संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २३९ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २३९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३९ Translation - भाषांतर श्रीलक्ष्मीरुवाच-वन्देऽहं देवदेवेशं सर्वजीवसुखप्रदम् ।अन्तर्यामिणमाराध्यं सर्वकामफलप्रदम् ॥१॥पृच्छामि भगवन् विष्णो लोकानां क्षेमकाम्यया ।पापिनां पापनाशाय सकामानां समृद्धये ॥२॥मार्गशीर्षे सिते पक्षे किंनाम्न्येकादशी शुभा ।किं फलं को विधिस्तस्याः को देवस्तत्पतिः प्रभुः ॥३॥विस्तरेण यथार्थं तत् समाचक्ष्व मम प्रभो ।श्रुप्वैतच्छ्रीहरिः प्राह भक्तानां हितकृत्प्रभुः ॥४॥शृणु लक्ष्मि मार्गशीर्षसितैकादशिकाव्रतम् ।अस्याः श्रवणमात्रेण वाजपेयफलं भवेत् ॥५॥दशम्यां नक्तभोजी स्याद् रात्रौ भूशयनं चरेत् ।ब्रह्मचारी भवेत् क्रोधादिकान् दोषान् परित्यजेत् ॥६॥एकादश्यां ब्राह्मसंज्ञे मुहूर्ते जाग्रतिं लभेत् ।स्मरेद् दामोदरं कृष्णं मोक्षदायाः पतिं प्रभुम् ॥७॥सर्वपापहरा मोक्षप्रदा मोक्षाभिधानिका ।मोक्षदा नामतः प्रोक्ता कृष्णेन निजवाञ्च्छया ॥८॥दामोदरस्वरूपेण स्वीकृता रैवताचले ।दामोदरो ह्यतः पूज्यो भगवाँश्च तया सह ॥९॥प्रातः स्मरेद्धरिं दामोदरं सन्मोक्षदा प्रियाम् ।संकल्पयेन्मया कार्यं व्रतं चैवाद्य मुक्तये ॥१०॥स्मृद्धये वापि सर्वस्मै कामायेति गृही जनः ।ततः शौचादिशुद्धिं च कृत्वा स्नात्वा सुतीर्थके ॥११॥आचम्य च हरेः पूजासामग्रीः समपादयेत् ।मण्डलं सर्वतोभद्रं कारयेत् सप्तधान्यकैः ॥१२॥सौवर्णं वाथ ताम्रस्य घटं मध्ये निधापयेत् ।पंचपल्लववस्त्रादिपञ्चरत्नफलाब्भृतम् ॥१३॥न्यस्येत्पात्रं तिलाज्यं च स्थालीं वा तत्र सद्धरे ।मूर्तिं दामोदरमोक्षप्रदयोः स्वर्णनिर्मिताम् ॥१४॥स्थापयेत्पूजयेत् षोडशोपचारैर्विधानतः ।तुलस्या मञ्जरीभिश्च धूपदीपादिभिः शुभैः ॥१५॥मालतीपुष्पमालाभिः श्रिया सह च केशवम् ।अर्घ्यं फलं तु नारिंगं नैवेद्ये मोदकास्तथा ॥१६॥सप्तधान्यानि देयानि विशेषफललब्धये ।यवगोधूमधान्यानि तिलाः कंगूस्तथैव च ॥१७॥श्यामाकं चीनकं चेति सप्तधान्यानि तानि वै ।देयानि तु यथाशक्ति दाने श्रेष्ठानि सर्वथा ॥१८॥श्रिया सह पतिं वै केशवं च प्रार्थयेत्तदा ।मया व्रतमिदं मोक्षदायाः कृतं त्वदाप्तये ॥१९॥यथाशक्ति मया पूजा कृता वै तव केशव ।प्रसन्नो भव देवेश सर्वस्मृद्धिकरो भव ॥२०॥मोक्षदो भव मे स्वामिन् संसारार्णवतारक ।इति संस्तूय नैवेद्यं फलं वारि समर्प्य च ॥२१॥ताम्बूलं च सुगन्धं च दद्यात्पश्चान्नमस्क्रियाम् ।कुर्याच्चारार्त्रिकं चैवोत्तारयेद् वन्दनं स्तवम् ॥२२॥प्रदक्षिणं दण्डवच्च पुष्पांजलिं समर्पयेत् ।यानि कानि च पापानि ज्ञानाऽज्ञानकृतानि च ॥२३॥विलयं यान्तु देवेश तव पूजाव्रतादिना ।इत्युच्चार्य पुनर्नत्वा विसर्जनमथाचरेत् ॥२४॥मध्याह्ने भोजनं मिष्टं देवाय संप्रदापयेत् ।सायं निशामुखे पूजां षोडशाभिसुवस्तुभिः ॥२५॥कारयेच्च ततो जागरणं भक्तैः प्रकारयेत् ।द्वादश्यां च तथा प्रातः स्नात्वा सम्पूज्य केशवम् ॥२६॥विसर्जयेच्च दानानि विविधानि प्रदापयेत्॥बहुद्रव्यादि गुरवे दद्याच्च भोजनादिकम् ॥२७॥एवं व्रतप्रकर्ता स्याद् भुक्तिमुक्तिप्रतापवान् ।पितॄणां तारकः स स्याच्छतवंशार्तिशालिनाम् ॥२८॥शृणु पूर्वकथां लक्ष्मि! मोक्षदायाः फलार्पणात् ।अधोयोनिगताः सर्वे पितरो मुक्तिमागताः ॥२९॥चम्पापूर्यां भूपतिश्च महान् वैश्वानराभिधः ।महावैष्णवतां पश्चात्प्राप्तोऽभूत् पितृतारकः ॥३०॥प्रजाः पुत्रसमाः सर्वा रक्षति स्म स भूपतिः ।वैष्णवा बहवो विप्रा वसन्ति स्म च तत्पुरे ॥३१॥वेदवेदांगविज्ञानाः सत्कर्मादिपरायणाः ।स्मृद्धाश्च विभवैर्युक्ताः प्रजाश्च सम्पदादिभिः ॥३२॥सुखपूर्णाः समासँश्च राज्ञो वैश्वानरस्य वै ।यद्यपि पुण्यपुञ्जेन तपसा प्राक्कृतेन च ॥३३॥राज्यं स्मृद्धं महल्लब्ध्वा सदा राज्यमदान्वितः ।न करोति व्रतं दानं नास्तिकत्वेन भूपतिः ॥३४॥न च श्राद्धं करोत्येव नान्नवार्यादिदानकम् ।न पुण्यप्रदकार्यं वा कारयति स्म कर्हिचत् ॥३५॥पुण्यं न जायते नव्यं पितरस्तेन दुःखिताः ।अन्नवारिविहीनास्ते पितृलोकादधोगताः ॥३६॥स्ववंशजं च राजानं श्राद्धादिहीनकर्मकम् ।दृष्ट्वाऽतिदुःखिनो जाता उष्णश्वासातिदुर्बलाः ॥३७॥निरये पतिता राज्ञो नास्तिकत्वादिपापतः ।ते तु रात्रौ समागत्य स्वप्ने प्रत्यक्षतां गताः ॥३८॥रुदन्तश्च श्वसन्तश्च रुग्णाः संक्षुधितास्तथा ।तृषातिशुष्ककण्ठाश्चाऽशक्ता नष्टबलास्तथा ॥३९॥तेजोहीनास्तथा शुष्कशिराः कृष्णाननास्तथा ।क्रोशन्तोऽतिदरिद्राश्च दुःखिनो भिक्षुका इव ॥४०॥परस्परं कथयन्तो दुःखानि दुःसहानि वै ।अहो राज्ये स्थितश्चास्मद्वंशजोऽपि स नास्तिकः ॥४१॥न श्राद्धं कुरुते चायं वैश्वानरोपि वारि वा ।ददात्येव न वै काले पितृपक्षे मनागपि ॥४२॥पिण्डान्नैव ददात्येव जलं नैव ददाति च ।तर्पणं न करोत्येव कारयत्येव नैव च ॥४३॥तेन दुःखेन सन्तप्ता दुःखिनः सर्वदा वयम् ।अधोगतिं गताः सर्वे निरये पतितास्तथा ॥४४॥राजायं नास्तिको जातः किं तेन कुसुतेन वै ।वरं निर्वंशता यद्वा वरं त्वास्तिकपुत्रता ॥४५॥वरं मोक्षगतिश्चापि न वरा तु कुपुत्रता ।अन्ये नैव प्रदास्यन्ति पुत्रो नैव ददाति च ॥४६॥कथं कस्मात् कुतः प्राप्यमन्नं वारि च वा मनाक् ।यदि चायं जलं पिण्डान् दद्यात् स्यामः सुखान्विताः ॥४७॥इत्युक्त्वाऽन्तर्हिताः सर्वे राजाऽभूद् विस्मयान्वितः ।कथयामास प्रातस्तद्वृत्तान्तं स्वप्नजं द्विजान् ॥४८॥मया स्वपितरः स्वप्ने दृष्टा निरयपातिताः ।उक्तवन्तश्च पुत्र त्वं तारयाऽस्मानधोगतान् ॥४९॥एवं ब्रुवाणाः सश्वासं रुदन्तश्च विक्रन्दनम् ।दृष्टा मया च तान् स्मृत्वा सुखं मे न भवत्यपि ॥५०॥अद्य मे राज्यमृद्धं च तथा राज्ञी गजाऽश्वकम् ।न किञ्चित् सुखदं भाति रोचते मे न भोजनम् ॥५१॥शश्वज्ज्वलत्यान्तरं मे पुत्राघं रोचते नहि ।किं करोमि हृदयं मे दूयते पितृजाग्निना ॥५२॥क्व गच्छामि समुद्धारायैव तेषां द्विजोत्तमाः ।मुच्यन्ते येन पितरस्तत्तपो व्रतमुच्यताम् ॥५३॥योगो यज्ञोऽथवाऽन्योऽपि दानजाद्युत्सवो महान् ।यत्किंचिद्वा महत्स्वल्पं समुद्धारकमुच्यताम् ॥५४॥पुत्रे योग्ये समर्थे च जीवति पितरौ यदि ।दुःखिनो निरये घोरे फलं सुतस्य किं तदा ॥५५॥तेषामुद्धार एवात्र त्वेष्टव्यो मम सर्वथा ।मा संकोचं प्रकुर्वन्तु द्विजाः सत्यं वदाम्यहम् ॥५६॥श्रुत्वा राज्ञः सुवचनं द्विजा हृष्टा भृशं तदा ।प्रोचुस्तं पितृकल्याणप्रयत्नं ब्राह्मणाश्रितम् ॥५७॥राजन्नस्मत्सु मध्येऽयं समर्थो हि महामुनिः ।भूतं भव्यं विजानाति जैगीषव्योऽतियोगवान् ॥५८।स च ते सर्वमाज्ञाय समाधौ दिव्यदृष्टिमान् ।निवेदयिष्यति द्राक् सत् पितरोऽधोगताः कथम् ॥५९॥जैगीषव्योऽभ्यर्थितश्च पितॄन् ध्यात्वा क्षणं ततः ।उवाच तं नृपं तत्र जैगीषव्यो महामुनिः ॥६०॥राजन्न केवलं चास्ति नास्तिकत्वं तु कारणम् ।किन्तु ते जनकस्यास्ति नास्तिकत्वं च कारणम् ॥६१॥शृणु तथ्यं कथयामि मा क्रुद्धो भव शं भज ।जानेऽहं तव पितॄणां सर्वं पूर्वं विचेष्टितम् ॥६२॥तव पितुः कथयामि शृणु चावहितो भव ।राज्ये त्वासीद् यदा सोऽयं तदा नास्तिकभावतः ॥६३॥वृत्तिं जहार देवस्य या दत्ता पूर्वजैत्तव ।शास्त्रधर्मं तथा चासौ गणयामास नैव च ॥६४॥राज्यस्य मदमासाद्य पुंश्चलीषु प्रवर्तते ।ग्रामान्तरे गतः सोऽयं पुंश्चल्या वारयोषिता ॥६५॥ऋतुकालेऽपि ते मातुर्नाऽऽयातो निजमन्दिरम् ।न दत्तं तव मातुश्च ऋतुदानं तु धार्मिकम् ॥६६॥एवं मुहुर्वर्तयित्वा पापलिप्तोऽभवद् बहु ।श्राद्धकाले तथा श्राद्धं न कृतं धर्मलोपिना ॥६७॥तेन पापप्रभावेण पातयित्वा स्वकान् पितॄन् ।नरके वासयित्वा च नास्तिक्यभावपूरितः ॥६८॥अन्तिमम् ऋतुदानं च तव मातुर्विधाय च ।कालेन निधनं प्राप्तः पतितो निरयेऽपि सः ॥६९॥पितृभिर्निजपापेन सहितो निरयेऽपतत् ।स्वपत्न्यर्तुप्रदानं च पुंश्चलीगमनं तथा ॥७०॥नास्तिकत्वं च पितॄणां श्राद्धाद्यकरणं तथा ।स्वर्गलोकान्महासौख्यात् पितृपातनहेतवः ॥७१॥त इमे पतिताश्चैवेहन्ते तूद्धरणं सुतात् ।सुतोऽपि त्वं तथोत्पन्नो निषेकान्नास्तिकस्य वै ॥७२॥निषेके यादृशी वृत्तिः पुत्रे भवति तादृशी ।नास्तिकेन समुत्पन्नो ह्यधार्मिकेण यद्भवान् ॥७३॥अतस्त्वं नास्तिको जातः श्राद्धं नैव करोषि च ।देववृत्तिहरस्तातस्तेऽभूत् तस्य प्रतिक्रिया ॥७४॥प्रायश्चित्तं न चैवास्ति कल्पकोटिशतैरपि ।देववृत्तिर्न वै हार्या पूर्वैर्दत्ता नृपैः क्वचित् ॥७५॥तेन पापेन नरके दुःखस्याऽन्तो न जायते ।देववृत्तिहरस्याऽत्र पदयोः रज इत्यपि ॥७६॥स्याद् यस्योपरि पतितं सप्तकल्पाः स नारकी ।इत्युक्तं प्राङ् महेन्द्राय चाण्डाल्या गच्छते पुरः ॥७७॥एकदा काचिदबला चाण्डाली तु श्मशानके ।ग्रामशूकरवक्षोऽस्थिकृतचूल्ल्याः उपर्यथ ॥७८॥नृमुण्डं पाकपात्रं च धृत्वा तत्र श्वमांसकम् ।मदिरात्मजले क्षिप्त्वा रन्धयति चिताग्निना ॥७९॥तावत्तत्पार्श्वतस्तत्र महेन्द्रो निर्गतो यदा ।पाकपात्रं तथा शीघ्रं छादितं समुपानहा ॥८०॥विशंक्य तु तदा हीन्द्रस्तां पप्रच्छ पटीयसीम् ।शुनो मांसं सुरापक्वं नृमुण्डेऽत्र चिताग्निना ॥८१॥सर्वं चाशुद्धमेवैतत् चर्मणा छादितं कथम् ।प्रत्युवाच तदा सा वै चाण्डाली शृणु देवराट् ॥८२॥देवद्विजगवां वृत्तिं हरन्ति हारयन्ति ये ।तेषां पादरजोभीत्या चर्मणा छादितं न्विदम् ॥८३॥यदि त्वं तादृशोऽभूश्चेन्मे पाकोऽशुद्धतां व्रजेत् ।न मे भोज्यं भवेत् तद्वै वृत्तिघ्नाऽघप्रदूषितम् ॥८४॥इन्द्रः प्राह कथं योषित् पातकं चेदृशं महत् ।चाण्डाली प्राह मद्वाक्यं निबोध च यथार्थतः ॥८५॥देवा वै पितरः प्रोक्ता मातरो देवतास्तथा ।देवाश्च वृष्टिदातारो देवाः संरक्षकाः सदा ॥८६॥योगक्षेमप्रकर्तारो लोकानां सर्वदेवताः ।जीविकावृत्तिहा जीवहन्ता वै प्रोच्यते खलु ॥८७॥विना वृत्तिं जीवनं न विना वृत्तिं मृतो भवेत् ।देववृत्तिहरस्तस्मात् पितृहा मातृहा तथा ॥८८॥देवहा धर्महा तद्वदात्महा स्वर्गहा हि सः ।वृष्टिहा लोकहा चैव गोघाती ब्रह्मघातकः ॥८९॥देवघाती वृष्टिघाती सर्वघाती भवेद्धि सः ।तस्य पादरजश्चापि महापापकरं मलम् ॥९०॥तत् श्वमांसे पतितं चेन्न मे भोज्यं मलं हि तत् ।तस्मान्मया तु पात्रं तच्चर्मणा छादितं हि यत् ॥९१॥यदि त्वं देववृत्तीनां दाता कर्ताऽसि चेद्यदि ।तदा ते पदधूल्याऽत्र पावितं पललं भवेत् ॥९२॥न मेऽस्त्याच्छादने भीतिर्गच्छ पूज्य यथासुखम् ।इन्द्रोऽपि स्वसभायां च सुरर्षिपितृमानवैः ॥९३॥शोभितायां तदुक्तं च वृत्तिघ्ना मा भवन्त्विति ।वृत्तिहारस्य न चास्ति निष्कृतिः कथिता क्वचित् ॥९४॥तदारभ्य त्रिलोकेषु वृत्तिदानं प्रशस्यते ।तस्माद् राजँस्तव पित्रूद्धारकं कर्म नास्ति वै ॥९५॥येनोद्धारो भवेत्तेषां हरेः सम्बन्धमन्तरा ।हरेश्चापि सुसम्बन्धो व्रतेनैवोपजायते ॥९६॥मोक्षदाया व्रतं मोक्षप्रदं प्रभावतो हरे ।अगतीनां गतिः प्रोक्तं निष्कृतिर्वज्रपापिनाम् ॥९७॥सर्वं च निर्जलं कार्यं पितृभ्यो दीयतां फलम् ।मोक्षदैकादशीजन्यव्रतपुण्यैः प्रमोक्षणम् ॥९८॥भविष्यतीति तत्सर्वं गृहीत्वा चाभिपूज्य च ।सत्कृत्य साधून् विप्राँश्च गृहान् गन्तुं न्यवेदयत् ॥९९॥मार्गशीर्षेऽथ सम्प्राप्ते सिते चैकादशी च या ।राज्ञा चोपोषिता पूजा हरेर्विधानतः कृता ॥१००॥सर्वतोभद्रकं कृत्वा सैकादशीहरि च सः ।पूजयामास विधिना ददौ दानानि भूरिशः ॥१०१॥जागरणं च कृतवान् प्रातःस्नानादिकं तथा ।कृत्वा च पुण्यमेवैतद् दत्वा पितृभ्य इत्यपि ॥१०२॥पारणां कृतवान् वैश्वानरो राजा विधानतः ।मोक्षदैकादशीपुण्यदानेन पितरस्तदा ॥१०३॥स्वपित्रा सहिताः सर्वे शीघ्रं वै मोक्षमाविशन् ।पुण्ये दत्ते च पितॄणां मुक्तौ वैमानिकाः सुराः ॥१०४॥चक्रुः कुसुमवृष्टिं च प्रोचुः पुण्या गिरस्तथा ।स्वस्ति स्वस्ति च पुत्रस्ते वयं देवाः समागताः ॥१०५॥एकादश्याः पुण्यदानात् पितरस्तारितास्त्वया ।ते सर्वे मोक्षमापन्ना प्राहुर्वै पितरोऽपि ते ॥१०६॥वयं मोक्षं समापन्नाः पुत्र ते कुशलं भवेत् ।सुखी भव सदा सौख्यप्रदाता भव देहिनाम् ॥१०७॥श्राद्धकर्ता यज्ञकर्ता देवानां पूजको भव ।मातापितृप्रसेवादिकर्ता भव सदाऽनघ ॥१०८॥दीर्घजीवी चास्तिकस्त्वं पत्नीव्रतपरो भव ।देववृत्तिप्रदाता च ब्राह्मणानां प्रपूजकः ॥१०९॥सतां सेवा प्रकर्ता च साध्वीनां व्रतरक्षकः ।गोभूरक्षाकरो नित्यं स्मृद्धः स्याः सर्वदा सुत ॥११०॥इत्येवमाशीर्वादैश्च संयुज्य पितरः सुराः ।प्रशंसन्तो मोक्षदाया व्रतपुण्यप्रभावकम् ॥१११॥गता यथामतं स्थानं ब्रुवन्तः स्वस्ति वै मुहुः ।राजापि पापनाशेन मोक्षदायाः प्रभावतः ॥११२॥महाभागवतो जातः सकुटुम्बः समास्तिकः ।यज्ञयागकरो नित्यं विप्रसाधुप्रपूजकः ॥११३॥देवपूजाकरश्चैव धर्मवान् दोषवर्जितः ।तस्याऽभूच्च महान् धार्मिर्वैष्णवो हुतभुक् सुतः ॥११४॥राज्यं सुताय दत्त्वा सः परं मोक्षमवाप्तवान् ।हुतभुक् चापि जठरे प्राणिनां देवतात्मकः ॥११५॥महाँश्च वैष्णवो भूत्वा वह्निरूपेण तिष्ठति ।मोक्षदाया व्रतैश्वर्यं बोध्यं तद्देवभावदम् ॥११६॥एवं यः कुरुते लक्ष्मि मोक्षामेकादशीं शुभाम् ।तस्य पापानि नश्यन्ति मृतो मोक्षमवाप्नुयात् ॥११७॥नातः परतरं किञ्चिद् वज्रपापविनाशकम् ।मोक्षदं चाऽभवत् किंचिन्नारायणप्रभाववत् ॥११८॥अस्या न पुण्यसंख्यास्ति प्रियं त्वेतद्व्रतं मम ।चिन्तामणिसमा मोक्षप्रदा सा मे बहुप्रिया ॥११९॥पठनाच्छ्रवणाच्चापि व्रततुल्यफलप्रदा ।पुत्रस्मृद्धिप्रदा भुक्तिमुक्तिदा मम वल्लभा ॥१२०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मार्गशीर्षशुक्लपक्षीयमोक्षदैकादशीव्रतविधाने वैश्वानर-नृपतिवृत्तान्ततत्पित्रुद्धारादिनिरूपणनामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२३९॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP