संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४२५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४२५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४२५ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! पुण्यशीलो द्वयोर्वृत्तान्तमाह यम् ।विष्णुपातिव्रत्यपरं पार्षदत्वप्रदं शुभम् ॥१॥विमानस्थो विष्णुसेवापरः पार्षदपुंगवः ।पुण्यशीलोऽस्म्यहं विप्र! सुशीलोऽयं द्वितीयकः ॥२॥त्वया युक्तं कृतं विप्र तारितेयं सुपुण्यतः ।अस्या जन्मान्तरशतोद्भयं पापं लयं गतम् ॥३॥वैकुण्ठं नीयते सा च विष्णुदासी भविष्यति ।त्वं च कार्तिकव्रतवान् भार्याभ्यां सह भूसुर! ॥४॥कालान्तरे हरेर्धाम प्रयास्यसि सुपुण्यतः ।हरिव्रतं सदा भक्तकृतं पतिव्रताव्रतम् ॥५॥भवत्येव न सन्देहः पुण्यदं मोक्षदं व्रतम् ।बहून्यब्दसहस्राणि पुण्यं भुक्त्वाऽत्र भूतले ॥६॥सूर्यवंशोद्भवो राजा दशरथो भविष्यसि ।भार्याभ्यां सहितश्चैव ये स्तो विवाहिते तव ॥७॥इयं तृतीया कलहा तव पुण्यार्धभागिनी ।पत्नी भविता च तदा विष्णुर्यास्यति ते गृहम् ॥८॥देवकार्यकरो भूत्वा प्रयास्यति स्वकं पदम् ।कृष्णनारायणः सोऽयं रामनामा भविष्यति ॥९॥ये तु रामस्य शरणं यास्यन्ति भूतले जनाः ।तेऽपि मुक्तिं प्रयास्यन्ति वासुदेवप्रतापतः ॥१०॥भावना प्रेम भक्तिश्च स्नेहश्चाऽऽर्द्रत्वमित्यपि ।विशिष्यते हरौ क्रियात्मकात् काण्डादिति स्थितिः ॥११॥कर्मणो ज्ञानमुत्कृष्टं ज्ञानाद् ध्यानं तथोत्तमम् ।ध्यानाच्च भावना श्रेष्ठा भावतः स्नेह उत्तमः ॥३२॥सकामस्नेहतः श्रेष्ठो निष्कामः स्नेह एव यत् ।स्नेहाच्छ्रेष्ठः प्रह्वीभावस्तद्रूपं तद्रसात्मता ॥१३॥न ततोऽधिकमेवाऽस्ति किञ्चिद् विप्र! हरौ सदा ।शृणु तत्र कथां रम्यां दानाद् भावो विशिष्यते ॥१४॥काञ्चीपुर्यां पुरा राजा चोलनामाऽभवद् व्रती ।वैष्णवो दानकृद् रक्षाकरः प्रजासु वन्दितः ॥१५॥देवपूजाकरो नित्यं यद्राज्ये सुखिनी प्रजा ।ताम्रपर्णीतटे येन यज्ञाश्च बहवः कृताः ॥१६॥विमानेन स नृपतिर्लोकान्तरं प्रयाति च ।एवं विमानमारुह्य ययौ श्वेताख्यधाम सः ॥१७॥ततः क्षीराब्धिशयनं धाम योगेन संययौ ।अनन्तशयनं कृष्णनारायणं तु निद्रितम् ॥१८॥चकार दण्डवत्तावन्नारायणः समुत्थितः ।श्रीपतिं पूज्यामास मणियुक्ताफलादिभिः ॥१९॥सुपत्रैश्च सुवर्णस्य कुसुमैर्हीरकादिभिः ।धूपदीपसुनैवेद्यैर्वस्त्रैर्विभूषणैस्तथा ॥२०॥दिव्यैः रत्नायुतैश्चापि पुपूज परमेश्वरम् ।एवं सम्पूज्य सन्नत्वोपविष्टः सन्निधौ हरेः ॥२१॥तावत्तस्यैव राज्यस्य ब्राह्मणो विष्णुदायकः ।तुलसीं च जलं पुष्पं नीत्वा पूजार्थमागतः। ॥२२॥तेनापि श्रीहरेः पूजा कृता पत्रादिवस्तुभिः ।हीरकाद्यास्तया छन्नाः पत्रपुष्पादिभिः खलु ॥२३॥आच्छादिनां स्वकृत्पूजां विलोक्य नृपतिस्तदा ।विप्रं प्राह कथं स्वर्णमाणिक्यादिसुशोभिता ॥२४॥पूजा कृता मया विप्र त्वया वै छादिता दलैः ।गौरवं नैव जानासि न जानासि प्रपूजनम् ॥२५॥मूल्यं नापि गणयसि श्रैष्ठ्यं करोष्यनुत्तमम् ।पत्रादिकं निकृष्टं तु करोषि तूत्तमं द्विज ॥२६॥इत्युक्तः स द्विजस्तत्र चौलं प्राह सुभाववान् ।राजन् विष्णोः सदा पूजा भावनासहिता प्रिया ॥२७॥गर्वयुक्ताऽहंकृतिस्था न प्रिया जायतेऽनघ ।त्वया तु क्रियते पूजा रत्नस्वर्णादिपुष्पकैः ॥२८॥मयाऽपि क्रियते सैव तुलसीदलवारिभिः ।मम पूजा तव पूजा भावनातो विशिष्यते ॥२९॥वद राजन् नृपलक्ष्म्या त्वया किंकिं कृतं व्रतम् ।मया कृतं न वै किञ्चिद् वद् त्वं चेत् कृतं महत् ॥३०॥तदा चौलः सगर्वस्तु प्राह विप्रं कृतं तु यत् ।मया कृतं स्वर्णदानं रत्नहीरकदानकम् ॥३१॥गोदानानि ह्यनन्तानि यज्ञाश्च बहवः कृताः ।पूजने श्रीहरेर्नित्यं समर्पयामि हीरकान् ॥३२॥निर्धनस्य तव भक्त्या मम भक्तिर्विशिष्यते ।त्वया यज्ञः कृतो नैव देवालयो न वा कृतः ॥३३॥मया सर्वं कृतं विप्र पश्य यज्ञान्तरं पुनः ।करिष्यामि गमिष्यामि साक्षात्कारं हरेः पुरा ॥३४॥विप्रा ज्ञास्यन्ति ये भक्तिं श्रेष्ठां तदैव नान्यथा ।पूर्वं साक्षात्करणार्थं विष्णुयागं करोम्यहम् ॥३५॥इत्युक्त्वा श्रीहरिं नत्वा ययौ चौलप्रदेशकान् ।चौलः समारभद् यज्ञं कृत्वाऽऽचार्यं तु मुद्गलम् ॥३६॥सत्यलोकात्तत ऊर्ध्वाद् वैराजा ब्रह्मचारिणः ।मुनयः ऋषयो वृद्धाः पितरश्च सुरास्तथा ॥३७॥यज्ञाश्च देवगन्धर्वा मानवाश्चापि भूसुराः ।नदा नदश्च तीर्थानि तरवो वल्लिकास्तथा ॥३८॥पुर्यः क्षेत्राणि चैत्यानि पातालभूगतानि च ।तारकाणि प्रकृष्टानि वैष्णवा देवतास्तथा ॥३९॥देव्यः सर्वाः सर्वधामनिवासा मुक्तनायकाः ।आकारिता नृपतिना वैष्णवे स्वकृते क्रतौ ॥४०॥स्वर्णं द्रव्यं हीरकादि सर्वं तत्र समर्पितम् ।वस्त्रान्नपेयभोग्यानि समर्पितानि सर्वशः ॥४१॥ऋषीणां वेदसंघोषा ह्यासंस्तत्र महाध्वरे ।विप्राणां मूर्तयस्तत्र सन्तुष्टा ह्यभवन्मखे ॥४२॥वह्नयस्तृप्तिमापन्ना मुक्ता देवाः प्रतोषिताः ।मुदिताश्चाऽभवन् सत्यो देव्यो ब्रह्माण्डयोषितः ॥४३॥कृतो यज्ञो महान् सर्वलोकेषु ख्यात एव सः ।किन्तु गर्वात् कृतो नैव निष्कामभावतः कृतः ॥४४॥स्पर्धया यत्कृतं चापि मत्सरेणाऽप्यथेर्ष्यया ।तत्सर्वं न फलवत् स्याद् यथा निष्कामजं फलम् ॥४५॥विष्णुदासो हरेर्देवालये चकार सेवनम् ।शरीरेण च भावेन हरेः संस्नपनं तथा ॥४६॥प्रबोधनं पूजनं च शृंगारं धूपदीपनम् ।तुलसीपत्रदानं च जलाभिषेकमर्चनम् ॥४७॥पुष्पपत्रफलार्घ्यानामर्पणं चन्दनार्पणम् ।अक्षतकुंकुमदानं श्रीफलाद्यर्पणं तथा ॥४८॥नीराजनं प्रदक्षिणं स्तुतिं दण्डवदादिकम् ।क्षमायाचनमेवापि कीर्तनं श्रवणं तथा ॥४९॥मार्जनं लेपनं गुणप्रगानं च निवेदनम् ।ताम्बूलकं जलं सुगन्धिवद्द्रव्यार्पणं तथा ॥५०॥व्यजनेन पवनस्य दानं चामरधारणम् ।छत्रसन्धारणं चापि यथर्तुसेवनादिकम् ॥५१॥पुष्पवाटीं तथा कृत्वा पुष्पहारादिकं शुभम् ।तुलसीवाटिकां कृत्वा हर्यर्थं जलसेचनम् ॥५२॥एवं स्नेहेन भावेन दिवानिशं हरेः प्रभोः ।पातिव्रत्यपरां भक्तिमकरोद् विष्णुदासकः ॥५३॥एकादश्यादिदिवसान् जपयुक्तान् व्रतानि च ।संयमेन महाभक्त्या कृष्णसंस्मरणेन च ॥५४॥पूजया षोडशवस्तुकृतया नृत्यगीतिभिः ।भावातिसेवया सन्निर्गमयत्येव सर्वथा ॥५५॥पश्यन् शृण्वन् स्पृशन् जिघ्रन् रसयन् संवदन्नपि ।गृह्णन् गच्छन् शयानश्च स्तवन् ध्यायन् विनिश्चयन् ॥५६॥चिन्तयन् मानयँश्चाप्यनुभवन् भावयँस्तथा ।स्मरन् संप्रत्यभिजानन् संशयानो विपर्ययन् ॥५७॥तर्कयन् चेतयन् चेच्छन् विष्णुमेव हि वर्तते ।सर्वत्रात्मकृतावासं विदन् विष्णुमचिन्तयत् ॥५८॥ओं नमः श्रीकृष्णनारायणाय ओं नमोनमः ।एवं षोडशवर्णार्णं गृणन् विष्णुमयो ह्यभूत्। ॥५९॥ब्राह्मणस्य सदा सेवां गृह्णाति भगवान् स्वयम् ।राज्ञो यज्ञं हुतद्रव्यं गृह्णाति भगवान् स्वयम् ॥६०॥ब्राह्मणस्याऽभवद् दृश्यो राज्ञस्त्वदृश्य ईश्वरः ।भावाऽभावौ तथा गर्वाऽगर्वौ तत्र हि कारणे ॥६१॥एकदा विष्णुदासेन नित्यमिव महानसे ।कृतो मिष्टान्नपाकश्चाऽहस्त्वं कोऽप्यलक्षितः ॥६२॥पूजाविघ्नं च मध्याह्ने पुनः पाके भवेदिति ।विचार्य न पुनः पाकः कृतो न बुभुजे स्वयम् ॥६३॥फलं जलं च नैवेद्येऽर्पितवान् शार्ङ्गिणे हि सः ।द्वितीयेऽपि दिने तद्वत् कृतं पाकं जहार ह ॥६४॥तृतीयेऽपि दिने तद्वत् पाकं जहार माधवः ।एवं सप्तदिनान्येव पाकं जह्रेऽर्पणं विना ॥६५॥चिन्तातुरो द्विजस्तस्थौ रक्षार्थं पाकसन्निधौ ।पाकं कृत्वा गृहकोणे काष्ठपाषाणहस्तकः ॥६६॥उपोषितश्च सप्ताहं ददर्श पाकहारिणम् ।चाण्डालं मलिनं कंचित् क्षुधितं शुष्कदेहकम् ॥६७॥द्विजो दृष्ट्वा दयायुक्तो जातस्तस्मिन् हरिं स्मरन् ।उवाच तिष्ठ मा रूक्षं भुंक्ष्व घृतं गृहाण वै ॥६८॥इत्युक्तवन्तं तं विप्र दृष्ट्वा दुद्राव भीतितः ।पतितो मूर्छितस्तत्र तं गत्वा विष्णुदासकः ॥६९॥जलं ददौ पवनं च वस्त्रान्तेन व्यमूर्छयत् ।तावत् स उत्थितो विष्णुश्चतुर्भुजधरोऽभवत् ॥७०॥साक्षात् श्रीमत्कृष्णनारायणं चतुर्भुजं हरिम् ।शंखचक्रगदापद्मकौस्तुभादिविराजितम् ॥७१॥प्रत्यक्षं श्रीहरिं दृष्ट्वा विष्णुदासोऽतिगद्गदः ।बभूव प्रेमपूर्णश्च स्तोतुं वक्तुं न चाऽशकत् ॥७२॥अथ यज्ञे स्थिता देवाः क्रतुं त्यक्त्वा समाययुः ।चौलराज्ञा तु ते पृष्ठाः क्व गम्यते सुरेश्वरैः ॥७३॥ते प्राहुर्विष्णुदासाय कृष्णनारायणः प्रभुः ।साक्षात्कारं दर्शनं वै ददौ तत्र हि सन्निधौ ॥७४॥प्रगच्छामो दर्शनार्थं आयास्यामश्च सत्वरम् ।इत्युक्त्वा ते ययुस्तत्र यत्र चतुर्भुजो हरिः ॥७५॥देवाश्चक्रुस्तवं तस्य गन्धर्वाऽप्सरसो जगुः ।ननृतुर्देवगन्धर्वा आशिषः ऋषयो ददुः ॥७६॥गीतवादित्रमोदाढ्यं स्थानं तत्त्वभवत्तदा ।यज्ञाः सर्वदेवाद्याश्चतुर्दशभुवां जनाः ॥७७॥सर्वे समाययुस्तत्र तीर्थाद्या वह्नयोऽपि च ।यज्ञस्थानं तदा रिक्तं जातं देवैर्विना क्षणम् ॥७८॥देवालयस्य निकटे विष्णुः प्राहेश्वरादिकान् ।भक्त्या च सेवया स्नेहभावया प्रेमपूरया ॥७९॥तुष्टोऽहं विष्णुदासस्याऽगर्वस्य किंकरस्य मे ।साक्षात्कारो मम तस्य शीघ्रं जातोऽस्ति देवताः ॥८०॥नाऽहं बहुविधैर्द्रव्यैः सगर्वस्याऽन्तिकप्रगः ।साक्षात्स्वदर्शनप्रदो भवामीति विनिश्चयः ॥८१॥इत्युक्त्वा भगवान् विष्णुराश्लिष्य विष्णुदासकम् ।समारोप्य विमाने स्वे निनाय धाम शाश्वतम् ॥८२॥चौलराजो ददर्शैनं यान्तं श्रीविष्णुमन्दिरम् ।शीघ्रं तदाऽऽह्वयाञ्चक्रे गुरुं मुद्गरमेव सः ॥८३॥जगाद च मुनिं तत्र यदर्थं यज्ञमारभे ।यत्स्पर्धया सर्वद्रव्यं यज्ञे मया समर्पितम् ॥८४॥स तु पूर्वं हरिं प्राप्य ययौ वैकुण्ठमेव ह ।त्वया यज्ञः कर्मकाण्डात्मको नैव हि पार्यते ॥८५॥कर्तव्यस्य फलं नैव मया प्रागत्र चार्जितम् ।तस्माद् धनं क्रतुर्दानं सर्वं न तोषयेद्धरिम् ॥८६॥हरिस्तु भावभक्त्यैव भजनेन जपेन च ।स्मरणेन प्रसन्नः स भवतीति विनिश्चितम् ॥८७॥कुरु यज्ञस्येतिभावं गृहाण दक्षिणां गुरो! ।याहि गृहं समायातान् प्रस्थाप्य दत्तदक्षिणान् ॥८८॥अहं गच्छामि च पश्चात् समाराधनहेतवे ।भक्त्या तुष्यति भक्तेशो न यज्ञैर्दानविस्तरैः ॥८९॥प्रसादने हरेरेषो विप्रो जातो निदर्शनम् ।इत्युक्त्वा राज्यभारं च भागिनेये विसृज्य च ॥९०॥ययौ यज्ञं हरिं समाराधयितुं जनाधिपः ।वह्निकुण्डाग्रतः स्थित्वा ददौ हवनद्रव्यकम् ॥९१॥विष्णो भक्तिं सदा देहि मनोवाक्कायकर्मभिः ।उच्चैस्त्रिवारमेतद्वै समुच्चार्य हरिं स्मरन् ॥९२॥सर्वेषां पश्यतां राजा वाह्निकुण्डेऽपतत्तदा ।हाहाकारो महान् जातो विष्णुश्चाविरभूत्तदा ॥९३॥नृपं चतुर्भुजं कृत्वा समादाय विमानके ।वैकुण्ठमनयद्भूपं पार्षदत्वं ददौ हरिः ॥९४॥पातिव्रत्यपरया च भक्त्या तुष्टो हरिः स्वयम् ।मयि तुष्टो नृपे तुष्टः स्वयं कृष्णनरायणः ॥९५॥धर्मदत्त स एवाऽहं विष्णुदासोऽस्मि पार्षदः ।पुण्यशीलाभिधानश्च राजा सुशीलनामकः ॥९६॥आवां त्वत्राऽऽगतौ नेतुं कलहां रामकारणात् ।वैकुण्ठं तां तव पुण्यान्नीत्वा ते राजजन्मनि ९७।दशरथाऽभिधाने च कलहा कैकयी तदा ।भविष्यति तृतीया ते पत्नी धर्मांशभागिनी ॥९८॥रथचक्रनाभिमध्ये हस्तं निक्षिप्य यास्यति ।पातिव्रत्यपरां दृष्ट्वा त्वं तु मोहं गमिष्यसि ॥९९॥वरदानाय सा चोक्ता भविष्यत्कालयोगि तत् ।यथेच्छं दानमेवेयं न्यासवत् कारयिष्यति ॥१००॥प्राप्ते रामस्याऽभिषेके राक्षसानां विनाशने ।प्रेरिता विष्णुना रामे वन्यत्वमर्थयिष्यति ॥१०१॥रावणादिविनाशश्च सीताछायामिषेण वै ।भविष्यति ततस्त्वं च पुनर्वैकुण्ठमेष्यसि ॥१०२॥इति ते कथितं सर्वं भाविवृत्तान्तवर्तनम् ।पठनाच्छ्रवणाच्चास्य वैकुण्ठे गमनं भवेत् ॥१०३॥शृणु लक्ष्मि! चौलराज्येऽभिषिक्तस्य नृपस्य तु ।पट्टराज्ञ्याश्च नाऽद्यापि पुत्रे राज्याभिषेचनम् ॥१०४॥स्वस्रीयस्येव तद्राज्ये जायते न्वभिषेचनम् ।कलौ प्रजायाः शास्तौ च प्रधानः स्वसृजो भवेत् ॥१०५॥अथापि शृणु कल्याणि! भक्तश्चौलनृपो यदा ।स्वस्यैव हननं चक्रे विप्रास्तदा तु मुद्गलम् ॥१०६॥जहसुश्च तिरश्चक्रुर्धिक्कारं च ददुस्तदा ।असामर्थ्यं जगदुश्च राजहत्याकरं जगुः ॥१०७॥श्रुत्वा श्रुत्वा मुद्गरोऽपि क्रद्धः प्रज्वलितान्तरः ।यावत्प्रवर्तते कुण्डे पतिर्तु तावदेव तु ॥१०८॥भूसुरैः सुदृढं सम्यग् धृतो न्यायेन वारितः ।राज्ञ्या तद्योषिता चान्यैः रुद्धो बलात्प्रयत्नकैः ॥१०९॥तदा क्रोधेन हस्ताभ्यां स्वजटामुदपाटयत् ।शिखां जटां समुत्पाट्याऽऽजुहाव वह्निमण्डले ॥११०॥तेन चाद्यापि तद्गोत्रे विशिखाः सन्ति भूसुराः ।अथ ते निष्कृतिं चक्रुर्ययुः सर्वे निजालयम् ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हरौ पातिव्रत्येन चोलराजविष्णुदासयोः सुशीलपुण्यशीलनामकविष्णुपार्षदरूपता, सौराष्ट्रीयकलहायाः कैकेयीरूपता, धर्मदत्तस्य दशरथजन्मादिवृतान्तकथननामा पञ्चविंशत्यधिकचतुश्शततमोऽध्यायः ॥४२५॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP