संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५०६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५०६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! सरस्वत्या रक्तसलिलवाहिता ।यथा जाता पुरा तां ते प्रवक्ष्यामि च पावनीम् ॥१॥विश्वामित्रस्य च वशिष्ठस्याऽऽसीद् विमनस्कता ।ब्रह्मणा ब्राह्मणैश्चोक्तो विश्वामित्रः पुनः पुनः ॥२॥ब्राह्मणोऽयं ब्राह्मणोऽयं ब्रह्मर्षिः क्षत्रियोऽपि वै ।वशिष्ठेन तु नैवोक्तः शृणु तत्कारणं प्रिये ॥३॥आसीत् पुरा ऋचीकाख्यो भृगुपुत्रो महामुनिः ।व्रताध्ययनसम्पन्नस्तपस्वी चैकदा तु सः ॥४॥तीर्थयात्राप्रसंगेन ययौ भोजकटं पुरम् ।कौशिकी च नदी यत्र यत्र गाधिर्महीपतिः ॥५॥तस्यां स्नात्वा प्रसन्तर्प्य पितृदेवान् जजाप सः ।तावत् तीरे तत्र चैका स्नानार्थं राजकन्यका ॥६॥युवती रूपसम्पन्ना सर्वावयवशोभना ।समायाता च तां दृष्ट्वा मुनिर्मुमोह कामतः ॥७॥कस्येयं कन्यका चेति लोकान् पप्रच्छ, ते जनाः ।प्राहुः गाधिसुता चास्ति गौरीपूजनलालसा ॥८॥ईहमाना सुभर्तारं व्रतं करोति कान्तदम् ।अत्र ब्रह्म जपित्वा च पूजयित्वा यथाक्रमम् ॥९॥नैवेद्यं विविधं गौर्यै दत्वा करोति गायनम् ।नृत्यं च वादनं चापि नित्यं गौरीप्रतुष्टये ॥१०॥श्रुत्वा स मुनिराट् गाधिं प्रतिययौ सुलालसः ।ऋचीकं त्वागतं वीक्ष्य राजा सत्कारमाचरत् ॥११॥कृत्वाऽर्हणां ऋषिं कृताञ्जलिः पप्रच्छ भावतः ।निस्पृहस्यापि ते विप्र किमागमनकारणम् ॥१२॥यथेष्टं मे समाचक्ष्व प्रयच्छामि च तेऽखिलम् ।ऋचीको मोहभावेन ययाचे तां सुकन्यकाम् ॥१३॥ब्राह्मणेन विवाहेन तां मे देहीति चाब्रवीत् ।सा मया वी क्षिता गौरीपूजायामिति चाऽब्रवीत् ॥१४॥तच्छ्रुत्वा भयसन्त्रस्तो गाधिर्बुद्धिमतां वरः ।दरिद्रं जरठं मत्वा प्रोवाच नीतिसंभृतम् ॥१५॥अस्माकं कन्यकादाने शुल्कमस्ति द्विजोत्तम ।तच्चेद् यच्छसि कन्यां तां तुभ्यं दास्याम्यसंशयम् ॥१६॥ऋचीकः प्राह राजँस्त्वं कन्याशुल्कं वदात्र मे ।द्रुतं यच्छामि ते सर्वं दुर्लभं चापि गोलके ॥१७॥गाधिः प्राहैकतः श्यामकर्णानां वाजिनां द्विज ।शतानि सप्त मे देहि श्वेतानां चैव सर्वतः ॥१८॥स तथेति प्रतिज्ञाय ऋचीकस्तपसोज्ज्वलः ।गंगातीरं ययौ चापोवोह्लेति च जजाप वै ॥१९॥चतुःषष्टिऋचासूक्तं वारुणं नियुयोज ह ।तावत् पूर्णे जपे देवो वरुणस्तत्र चाययौ ॥२०॥तेन सार्धं वाजिनश्च निष्क्रान्ताः सलिलात् तदा ।सर्वे श्वेताः सुवेगाश्च श्यामैकश्रवणाः शुभाः ॥२१॥शतानि सप्तसंख्यानि तावत्संख्यैर्नरैर्युताः ।ऋचीकोऽपि समादाय नत्वा तं वरुणं तदा ॥२२॥अश्वान् गृहीत्वा पुरुषैर्गाधिं जगाम वै द्रुतम् ।तस्मै निवेदयामास कन्यार्थे तान् हयोत्तमान् ॥२३॥गाधिस्तु तान् समागृह्य सर्वान् वाजिमखस्य च ।कन्यां तस्मै ददौ विप्रवह्निसाक्ष्ये विधानतः ॥२४॥ऋचीको धर्मपत्न्या च निष्कामः समपद्यत ।कालान्तरे सतीं प्राह सेवमानां पतिव्रताम् ॥२५॥अहं तपसे यास्यामि वरं वृणु ददामि ते ।सापि स्वार्थविहीनस्य श्रुत्वा वाक्यमृषेस्ततः ॥२६॥स्वस्या जननीं प्रोवाच वृत्तान्तं शोकधर्षिता ।जननी तां सुतां प्राह पुत्रार्थं वृणु पुत्रिके ॥२७॥ब्राह्मण्येन युतं पुत्रं त्वदर्थं वृणु पुत्रिके ।क्षात्रेण तेजसा युक्तं मदर्थं च सुतं वृणु ॥२८॥सा पतिं सम्प्रणम्याऽऽह जनन्युक्तं सविस्तरम् ।ऋचीको यज्ञदेवार्थं प्रचकार चरुद्वयम् ॥२९॥पुत्रेष्टिं विधिवत् कृत्वा चरुं द्वेधा विभज्य च ।एकस्मिन् योजयामास ब्राह्म्यतेजोऽखिलं यशः ॥३०॥अन्यस्मिन् योजयामास क्षात्रं तेजोऽखिलं ततः ।भार्यायै प्रददौ ब्राह्म्यतेजोयुक्तं चरुं हि सः ॥३१॥अब्रवीत् प्राशय त्वेनमश्वत्थाऽऽलिङ्गनं कुरु ।ततः प्राप्स्यसि सत्पुत्रं ब्रह्मतेजःसमन्वितम् ॥३२॥द्वितीयं च चरुं पत्न्या मात्रे ददौ सुतार्थकम् ।क्षात्रतेजोमयं दत्वा प्राह प्राश्य चरुं त्विमम् ॥३३॥न्यग्रोधालिङ्गनं कृत्वा प्राप्स्यसि क्षत्रियं सुतम् ।अथ माता सुतां प्राह रहस्ये भाविनोदिता ॥३४॥सर्वलोकस्य वै स्वार्थे श्रैष्ठ्यं क्षौद्र्यं परार्थके ।मच्चर्वपेक्षया पुत्रि त्वच्चरौ श्रेष्ठता भवेत् ॥३५॥श्रुत्वा पुत्री मातृवत्सा भ्रातृश्रैष्ठ्याभिलाषिणी ।अकरोद् व्यत्ययं वृक्षे चरौ चापि हि पद्मजे ॥३६॥ततः पुंसवने स्नाने ते शुभे प्रेमविहले ।दधाते गर्भमेका तु सुता क्षात्रेण तेजसा ॥३७॥भूत्वा गर्भवती नित्यं राज्यभोगे मनो दधे ।युद्धवार्तास्तथा चक्रे हस्त्यश्वारोहणादिजाः ॥३८॥रक्तवस्त्रोत्तमभूषाः कैसरं च विलेपनम् ।पितुर्गृहात् समानीय शृंगारं च करोति सा ॥३९॥दृष्ट्वैवं चेष्टितं पत्न्याः ऋचीकः प्राह तां तदा ।किं प्रिये व्यत्ययश्चर्वोः कृतो वा वृक्षयोस्तथा ॥४०॥चेष्टया ते ज्ञायतेऽत्र भाविनं को विलंघयेत् ।द्विजाचारविहीनस्ते ध्रुवं पुत्रो भविष्यति ॥४१॥तव माता चेष्टया च क्षात्रं धर्मं विना सदा ।दृश्यते नु शमस्था च जपहोमपरायणा ॥४२॥तीर्थयात्रा कथाश्रावे सश्रद्धा तेन् तेऽनुजः ।भविष्यति ब्राह्मणस्य तेजसा ब्रह्मणा समः ॥४३॥यादृशा दौर्हृदाः सन्ति सगर्भाणां तु योषिताम् ।तादृशानि लक्षणानि पुत्रे वसन्ति योषिताम् ॥४४॥पित्रोर्निषेकसमये सगर्भायां स्त्रियां तथा ।यादृशी वर्तते चेष्टा सा गर्भे प्रतिबिम्बते ॥४५॥अथ पत्नी ऋषिं प्राह क्षमस्व तां क्षतिं मम ।व्यत्यासो यः कृतो नाथ पुनर्दयां कुरु प्रभो ॥४६॥ब्राह्मणो मे भवेत् पुत्रो मन्मातुः क्षत्रियः सुतः ।ऋचीकः प्राह नैवं स्याद् गतं जातं तथैव तत् ॥४७॥किन्तु पुत्रगणाः क्षात्राः पौत्रे यास्यन्ति मद्वरात् ।इत्येवं वै दयां कुर्वे पुत्रस्ते ब्राह्मणोऽस्तु वै ॥४८॥इत्येवं वरदानेन जमदग्निः सुतोऽभवत् ।जमदग्नेः सुतः पर्शुरामः क्षात्रक्रमोऽभवत् ॥४९॥एकविंशतिधा भूमौ चक्रे रणं तु राजभिः ।अथ गाधेर्गृहपत्नी दधे गर्भं ततः परम् ॥५०॥ब्राह्मणीवत् समाचारा सुषुवे पुत्रमुत्तमम् ।ब्राह्मणं कर्मणा योगसन्ध्याध्यानपरायणम् ॥५१॥विश्वामित्रइतिख्यातं क्षात्रधर्मविरागिणम् ।यदा राज्यक्षमो जातो गाधिना योजितश्च सः ॥५२॥पितृपैतामहं राज्यं गृहाण वेदमार्गगः ।पुत्रे दत्वा सोऽपि राज्यं विश्वामित्रो वने स्थितः ॥५३॥सकलत्रो देवविप्रपूजापरायणः शुचिः ।तापसश्च कृष्णनारायणध्यानपरः सदा ॥५४॥एकदा वनमध्येऽयं मृगयार्थं भ्रमन् ययौ ।वसिष्ठस्याऽऽश्रमं रम्यं मृगद्रुशिष्यशोभितम् ॥५५॥वशिष्ठस्तं समायान्तं प्रत्युत्थायोन्मुखं ययौ ।दत्वा तस्मै तदाऽर्घं च मधुपर्कं यथोचितम् ॥५६॥अब्रवीद् राजयोग्यं च स्वागतं ते महीपते ।वद कृत्यं करोम्यद्य सत्कारं ते यथोचितम् ॥५७॥विश्वामित्रस्तदा प्राह सैन्यं मे निकटे स्थितम् ।मृगयार्थं समायातो जलं पीत्वा प्रयामि च ॥५८॥बुभुक्षितेषु भृत्येषु यः स्वामी कुरुतेऽशनम् ।स याति नरकं घोरं तस्माद् यास्यामि वै द्रुतम् ॥५९॥वशिष्ठश्च तदा प्राह सर्वानानय तानिह।अस्ति मे नन्दिनी धेनुर्वाञ्च्छितं या प्रयच्छति ॥६०॥तस्या बलेन सर्वान् वै तृप्तिं दास्यामि चोत्तमाम् ।भूत्वैवं त्वानयामास सैन्यं महीपतिस्ततः ॥६१॥वशिष्ठः कामधेनुं तामुवाच स्वागताय वै ।विश्वामित्रस्य राजर्षेर्यावद्भोजनलब्धये ॥६२॥कुरुष्व तृप्तिपर्यन्तं खाद्यपेयादिकं शुभम् ।अश्वानां च गजादीनां यवसादिकमित्यपि ॥६३॥ततो विश्रामलब्ध्यर्थं गृहोपकरणादिकम् ।धेनुर्बाढं समुवाच ससृजे तत्क्षणं बहु ॥६४॥भक्ष्यं भोज्यं लेह्यचोश्ये पेयं लेप्यं च भोग्यकम् ।दासायुतं तथा दासीदशसाहस्रमित्यपि ॥६५॥ते दासा दासिका विश्वामित्राय च बलाय च ।ददुः शीघ्रं सुभोज्यानि शर्कराघृतवन्ति च ॥६६॥दधि दुग्धं मधु मिष्टं पेयं सुशीतलं जलम् ।एवं गवा नृपः सैन्ययुतस्तृप्तिं विधापितः ॥६७॥विश्वामित्रः कौतुकं च दृष्ट्वाऽऽश्चर्यं जगाम ह ।अहो चित्रं गवा तृप्तिं नीता वयं सहस्रशः ॥६८॥तस्मात्सन्नीयतामेषा स्वगृहं धेनुरुत्तमा ।ततः प्राह वशिष्ठाय तव दास्यामि चेप्सितम् ॥६९॥वरान् रथांश्च हस्त्यश्वान् गा अन्याश्च सहस्रशः ।देहि मे नन्दिनीं राज्ये योग्यां वशिष्ठ सर्वथा ॥७०॥वशिष्ठस्तु तदा प्राह होमधेनुरियं नृप ।अस्मत्कामप्रदा दैवी ह्यदेया गौद्विजन्मनाम् ॥७१॥सर्वकामप्रदा चेयं तापसानां कृते स्थिता ।अदेया सर्वथा गौश्च विक्रये मातृविक्रयः ॥७२॥न साम्नां नैव भेदेन न दानेन प्रसह्य न ।न विक्रीय न वा चान्यैरुपायैस्त्वां समर्पये ॥७३॥तस्माद् गच्छ महाराज स्वस्थानं च सुखी भव ।विश्वामित्रस्ततः प्राह राज्यस्य सत्तया मुनिम् ॥७४॥यत्किञ्चिद् विद्यते रत्नं पार्थिवस्य क्षितौ हि तत् ।सर्वं स्याद् राजकीयं वै नीतिश्चेयं मुने सदा ॥७५॥तस्मान्नयामि धेनुं वै नृपतेर्धनमेव तत् ।इत्युक्त्वाऽऽज्ञापयामास भृत्यवर्गं ततश्च ते ॥७६॥भृत्या धेनुं निगृह्यैव रश्मिना निन्युरुल्बणाः ।अथ गच्छति सा नैव त्वश्रुपूर्णा बभूव ह ॥७७॥दण्डप्रहारैस्ते निन्युः प्रसह्याऽऽकृष्य भृत्यकाः ।लोकयन्तं वशिष्ठं सा पप्रच्छ दुःखकर्षिता ॥७८॥किं दत्ताऽस्मि मुनिश्रेष्ठ त्वयाऽहं चाऽस्य भूपतेः ।वशिष्ठः प्राह धेनो त्वं न दत्ताऽसि मया शुभे ॥७९॥प्राणा यान्तु मम मातर्मा याहि त्वं मयि स्थिते ।तद्रक्षस्व स्वयं धेनो ह्यात्मानं मत्प्रभावतः ॥८०॥इत्युक्ता कोपमापन्ना चक्रे हुंकारगर्जनाः ।हुँकारेभ्यश्च फेनेभ्यो रोमेभ्यः स्वेदमण्डलात् ॥८१॥निष्क्रान्ताः सायुधा म्लेच्छाः पुलिन्दाः शबराः खसाः ।योद्धारो व्योममार्गस्था अच्छेद्या अप्रधृष्यकाः ॥८२॥असंख्याता अहनँस्ते विश्वामित्रस्य तान् महान् ।ततः कोपपरीतात्मा विश्वामित्रः स्वयं धनुः ॥८३॥सज्यं कृत्वा च मरणे निश्चितोऽतियुयोध ह ।तथापि सैनिका अश्वा गजा भटाः पदातयः ॥८४॥विश्वामित्रस्य वै सर्वे हता धेनूद्भवैर्भटैः ।विश्वामित्रं परित्यज्य शेषं सर्वं निपातितम् ॥८५॥कृपां कृत्वा वशिष्ठस्तु नन्दिनीमिदमब्रवीत् ।रक्ष नन्दिनि भूपालं म्लेच्छैरेतैः समावृतम् ॥८६॥राजा हि यत्नतो रक्ष्यो राजा नारायणांशजः ।सन्मार्गे वर्तते सर्वो राजदण्डभयाद् यतः ॥८७॥इति श्रुत्वा नन्दिनी सा म्लेच्छान् वारयितुं ययौ ।तावद्राजा रुषा तां गां प्रहर्तुमुपचक्रमे ॥८८॥वशिष्ठस्ते समालोक्य गोप्रहारं नृपकृतम् ।तं बाहुं स्तम्भयामास सहेति तस्य भूपतेः ॥८९॥जडीभूतो नृपो लज्जायुक्तो वशिष्ठमाह च ।रक्ष वशिष्ठ मां म्लेच्छैर्वध्यमानं जडीकृतम् ॥९०॥ममाऽपराधान्नष्टं मे सर्वं सैन्यमनन्तकम् ।तस्माद् यास्याम्यहं हर्म्यं न युद्धेन प्रयोजनम् ॥९१॥एवमुक्तो वशिष्ठश्च स्तम्भदोषविवर्जितम् ।विश्वामित्रस्य तु करं चकाराऽऽह सुखावहम् ॥९२॥गच्छ राजन् विमुक्तोऽसि मा विरोधय भूसुरैः ।राजा ययौ स्वभवनं प्रलापमकरोन्मुहुः ॥९३॥धिग्बलं क्षत्रियाणां तु धिग्वीर्यं धिक्प्रजीवितम् ।श्लाघ्यं ब्रह्मबलं चैकं ब्राह्म्यं तेजो हि केवलम् ॥९४॥तच्च कर्म मया कार्यं यथा स्याद् ब्राह्मणं बलम् ।तपसाऽऽराधनया च चरिष्यामि महातपः ॥९५॥अथ विश्वसहं पुत्रं राज्ये संस्थाप्य भूपतिः ।हिमवन्तं ययौ तत्र तपश्चक्रे सुदारुणम् ॥९६॥शतवर्षत्रयं फलाहारो बभूव केवलम् ।वर्षास्वाकाशसंस्थश्च ग्रीष्मे पञ्चाग्नितापनः ॥९७॥शैत्ये शीतजलावासो बभूव च ततः परम् ।शतवर्षत्रयं शुष्कपर्णाहारो बभूव सः ॥९८॥शतवर्षत्रयं ततो जलाहारोऽभवन्नृपः ।अथ वर्षशते वाय्वाहारो बभूव तत्परम् ॥९९॥इन्द्रो भयेन संगम्योवाच तं तापसं नृपम् ।तुष्टोऽस्मि तव राजेन्द्र वरं वृणु यथेप्सितम् ॥१००॥विश्वामित्रस्तदा प्राह देहि ब्राह्मण्यमेव मे ।तदर्थं वै तपश्चर्यां करोमि नान्यकाम्यया ॥१०१॥इन्द्रः प्राह क्षत्रियस्याऽनेन देहेन वै कुतः ।संस्कारैर्जायते चाष्टाचत्वारिंशद्भिरेव यत्। ॥१०२॥ब्राह्मण्यं तद् भवेद् राजन्नन्यं वरं ततो वृणु ।राजा प्राह न ब्राह्मण्यादन्यत् सम्प्रार्थयाम्यहम् ॥१०३॥परित्यक्ष्याम्यहं देहं प्राप्स्ये वा विप्रतां व्रज ।इन्द्रो दिवं ययौ श्रुत्वा राजा तेपेऽतिदुष्करम् ॥१०४॥पुनर्वर्षसहस्रं वै व्यतिक्रान्तं ततः पुनः ।आजगाम स्वयं ब्रह्मा पुण्यैर्देवर्षिभिः सह ॥१०५॥ब्रह्मा प्राह प्रतुष्टोऽस्मि वरं वरय चेप्सितम् ।राजा प्राह च विप्रत्वं देहि मे नान्यदीप्सितम् ॥१०६॥ब्रह्मा प्राह धरापृष्ठे विप्रत्वं क्षत्रियस्य न ।क्षत्रियेण प्रजातस्य विप्रत्वं जायते कथम् ॥१०७॥राजा प्राहाऽसमर्थश्चेद् याहि स्वं भवनं पितः ।देहं त्यक्ष्यामि वा प्राप्स्ये विप्रत्वं तपसा भुवि ॥१०८॥अथाऽब्रवीदृचीकोऽत्र ब्राह्म्यैर्मन्त्रैर्मया पितः ।योजितश्च चरुस्तत्राऽमितं ब्राह्मण्यमर्पितम् ॥१०९॥क्षत्रियात् क्षात्रधर्माऽपि ब्राह्मणो भवितुं ह्ययम् ।अर्हत्येव निषेके ब्राह्मणत्वं त्वस्य मिश्रितम् ॥११०॥ततश्चैनं कीर्तयस्व ब्रह्मर्षिं त्वं पितामह ।ब्राह्म्यधर्मसमाचारो वर्ततेऽयं सदा शुचिः ॥१११॥श्रुत्वा ब्रह्मा क्षणं ध्यात्वा ज्ञात्वा यथार्थकारणम् ।ब्रह्मर्षिस्त्वमिति प्राह सर्वे प्राहुस्तथैव तम् ॥११२॥वसिष्ठस्तु रुषा प्राह नाऽहं वक्ष्यामि तं तथा ।क्षत्रियस्य सुतं कस्माद् विप्रं वक्ष्यामि बोधवान् ॥११३॥इत्युक्त्वा प्रययौ शीघ्रं वसिष्ठो हाटकेश्वरम् ।क्षेत्रं तेपे तपस्तत्र विश्वामित्रोऽपि चाययौ ॥११४॥वशिष्ठस्य वधार्थं वै चिन्तयामास संवसन् ।विश्वामित्रो देववतीनद्याः स्थानेऽभिचारकम् ॥११५॥चकार दारुणैर्मन्त्रैर्जुह्वानो जातवेदसम् ।ततो वह्नेस्तु निष्क्रान्ता शक्तिर्वानरवाहना ॥११६॥भयानकाऽऽयुधहस्ता विश्वामित्रेण सा तदा ।योजिता तु वसिष्ठस्य वधार्थं सा ययौ द्रुतम् ॥११७॥अथाऽऽश्रमे वशिष्ठस्य तत्कालं दुर्निमित्तकम् ।अदृश्यत पपातोल्का निहत्य रविमण्डलम् ॥११८॥रक्तवृष्टिरस्थिमिश्रा व्यजायत क्षणान्तरे ।शिवा प्राचीं समुद्दिश्य रुरोद दीर्घनादतः ॥११९॥एवं जाते महाशक्तिर्वह्नेः पर्वतसदृशी ।अदृश्यत समायान्ती कृत्यारूपा सचेतना ॥१२०॥सामवेदोक्तमन्त्रैः सा वशिष्ठेन निरोधिता ।महामन्त्रैः पुनस्तत्र स्तम्भिताऽऽथर्वणोद्भवैः ॥१२१॥ततो नारीस्वरूपा सा प्रोवाच मुनिपुंगवम् ।सामवेदः सुप्रमाणं तवापि जगतामपि ॥१२२तेनाऽहं विधिना सृष्टा प्रेरिता मुनिना तथा ।मा कुरुष्वाऽप्रमाणं तं प्रहारं सह मे ऋषे ॥१२३॥रक्षयिष्यामि ते प्राणान् स्वल्पस्पर्शेन सार्थिका ।वशिष्ठः प्राह यद्येवं कुरु स्पर्शं दयावति ॥१२४॥मया त्वाथर्वणा मन्त्राः संहृता मर्म मा स्पृश ।इत्युक्ता सा वशिष्ठं वै स्पृष्ट्वा पपात भूतले ॥१२५।सा च शक्तिर्देवधारा नाम्ना तत्रैव तिष्ठति ।पूजनाच्छ्रवणात्त्वस्या भक्तिं मुक्तिं च संलभेत् ॥१२६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विश्वामित्रवसिष्ठयोः कामधेनुनिमित्तकक्लेशः, ऋचीकस्य गाधिसुतया श्यामकर्णाश्वविनिमयेन विवाहः, मातृपुत्र्योर्व्यत्यासेन पुत्रार्थचरुप्राशनम्, पौत्रयोर्व्यत्यासगुणाः, गाधेर्विश्वामित्रः, ऋचीकस्य जमदग्निः, विश्वामित्रस्य तपो ब्राह्मण्यं च, विश्वंसहः सुतः, विश्वामित्रप्रेरितशक्तिसहविश्वामित्रस्तंभनमित्यादिनिरूपणनामा षडधिकपञ्चशततमोऽध्यायः ॥५०६॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP