वन्दे श्रीगजमुखमगजनिबालम । विधुसुललितभालम ॥ध्रु०॥
चन्दनमण्डितशुण्डादण्डम । मदमर्दितगण्डम ।
साड्ग.श्रीविभवकरण्ड्म । कृतदितिकुलदण्डम ।
दूरीकृतपदनतजनभवजालम ॥ वन्दे ॥१॥
गौरीपरमेश्वरकुतुकारामम । कृतविघ्नविरामम ।
कामं त्रिभुवनैकपूरितकामम । सुवरदमभिरामम ।
शरणागतपरिजनकरुणापालम ॥ वन्दे ॥२॥
आद्यं विद्यामृतपारावारम । विधिजगदाधारम ।
कण्ठलम्बितमणिमुक्तहारम । श्रितसम्पदगारम ।
धीरं कविरायपिकैकरसालम ॥ वन्दे ॥३॥