संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३२२ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३२२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३२२ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्म्यधिमासान्ते दिने त्वक्षरधामनि ।कृतमुद्यापनं सर्वैः पुरुषोत्तममन्दिरे ॥१॥राधाकृष्णादयः सर्वे गोलोकस्थाः समाययुः ।वासुदेवादयो व्यूहाः स्वप्रजाभिः समाययुः ॥२॥महावैकुण्ठलोकस्था वयं नारायणादयः ।त्वया सह प्रजाभिश्च गता अभूम चाक्षरम् ॥३॥अव्याकृताऽमृतधामभूमश्रीपुरतत्स्त्रियः ।न्यायेश्वरादयः सर्वे मुदा तत्र ययुस्तदा ॥४॥महाविष्णुप्रभृतयो हिरण्यगर्भसृष्टयः ।प्रवैराजाश्चावरणा ईश्वरा जग्मुरक्षरम् ॥५॥विष्णोर्जलावरणोर्ध्ववैकुण्ठस्था ययुस्तथा ।सदाशिवस्य धामस्था महामायाप्रजा ययुः ॥६॥एवं त ईश्वराश्चावतारा गत्वाऽक्षरं परम् ।चक्रुरुद्यापनं तत्र पुरुषोत्तममासिकम् ॥७॥ब्रह्मणः सत्यलोके चर्षयो मुनिजनास्तथा ।मातृगणाः पितरश्च देवा जग्मुश्च वैष्णवः ॥८॥उद्यापनप्रकर्तारो दिव्या ययुर्नरादयः ।तीर्थानि देवताः सर्वा देव्यो जग्मुर्दिशस्तथा ॥९॥तत्त्वान्यपि ययुस्तत्र सरितः सिन्धवस्तथा ।पर्वताश्च तथाऽखाता द्वीपाः खण्डा ययुस्तथा ॥१०॥ग्रहास्ताराश्च नक्षत्रमण्डल वृक्षवल्लयः ।दिव्या वै भक्तवर्यास्तु दैत्या दानवराक्षसाः ॥११॥ओषधयस्तथा सर्पा नागाः पतत्त्रयोऽमलाः ।जलवासाः स्थलवासा वायुवासा ययुस्तदा ॥१२॥पातालस्था विवरस्था दिव्यादिव्या ययुस्तदा ।व्रतिनः सहवासाश्च भक्ता उद्यापनंकृते ॥१३॥सत्ये पैतामहे लोके सन्निधौ ययुरादरात् ।पुरुषोत्तममासस्योद्यापनार्थं ययुश्च ते ॥१४॥गन्धर्वाः किन्नराः सूतादयश्च सुरमानवाः ।भट्टचारणभृत्याश्च रौद्रा अपि च शांकराः ॥१५॥एते चान्ये व्रतपूर्तिफलार्थं चोत्सवे गताः ।शृणु लक्ष्मि! तत्र तत्र यथाशक्ति यथाधनम् ॥१६॥कृतमुद्यापनं सर्वैः सर्वेष्टसिद्धिदायकम् ।भुक्तिमुक्तिप्रदं द्रव्यदानपूर्वं कृतं तु तैः ॥१७॥शृणु तैस्तु कृतमुद्यापनं संश्रावयामि ते ।पुरुषोत्तममासस्य यदुक्तं हरिणा स्वयम् ॥१८॥पक्षद्वये चतुर्दश्याममायां पूर्णिमातिथौ ।एकादश्यां नवम्यां वा व्रताहेऽष्टमिकातिथौ ॥१९॥यत्र तिथौ भवेदानुकूल्यं तत्रापि वा तिथौ ।उद्यापनं प्रकुर्याद्वै व्रतसम्पूर्तिहेतवे ॥२ ०॥पुरुषोत्तममासस्य दुन्दुभिश्च स्थले स्थले ।उद्धोषयति गत्वैव कुर्वन्तूद्यापनं शुभम् ॥२१॥पुरुषोत्तममासस्य फलं पूर्णं भविष्यति ।श्रुत्वाऽपि डिण्डमं चान्ये चक्रुरुद्यापनं गृहे ॥२२॥रात्रौ भूशायिनो भूत्वा ब्रह्मचर्यं प्ररक्ष्य च ।प्रातरुत्थाय ते सर्वे चक्रुर्ध्यानं हरेस्ततः ॥२३॥कृत्वा शौचादिकाः सर्वा दैहिकीर्बाह्यतः क्रियाः ।दिव्यादिव्यं यथावर्ष्म कृत्वा स्नानादिकं ततः ॥२४॥जपं होमं तथा सन्ध्यां स्वाध्यायं तर्पणादिकम् ।यथालोकं यथावर्ष्म यथायोग्यं विधाय ते ॥२५॥नित्यां पूजां वृद्धपूजां कृत्वा पूज्यार्हणादिकम् ।आचम्य च भुवं कृत्वा संस्कृतां बहुविस्तराम् ॥२६॥चक्रुश्च मण्डपं तत्र बहुस्तंभसमन्वितम् ।रत्नहीरकहाराद्यैराम्राऽशोकादितोरणैः ॥२७॥कदलीस्तम्भपत्राद्यैः कल्पवल्ल्यास्तरोः फलैः ।कलशैः रंगवल्लीभिश्चाम्बरैः कानकान्वितैः ॥२८॥बन्धयित्वा प्रदीपैश्च शोभयित्वा सुगन्धिभिः ।वासयित्वा च तन्मध्ये पञ्चधान्यैश्च सप्तभिः ॥२९॥धान्यैर्वा कारयित्वैव सर्वतोभद्रमण्डलम् ।सपत्नीकान् विष्णुभक्तान् निमन्त्र्य च यथाबलम् ॥३०॥न्यसुश्चतुरः कलशाँश्चतुर्दिक्षु च मण्डले ।सुवस्त्रश्रीफलपूगीनागवल्लीदलान्वितान् ॥३१॥तत्राऽक्षतान् पूरयित्वा शर्कराद्रव्यमिश्रितान् ।वासुदेवं संकर्षणं प्रद्युम्नं चानिरुद्धकम् ॥३२॥ईशानतः क्रमान्न्यस्य मध्ये च कलशे शुभे ।सफले साम्बरे पूगीस्वर्णमुद्राऽक्षतान्विते ॥३३॥पञ्चरत्नयुते स्वर्णे न्यधुः श्रीपुरुषोत्तमम् ।राधालक्ष्म्यादिसहितं सौवर्णे दिव्यरूपिणम् ॥३४॥एवं तैर्व्रतिभिः सर्वैः स्थापनं श्रीहरेः कृतम् ।आचार्यश्च गुरुस्तत्र पूजनार्थं प्रवेशितः ॥३५॥देहशुद्धिः कारिता च यजमानस्य तेन वै ।तत आवाहितो देवश्चासनं च प्रदापितः ॥३६॥पादप्रक्षालनार्थ वै दत्तं जलं सुतीर्थजम् ।चतुर्दिक्षु कृता दीपाः सुगन्धस्तत्र कारितः ॥३७॥अर्घ्यं फलादिभिर्युक्तं दम्पत्या च समर्पितम् ।आचमनीयसलिलं दत्तं देवाय तीर्थजम् ॥३८॥दधि दुग्धं घृतं क्षौद्रं शर्करा चामृतं तथा ।अभिषेक जलस्नानं दत्तानि केशवाय वै ॥३९॥वस्त्रेण मार्जितो देवौ वस्त्राभूषणभूषितः ।गन्धसारोत्तरतैलसुगन्धाद्यैः सुवासितः ॥४०॥कुंकुमकज्जलचूर्णचन्दनाद्यैः सुशोभितः ।मणिहीरकमौत्तिकहारोपवीतभूषितः ॥४१॥किरीटकुण्डलकटकोर्मिकाशृंखलान्वितः ।छत्रयष्टिनक्तकचामरपत्त्राणरक्षितः ॥४२॥पर्यंक गेन्दुक कशिप्वा दर्शादि प्रदापितः ।पुष्पतुलसीपद्माद्यैः पुण्ड्रैश्चन्द्रैः सुशोभितः ॥४३॥अथ तन्मण्डपे ताम्रपात्रे होमश्च कारितः ।चतुर्थ्यन्तैर्नाममन्त्रैस्तिलैर्घृतेन सत्फलैः ॥४४॥अष्टोत्तरशतवारं ततश्च तर्पणं कृतम् ।देवाश्च पितरश्चेति तृप्यन्तां पुरुषोत्तमः ॥४५॥अथ नीराजितो देवो बहुवर्त्यनलैस्तथा ।नमस्कृतः स्तुतः प्रदक्षिणीकृतश्च वैष्णवैः ॥४६॥दण्डवत्सत्कृतश्चापि ध्यातः श्रीपुरुषोत्तमः ।क्षमापितो हरिः पुष्पांजलिर्दत्तश्च शार्ङ्गिणे ॥४७॥अथ संभोजितो देवो मिष्टान्नैस्तर्पितोऽमृतैः ।अर्पितश्च जलैर्मिष्टफलैस्ताम्बूलचर्वितः ॥४८॥सुगन्धैरुद्वर्तितश्च करयोः पुरुषोत्तमः ।स्वास्थ्यैर्विश्रमितो देवः पादयोरभिवाहितः ॥४९॥एवं सर्वैः पूजितश्च भगवान् पुरुषोत्तमः ।आविर्भूतोऽदृश्यताग्रे फलन्त्वनन्तकं ददौ ॥५०॥अथाऽऽचार्याय संदत्ता दक्षिणा हेमरूप्यका ।धेनुदानं कृतं चापि स्वर्णशृंगारभूषितम् ॥५१॥घृतवस्त्रतिलपात्रं दत्तं विप्राय तत्र च ।प्रतिमा च प्रदत्ता संहिताशास्त्रं समर्पितम् ॥५२॥कांस्यानि संपुटात्मानि त्रिंशद्दत्तानि वै तदा ।तदा त्रिंशत्त्रिंशदपूपैश्च मध्ये सम्पूरितानि वै ॥५३॥एतद्ब्रह्माण्डदानं वै कल्पितं पुरुषोत्तमे ।प्रत्यङ्गं तु यावन्ति छिद्राणि सन्ति पद्मजे ॥५४॥तावद्वर्षसहस्राणि वैकुण्ठे वसतिर्भवेत् ।ततो वसतिर्गोलोके ततो धाम्न्यक्षरे परे ॥५५॥अथवाऽपूपसामग्र्यपक्वा देया द्विजन्मने ।अथ संभोजिता विप्राः सन्तः साध्यश्च बालकाः ॥५६॥पायसान्नैश्च मिष्टान्नैर्व्यञ्जनैश्चामृतादिभिः ।चतुर्धा भोजनैर्भक्ष्यभोज्यलेह्यसुचोष्यकैः ॥५७॥रसैर्दुग्धादिभिर्वार्भिः शर्करैलादिमिश्रितैः ।ततो जलं मुखशुद्धिस्ताम्बूलकं च दक्षिणा ॥५८॥वस्त्राण्याभरणान्युत्तमोत्तमान्यर्पितानि वै ।देवीभ्यो देवताभ्यश्च गुरुभ्योऽप्यर्पितानि च ॥५९॥तत्तल्लोकज तत्त्वानि दानयोग्यानि यानि वै ।भूतेभ्य आश्रितेभ्यश्चातिथिभ्योऽन्नं समर्पितम् ॥६०॥ततो भुक्तं स्वजनैश्च सह व्रतिभिरादरात् ।फलाहारादिकं योग्यं व्रतभंगाऽकरं हि यत् ॥६१॥मध्याह्नेऽपि कृतं तद्वन्निशि रात्रौ च वै तथा ।पूजितो भोजितो देवो जागरेण युतैर्जनैः ॥६२॥गीतं च नर्तनं पुण्यं भजनं च कृतं जनैः ।प्रातः स्नात्वा पूजितश्च क्षमाप्याऽथ विसर्जितः ॥६३॥आचार्याय प्रदत्तः स मूर्तिरूपः परेश्वरः ।एवमुद्यापनं कृत्वा ययुः सर्वे निजालयम् ॥६४॥फलं चानन्तकं प्राप्तं पुरुषोत्तमसेवनात् ।ततो लक्ष्मि! यथाशक्ति व्रतमेतत्समाचरेत् ॥६५॥दुःखदारिद्र्यदौर्भाग्यनाशः स्यादिष्टमाप्नुयात् ।नियमानां परित्यागस्ततः कुर्याद् व्रती जनः ॥६६॥मध्यभोजी नक्तभोजी ब्राह्मणान् भोजयेद् व्रती ।अयाचिते व्रते लब्धे स्वर्णदानं समाचरेत् ॥६७॥मासोपवासिना देया दोग्ध्री गौर्दक्षिणायुता ।धात्रीव्रती प्रदद्याच्च दधिं क्षीरं च शर्कराम् ॥६८॥फलानां नियमे लक्ष्मि! फलदानं समाचरेत् ।तैलरोधे घृतं देयं घृतरोधे पयोऽर्पणम् ॥६९॥धान्यानां नियमे दद्याद् धान्यानि तानि तानि च ।भूशायित्वे तु पर्यंकगेन्दुककशिपुच्छदान् ॥७०॥फलपत्रादिनियमे तानि दद्याद् द्विजन्मने ।मौने घण्टाशंखवाद्यान् दद्याद् देवाय पद्मजे ॥७१॥नखकेशधरो दद्यादादर्शं केशकर्चिकाम् ।उपानहौ प्रदद्याच्च ह्युपानदादिवर्जने ॥७२॥क्षारत्यागे रसान् दद्याद् दीपदाने तु दीपकान् ।एकान्तरोपवासी च कुंभानष्टौ प्रदापयेत् ॥७३॥राज्ञां यावत्य इष्टाश्च स्मृद्धयोऽत्र भवन्ति वै ।देया दाने च ताः सर्वा यथाशक्ति यथाधनम् ॥७४॥एकान्नेन व्रती यायाच्चतुर्बाहुः परां गतिम् ।एकभोज्युपवास्येव सर्वान्कामानवाप्नुयात् ॥७५॥पूर्वाह्णे भुंजते देवा मध्याह्ने मुनयस्तथा ।अपराह्णे पितृगणा नक्तभोजी नरो भवेत् ॥७६॥दिने दिनेऽश्वमेधस्य फलं नक्तादनो लभेत् ।द्वादशीव्रतकृद् याति गरुडेन हरेः पदम् ॥७७॥यस्य यस्य नियमः स्यात्तत्तद्दाने नियोजयेत् ।तेन पूर्णं व्रतं स्याच्च ब्रह्मलोकप्रदं भवेत् ॥७८॥अनित्येन शरीरेण साध्यं मोक्षपदं सदा ।पुरुषोत्तमतुल्यं तु नास्ति लक्ष्मि! त्रिलोकके ॥७९॥सहस्रजन्मतप्तेन तपसाऽपि न गम्यते ।यत्फलं गम्यते लोके पुरुषोत्तमसेवया ॥८०॥त्रिरात्रस्नानतश्चात्र शाखामृगोऽक्षरं ययौ ।आसीद्वै केरले देशे द्विजो धनातिलोलुपः ॥८१॥तेन कदर्यनाम्ना सः ख्यातिं जगाम देहिषु ।सदन्नवस्त्रं भुक्तं न स्वाहा स्वधा कृता न वा ॥८२॥धनं पृथ्व्यां रक्षितं च धर्मकार्यं कृत न च ।न व्रतं नोत्सवश्चापि न ग्रहणं न कुंभनम् ॥८३॥कृतं कृतं भिक्षणं तु धनस्याऽटन् विदीनवत् ।सोऽगान्मालाकारवाटिकायां दुःखं रुदन्मुहुः ॥८४॥मालाकारो दयां कृत्वा ररक्ष स्वान्तिके हि तम् ।वाटिकारक्षकं कृत्वा माली ग्रामे गतो भवेत् ॥८५॥पश्चाज्जघास पक्वानि चाक्रीणत फलानि सः ।एवं स्तेनक्रियाकर्तुर्जग्मुरयुतवत्सराः ॥८६॥ममार च वने तत्र नाऽवाप वह्निदारुणी ।यमदूतैर्नीयमानस्ताड्यमानो यमालयम् ॥८७॥गच्छन्नुवाच दुष्कर्मफलं प्राप्तं मयाऽद्य वै ।मानुषं जन्म संप्राप्य न किञ्चित् सुकृतं कृतम् ॥८८॥चौर्यादिसञ्चितं द्रव्यं स्थितं भूमौ निरर्थकम् ।न धृतं नाऽत्तमेवेति पुण्यं चापि कृतं नहि ॥८९॥न कुटुम्बं पोषितं च भार्या कष्टेन योजिता ।कदर्यो विलपन्नेवं गतो यमपुरं ततः ॥९०॥चित्रगुप्तोऽवदद्धर्मं पापद्वयं बहूग्रकम् ।फलचौर्यं तथा विश्वासघातित्वं परं बहु ॥९१॥श्रुत्वा प्राह यमो दूतान् प्रेतमेनं विधत्थ वै ।ततोऽस्तु वानरोऽयं तु मुहुर्नरकयातनः ॥९२॥इति दूतैः प्रापितः सः प्रेततां निर्जले वने ।ततः कपिरभूत् कालंजरे शैले भयंकरे ॥९३॥तत्रेन्द्रेण कृतः पूर्वं कुण्डो मृगसुतीर्थकः ।तत्रैव वानरो जातः पूर्वपुण्यात् तदल्पकात् ॥९४॥शृणु पूर्वकृतं पुण्यं पुरुषोत्तमशंसनम् ।चित्रकुण्डलवैश्योऽभूत् पुरुषोत्तमसद्व्रती ॥९५॥दानकृत् तं च भिक्षार्थं कदर्यो गतवान् पुरा ।प्रशशंस च तं वैश्यं धनलोभेन भिक्षुकः ॥९६॥पुरुषोत्तममासस्य व्रतं यद् विधिना त्वया ।कृतं तादृक् कृतं नैव केनापि त्वत्र भूतले ॥९७॥कृतार्थोऽसि त्वया यत्सेवितः श्रीपुरुषोत्तमः ।धन्यदो मोक्षदश्चायं मासः श्रीपुरुषोत्तमः ॥९८॥देहि मह्यं धनं किञ्चिदिति मासं शशंस सः ।तेन पुण्येन तीर्थेऽत्र वानरत्वमुपागमत् ॥९९॥जन्मतस्तस्य वक्त्रेऽभूत्पीडाऽसृगव्रणसंभवा ।दन्ताः पेतुः क्षुधा व्याप्तो ज्वरातिपीडितोऽभवत् ॥१००॥पतितः कुण्डनिकटे आयान्माः पुरुषोत्तमः ।दशमीदिनतः पञ्चाहानि कुण्डजले ययुः ॥१०१॥व्यसुस्तीर्थजले जातस्तेन दिव्यवपुर्धरः ।चतुर्भुजोऽभवद् दिव्यदेवीपार्षसेवितः ॥१०२॥तीर्थमृतेस्तथा जातः स्नानात् पञ्चाहसत्कृतान् ।अज्ञानाच्च तथा जातं किं पुनर्विधिना कृतात् ॥१०३॥ते सदा सुभगाः पुण्यास्तेषां च सफलो भवः ।येषां पुमुत्तमो मासः स्नानदानजपैर्गतः ॥१०४॥तानि कोटिगुणान्येव कृतानि पुरुषोत्तमे ।कपिर्जगाम गोलोकं विमानवरमास्थितः ॥१०५॥एवं कदर्यश्चौरोऽपि वानरत्वं गतोऽपि च ।पुरुषोत्तमयोगेन प्राप्तो गौलोकमेव सः ॥१०६॥पुरुषोत्तममासस्य कथायाः श्रवणादपि ।मासोपोषणपूजादिफलं पूर्णमवाप्यते ॥१०७॥श्रुत्वा धर्मं विजानाति श्रुत्वा पापं च नश्यति ।श्रुत्वा निवर्तते मोहः श्रुत्वा ज्ञानामृतं मिलेत् ॥१०८॥लक्ष्मीनारायणसंहिताख्यं वेदं पठेद् व्रती ।शृणुयाच्छ्रीपुरुषोत्तममासे मोक्षदा हि सा ॥१०९॥यया नार्या कृतो नैव मासः श्रीपुरुषोत्तमः ।तत्पतिनाऽऽदृतश्चेत् सा लभेत् तत्फलं वरम् ॥११०॥सती नारी सदा पातिव्रत्यधर्मपरा यदि ।पतिरूपो भवत्यस्या मासः श्रीपुरुषोत्तमः ॥१११॥कुरूपो वा कुवृत्तो वा दुःस्वभावोऽपि मद्यपः ।रोगी क्रोधी स्थवीरो वा मूकोऽन्धो बधिरोऽपि वा ॥११२॥रौद्रो दीनः कदर्यो वा दरिद्रः कुत्सितोऽपि वा ।कातरः कितवो वापि विषयी लम्पटोऽपि वा ॥११३॥सततं देववत्पूज्यः सत्या साध्व्या पतिर्हरिः ।विधवया कन्यया च पतिरेव हरिः सदा ॥११४॥सेवनीयः पूजनीयो ध्यातव्योऽध्यासितव्य उत् ।वाचा च कर्मणा देहेनापि भावनया तथा ॥११५॥न पत्युर्विषमं कार्यं नोद्वेजनीय ईश्वरः ।बाला युवती जरठा पत्यधीना प्रिया भवेत् ॥११६॥कामेन लोभेन बलेन वापि दैन्येन भावेन समाश्रयेण ।रूपेण वासेन धनादिना वा सतृष्णया वेन्द्रियधातुपुष्ट्या ॥११७॥सदम्बरैर्यानवरैश्च वाहनैराभूषणैर्हीरकरत्नकोटिभिः ।सुनृत्यगीतैर्बहुलासनैरपि नान्यं भजेत् सा खलु साधुलक्षणा ॥११८॥अन्यस्मै दर्शनार्थं शृंगारं कुरुते न वै ।स्वानुरूपं नरं या न चिन्तयति प्रिया सती ॥११९॥सुरूपं तरुणं रम्यं कामिनीनां च वल्लभम् ।दृष्ट्वा न विकृतिं याति सा वै बोध्या महासती ॥१२०॥भुंक्ते भुक्ते यथा पत्यौ दुःखिते दुःखिना च या ।मुदिते मुदिता सुप्ते सुप्ता जागर्ति जाग्रति ॥१२१॥वृद्धभक्ता पतिकार्येऽनुकूला नाऽधिकव्यया ।गृहाऽऽगतं पतिं प्रत्युत्तिष्ठत्यासनवारिभिः ॥१२२॥प्रसन्नवदना काले भोजनादिप्रदायिनी ।भुक्तवन्तं श्रावयेन्नाऽप्रियं शान्तिं ददेत्तथा ॥१२३॥सेवार्थं सर्वदा भाव्यं प्रीत्यर्थं प्रियया सदा ।वस्तुव्ययं न चात्यर्थं कुर्वीत गृहरक्षिका ॥१२४॥शृंगारश्चातिभूषादि धारयेत् पतितुष्टये ।त्रेतादौ प्रमदानां स्यादार्तवाऽशोचमेव ह ॥१२५॥तत्र चतुरहान्येव गृहकार्यं न संस्पृशेत् ।स्नात्वा सूर्यं पतिं कृष्णं दृष्ट्वा पश्चात् क्रियापरा ॥१२६॥भवेत्, भवेत्पुत्रकामा युग्मरात्रिरतिप्रिया ।पुत्रीकामा त्वयुग्मासु रात्रिषु स्वामिसेविका ॥१२७॥आषोडशरात्रिकं वै गर्भाधानबलं भवेत् ।तदुत्तरं कमलस्य द्वारं बद्धं प्रजायते ॥१२८॥न बिभत्सा भवेत् क्वापि रूक्षवाणी भवेन्न च ।शूर्पवातं नाऽऽददीत नोपाविशेत्तथांऽगने ॥१२९॥द्वारदारौ चुल्लिकायां पेषण्यां निषदीत न ।गुरुं वाऽत्युष्णमाहारमजीर्णं न समाचरेत् ॥१३०॥तेनाऽपत्यवती स्यादन्यथा गर्भक्षरो भवेत्।सपत्नी स्थानमिर्ष्यायाः साध्वीर्ष्या परिवर्जयेत् ॥१३१॥गृहक्लेशं न जनयेद् रक्षयेत् सर्वथा गृहम् ।नाऽऽक्रोशेत् पतिमालक्ष्य भर्त्सयेन्न विमानयेत् ॥१३२॥रत्या दद्यात्सुखं तस्मै स्वामिने रक्षिणे सदा ।पत्याज्ञया बहिर्गच्छेद् देवदर्शनहेतवे ॥१३३॥पत्यौ देशान्तरं प्राप्ते साध्वी वर्तेत सर्वथा ।रंगरागविहीना वै श्वश्र्वाद्याज्ञाकरी सदा ॥१३४॥वस्त्रैरंगैश्च मलिना न भवेच्छुद्धिमाचरेत् ।स्वामिशिष्टं प्रसादान्नजलं भुञ्जीत भावतः ॥१३५॥स्नायान्न वस्त्रशून्या वै न नग्ना स्यात् कदाचन ।नोलूखले न मुसले न घटादौ न चाश्मनि ॥१३६॥न यन्त्रे न च रथ्यायां सती तूपाविशेत् क्वचित् ।पतिपादोदकं तीर्थं पिबेत् तीर्थफलप्रदम् ॥१३७॥व्रतोपवासनियमान् पतिमुल्लंघ्य नाऽऽचरेत् ।भर्तुश्चरणावभ्यर्च्य भोक्तव्यं प्रियया सदा ॥१३८॥पत्याक्षेप्त्री सरमा स्यादुलूकी स्वोदरंभरा ।सूकरी चान्यपार्श्वस्था वागुरी गुप्तभक्षिका ॥१३९॥अवमानकरी मूका सापत्नेर्ष्या तु दुर्भगा ।पत्युः कष्टप्रदा नारी कुरूपा रोगिणी भवेत् ॥१४०॥भर्ता ब्रह्मा हरो विष्णुर्गुरुस्तीर्थं व्रतं जपः ।शुद्धिः स्वर्गं शुभं दानं तस्मात्पतिं सुसेवयेत् ॥१४१॥जीवहीनोऽशुचिर्देहा भर्तृहीनाऽशुचिः सती ।पतिव्रता प्रिया स्वस्याः पतिं स्वर्गं नयेत् सती ॥१४२॥यमदूताः पलायन्ते सतीं दृष्ट्वा तु दूरतः ।यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि वै ॥१४३॥भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता ।विधवया पतिं स्मृत्वा तर्पणं कार्यमन्वहम् ॥१४४॥दर्भतिलोदकैः पिष्टफलैर्गोग्रासकैस्तथा ।अन्यैश्च दानकार्यैश्च पुण्यं समर्जयेत्तु सा ॥१४५।ब्रह्माण्डं संपुटाकारं कांस्यपात्रकृतं ददेत् ।मध्यत्रिंशदपूपपूरितं तन्तुसुवेष्टितम् ॥१४६॥पूजितं चाक्षतपुष्पकुंकुमैरर्पयेत् सती ।पत्नीव्रतो भवेत् तद्वन्पुमान् पत्नीपरायणः ॥१४७॥स्वस्य प्राणं तथा देहं क्षेत्रं शान्तिस्थलीं शुभाम् ।पत्नीं सम्मानयेन्नित्यं माधुर्येण विलोकयेत् ॥१४८॥मिष्टं दद्याच्च भाषेताऽऽकारयेत्प्रेमभावतः ।तिरस्कुर्वीत नो पत्नीं ताडयेन्नाऽऽक्षिपेन्न च ॥१४९॥वस्त्रभूषाद्यलंकारैर्द्रवचन्दनपुष्पकैः ।तैलतन्तुकज्जलाद्यैस्तोषयेत् स्वप्रियां सदा ॥१५०॥नोद्वेजयेन्न प्रसह्य भुञ्जीत न च रोधयेत् ।क्षुधया तृषया पत्नीं कर्मणा दुःखयेन्न च ॥१५१॥न चाऽविगणयेन्मानहीनां दासीं प्रियां पतिः ।वंशदां रतिदां वल्लीवदाश्रितां प्रपोषयेत् ॥१५२॥अथेच्छुकीं न प्रवदेन्नेत्यपि नोच्चरेत्पतिः ।ओमित्युच्चार्य संदद्यादपेक्षितधनादिकम् ॥१५३॥भोज्यकार्यं गृहकार्यं रतिकार्यं तनुक्रियाम् ।पतिकार्यं तथाऽन्यच्च कुर्वाणां सुप्रमोदयेत् ॥१५४॥नान्यां नारीं समीक्षेत नान्यां व्यवायकृतद्भवेत् ।नान्यां प्रियो भवेत् क्वापि पत्नीं लक्ष्मीं विहाय वै ॥१५५॥नान्यां पुष्टिप्रदः स्याच्च नान्यया च रमेत वै ।यानवाहनदेशाद्युत्सवसामाजकेषु च ॥१५६॥नान्यापरो भवेत् क्वापि यदि स्वर्गं हि वाञ्छति ।एवं धर्मपरौ त्वत्र दम्पती मोक्षभागिनौ ॥१५७॥इन्द्रद्युम्नः शतद्युम्नो यौवनाश्वो भगीरथः ।कल्पकल्पान्तरे चान्ये वैष्णवा राजभूसुराः ॥१५८॥पुरुषोत्तममाराध्य ययुर्भगवदन्तिकम् ।पुरुषोत्तममासस्य दुन्दुभिर्येन संश्रुतः ॥१५९॥तेन तेन च सर्वत्रोत्सवोऽनुष्ठित एव ह ।दुन्दुभेस्तु प्रपूजा च कृता नारायणेन च ॥१६०॥यदा यदाऽधिमासोऽपि समागच्छेत् तदा तदा ।दुन्दुभिना पटहेन कर्तव्याऽऽज्ञाप्रघोषणा ॥१६१॥धाम्न्यक्षरे रक्षितः श्रीपुमुत्तमेन सर्वदा ।कृष्णनारायणेन श्रीपुरुषोत्तमशार्ङ्गिणा ॥१६२॥राधया च श्रिया लक्ष्म्या पार्वत्या प्रभया तथा ।माणिक्यया जयया च रमया सहितः प्रभुः ॥१६३प्रत्यहं त्वधिमासेऽयं पूजनीयः परेश्वरः ।भोजनाय सेवनीयो ध्यातव्यः पुरुषोत्तमः ॥१६४॥श्रोतव्यं मासमाहात्म्यं श्लोकोऽध्यायः प्रपूर्णकः।गंगादिसर्वतीर्थानां फलं स्यान्नात्र संशयः ॥१६५पृथ्वीप्रदक्षिणापुण्यं ब्रह्माण्डोद्धारपुण्यकम् ।श्रवणेन भवेदस्य मासा मुक्तिस्तथा भवेत् ॥१६६॥वर्णास्तथाऽऽश्रमवन्तः श्रेष्ठतां सर्वथा गताः ।श्रुत्वा मुक्तिं समायान्ति पशुचर्या जना अपि ॥१६७॥पुरुषोत्तममाहात्म्यं लेखयित्वा सबन्धनम् ।दद्यादस्य फलं वंशत्रयं गोलोकगो भवेत् ॥१६८॥माहात्म्यपुस्तकाधारे गृहे तीर्थानि सर्वशः ।वसन्ति देवताश्चापि वर्तते पुरुषोत्तमः ॥१६९॥श्रोता वक्ता श्रावयिता वर्णयिता प्रशंसकः ।रक्षको व्रतकृद् दाता सर्वे ते पुरुषोत्तमाः ॥१७०॥कृष्णनारायणोऽनादिश्रीहरिः पुरुषोत्तमः ।संहितोपसमादेष्टा पूजनीयो विशेषतः ॥१७१॥लक्ष्मीः श्रुत्वा चातितृप्ता पुपूज पुरुषोत्तमम् ।कृष्णनारायणं देवं पुपूज स्वपतिं हरिम् ॥१७२॥त्वन्मुखामृतपानेन कृतार्थाऽस्मीत्युवाच सा ।व्यासं पतिस्वरूपं संपुपूज च ननाम च ॥१७३॥अहं नारायणो वक्ता लक्ष्मीस्त्वं च नरायणी ।गृह्णामि त्वत्कृतां पूजां किमन्यच्छ्रोतुमिच्छसि ॥१७४॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्येऽक्षरधाम्नि सर्वसृष्टीश्वरैः कृतः पुरुषोत्तममासव्रतोद्यापनाविधिः, नियमपूर्त्यर्थं दानानि, दीपदानफलं, कदर्यमुक्तिः, वानरमोक्षणम्, पतिव्रता- धर्माः, पत्नीव्रतधर्माः, कांस्यसंपुटात्मक ब्रह्माण्डदानं, दुन्दुभिपूजनं, श्रवणादिफलं, चेत्यादिनिरूपणनामा द्वाविंशत्यधिकत्रिशततमोऽध्यायः ॥३२२॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP