संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १७७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १७७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७७ Translation - भाषांतर श्रीनारायण उवाच-दक्षस्तदा भयोद्विग्नो विष्णुं सस्मार पद्मजे ।देवदेव हरेकृष्ण नारायण जगद्गुरो ॥१॥मम रक्षा विधातव्या मखस्य च जनस्य च ।मखभंगो मा भवतु मखात्मकस्त्वमच्युत ॥२॥ब्रह्मणा विष्णुना तस्य श्रुता वै प्रार्थना तदा ।हंसं गरुडमारुह्य स्वस्थानात्पुनरागतौ ॥३॥पपात पादयोस्तयोर्भयव्याकुलमानसः ।उत्थाप्य च ततो विष्णुर्दक्षं विक्लिन्नमानसम् ॥४॥प्राह दक्ष शृणु तत्त्वं सर्वथा हितकृद्वचः ।अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ॥५॥ईशस्याऽवज्ञया सर्वं कृतं भवति निष्फलम् ।विफलं केवलं नैव विपत्तिश्च पदे पदे ॥६॥अपूज्या यत्र पूज्यन्ते पूजनीयो न पूज्यते ।त्रीणि तत्र भवन्त्येव दारिद्र्यं मरणं भयम् ॥७॥असत्कृतान्महादेवात् महद्भयमुपस्थितम् ।शंकरो वैष्णवो देवो नारायणपरायणः ॥८॥नारायणस्य भक्तस्य ह्यपराधः कृतस्त्वया ।भक्तापराधिनो रक्षां कर्तुं स्वामी न वै क्षमः ॥९॥शिवस्य शरणं याहि स वै रक्षां करिष्यति ।अहं भक्तपराधीनः सतीनाशेन दुःख्यहम् ॥१०॥क्रूरस्य कृतकार्यस्य फलं प्राप्नुहि किं भवेत् ।दक्षस्तद्वचनं श्रुत्वा विवर्णवदनोऽभवत् ॥११॥प्राह च श्रीहरिं कृष्ण यज्ञारंभो भवद्बलात् ।कृतोऽयं कर्मणां साक्षिन् वेदधर्मस्य सिद्धये ॥१२॥तस्माद् रक्षा विधातव्या यज्ञस्याऽस्य मम प्रभो!त्वां विना रक्षितुं यज्ञं चाऽस्मान् शक्तो न विद्यते ॥१३॥विष्णुः प्राहाऽध्वररक्षा विधातव्या मया ध्रुवम् ।ख्यातो मम पणः सर्वो धर्मस्य परिपालनम् ॥१४॥मर्यादा वेदधर्मस्य रक्षणीया मया सदा ।यज्ञे देवत्रयाणां च तथाऽन्येषां महात्मनाम् ॥१५॥सुरादीनां च भागोऽस्ति वेदो वक्ति न चाऽन्यथा ।त्वया व्यतिक्रमस्तस्य मानेनाचरितोऽध्वरे ॥१६॥वद दक्ष धर्मपणः कथं त्याज्यो मया भवेत् ।कथं सतीशिवौ यज्ञे त्वया नाऽकारितौ पुरा ॥१७॥कथं यज्ञस्य मर्यादा ह्युल्लंघिता विजानता ।किं कर्म किमकर्मेति न किं पश्यसि दुर्मते ॥१८॥देवेनैकेन शून्योऽयं यज्ञो नैव फलप्रदः ।केवलं ज्ञानमाश्रित्य मानमाश्रित्य याजकाः ॥१९॥ईश्वरं च परित्यज्य केवले कर्मणि स्थिताः ।ते नु कर्ममयैः पाशैर्बध्यन्ते बहुजन्मसु ॥२०॥निरयेषु प्रपच्यन्ते हीश्वरस्यऽवमानकाः ।एकत्र तु शिवाख्यस्य भ्रातुः सैन्यमुपस्थितम् ॥२१॥अपरत्र च दक्षादेः पुत्रपौत्रादिवाहिनी ।सर्वे सम्बन्धिनो देवाः कुटुम्बं त्वेकमेव ह ॥२२॥कुत्र सुदर्शनं चक्रं मोक्तव्यं वद मेऽधुना ।कुटुम्बिनां सेवकानां सर्वथा च महात्मनाम् ॥२३॥नाश उपस्थितस्तेऽत्र शिवाऽवमानदोषतः ।नाश आमन्त्रितो बुद्ध्या गृहनाश उपस्थितः ॥२४॥अयं रुद्रगणाधीशो वीरभद्रोऽरिमर्दनः ।सर्वविनाशनार्थं वै चागतोऽस्ति न संशयः ॥२५॥एवं ब्रुवति गोविन्दे सैन्यमापतितं तदा ।परितोऽध्वरभूमौ तद् व्यपश्यन् वै सुरादयः ॥२६॥इन्द्रस्तदा हसन् रुद्रं वीरभद्रं तथा गणम् ।वज्रं धृत्वा करे योद्धुं सज्जोऽभूत् सुरसैन्यकः ॥२७॥इन्द्रः स्वगजमारूढो वस्तारूढोऽनलः स्वयम् ।यमो महिषमारूढो निर्ऋतिः प्रेतवाहनः ॥२८॥वरुणो मकरारूढो मृगारूढोऽनिलस्तथा ।कुबेरः पुष्पकारूढो युयुधे शंकरैः सह ॥२९॥तथाऽन्ये सुरयोद्धारो यक्षचारणगुह्यकाः ।आरुह्य वाहनान्येव युयुधिरे प्रतापिनः ॥३०॥देवानां च गणानां च तदासीत्समरो महान् ।नेदुः शंखाश्च भेर्यश्च महादुन्दुभयस्तथा ॥३१॥डिण्डिमाः पटहा नेदुः रणशृंगाणि गोमुखाः ।तीक्ष्णतोमरनाराचैः सुरा जघ्नुर्गणान् बहून् ॥३२॥इन्द्राद्यैर्लोकपालाद्यैर्गणाः शंभोर्विनिर्जिताः ।भृगोर्मन्त्रजसैन्यैश्च निर्जिताश्च पलायिताः ॥३३॥उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।चण्डिकानां च सैन्यानि मखे तत्राऽऽपतन्ति च ॥३४॥महालयानां सैन्यानि युद्ध्यन्ति ऋभुसंगरे ।कालानां भैरवाणां च भूतप्रेतादिधन्विनाम् ॥३५॥सैन्यानि देवसैन्येश्च शृंभुसैन्यैः रणं व्यधुः ।निपातितानि सर्वाणि ऋभुशृंभुधरांभुभिः ॥३६॥अब्जार्बुदपरार्धानि गमितानि यमक्षयम् ।अरण्यं च शरीराणां समभूत् रणपातिनाम् ॥३७॥पराजितान् स्वकान् दृष्ट्वा वीरभद्रोऽद्रिसन्निभः ।भूतप्रेतपिशाचाँश्च कृत्वा तानेव पृष्ठतः ॥३८॥महागणान्पुरस्कृत्य समापतद्रणांगणे ।महात्रिशूलमादाय पातयामास निर्जरान् ॥३९॥देवान्साध्यगणान्यक्षाँश्चारणान्गुह्यकानपि ।शूलैश्च तोमरैः शक्तिप्रवरैस्ते प्रजघ्निरे ॥४०॥केचिद्द्वेधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः ।अन्यैः शस्त्रैस्तथाऽस्त्रैश्च सुरा भिन्ना महागणैः ॥४१॥कालकवलमन्त्रैश्च स्वभटा जीविताः कृताः ।दक्षभटा विनश्यन्ति कोऽपि तज्जीवकोऽस्ति न ॥४२॥सर्वे पराजिता देवाः पलायनपरायणाः ।युद्धस्थानं परित्यज्य गताः सर्वे त्रिविष्टपम् ॥४३॥केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ।वीरभद्रोऽब्रवीत्सर्वान्दक्षपक्षप्रपातिनः ॥४४॥सर्वे यूयं बालिशत्वादवदानार्थमागताः ।अवदानं प्रयच्छामि समागच्छत मेऽन्तिकम् ॥४५॥हे शक्र हे गुरो भानो शशिन् यम धनेश्वर ।वायो वरुण निर्ऋते शेष सूर्यादयः सुराः ॥४६॥समागच्छत सान्निध्ये प्रयच्छाम्यवदानकम् ।एवमुक्त्वा तीक्ष्णबाणैः शस्त्रैरस्त्रैश्च पर्वतैः ॥४७॥निर्जघान सुरान्सर्वान् दिक्पतीन्द्रसुरेश्वरान् ।ते च पलायनपरा विदुद्रुवुर्दिशो दश ॥४८॥अथ पलायितान्दृष्ट्वा यज्ञनारायणः स्वयम् ।नारायणो नरो भूत्वा दध्मौ शंखं महास्वनम् ॥४९॥श्रुत्वा तं शंखनिर्ह्रादं देवास्ते पुनराययुः ।नन्दिना युयुधे शक्रो वह्निस्तत्राऽश्मना सह ॥५०॥कुष्माण्डाग्रेण धनराट् युयुधे प्राणदानतः ।यमेन च महालोको मुण्डस्तु वरुणेन वै ॥५१॥नैर्ऋतेन तु चण्डश्च भृंगिणा वायुरित्यपि ।योगिनीचक्रसंयुक्तो भैरवीनायको महान् ॥५२॥विदार्याऽपरदेवान्वै पपौ शोणितमुष्णकम् ।क्षेत्रपाला जजक्षुस्तान्काली च रुधिरं पपौ ॥५३॥अवशिष्टास्तदा देवाः प्रचक्रिरे पलायनम् ।विष्णुर्ब्रह्मा स्वस्वलोकं जग्मतुः प्राक् ततोऽध्वरात् ॥५४॥विनाशोऽर्बुदकोटीनां तदाऽभूदध्वरस्थले ।प्रविष्टाश्च गणा यज्ञे मर्दनं वै प्रचक्रिरे ॥५५॥कैश्चिदुत्पाटिता यूपाः केचित्कुण्डान्यपूरयन् ।कैश्चित्तु मण्डपा ध्वस्ता वेदाश्च खनिताः परैः ॥५६॥कैश्चिद्धवींषि भुक्तानि पीतान्याज्यानि चाऽपरैः ।कैश्चिद्ध्वस्तानि चान्नानि पीतानि पायसानि च ॥५७॥पक्वान्नानि प्रभुक्तानि क्षीराण्यास्वादितानि च ।चूर्णितानि च भग्नानि यज्ञपात्राणि सर्वथा ॥५८॥भग्नाश्च शकटाः कैश्चित् स्रुचः स्रुवाश्च मोटिताः ।पशवः खादिताः कैश्चित् कुण्डाग्नयो विनाशिताः ॥५९॥दुकूलानि च रत्नानि कैश्चिद्धृतानि तत्स्थले ।तमुपद्रवमालोक्य यज्ञो मृगरूपधृक् ॥६०॥भीतः पलायितो व्योम्ना वीरभद्रेण संधृतः ।ततश्चालातचक्रेण विशिरस्कस्तदा कृतः ॥६१॥नन्दी भगस्य नेत्रे द्वे समुज्जहार यो भगः ।शपन्तं दक्षं नेत्राभ्यामसूसुचत्पुनः पुनः ॥६२॥चण्डश्चोत्पाटयामास पूष्णो दन्तान्प्रवेगतः ।शपमाने हरे पूर्वं योऽहसद् दर्शयन्दतः ॥६३॥सरस्वत्याश्च नासाग्रं चिच्छेद वीरभद्रकः ।अदितेरोष्ठपुटकौ चिच्छेदश्चान्यभद्रकः ॥६४॥व्यपोथयद् भृगुं पृथ्व्यां मणिभद्रो महाबलः ।पदाऽऽक्रम्योरसि तस्याऽकार्षीद्वै श्मश्रुलुंचनम् ॥६५॥अर्यम्णो बाहुयुगलं तदोत्पाटितवान्परः ।अग्नेरुत्पाटयामास जिह्वामन्यो गणस्तदा ॥६६॥चिच्छेद वायोर्वृषणौ गणोऽन्यो बलवर्धनः ।गणो यमशिराः कश्चित् यमं बबन्ध रज्जुभिः ॥६७॥शृंगी च नैर्ऋतं वृक्षे बबन्ध जटया तदा ।अतोलयच्च शाखायां ताडयामास कट्यधः ॥६८॥कुबेरं पदयोर्धृत्वा रज्ज्वा बध्वा ह्यधोमुखम् ।तोलयामास यूपोर्ध्वं गणो धराभुनामकः ॥६९॥रुद्रास्तु वामयामासुर्भक्षकानध्वराहुतीः ।वरुणोदरमापीड्योद्गीरयामासुराज्यकम् ॥७०॥इन्द्रो मयूररूपेणोड्डीय च्छन्नोऽभवद् गिरौ ।प्रथमाः कालयामासुरन्यानपि च याजकान् ॥७१॥प्रगृह्यारिष्टनेमिनमंगिरसं च कश्यपम् ।दत्तं कृशाश्वं पादेन जघान मूर्घ्नि भद्रकः ॥७२॥ततोऽन्यानपि देवादीन् विदार्य पृथिवीतले ।मुनीनृषीन् वीरभद्रादयः शान्तिं न वै ययुः ॥७३॥विडम्बिताः स्वधा स्वाहा दक्षिणाऽन्याश्च योषितः ।मन्त्रास्तन्त्रास्तथा चान्ये वस्तुशेषा विनाशिताः ॥७४॥ववृषुस्ते पुरीषाणि विनानाग्नौ रुषा गणाः ।प्रमथैः सा कृता यज्ञभूमिः श्मशानसन्निभा ॥७५॥अतिशोच्यदशापन्ना वीरभद्रो जगौ गणान् ।क्व स दक्षो दुराचारः क्व च यज्ञ भुजः सुराः ॥७६॥सर्वानानयत धृत्वा यात द्रुततरं गणाः ।इत्याज्ञया धावतस्तान् दृष्ट्वा क्रुद्धो जनार्दनः ॥७७॥कृतवान् शक्तिह्रासं यत् गणाः शुष्कतृणायिताः ।तेन क्रुद्धो वीरभद्रो ददर्श शार्ङ्गिणं हरिम् ॥७८॥प्राह दक्षं समानीय देहि युद्ध्यस्व वा मया ।हरिः प्राहाऽहमप्यत्र दक्षरक्षणदक्षधीः ॥७९॥पश्यामि तव सामर्थ्यं कथं दक्षं हरिष्यसि ।इति कृत्वा धृतं चक्रं मुमोच वीरभद्रके ॥८०॥हाहाकारो महानासीत् लग्नं भद्रगले तदा ।यावत् कृन्तति कण्ठं च कण्ठे शंभुः समास्थितः ॥८१॥कण्ठं त्यक्त्वा समायातं विप्णुहस्तगतं ह्यभूत्॥गरुडश्च तदा क्रुद्धस्त्वेकैकं प्रमथं नखैः ॥८२॥दारयामास लक्षाँस्ते प्रापुः शोभां तु कैंशुकीम् ।सर्वान्गणाँस्ततो विष्णुः स्तंभयामास तत्स्थले ॥८३॥वीरभद्रविनाशाय यावत्सुदर्शनं हरिः ।प्रैरयच्च पुनस्तावद् व्योमवाणी जगाद् तम् ॥८४॥हरे साहसं माऽकार्षार्वीरभद्रे हरः स्थितः ।हरनाशाय ते यत्नो लज्जावहो निवर्तय ॥८५॥दक्षः कर्मफलं यातु माऽन्यः कश्चित् तथाऽऽचरेत् ।श्रुत्वैतां च हरिश्चक्रं न मुमोच पुनस्तदा ॥८६॥अन्तर्वेद्यान्तरगतं निलीनं प्राप्य दक्षकम् ।वीरभद्रो विनद्योच्चैः प्राह धिक्शंभुनिन्दकम् ॥८७॥यस्येदृगस्ति सम्पतिर्यत्र देवाः सभासदः ।सः कथं सेश्वरं यज्ञं न कुर्याद्दक्षतां दधन् ॥८८॥येनाऽऽस्येनाऽपवित्रेण भवता निन्दितः शिवः ।छेदयामि तदास्यं ते तीक्ष्णधाराऽसिना द्रुतम् ॥८९॥एवमुक्त्वाऽस्य मूर्धाऽत्र खण्डितस्त्वसिनाऽपि सः ।कबन्धाद् भिन्नतां नाप्तो यतोऽभेद्यो हि योगतः ॥९०॥अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैरपि सर्वशः ।चूर्णयामीत्यभिधाय चपेटाभिरचूर्णयत् ॥९१॥कराभ्यां त्रोटयामास पद्भ्यामाक्रम्य चोरसि ।अग्निकुण्डे च तत्क्षिप्त्वा वीरभद्रो जुहाव ह ॥९२॥अथाऽन्यानपि यज्ञस्यान्धृत्वा संमृद्य तत्र च ।तरून्प्रज्वाल्य तत्रैव ज्वालयामास भूसुरान् ॥९३॥अथाऽट्टहासमकरोत् पूरयँश्च जगत्त्रयम् ।ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे ॥९४॥त्रोटयामास कर्णादीन्यंगप्रत्यंगकानि च ।वेणीदण्डाँश्च कासाञ्चित् तेन छिन्ना तदा रुषा ॥९५॥कासांचिच्च कराश्छिन्नाः कासांचित्कर्तिता भुजाः ।नासिकाश्च तथांऽगुल्यः छिन्ना कासांचिदेव ह ॥९६॥जिह्वाः कर्णास्तथा छिन्ना निन्दोक्ता वा श्रुता यया ।चन्द्रो धर्मो भृगुश्चैव मारीचाद्याः सुताधवाः ॥९७॥अत्यन्तमपमानस्य भाजनं तेन कारिताः ।तानि कुण्डानि ते यूपास्ते स्तंभाः स च मण्डपः ॥९८॥ता वेद्यस्तानि पात्राणि तानि हव्यान्यनेकधा ।ते च वै यज्ञसंभारास्ते ते यज्ञप्रवर्तकाः ॥९९॥ते रक्षपालास्ते मन्त्रा विनेशुः शिवहेलया ।क्षणतुल्येन कालेन आसन् नाऽऽसन् बभूविरे ॥१००॥महतां हेलनाल्लक्ष्मि! क्षीयतेऽर्जितसुकृतम् ।तन्नाशे सर्वनाशः स्याद् यथा दक्षस्य सम्पदाम् ॥१०१॥तस्माद्द्रोहो न कर्तव्योऽल्पीयसामपि देहिनाम् ।परदुःखफलं स्वस्याऽवश्यं भोक्तव्यमापतेत् ॥१०२॥अथ विष्णुर्ययौ व्योम्नि विमानस्थं तु वेधसम् ।प्राह ब्रह्मन् शंकरं वै नीत्वाऽऽयाह्यत्र सत्वरम् ॥१०३॥विधिहीनं मखध्वस पश्येदागत्य शंकरः ।अध्वरस्य च दक्षस्य निस्तारोऽपि भवेत्तदा ॥१०४॥श्रुत्वैवं सत्वरं ब्रह्मा कैलासं प्रजगाम ह ।उवाचाऽध्वरवृत्तान्तं शंभुमादाय वै द्रुतम् ॥१०५॥आजगामाऽध्वरस्थानं सर्वं ध्वस्तं विलोक्य च ।त्रासदं दृश्यमालोक्य दयालेशान्वितो हरः ॥१०६॥क्षणं शर्वस्तु संपश्यन् दूयमानमना ह्यभूत् ।वीरभद्रोऽपि नत्वैव संस्थितो बहुलज्जितः ॥१०७॥ब्रह्मा प्राह हरं तत्र प्रसाद्य च मुहुर्मुहुः ।अपराध्यप्ययं दक्षः सम्प्रसाद्यः सुरोत्तम ॥१०८॥यथापूर्वं पुनरमून् सर्वान्कारय शंकर ।यथा विधिः प्रवर्तेत वैदिकः पुनरेव सः ॥१०९॥तथाऽऽज्ञा दीयतां शंभो कर्म सिद्ध्यति सेश्वरम् ।अनीश्वरासु सर्वासु क्रियासु वै महेश्वर ॥११०॥एवमेव भवन्त्येव विघ्नजाताः सहस्रशः ।देवभक्तोऽपि दक्षोऽयं देवं त्यक्त्वाऽकरोत् क्रतुम् ॥१११॥लोके विगर्हणां प्राप्ता निदर्शनाय सोऽभवत् ।ईशं त्यक्त्वा च कार्याणि करिष्यन्ति जना यदि ॥११२॥तदन्तं ते न पश्यन्ति लोका गास्यन्ति दक्षवत् ।ततो मगलदं देवं विहायाऽन्यो जनः क्वचित्॥ ११३॥स्वार्थं चापि पदार्थं च दैवं वाऽदैवमित्यपि ।कर्म नैव क्वचित्किंचित् श्रुत्वैतत्प्रविधास्यति ॥११४॥ब्रह्मणोक्तं विचार्यैव प्रहस्य शंकरः पुनः ।वीरमाज्ञापयामास यथापूर्वं प्रकल्पय ॥११५॥तदा गणान् स्वसैन्यानि प्रैरयन्मार्जनाय तत् ।स्थलं भूतैर्मार्जितं च भूमिर्विप्रैः सुसंस्कृता ॥११६॥उज्जीविता मृता मन्त्रैः संजीवन्याऽमृतादिभिः ।ये सैन्यार्थं द्वयोः पक्षे नूत्नाश्चोत्पादिता भटाः ॥११७॥शंभुना भृगुणा स्वस्वमन्त्रैर्लीनीकृताश्च ते ।कोट्यर्बुदानि सैन्यानि परार्थलक्षकाणि च ॥११८॥असंख्यदेवदेवीनां पशूनां पृतनास्तथा ।सर्वं लीनीकृतं तत्र भृगुणा शंभुना तथा ॥११९॥अंगनाशाश्च नारीणां द्रव्यनाशाः क्रतोस्तथा ।देहनाशा मखस्थानां पुनरुज्जीव्य सन्धिताः ॥१२०॥विष्णुना ब्रह्मणा चन्द्रमसा च शंभुना मखे ।कुमारेणाऽश्विनीजेन धन्वन्तरियुतेन च ॥१२१॥सूर्येण गुरुणा योगिनीभिः श्रीभिस्तथा तदा ।मुनिभिः ऋषिभिश्चैव स्वस्वसामर्थ्यसंयुतैः ॥१२२॥यथापूर्वं कृतं सर्वं चोत्पादितं तु मानसम् ।सौवर्णं राजतं ताम्रं दारवं चौर्णमिक्षुजम् ॥१२३॥पायसं वल्लिजं सस्यजन्यं कार्पासकं तथा ।अन्नजं जलजं चोद्भिज्जातं ह्रस्व महच्च यत् ॥१२४॥स्वल्पं प्रचूरकं चापि हव्यं चान्यच्च यद्ध्यभूत् ।विना दक्षस्य वदनं यथापूर्वं समीकृतम् ॥१२५॥शंकराद्याऽऽज्ञयाऽऽगृह्य यज्ञीयमेषमस्तकम् ।तेन मेषमुखं दक्षं वीरभद्रगणो व्यधात् ॥१२६॥दक्षस्य यज्ञशीर्ष्णः स्यात् सदा ह्यजमुखः शिरः ।मित्रनेत्रेण संपश्येत् यज्ञभागं भगः सुरः ॥१२७॥भग्नदन्तः सुरः पूषा भवतु यज्ञपिष्टभुक् ।बस्तश्मश्रुर्भवेदेव भृगुः शिवविरोधकृत् ॥१२८॥देवाः प्रकृतिसर्वांगा भवन्त्वेव सदा स्वयम् ।बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकः ॥१२९॥भवन्त्वध्वर्यवश्चान्ये यथापूर्वं शिवाज्ञया ।अभवँस्ते तथा सर्वे सर्वं स्वस्थमभूत्तदा ॥१३०॥अथ यज्ञक्रियास्तत्र प्रावर्तन्त पुनः सुरैः ।पूर्णाहुतिः प्रदत्ताऽवभृथस्नानं कृतं सुरान् ॥१३१॥विप्रानभ्यागतान्पुत्रदुहितृस्वसृबान्धवान् ।भागिनेयान्देयपात्रवरान्सत्कृत्य सर्वथा ॥१३२॥दानानि दत्तवाँस्तेभ्यो दक्षो बस्तमुखोऽर्थिनाम् ।तृप्तिं चाकारयत् भक्ष्यभोज्यपानाऽम्बरादिभिः ॥१३३॥सर्वे स्वान्स्वान्स्वत्वभागान्नीत्वा याता निजालयान् ।विष्णुर्ययौ च वैकुण्ठं ब्रह्मा सत्यं जगाम ह ॥१३४॥दिक्पाला लोकपालाश्च सुरा मुन्यादयश्च ये ।गताः सर्वे तृप्तहृदो दानमानार्हणादिभिः ॥१३५॥अथ शंभुर्विधुरो वै क्व यामीति विचारयन् ।हिमालयस्य शिखरं तपसे संजगाम सः ॥१३६॥वानप्रस्थक्रियाधर्मं जग्राह शंकरस्तदा ।अनाश्रमवता पुंसा यतः कालो मनागपि ॥१३७॥व्यर्थं कलयितव्यो न वने श्रेयस्तपःश्रमः ।तपश्चचार शर्वः सगणः शृंगे शिवाभिधे ॥१३८॥कैलासस्य च रक्षार्थं वीरभद्रमयोजयत् ।दक्षोऽपि पापशान्त्यर्थं काशीं जगाम चैकलः ॥१३९॥तपसाऽऽराधयच्छंभुं लिंगं संस्थाप्य सत्वरम् ।प्राविर्भूत्वा स्वयं शंभुर्दक्षपापं ह्यमार्जयत् ॥१४०॥प्राह ब्रूहि वरं दक्ष दास्यामि मनसेप्सितम् ।प्राह दक्षो हरं देयो वरो मम यदि त्वया ॥१४१॥तव भक्तिः सदा चास्तु क्षन्तव्यो मेऽपराधकः ।दक्षेश्वरे त्वया स्थेयं लिंगे तु सर्वदा प्रभो ॥१४२॥दत्तमिति तथा चाऽन्यद् गृहाण दक्ष मेऽग्रतः ।परार्धद्वितीयप्रान्ते ततो मोक्षमवाप्स्यसि ॥१४३॥इति हरो ददौ तस्मै वरदानं प्रमोक्षणम् ।दक्षस्य यज्ञभंगः स न हरेण कृतः खलु ॥१४४॥परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ।परेषां कदनं कर्म न कार्यं तत् कदाचन ॥१४५॥परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ।इति सम्बोधितं तस्माद् द्रोहं परस्य नाचरेत् ॥१४६॥आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ।चतुर्विधा भजन्तेऽजं चतुर्थोऽत्र विशिष्यते ॥१४७॥केवलं कर्मणा यो वै संसारं तर्तुमिच्छति ।न च पारमवाप्नोति मध्ये विघ्नेन लुप्यते ॥१४८॥हरेर्भक्तो हरं निन्देत् हरभक्तो हरिं तथा ।तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्नहि ॥१४९॥हरिहरौ सदा चैकतत्त्वं ब्रह्मापि तन्मयः ।हरो ब्रह्मा च विष्णुश्च जगतः कारणं परम् ॥१५०॥हरन्सृजँस्तथा रक्षन्दधे संज्ञाः क्रियोचिताः ।अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ॥१५१॥अज्ञः पश्यति भेदेन भूतानि ब्रह्म चेश्वरम् ।इत्येतद्ब्रह्मरूपस्य सत्याश्च शंकरस्य च ॥१५२॥चरित्रं शृणुयाद् भक्त्या श्रावयेद्भक्तिमान् जनान् ।सर्वसौख्यं लभेदत्र परत्र परमां गतिम् ॥१५३॥यः पठेत्पाठयेद्वापि सत्याख्यानमिदं शुभम् ।भुक्तिमुक्तिप्रदं दिव्यं सर्वार्थसम्प्रदायकम् ॥१५४॥स्वर्ग्यं यशस्यमायुष्यपुत्रपौत्रफलप्रदम् ।स च भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्नुयात् ॥१५५॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भीतदक्षप्रार्थना, विष्णुन्यायवाक्यं, सुरादीनां गणादीनांच युद्धं, यज्ञादिध्वंसः, ऋत्विजामंगभंगानि, चक्रेण शिवाविष्टवीरभद्राऽनाशः, शंकरागमनं, सर्वेषां पुनः सजीवनं, यज्ञसमाप्तिरित्यादिनिरूपणनामा सप्तसप्तत्यधिकशततमोऽध्यायः ॥१७७॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP