त्यनंतरं राक्षसीत्वप्राप्तिः। श्लो० ६३ ॥

अध्यायः २०७ - तासामुद्धारवर्णनप्रसंगेन विमलविप्रवृत्तांतवर्णनम, विमलस्येंद्रप्रस्थस्थ निग मोद्बोधकतीर्थस्नानात्पुत्रवरप्राप्तिः, तत्तीर्थादाश्रमजिगमिषोर्मध्येमार्गं मित्रप्राप्तिः। श्लो० ६९ ॥

अध्यायः २०८ - विमलस्यतेन मित्रेण सह पुनरिंद्रप्रस्थस्थद्वारकां प्रति गत्वा स्नानेन विष्णुभक्तिप्राप्तिवर्णनम्, मार्गे व्रजतो विमलस्य कमंडलुगतजलपानाद्राक्षसीनां मुक्तिवर्णनम्। श्लो० ६८ ॥

अध्यायः २०९ - इंद्रप्रस्थस्य कोशलामाहात्म्यवर्णने मुकुंदद्विजवृत्तान्तवर्णनम्, तत्र मुकुंदस्य नापितचौरेण वधे कृते वेदायनस्यारगुरोगमनम्, वेदायनेन तन्मातुः शोकापनोदनायात्मस्वरूपवर्णनम्। श्लो० ५९ ॥

अध्यायः २१० - मुकुंदस्य कोशलातीर्थेऽस्थिपतनाद्विमानमारुह्य मार्गप्रसुप्तयोर्वेदायनगुरुकनिष्ठभ्रात्रोः समीपं प्रत्यागमनम्, गुरुप्रश्नेसति मुकुंदेनस्वानुभूतयमयातनावर्णनम्, कोशलातीर्थेऽस्थिपतनकारणवर्णनम्। श्लो० ७० ॥

अध्यायः २११ - चंडकनामकचौरनापितस्य ब्राह्मणवधाद्राजाज्ञया शिरश्छेदोत्तरं सर्पत्वप्राप्तिः, मातृपित्रस्थिपेटकं गृहीत्वागच्छतः कस्यचिद्ब्राह्मणस्य सर्पवासदेशस्थितौ सर्पेणास्थिपेटके प्रवेशकरणम्, ब्राह्मणेन कोशलायामस्थिविसर्जनेकृते सति तत्साहचर्येण सर्पस्यापि विसर्जनम्, कोशलाप्रभावेण सर्पस्य मोक्षावाप्तिः। श्लो० ५० ॥

अध्यायः २१२ - नारायणाश्रमगामिबटूनां तत्रैव वासः, कस्यचिद्वटोर्नारायणाश्रमं गच्छतो नारायणेन विप्रवेषं धृत्वा निवर्तनम्, तस्य विष्णुवचनात्कोशलातीर्थे परावृत्त्यागमनम्, तत्र तनुत्यजां तेषां भगवत्प्रसादान्मुक्तिप्राप्तिवर्णनम् श्लो० ५५ ॥

अध्यायः २१३ - मधुवनस्थ विश्रांतितीर्थमाहात्म्यवर्णनम्, तत्र किरातनगरस्थकुशलब्राह्मणपत्नीवृत्तान्तवर्णनम्, तत्र तस्या दुश्चरित्रेण गोधात्वप्राप्तिः, तत्पुत्रस्य तदुद्धरणार्थं पितुराज्ञाग्रहणम्। श्लो० ८२ ॥

अध्यायः २१४ - पितृवाक्यात्पुत्रेण मातरमुद्दिश्य श्राद्धकरणम्, तेन तस्य मातुः पितामहादीनां च मुक्तिप्राप्तिः, तस्य पितुर्विष्णुलोकगमनम्। श्लो० १११ ॥

अध्यायः २१५ - तस्य मुनिपुत्रस्य स्वैरिण्यां जन्मग्रहणकारणवर्णनम्, तत्र चंद्रकृतबृहस्पतिभार्याहरणवृत्तातवर्णनम्, तत्र बुधेन तस्य कुण्डत्वप्रात्तिरूपशापदानम्। श्लो० ५८

अध्यायः २१६ - मधुवनस्थबदरिकाश्रममाहात्म्यवर्णनम्, तत्र मगधदेशस्थदेवदासब्राह्मणचरित्रवर्णनम्, तत्र कलिंगराजवृत्तान्तवर्णनम्। श्लो० १०१ ॥

अध्यायः २१७ - इंद्रप्रस्थांतर्गत हरिद्वारमाहात्म्यम्, तत्र कालिंगश्वपचवृत्तान्तवर्णनम् श्लो० ४९

अध्यायः २१८ - इंद्रप्रस्थस्थ पुष्करमाहात्म्यवर्णनम्, तत्र पुण्डरीकवृत्तान्तवर्णनम्, तद्भ्रातुर्भरतस्य पुष्करसेवया विमानावाप्तिवर्णनम् श्लो० ५४ ॥

अध्यायः २१९ - भरतपुंडरीकयोः संवादे भरतेनात्मपुण्यं वर्णयित्वा स्वर्गं प्रति गमनम् पुंडरीकस्य पुष्करसेवनप्रभावेन तद्गृहे विष्णोः स्थितिः ,पुंडरीकस्य मुक्तिप्राप्तिवर्णनम्। श्लो० ५२ ॥

अध्यायः २२० - इंद्रप्रस्थस्थ प्रयागतीर्थमाहात्म्यवर्णने नर्मदातीरवर्त्ति माहिष्मतीस्थ मोहिनीवेश्यावृत्तान्तवर्णनम्, तस्याश्च मरणावसरे प्रयागजलपानाद्द्रविडदेशराजस्य वीरव- र्मणोभार्यात्वप्राप्तिः. श्लो० ५४ ॥

अध्यायः २२१ - सखीगृहस्थितपुस्तकनिरीक्षीणात्तस्याः पूर्वजन्मस्मृतौ भर्त्रासहेंद्रप्रस्थस्थप्रयागतीर्थगमनम् तत्र वीरवर्म तत्पत्नीभ्यां हरिहरस्तोत्रकरणम्, तत्प्रभावात्तयोर्वैकुंठावाप्तिवर्णनम्।- श्लो० ५३ ॥

अध्यायः २२२ - इंद्रप्रस्थस्थकाशीमाहात्म्यवर्णनम्, तत्रत्य शिंशपातरुस्थित काकसर्पयोर्वृत्तांतवर्णनम्, इंद्रप्रस्थस्थ गोकर्णतीर्थमाहात्म्यवर्णने कर्कटभिल्लभार्याया जरानाम्न्याश्चरित्रकथनम्, इंद्रप्रस्थस्थशिवकांचीमाहात्म्यवर्णने हेरंबनामकब्राह्मणवृत्तांतवर्णनम्, नारदस्य शिबिं प्रति शक्रप्रस्थमाहात्म्यमुक्त्वा स्वर्गे गमनम् इंद्रप्रस्थमाहात्म्यश्रवणफलम्, युधिष्ठिरेणेंद्रप्रस्थं गत्वा तत्र राजसूययज्ञकरणम्, भीमकुंडमाहात्म्यकथनम्। श्लो० ९० ॥

अध्यायः २२३ - नारायणमहामंत्ररत्नोपदेशवर्णनम्। श्लो० ८० ॥

अध्यायः २२४ - शिवपार्वतीसंवादे भगवद्भक्तिमाहात्म्ये सुदर्शनादिमाहात्म्यवर्णनपूर्वकमंकनमाहात्म्यकथनम्। श्लो० ८० ॥

अध्यायः २२५ - ऊर्ध्वपुण्ड्रमाहात्म्यविधिवर्णनम्। श्लो० ५९ ॥

अध्यायः २२६ - मंत्रतदर्थोपदेशविधिमाहात्म्यवर्णनम्। श्लो० ९३ ॥

अध्यायः २२७ - सविस्तरं मंत्रार्थोपदेशवर्णने त्रिपाद्विभूतिवर्णनम्। श्लो० ८० ॥

अध्यायः २२८ - सविस्तरं मन्त्रार्थोपदेशवर्णने परमव्योमादिवर्णनम्। श्लो० १०७ ॥

अध्यायः २२९ - देवसर्गवर्णने विष्णुव्यूहभेदवर्णनम्। श्लो० १८० ॥

अध्यायः २३० - विष्णोर्मत्स्यावतारकथावर्णनम्। श्लो० ३१ ॥

अध्यायः २३१ - कूर्मावतारकथावर्णनम्, तत्र दुर्वाससः शापादिंद्रलक्ष्मीविनाशे विष्णुना देवान्प्रति समुद्रमंथनायाज्ञाकरणम्। श्लो० ४८ ॥

अध्यायः २३२ - विष्णोराज्ञया देवदानवैर्मंथने समारब्धेसति समुद्रान्महाविषप्रभृतिलक्ष्म्यंतरत्नोत्पत्तिवर्णनम्। श्लो० ७० ॥

अध्यायः २३३ - देवादिभिरेकादश्युपवासकरणवर्णनम्। श्लो० १९ ॥

अध्यायः २३४ - द्वादशीमाहात्म्यवर्णनम्। श्लो० ३९ ॥

अध्यायः २३५ - पाषंडिलक्षणवर्णनम्, शिवस्य कपालभस्मास्थिधारणकारणवर्णनम्। श्लो० ६४॥

अध्यायः २३६ - तामसादिशास्त्रपरिगणनम्। श्लो० २७ ॥

अध्यायः २३७ - वराहावतारकथावर्णनम्। श्लो० २९ ॥

अध्यायः २३८ - नृसिंहप्रादुर्भावकथावर्णनम्। श्लो० १५५ ॥

अध्यायः २३९ - वामनप्रादुर्भाववर्णनम्, तत्र बलिदैत्यपराभूतदेवप्रार्थनया भगवतोऽदितिगर्भप्रवेशः। श्लो० ३१ ॥

अध्यायः २४० - वामनेन बलेर्भूग्रहणादिवृत्तांतवर्णनम्। श्लो० ६० ॥

अध्यायः २४१ - जामदग्न्यावतारकथावर्णनम्। श्लो० ८१

अध्यायः २४२ - श्रीरामावताररामायणकथावर्णनम्, तत्र रामस्य जन्मप्रभ्रृतिरावणवधोत्तरकालीनायोध्याप्रवेशांतकथावर्णनम्। श्लो० ३६९ ॥

अध्यायः २४३ - रामस्य राज्याभिषेकादिविश्वरूपदर्शनांतचीरत्रवर्णनम्। श्लो० ५३ ॥

अध्यायः २४४ - रामस्य राज्योपभोगपूर्वकसंपूर्णचरित्रवर्णनम्। श्लो० ५३ ॥

अध्यायः २४५ - श्रीकृष्णावतारकथावर्णनम्, तत्र श्रीकृष्णस्यजन्मादिकं सवधांतकथावर्णनम। श्लो० ३९२ ॥

अध्यायः २४६ - कृष्णस्योपनयनादिवृत्तवर्णनपूर्वकं मुचुकुंदमोक्षणांतकथावर्णनम्। श्लो० ७० ॥

अध्यायः २४७ - द्वारकाप्रवेशरुक्मिण्यादिहरणवैदर्भसेनाविध्वंसनवर्णनम्। श्लो० ४२ ॥

अध्यायः २४८ - रुक्मिणीविवाहवर्णनम्। श्लो० १९ ॥

अध्यायः २४९ - सत्यापरिणयनवृत्तांतवर्णनम्। श्लो० १११ ॥

अध्यायः २५० - अनिरुद्धविवाहप्रसंगेन बाणासुरसंग्रामवर्णनम्। श्लो०- ९१ ॥

अध्यायः २५१ - पौण्ड्रकवासुदेवनिग्रहणम्, तत्सुतस्य दंडपाणेः कृष्णमुद्दिश्य कृत्यापचारे सति कृप्णप्रेरितचक्रदर्शनेन कृत्ययापरावृत्त्य वाराणसीनामकदंडपाणिपुरीदहनम्। श्लो० २८ ॥

अध्यायः २५२ - जरासंधं भीमद्वारा निहत्य तेन बंदीकृतानां पार्थिवानां मोचनम्, इंद्रप्रस्थे शिशुपालवधः, दंतवक्त्रस्य युद्धे वधानंतरं कृष्णस्य नंदगोकुले सर्वेषां संगमः, पश्चाद्द्वारकायां प्रवेशः, सुदामसत्कारकरणम् भारतयुद्धवृत्तांतः, ब्राह्मणबालकसंजीवनम्, कृष्णसंतानवर्णनम् मौसलवृत्तांतवर्णनम्, कृष्णस्य स्वधामगमनम्, कृप्णपत्नीनां चौरैर्हरणम्, कृष्णमाहात्म्यवर्णनम्। श्लो० ११५ ॥

अध्यायः २५३ - विष्णुपूजाविधानवैष्णवाचारवर्णनम्। श्लो० १८० ॥

अध्यायः २५४ - रामनाममाहात्म्यवर्णनेऽष्टोत्तरशतनामस्तोत्रवर्णनम्। श्लो० ६९ ॥

अध्यायः २५५ - श्रेष्ठदेवपरीक्षासमये भृगुशापेन महादेवस्य योनिलिंगस्वरूपप्राप्तिवर्णनम्, ब्रह्मणोऽपूज्यत्वप्राप्तिवर्णनं च, सर्वदेवेषु विष्णोः श्रैष्ठ्यवर्णनम्, भृगुकृतभगवत्स्तुतिः, पद्मपुराणपठनफलवर्णनम्। श्लो० १२७

इति पाद्मपुराणोत्तरखण्डस्थविषयानुक्रमणिका संपूर्णा ॥६॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP