संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ६२ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ६२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ६२ Translation - भाषांतर युधिष्ठिर उवाच -भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्सर्वपापहरं विष्णोः फलदं व्रतिनां च यत् ॥१॥पुरुषोत्तममासस्य कथां ब्रूहि जनार्दनको विधिः किं फलं तस्य को देवस्तत्र पूज्यते ॥२॥अधिमासे च संप्राप्ते व्रतं ब्रूहि जनार्दनकस्य दानस्य किं पुण्यं किं कर्त्तव्यं नृभिः प्रभो ॥३॥कथं स्नानं च किं जाप्यं कथं पूजाविधिः स्मृतःकिं भोज्यमुत्तमं चान्नं मासेऽस्मिन्पुरुषोत्तमे ॥४॥श्रीकृष्ण उवाच-कथयिष्यामि राजेंद्र भवतः स्नेहकारणात्पुरुषोत्तममासस्य माहात्म्यं पापनाशनम् ॥५॥अधिमासे तु संप्राप्ते भवेदेकादशी तु याकमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः ॥६॥तस्या व्रतप्रभावेन कमलाभिमुखी भवेत्ब्राह्मे मुहूर्त्ते चोत्थाय संस्मृत्य पुरुषोत्तमम् ॥७॥स्नात्वा चैव विधानेन नियमं कारयेद्व्रतीगृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम् ॥८॥गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितम्शिवक्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ ॥९॥लक्षं तुलस्याः सांनिध्ये ह्यनंतं विष्णुसन्निधौअवंत्यामभवत्कश्चिच्छिवशर्मा द्विजोत्तमः ॥१०॥तस्यात्मजास्तु पंचासन्कनिष्ठो दोषवानभूत्तदा पित्रा परित्यक्तस्त्यक्तः स्वजनबांधवैः ॥११॥कुकर्मणः प्रभावेन गतो दूरतरं वनम्एकदा दैवयोगेन तीर्थराजं समागतः ॥१२॥क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत्मुनीनामाश्रमांस्तत्र विचिन्वन्क्षुधयार्दितः ॥१३ ॥हरिमित्रमुनेस्तत्र ददर्शाश्रममुत्तमम्पुरुषोत्तममासे वै जनानां च समागमे ॥१४॥तत्राश्रमे कथयतां कथां कल्मषनाशिनीम्ब्राह्मणानां मुखात्तेन श्रद्धया कमला श्रुता ॥१५॥एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनीजयशर्मा विधानेन श्रुत्वेमां कमला तिथिम् ॥१६॥एकादशीपुण्यतमा भुक्तिमुक्तिप्रदायिनीव्रतं कृतं च तैः सार्द्धं स्थित्वा शून्यालये तदा ॥१७॥निशीथे समनुप्राप्ते लक्ष्मीस्तत्र समागतावरं ददामि भो विप्र कमलायाः प्रभावतः ॥१८॥जयशर्मोवाच -का त्वं कस्यासि रंभोरु प्रसन्ना च कथं ममइंद्राणी सुरनाथस्य भवानी शंकरस्य वा ॥१९॥गंधर्वी किन्नरी वाथ वधूर्वा चंद्रसूर्ययोःत्वत्सदृक्षा न दृष्टा च न श्रुता च शुभानने ॥२०॥लक्ष्मीरुवाच-प्रसन्ना सांप्रतं जाता वैकुंठादहमागताप्रेरिता देवदेवेन कमलायाः प्रभावतः ॥२१॥पुरुषोत्तममासस्य या पक्षे प्रथमे भवेत्तस्या व्रतं त्वया चीर्णं प्रयागे मुनिसंनिधौ ॥२२॥व्रतस्यास्य प्रभावेन वशगाहं न संशयःतववंशे भविष्यंति मानवा द्विजसत्तम ॥२३॥मत्प्रसादादवाप्स्यंति सत्यं ते व्याहृतं मयाब्राह्मण उवाच-प्रसन्ना यदि मे पद्मे व्रतं विस्तरतो वद ॥२४॥यत्कथासु प्रवर्तंते साधवो ये जना द्विजाःलक्ष्मीरुवाच-श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥२५॥दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततःउत्तमः श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव वा ॥२६॥पठित्वा मुच्यते सद्यो महापातककोटिभिःमासानां परमो मासः पक्षिणां गरुडो यथा ॥२७॥नदीनां च यथा गंगा तिथीनां द्वादशी तिथिःअद्यापि निर्जराः सर्वे भारते जन्मलिप्सवः ॥२८॥तमर्चयंति विविधा नारायणमनामयम्ये यजंति सदा भक्त्या देवं नारायणं प्रभुम् ॥२९॥तानर्चयंति सततं ब्रह्माद्या देवतागणाःयेऽपि नामपरा ये च हरिकीर्त्तनतत्पराः ॥३०॥हरिपूजापरा ये च ते कृतार्थाः कलौ युगेःशुक्ले वा यदि वा कृष्णे भवेदेकादशी द्वयम् ॥३१॥गृहस्थानां भवेत्पूर्वा यतीनामुत्तरा स्मृताएकादशी द्वादशी च रात्रिशेषे त्रयोदशीतत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ॥३२॥एकादश्यां निराहारः स्थित्वाहमपरेऽहंनिभोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाच्युत ॥३३॥अमुं मंत्रं समुच्चार्य देवदेवस्य चक्रिणःभक्तिभावेन तुष्टात्मा उपवासं समाचरेत् ॥३४॥कुर्याद्देवस्य पुरतो जागरं नियतो व्रतीगीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ॥३५॥ततः प्रातः समुत्थाय द्वादशीदिवसे व्रतीस्नात्वा विष्णुं समभ्यर्च्य विधिवत्प्रयतेंद्रियः ॥३६॥पंचामृतेन संस्नाप्य एकादश्यां जनार्दनःद्वादश्यां च पयःस्नानाद्धरेः सारूप्यमश्नुते ॥३७॥अज्ञानतिमिरांधस्य व्रतेनानेन केशवप्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥३८॥एवं विज्ञाप्य देवेशं देवदेवं गदाधरम्ब्राह्मणान्भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥३९॥ततः स्वबंधुभिः सार्द्धं नारायणपरायणःकृत्वा पंचमहायज्ञान्स्वयं भुंजीत वाग्यतः ॥४०॥एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम्स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् ॥४१॥इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधेसोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः ॥४२॥श्रीकृष्ण उवाच-एवं यः कुरुते राजन्कमलाव्रतमुत्तमम्शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते ॥४३॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पुरुषोत्तममासस्य कृष्णा कमलानामैकादशीनाम द्विषष्टिमोऽध्यायः ॥६२॥ N/A References : N/A Last Updated : November 19, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP