संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४४०

कृतयुगसन्तानः - अध्यायः ४४०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
अथ लक्ष्मि! वृषारण्ये ब्राह्मणादिप्ररक्षिकाः ।
पतिव्रतामहासत्यो विष्णुस्थापितमातरः ॥१॥
तास्तु नारायणभक्ताः सदा लोकस्य रक्षिकाः ।
पातिव्रत्यपरा देवीर्वक्ष्यामि शृणु सादरम् ॥२॥
सोपाख्यानां कथां तत्र विप्राणां या पुराऽभवत् ।
तामपि संप्रवक्ष्यामि शृणु धर्मोद्भवां शुभाम् ॥३॥
पुरा गोलोकधाम्नि श्रीकृष्णनारायणः प्रभुः ।
पत्नीव्रतं सुतं विप्रं स्वस्मात् प्राविश्चकार ह ॥४॥
स तु विप्रः कृष्णनारायणाज्ञयाऽत्र गोलके ।
आजगाम निजपत्न्या पतिव्रतया संयुतः ॥५॥
धर्मारण्ये सहस्राक्षः सहस्रास्यः सहस्रपात् ।
पत्नीव्रतः कृतवान् स्वस्वरूपाणि सहस्रशः ॥६॥
त एते ब्राह्मणाः सर्वे सदाचाराः शुभव्रताः ।
अशेषधर्मकुशलाः सर्वशास्त्रविशारदाः ॥७॥
तपोज्ञाने महाख्याता ब्रह्मयज्ञपरायणाः ।
उषिताः ऋषयः सर्वे त्रिकालज्ञाः प्रतापिनः ॥८॥
अष्टादशसहस्राणि कृष्णनारायणात्मजाः ।
चतुर्विंशतिगोत्राणि प्रावर्तन्ताऽत्र वै पुरा ॥९॥
भारद्वाजस्तथा वत्सः कौशिकः कुश इत्यपि ।
शाण्डिल्यः कश्यपश्चापि गौतमः शान्धनस्तथा ॥१०॥
जातूकर्ण्यस्तथा वात्स्यो वसिष्ठो धारणस्तथा ।
आत्रेयो भाण्डिलश्चापि कृष्णायनश्च लौकिकः ॥११॥
उपमन्युश्च गार्ग्यश्च मौषको मुद्गलस्तथा ।
गांगासनश्च कौण्डिन्यः पुण्यासनः पराशरः ॥१२॥
चतुर्विंशतिश्चैतानि प्रावर्तन्त पुरा युगे ।
आंगीरसः शौनकश्च काश्यपः जामदग्न्यकः ॥१३॥
लौगाक्षसश्च माण्डव्यो बभूवुर्गोत्रिणस्ततः ।
प्रवराणि तु जातानि तान्यपि मे निशामय ॥१४॥
भारद्वाजसगोत्रेयाः प्रवरैः पञ्चभिर्युताः ।
आङ्गीरसो बार्हस्पत्यो भारद्वाजश्च सैन्यसः ॥१५॥
गार्ग्यश्चैवेति प्रवराः पञ्च ते वैष्णवा द्विजाः ।
वत्सगोत्रे द्विजा लक्ष्मि! प्रवराः पञ्च ते यथा ॥१६॥
भार्गवश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ।
कौशिकवंशे ये जाताः प्रवरत्रयसंयुताः ॥१७॥
विश्वामित्रोऽघमर्षी च कौशिकश्चेति ते त्रयः ।
कुशिकगोत्रे ये जाताः प्रवरैस्त्रिभिरन्विताः ॥१८॥
विश्वामित्रो देवरात औदलश्चेति ते त्रयः ।
शाण्डिल्यगोत्रे ये जाताः प्रवरत्रयसंयुताः ॥१९॥
असितो देवलश्चापि शाण्डिल्यश्चेति ते त्रयः ।
कश्यपा ब्राह्मणा लक्ष्मि! प्रवरत्रयसंयुताः ॥२०॥
काश्यपश्चापवत्सारो नैध्रुवश्चेति ते त्रयः ।
गौतमगोत्रजा ये तु प्रवराः पञ्च एव ते ॥२१॥
कौत्सो गार्ग्यो प्रवहश्चाऽसितो देवल इत्यमी ।
शान्धनस्य तु नैवासीत् स्वतन्त्रः प्रवरः सति! ॥२२॥
जातूकर्ण्यस्यापि तथा स्वतन्त्रः प्रवरो न वै ।
वात्स्यगोत्रे भवा विप्राः प्रवरैः पञ्चभिर्युताः ॥२३॥
भार्गवच्यवनाप्नुवानौर्वश्च जमदग्निकः ।
अथ वशिष्ठगोत्रोत्थाः प्रवरत्रयसंयुताः ॥२४॥
वसिष्ठो भारद्वाजश्च इन्द्रप्रमद इत्यमी ।
अथ धारीणसगोत्रे प्रवरास्त्रय एव ते ॥२५॥
अगस्तिर्दर्विश्वेता च दध्यवाहन इत्यमी ।
आत्रेयगोत्रे ये जाताः पञ्चप्रवरसंयुता ॥२६॥
आत्रेयोऽर्चनानसः श्यावाश्व आंगीरसोऽत्रिकः ।
भाण्डीलस्य तु नैवासीत् स्वतन्त्रः प्रवरस्तदा ॥२७॥
तथा कृष्णायनस्यापि स्वतन्त्रः प्रवरो न वै ।
लौकिकस्यापि च तथा स्वतन्त्रः प्रवरो न वै ॥२८॥
उपमन्युसगोत्रेयाः प्रवरत्रयसंयुताः ।
वसिष्ठश्च भरद्वाजस्त्विन्द्रप्रमद इत्यमी ॥२९॥
गार्ग्यस्य गोत्रजानां तु प्रवरास्त्रय एव तु ।
अङ्गिराश्चाम्बरीषश्च यौवनाश्वस्तृतीयकः ॥३०॥
मौषकस्य तु नैवासीत् स्वतन्त्रः प्रवरस्तदा ।
मुद्गलस्यापि च तथा स्वतन्त्रः प्रवरो न वै ॥३१॥
गांगासनस्य तु गोत्रे प्रवराः पञ्च एव तु ।
भार्गवश्चावनाप्नुवानौर्वाश्च जामदग्न्यकः ॥३२॥
आत्रेयोऽर्चनानसश्च श्यावास्यश्च त्रयोऽपि ते ।
गांगासने भवन्त्येते त्रयोऽपि प्रवराः क्वचित् ॥३३॥
कौण्डिन्यस्य च पुण्यासनस्य पराशरस्य च ।
गोत्रे स्वतन्त्राः प्रवरा नासन् लक्ष्मि! तदा पुरा ॥३४॥
अथाऽन्याँस्ते कथयामि जामदग्न्यस्य पञ्च तु ।
भार्गव्यश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ॥३५॥
माण्डव्यस्य सगोत्रे तु प्रवराः पञ्च ते यथा ।
भार्गवश्च्यावनोऽत्रिश्चाप्नुवानौर्वस्त एव हि ॥३६॥
वात्स्यायनसगोत्रेयाः प्रवरैः पञ्चभिर्युताः ।
भार्गवश्च्यावनाप्नुवानौर्वश्च जमदग्निकः ॥३७॥
कश्यपे गोत्रके चान्ये प्रवरत्रयसंयुताः ।
काश्यपश्चापवत्सारो रैभ्यश्च विश्रुतास्त्रयः ॥३८॥
शोनकसेषु ये जाताः प्रवरत्रयसंयुताः ।
भार्गवः शौनहोत्रश्च गार्त्स्यमद इतित्रयः ॥३९॥
जाता आंगीरसगोत्रे प्रवरत्रयसंयुताः ।
आङ्गिरसोऽम्बरीषश्च यौवनाश्च इति त्रयः ॥४०॥
अथ पत्नीव्रतगोत्रे देवानीको दसायकः ।
सन्तकश्चेति प्रवरा महादानपरायणाः ॥४१॥
तेषां शाखाः प्रशाखाश्च पुत्रपौत्रादयो द्विजाः ।
जज्ञिरे बहवो लोके नूत्नशाखावलम्बिनः ॥४२॥
धर्मसावर्णिगोत्रीयाः प्रवरा ह्यभवँस्त्रयः ।
वैतहव्यः सावेतसो भारद्वाजश्च ते ह्यमी ॥४३॥
एतान् विसृज्य च विप्रा नूत्नप्रवरमार्गगाः ।
भविष्यन्ति गते काले सर्वं कालविडम्बनम् ॥४४॥
शृणु लक्ष्मि! द्विजानेतान् धर्मारण्येऽन्यभूतले ।
यक्षरक्षःपिशाचाद्या उद्वेजयन्ति वै तदा ॥४५॥
जृम्भको नाम यक्षोऽभूद् धर्मारण्यसमीपतः ।
उद्वेजयति नित्यं स धर्मारण्यनिवासिनः ॥४६॥
तद्दुःखं तैर्द्विजाग्र्यैश्च देवेभ्यो विनिवेदितम् ।
पत्नीव्रतं पुरः कृत्वा सुरा वेधःसभां ययुः ॥४७॥
ब्रह्मा ययौ तु गोलोकं श्रीकृष्णं तज्जगाद ह ।
श्रीकृष्णेन तदा गोप्यो लक्षशस्तत्र प्रेषिताः ॥४८॥
तास्तु दिव्याः कृष्णपत्न्यः कृष्णाज्ञावर्तनाः प्रियाः ।
कृष्णनारायणपातिव्रत्यधर्मावगाहिताः ॥४९॥
सत्यः प्रसन्ना दिव्याङ्ग्यश्चाययुर्वेधसो गृहम् ।
ब्रह्माज्ञया च ताः सर्वा आययुः कन्यका दिवम् ॥५०॥
तत्र विश्वावसुकन्याः मानस्यश्चाऽभवन् क्षणात् ।
जातिस्मरा युवत्यश्च सुताः सर्वांगसुन्दराः ॥५१॥
ब्रह्मचर्यधर्मपराः कृष्णपत्न्यः कुमारिकाः ।
रक्षणार्थं हि विप्राणां लोकानां हितकाम्यया ॥५२॥
योगिन्यो देवगन्धर्वैः स्थापिता धर्मभूमिषु ।
गोत्रान् प्रतितथैकैका स्थापिता योगिनी सती ॥५३॥
यस्य गोत्रस्य या शक्तिः पालने रक्षणे क्षमा ।
सा तस्य कुलदेवीति साक्षात्तत्र बभूव ह ॥५४॥
श्रीमात्राद्याः शृणु लक्ष्मि! ताः सर्वा द्वादशाऽब्दिकाः ।
श्रीमाता, तारणी, आशापुरी, चेच्छाऽऽर्तिनाशिनी ॥५५॥
पिप्पली, विकरावशा, जगन्माता, तु सप्तमी ।
महामाता, तथा सिद्धा, भट्टारिका, कदम्बिकाः ॥५६॥
विकरा, मिष्टा, सुपर्णा, मातंगी, वसुजा, तथा ।
महादेवी, तथा वाणी, भद्री, च मुकुरेश्वरी, ॥५७॥
संहारी, च महाशक्ति,र्महाबला, तथा पुनः ।
चामुण्डा तु महादेवी, इत्येता गोत्रमातरः ॥५८॥
ब्रह्मविष्णुमहेशाद्यैः स्थापिता विप्ररक्षणे ।
ताः पूजयन्ति विप्रेन्द्रा वैष्णवीर्भगवत्सतीः ॥५९॥
अथ यज्ञेषु गव्यार्थं ब्रह्मा लोकपितामहः ।
सस्मार कामधेनुं तु कामधेनुः समाययौ ॥६०॥
ब्रह्मा तां कथयामास गव्यार्थं तु प्रतिद्विजम् ।
एकैकां कामधेनुं च देहि मातः प्रसीद मे ॥६१॥
तथेत्युक्त्वा कामधेनुः प्राविश्चकार पुत्रिकाः ।
नन्दिन्यो लक्षशः श्वेताः प्राविर्भूताः सुयौवनाः ॥६२॥
संकल्पमात्रात् सवत्सा दोग्ध्र्यो गव्यप्रदाः शुभाः ।
प्रावर्तन्त शुभा यज्ञा देवास्तृप्ताः सुपायसैः ॥६३॥
अथ ब्राह्मणवर्णानां सेवकाश्च द्विजातयः ।
ब्राह्मणैर्मानसास्तत्रोत्पादिता वणिजोऽयुताः ॥६४॥
सोपवीताः सशिखाश्च सर्वतत्त्वविशारदाः ।
द्विजभक्ताः सदाचारा युवानश्च तपोन्विताः ॥६५॥
एकैकस्मै द्विजायैवाऽर्पितं ह्यनुचरद्वयम् ।
वाडवस्य तु यद्गोत्रं गोत्रं चानुचरस्य तत् ॥६६॥
ब्रह्मणा शिष्यता तेभ्यश्चोपदिष्टा हिताय हि ।
कुरुध्वं वचनं त्वेषां ददध्वं च यदिच्छितम् ॥६७॥
समित्पुष्पकुशादीनि ह्यानयध्वं दिने दिने ।
अनुज्ञयैषां वर्तध्वं माऽवज्ञां कुरुत क्वचित् ॥६८॥
इत्येवं ते वर्तमाना ब्रह्मचर्यपरायणाः ।
सेवन्ते ब्राह्मणान् सर्वे वैष्णवा व्रतशालिनः ॥६९॥
परिग्रहार्थं तेषां वै वेधसा च वृषेण च ।
गन्धर्वकन्यका रम्या दारास्तत्रोपकल्पिताः ॥७०॥
विश्वावसोः कन्यकास्ता विप्रवध्वः पतिव्रताः ।
षष्टिकन्यासहस्राणि स्नुषारूपास्तदाऽभवन् ॥७१॥
श्वश्रूरूपास्तथा चान्या मातरो विप्रयोषितः ।
चत्वारिंशत्सहस्राणि कन्यानामभवन् प्रिये ॥७२॥
श्रेष्ठादेव्योऽथ योगिन्यो मातृरूपाश्च रक्षिकाः ।
धर्मारण्ये लक्षशस्ताः स्त्रियः कृष्णपतिव्रताः ॥७३॥
एवं गृहस्था अभवन् पुत्रपौत्रादिविस्तराः ।
सर्वाः पतिव्रता नार्यः पत्नीव्रताश्च पूरुषाः ॥७४॥
एवं गृहस्थविप्रेषु वसमानेष्वरण्यके ।
उपद्रवं परं चक्रे राक्षसो लोलजिह्वकः ॥७५॥
महादंष्ट्रो महाकायो विद्युज्जिह्वो भयंकरः ।
तं तु नाशयितुं देव्यो विप्ररक्षणतत्पराः ॥७६॥
त्रिशूलवरधारिण्यः शंखचक्रगदायुताः ।
कशाखङ्गयुताश्चान्याः पाशांकुशयुतास्तथा ॥७७॥
काश्चित् परशुहस्ताश्च दिव्यायुधधराश्च ताः ।
युयुधुः राक्षसेनात्र सस्मरुश्च नरायणम् ॥७८॥
विष्णुरागत्य चक्रेण मारयामास राक्षसम् ।
विप्रास्तु संहताश्चैकनगरे वासमाचरन् ॥७९॥
धर्मारण्यं पुरा यत्तु सत्यमन्दिरपत्तनम् ।
नगरं विप्रवासं सुदिव्यं स्वर्गसमं ह्यभूत् ॥८०॥
अन्या नगररक्षार्थं योगिन्यः स्थापिता यथा ।
मदारिकायां श्रीमाता, शान्ता नन्दापुरे तथा ॥८१॥
सावित्री, ज्ञानजा चापि, गात्रायी, पक्षिणी तथा, ।
छत्रजा, चूटिका, द्वारवासिनी, पिप्पला तथा ॥८२॥
शीहोरी, शापुरी, चेता, रक्तवस्त्रा, भयंकराः ।
आनन्दा च, तथौंकारा, तथा च धर्मपुत्रिका, ॥८३॥
श्यामला, चेति ता रक्षां कुर्वन्ति धर्मदेशिताः ।
अथ कर्णाटनामाऽभूद् राक्षसो विप्रपीडकः ॥८४॥
योगमालिनी तं विद्रावयामास च दक्षिणाम् ।
तन्नाम्ना सोऽभवद् देशः कर्णाटक इतिप्रथः ॥८५॥
तया तूत्पादिताः क्रूरा ब्रह्मचारिण्य एव ताः ।
शाकिनी डाकिनी चापि काकिनी हाकिनी तथा ॥८६॥
एकिनी लाकिनी चैताः शक्तयो दैत्यनाशिकाः ।
धर्मारण्ये प्ररक्षार्थं धर्मदेवेन वासिताः ॥८७॥
एताः पतिव्रताः सर्वा रुद्रकान्तस्य सेविकाः ।
विप्राणां रक्षिका नित्यं सतीवंशस्य रक्षिकाः ॥८८॥
तया चोत्पादिता लक्ष्मि! तदन्याश्च पतिव्रताः ।
रुद्रव्रता महादेव्यो धर्मारण्यकृताश्रयाः ॥८९॥
ता एता ब्रह्मचारिण्यः कन्यकाः कुलदेवताः ।
रक्ष्यन्ते सर्वदा याभिर्विप्रकुलानि भूतले ॥९०॥
भट्टारिकी तथा छत्रा औविका ज्ञानजा तथा ।
भद्रकाली च माहेशी सिंहोरी धनमर्दिनी ॥९१॥
गात्रा शान्ता शेषदेवी वाराही भद्रयोगिनी ।
योगेश्वरी मोहलज्जा कुलेशी शकुलाचिता ॥९२॥
तारणी कनकानन्दा चामुण्डा च सुरेश्वरी ।
दारभट्टारिकेत्याद्याः प्रत्येकाः शतधा पुनः ॥९३॥
उत्पन्नाः शक्तयः सर्वा धर्मारण्यादिकाश्रयाः ।
अथ धर्मपिता चक्रे धर्मारण्ये महाक्रतुम् ॥९४॥
तत्र देवाश्च पितरः ऋषयो मुनयो नराः ।
मनवाद्याश्चतुर्दशभुवनेशाः समाययुः ॥९५॥
तत्राचार्यं त्वांगिरसं मार्कण्डेयं चकार सः ।
अत्रिं च कश्यपं चापि होतारं समकल्पयत् ॥९६॥
जमदग्निं गौतमं च अध्वर्युं समकल्पयत् ।
भरद्वाजं वशिष्ठं च प्रत्यध्वर्युं प्रकल्पयत् ॥९७॥
नारदं चापि वाल्मीकिं प्रेरितारमकल्पयत् ।
ब्रह्मासने तु ब्रह्माणं स्थापयामास धर्मराट् ॥९८॥
क्रोशचतुष्कमात्रां सुवेदीं कृत्वा सुरैस्ततः ।
द्विजाः सर्वे समाहूता जापकाः पाठकास्तथा ॥९९॥
द्वारपाला गणेशस्कन्देन्द्रजयन्तकाः कृताः ।
ततो रक्षोघ्नमन्त्रेण हूयते हव्यवाहने ॥१००॥
जुहुवुस्ते तदा देवा वेदमन्त्रैर्हि पद्मजे ।
तिलांश्च यवमिश्रांश्च मध्वाज्येन सुमिश्रितान् ॥१०१॥
आघारावाज्यभागौ च हुत्वा चापि ततः परम् ।
द्राक्षेक्षुपूगनारिङ्गजम्बीरं बीजपूरकम् ॥१०२॥
उत्तरतो नारिकेलं दाडिमं च यथाक्रमम् ।
मध्वाज्यं पयसा युक्तं कृशरं शर्करायुतम् ॥१०३॥
तण्डुलैः शतपत्रैश्च कृत्वा यज्ञं सदक्षिणम् ।
उत्तमं च शुभं स्तोमं वैष्णवं च जगुस्तदा ॥१०४॥
अवारिताऽन्नमददद्दीनान्धकृपणेष्वपि ।
पायसं शर्करायुक्तं साज्यशाकसमन्वितम् ॥१०५॥
मण्डका वटकाः पूपास्तथा वै वेष्टिकाः शुभाः ।
सहस्रमोदकाश्चापि फेणिका घुर्घुरादयः ॥१०६॥
ओदनश्च तथा दाली आढक्यादिकृतद्रवा ।
तथैव मुद्गदालीं च पर्पटा वटिका तथा ॥१०७॥
सपिप्पलीलवंगमरीचानि लोह्यकानि च ।
कुल्माषा वेल्लकाश्चापि कोमला वालकाः शुभाः ॥१०८॥
कर्करिटाश्चार्द्रकाश्च मरिचेन समन्विताः ।
विविधानि सुशाकानि भाजाश्च विधिधास्तथा ॥१०९॥
पायसानि चैक्षवानि गोधूमानि सहस्रशः ।
मिष्टान्नानि चणकानां भोजयित्वा द्विजान् वृषः ॥११०॥
अष्टादशप्रलक्षाँश्च तथाऽन्यान् कोटिशो जनान् ।
कृत्वाऽवभृथकं स्नानं यज्ञफलमवाप सः ॥१११॥
यज्ञं कृत्वा ययुः सर्वे स्वस्वस्थानानि देहिनः ।
श्रवणात्पठनाच्चास्य विष्णुयागफलं भवेत् ॥११२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने धर्मारण्ये श्रीकृष्णदासीनां पतिव्रतानां गान्धर्वीभूतानां कुलदेवीमण्डलत्वं, तथा विप्रादीनां गोत्रप्रवरादिः, देवीकृतो लोलजिह्वराक्षसनाशः, योगिनीनां स्थापना, धर्मदेवकृतयज्ञश्चेत्यादिनिरूपणनामा चत्वारिंशदधिकचतुश्शततमोऽध्यायः ॥४४०॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP