संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २५३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २५३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५३ Translation - भाषांतर श्रीलक्ष्मीरुवाच-कालो माया तथाऽऽत्मानः शक्तयः सन्ति यस्य ताः ।नमस्तस्मै भगवते शक्तिस्वामिपरात्मने ॥१॥योगिनीफलदात्रे ते योगपुण्यफलात्मने ।योगिलभ्याय योगाय योगिनीपतये नमः ॥२॥त्वमेव फलदाताऽसि त्वमेवाऽसि च मुक्तिकृत् ।त्वमेवाऽधिपतिश्चासि नमस्तस्मै महात्मने ॥३॥सर्वदेवस्वरूपस्त्वं सर्वतीर्थात्मकोऽसि च ।सर्वव्रतात्मकस्त्वं वै तस्मै सर्वात्मने नमः ॥४॥आषाढस्य सिते पक्षे किंनाम्न्येकादशी भवेत् ।को देवः को विधिस्त्वस्याः फलं दानं च मे वद ॥५॥श्रीनारायण उवाच-कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम् ।शयनीं नाम नाम्ना तु सर्वपापविनाशिनीम् ॥६॥नियमां भामिकां चापि तामेव विद्धि नामतः ।यस्या व्रतेन पापात्मा पूतो भवति तत्क्षणात् ॥७॥यस्याः श्रवणमात्रेण वाजपेयफलं भवेत् ।अतः परा न चान्यास्ति स्वर्गमोक्षप्रदा शुभा ॥८॥अस्यास्त्वधिपतिर्देवो वामनोऽस्ति हरिस्ततः ।कमलाख्यप्रियायुक्तः पूजनीयो हि वामनः ॥९॥वामनः पूजितो येन कमलैः कमलेक्षणः ।नियमाख्यशयन्यां तु तेनार्चितं जगत्त्रयम् ॥१०॥त्रयो देवाः पूजिताश्च पूजिताः सर्वदेवताः ।कृता त्वेकादशी येन हरिवासर उत्तमः ॥११॥आषाढशुक्लैकादश्यां शेते क्षीरनिधौ हरिः ।सर्वेन्द्रियप्रवाहाँस्तु परावृत्यातियोगतः ॥१२॥तस्य पूजा त्वपामार्गैः पूरिकादिनिवेदनैः ।नालिकेरीफलाद्यैश्च स्वर्णगोदानपूर्विका ॥१३॥कर्तव्या व्रतिना भक्त्या नियमग्रहणं तथा ।श्रूयतां च महालक्ष्मि! कथा पुण्यप्रदायिनी ॥१४॥बलिर्वै दानवः पूर्वमासीत् त्रेतायुगे प्रिये ।पूजयँश्चैव मां नित्यं मद्भक्तो मत्परायणः ॥१५॥यज्ञैस्तु बहुभिर्दैत्यो विधिना यजति स्म माम् ।परया स्नेहसद्भक्त्या व्रतोपोषणपूजनैः ॥१६॥एवं पुण्यप्रभावेण ममोपासनया तथा ।रसातलात्समायातः पृथिव्यां स नृपोऽभवत् ॥१७॥पृथ्व्यां चापि मम पूजाबलेन वर्धितोऽभवत् ।स्वर्गं तेनैव देहेन ययौ पुण्यप्रभावतः ॥१८॥कृतं राज्यं वशे स्वस्य स्वर्गभूलोकसंयुतम् ।इन्द्रादयोऽपि तस्याऽग्रे त्वभवन्निर्बलाः सुराः ॥१९॥दानवा वर्धिताः पुष्टास्त्रिलोक्यामभवन्नृपाः ।इन्द्रादिभिस्तदा देवैरर्थितः परमेश्वरः ॥२०।हरिः शंभुस्तथा ब्रह्मा तैस्तु युक्तिः परा कृता ।बलिः करोतु यज्ञं च दाता भवतु चाध्वरे ॥२१॥भूत्वा तु भिक्षुकः कृष्णो महीभिक्षां करोतु सः ।एवं तु समयं कृत्वा यज्ञार्थं प्रैरयद् बलिम् ॥२२॥ऋषयो मुनयो देवा ह्यहं सर्वे गताः कृतौ ।रेवताचलसान्निध्ये यत्र यज्ञः प्रवर्तते ॥२३॥तत्र वामनरूपेण ह्यवतारे हि पंचमे ।अतिमहत्स्वरूपेण सर्वब्रह्माण्डयोगिना ॥२४॥वाक्छलेन जितो दाता सत्यमाश्रित्य यः स्थितः ।शुक्रस्तं वारयामास यन्नारायण इत्यहम् ॥२५॥याचिता वसुधा लक्ष्मि मया सार्धपदत्रया ।संकल्पोदकमात्रे तु करे तेनैव चार्पिते ॥२६॥रूपं ब्रह्माण्डपूर्णं वै तदा लक्ष्मि मया कृतम् ।भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी ॥२७॥स्वर्लोके तु कटिं कृत्वा महर्लोके तदोदरम् ।जनलोके तु हृदयं तपोलोके गलं तथा ॥२८॥सत्यलोके मुखं न्यस्य वैराजे मस्तकं न्यधाम् ।सूर्यचन्द्रग्रहतारा नक्षत्रधूम्रकेतवः ॥२९॥देवाः सेन्द्राश्च नागाश्च यक्षगन्धर्वकिन्नराः ।अस्तुवन्वेदमन्त्रैस्ते सूक्तैश्च विविधैस्तदा ॥३०॥बलिं धृत्वा करे तत्र पदेनाऽऽपूरिता मही ।द्वितीयेन स्वराप्तं चाण्डकटाहसमन्वितम् ॥३१॥तृतीयं तु बलेः पृष्ठे तदा न्यस्तं पदं मया ।गतो रसातलं लक्ष्मि दानवो मम पूजकः ॥३२॥न्यस्तो रसातले राज्ये सोऽपि मामभजत्ततः ।प्रार्थयन्मां भवने स्वे सदा स्थातुं स भक्तराट् ॥३३॥तदाऽहं विनयी भूत्वा निजभक्तपरायणः ।अकुर्वित्युभयं रूपं त्वेकेन तद्गृहे स्थितः ॥३४॥अपरेण स्वरूपेण शेषे शयनमास्थितः ।अषाढशुक्लैकादश्यां शयनं श्रमनुत्तये ॥३५॥नैमित्तिकं गृहीतं वै मया तस्माद्दिनात्ततः ।भक्तास्तां शयनीं प्राहुस्त्वेकादशीं सुपुण्यदाम् ॥३६॥इत्येवं शेषपृष्ठे वै क्षीरसागरमध्यतः ।स्वपिम्यहं महालक्ष्मि यावदागामिकार्तिकी ॥३७॥चातुर्मास्यं तु तत्प्रोक्तं भुक्तिमुक्तिप्रदं परम् ।शयनीव्रतकृच्चापि भुक्तिंमुक्तिमवाप्नुयात् ॥३८॥शयनीं तु समारभ्य चातुमास्यावधिं पुमान् ।तावद्भवेत्सुधर्मात्मा व्रतादिनियमी यमी ॥३९॥नाऽतः परतरं किंचिद्व्रतं यावद्व्रतोत्तमम् ।यत्र स्वपिति देवेशः शंखचक्रगदाधरः ॥४०॥एवं यः कुरुते लक्ष्मि! शयन्यास्तु व्रतोत्तमम् ।सर्वपापहरं चापि भुक्तिमुक्तिप्रदायकम् ॥४१॥स तु क्षुद्रोऽपि मे लोके जायते मे प्रियंकरः ।दशम्यामेकभुक्तेन नक्तेनापि सुवर्तयेत् ॥४२॥रात्रौ च ब्रह्मचारी स्यात्प्रातर्वै ब्राह्मसंज्ञके ।काले तूत्थाय भगवत्स्मरणं संविधाय च ॥४३॥स्नात्वा देवार्चनं कृत्वा षोडशोपसुवस्तुभिः ।पूजाया नैत्यकं सर्वं समाप्याथ स्वयं व्रती ॥४४॥कारयेन्नवधान्यैस्तु सर्वतोभद्रमण्डलम् ।मध्ये स्वर्णघटं पञ्चरत्नपल्लवसंयुतम् ॥४५॥जलवस्त्रफलाढ्यं वै स्थापयेत् तं प्रपूजयेत् ।तिलपात्रं स्थापयित्वा वामनं तत्र पूजयेत् ॥४६॥कमलां शयनीं चापि पूजयेद् बहुवस्तुभिः ।आवाहनादिकं कुर्यात् पञ्चामृतसुसेचनम् ॥४७॥वस्त्रालंकारभूषादिहारचन्दनकज्जलम् ।सर्वशृंगाररागाँश्च त्वर्पयेत्तिलकादिकम् ॥४८॥धूपदीपसुनैवेद्यजलताम्बूलसत्फलम् ।नीराजननमस्कारस्तुतिबन्दिक्षमापनम् ॥४९॥विसर्जनांऽजलिं दत्वा स्वीयव्रतस्य पूर्तये ।निर्विघ्नं मे व्रतं चास्तु प्रार्थयेदेवमेव ह ॥५०॥बलद्रव्यानुसारेण महापूजादि कारयेत् ।मण्डपं कारयेद्रम्यं राज्यमण्डपसन्निभम् ॥५१॥वैष्णवान्पूजयेत्प्रातर्दानानि प्राऽर्पयेत्तथा ।साधूनामग्रतः स्थित्वा चातुर्मास्यव्रतानि च ॥५२॥धारयेन्नियमाँश्चापि सुखमोक्षकराँस्तदा ।जैह्वशैश्ननियमान् संगृह्णीयात्तु तपःकृते ॥५३॥हर्यग्रे वा गुरोरग्रे गृह्णीयान्नियमान् व्रतम् ।शारीरनियमौंस्तद्वन्मानसान्सयमाँस्तथा ॥५४॥भोग्यभौतिकनियमान्मुक्तिदान्नियमानपि ।व्रतानि दाननियमान्गृह्णीयात्प्रातरेव हि ॥१५॥इन्द्रियाणां मनसश्च वृत्तीनां संयमस्तपः ।अभ्यासेन तु कर्तव्यश्चातुर्मास्ये विशेषतः ॥५६॥विषयाः परिहर्तव्याः क्षोभका विघ्नकारिणः ।रसपुष्टिर्न वै कार्या यतः सा क्षोभिका मता ॥५७॥रसो जैह्व्यो महान् दोषः सर्वेन्द्रियसुपुष्टिकृत् ।जेतव्यः स विशेषेण चातुमास्यव्रतार्थिभिः ॥५८॥फलाहारः पयःपानं ह्येकान्नमेकभोजनम् ।शाकाहारः शाकवर्ज्यो घृतत्यागोऽथवा तपः ॥५९॥दधित्यागस्तिलत्यागो दधिप्राशस्तिलादनम् ।कन्दाहारः कणाहारो भाजाहारो दलादनम् ॥६०॥जलाहारः शर्करायास्त्यागो गूढस्य नीरसः ।श्रावणे शाकवर्ज्यं च भाद्रे दधिविवर्जितम् ॥६१॥आश्विने दुग्धहीनं च कार्तिके द्विदलोज्झितम् ।भुञ्जीत मूलकं कन्दं वृन्ताकं न कलिंगकम् ॥६२॥वर्जयेद् व्रतमेवोक्तं चातुर्मास्ये शुभे तपः ।धारणापारणाख्यं वा व्रतं प्रोक्तं महाफलम् ॥६३॥मौनं धार्यं कथा कार्या हरेर्नाम्ना च मालिकाः ।उच्चारणेन युक्ताश्चाऽऽवर्तनीयाः शतंमिताः ॥६४॥रूपाणां दर्शनं नातिकर्तव्यं चक्षुषोर्व्रतम् ।शब्दानां श्रवणं नातिकर्तव्यं कर्णयोर्व्रतम् ॥६५॥गन्धास्तु राजसा नातिग्राह्यास्तन्नासिकाव्रतम् ।नारीनरमिथःस्पर्शो नातिकार्यस्त्वचो व्रतम् ॥६६॥चातुर्मास्ये सदैकत्र वस्तव्यं पादयोर्व्रतम् ।पत्रशाखाद्यभंगश्च हस्तयोः परमं व्रतम् ॥६७॥वीर्यादेः रक्षणं त्वेतद् ब्रह्मचर्यं महद् व्रतम् ।वातुलं तामसं नाऽदनीयं दैह्यं महत्तपः ॥६८॥पञ्चाग्नितपनं वृक्षालम्बनं सूर्यदर्शनम् ।एकपादेन संस्थानं हस्तस्योर्ध्वविधापनम् ॥६९॥अधोमस्तकताधारो नखाद्यकर्तनं तपः ।केशानां वर्धनं भस्मधूलीकर्दममर्दनम् ॥७०॥अनुपानत्तया स्थेयं विवस्त्रेण विशेषतः ।जलधारातले स्थेयं जले स्थेयं तथाऽऽतपे ॥७१॥अविताने सदा स्थेयं वृक्षाधोवास इत्यपि ।भूमौ वासो भूशयनं वालुकाशयनं तथा ॥७२॥बाणशय्या लोहशय्या कण्टके शयनं तथा ।अशयनमनिद्रा च जलपानं तु नो पुनः ॥७३॥स्नानं त्रिषवणं चैव मूर्तेश्चापि विचिन्तनम् ।ध्यानं च स्मरणं चापि पूजनं पञ्चधा दिने ॥७४॥मन्त्रजपस्तदर्थस्याभिध्यानं मानसं तपः ।ऐकाग्र्यं धारणा चेति कर्तव्यं तु विशेषतः ॥७५॥अहिंसा मनसा वाचा शरीरेणापि सर्वथा ।जात्या देशेन कालेन प्रसंगेनापि वर्जिता ॥७६॥तृणच्छेदोपि नो कार्यो व्रतं चाऽहिंसनं हि तत् ।अद्रोहः सर्वभूतानामनिन्दा च महद्व्रतम् ॥७७॥अन्यवृत्ताऽनवलोकनादिकं परमं व्रतम् ।सत्यं प्रियं हितं तथ्यं सुखकृद्वचनं तपः ॥७८॥अस्तेयं सर्वथा सर्वैरिन्द्रियैर्मनसा तपः ।कामनाया विचारस्यानुद्भवः परमं तपः ॥७९॥अग्राह्यं तु न रक्ष्यं वै किंचिच्चापि महत्तपः ।भिक्षानिर्वाह एवास्तु देहयात्रा परं तपः ॥८०॥यदृच्छया तु संलाभे त्वनासक्तिर्महत्तपः ।परसौख्यप्रदातृत्व परोपकरणं तपः ॥८१॥परार्थं च दयालुत्वं देहेनापि परं तपः ।शौचं ज्ञानजलाभ्यां च नैर्मल्यं परमं तपः ॥८२॥अकापट्यं हृदि वाचि क्रियायामेकता तपः ।सन्तोषो नातितृष्णत्वमनाशा परमं तपः ॥८३॥स्वीये तृप्तिः परकीये प्रौदासीन्यं परं तपः ।मोक्षमार्गावलम्बस्तु तपसां तप उत्तमम् ॥८४॥अक्लेशः सर्वदा शान्तिरक्रोधस्तु महद्व्रतम् ।अनुद्वेगोऽनधिक्षेपो नाऽऽक्रोशो नकलित्तपः ॥८५॥अलुंचाग्रहणं नान्यद्रव्याशा मानसं तपः ।ईशदत्ते सदा तृप्तिः परकीये न वाञ्च्छना ॥८६॥भोग्यं नार्यादिकं त्याज्यं खट्वागेन्दुकपार्श्वकम् ।सुगन्धस्तैलमर्दादि भूषणं च सुरूपणम् ॥८७॥वस्त्रशृंगारसन्त्यागो भोगत्यागो विशेषतः ।भोग्यसाधनसंत्यागो देहिनां परमं तपः ॥८८॥यानवाहनधूम्रादिपानद्यूतसुनाटनम् ।व्यसनं मिष्टपानं च त्याज्यं चेति परं तपः ॥८९॥चातुर्मास्ये प्रतिपातः साधूनां चरणामृतम् ।पातव्यं च प्रसादश्च भक्षणीयं इतिव्रतम् ॥९०॥साधूनां च सतीनां च साध्वीनां पूजनं तथा ।पादयोर्मर्दनं त्वंगवाहनं मुक्तिदं व्रतम् ॥९१॥देहेन मनसा वाण्या धनेनान्नेन वाससा ।पुत्रेण प्रियया साकं तोषणं वै महद्व्रतम् ॥९२॥दर्शनं स्पर्शनं नित्यं नमनं पादसेवनम् ।पूजनं भोजनं साधोस्तोषणं तन्महद्व्रतम् ॥९३॥सतां निकटे संवासः स्नानज्ञानक्रियादिषु ।शुश्रूषणं सदा कार्यं पावनाः साधवो यतः ॥९४॥देवसेवा पितृसेवा साधुसेवा महाव्रतम् ।पत्नीतोषः स्वामिसेवा व्रतं पत्युः प्रतोषणम् ॥९५॥यस्यापेक्षितमेवैतद्दातव्यं प्रेमगर्भितम् ।अक्षयं तस्य पुण्यं स्यात् तस्मान्नास्ति परं व्रतम् ॥९६॥स्वाश्रितानां तोषणं च स्वर्णाऽन्नज्ञानकाऽर्पणम् ।ग्रामक्षेत्रमणिरत्नोद्यानाऽऽलयजलार्पणम् ॥९७॥देहेन सेवनं नित्यं सार्वभौमं व्रतं भवेत् ।क्षमा दयाऽनसूया चाऽनीर्ष्या दोषविवर्जनम् ॥९८॥गुणग्राहो यशःकीर्तिकारिता परमं तपः ।अमानित्वं मानदत्वं समानात्माऽवलोकनम् ॥९९॥अनौष्ण्यं वैपरीत्येऽपि शैत्यं नाप्यनुकूलके ।हर्षाऽमर्षभयोद्वेगवर्जनं परमं तपः ॥१००॥फलधान्यदलपत्रपुष्पकणतृणादिकम् ।अर्पणीयं श्रीहरये नवं नित्यं व्रतं महत् ॥१०१॥काष्ठकरीषशाखाप्रशाखानालकरण्डकम् ।प्रत्यहं त्वर्पणीयं तद् यथायोग्यं शुभं व्रतम् ॥१०२॥शाकपाकसुमिष्टान्नलवणार्द्रकधानकम् ।भर्जितं तण्डुलाद्यं च देयं नित्यं तु तद् व्रतम् ॥१०३॥खाद्यं पेयं भक्ष्यभोज्ये चोष्यं स्वाद्यं च लेह्यकम् ।दुग्धं दधि रसो मिष्टः कणा देया व्रतं महत् ॥१०४॥वस्त्रं भूषा कज्जलं चन्दनं चात्तरमुत्तमम् ।कस्तूरी कुंकुमं चूर्णं देयं त्वलक्तकं व्रतम् ॥१०५॥एतानि स्वर्गदान्यत्र सुखदानि व्रतानि वै ।श्रीहरेः स्मरणं भक्तिः पूजनं च निवेदनम् ॥१०६॥द्वात्रिंशद्भिरुपचारैरर्चनं मुक्तिदं व्रतम् ।परोपकरणं कृष्णबुद्ध्या पुण्यप्रदं व्रतम् ॥१०७॥यजनं विविधैर्यज्ञैर्दीनानां च सहायता ।कूपानां खननं वृक्षारोपणं चापि तद् व्रतम् ॥१०८॥मार्गाणां चापि निर्माणं त्वाश्रमस्थलबन्धनम् ।आश्रयसत्रशालादिनिर्माणं स्वर्गदं व्रतम् ॥१०९॥कलाकौशल्यशिक्षा च कृष्युत्तेजनमित्यपि ।यन्त्रवाहोपकारादि स्वर्गदं सुखदं व्रतम् ॥११०॥मत्स्यपिपीलीकादीनां पिष्टदानं सदाव्रतम् ।वृक्षाणां जल्रसेकश्च तृषितानां जलार्पणम् ॥१११॥क्षुधितानां भोज्यदानं नग्नानां वाससोऽर्पणम् ।आर्तानां विविधानां तु तदार्तिशमनं व्रतम् ॥११२॥रोगिणामोषधदानं वृत्तिदानं च जीविका ।पोषणं पालनं चापि रक्षणं परमं व्रतम् ॥११३॥नित्यमध्यात्मयोगस्याऽभ्यसनं शास्त्रवाचनम् ।कृष्णकथाश्रवणं च मोक्षदं परमं व्रतम् ॥११४॥दण्डवच्च नमस्काराः प्रदक्षिणं च तद् व्रतम् ।दीपदानं वारिदानं नैवेद्याद्यर्पणं व्रतम् ॥११५॥नित्यं फलार्पणं धान्यार्पणं चापि रसार्पणम् ।शर्कराखण्डिकागूडमध्वाद्यर्पणकं व्रतम् ॥११६॥मार्जनं लेपनं स्वच्छीकरणं मंजनं व्रतम् ।पात्रवस्त्रक्षालनं च नीराजनसमर्पणम् ॥११७॥नेत्रैर्मूर्तेः प्रपानं च प्रपासत्रादिचालनम् ।मन्दिराग्र्ययसुसौधादिनिर्माणं परमं व्रतम् ॥११८॥चित्राद्यं शिल्पिताद्यं च वयनं भगवत्कृते ।ग्रथनं ग्रन्थरचनं छन्दश्लोकादिवर्णनम् ॥११९॥व्याख्यानं कथनं भक्तवाञ्च्छापूरणकं व्रतम् ।सुखदं स्वर्गदं मोक्षप्रदं चोपकृतिर्व्रतम् ॥१२०॥व्रतान्यन्यानि वक्ष्यामि शृणु लक्ष्मि! तपांसि वै ।चातुर्मास्ये कथा श्रव्या भोजनीयाश्च साधवः ॥१२१॥नित्यं कार्या महापूजा व्रतत्रयं सुसिद्धिदम् ।श्रीकृष्णस्य महापूजा नित्यं कार्या महद्व्रतम् ॥१२२॥शतादिसंख्यया मालाऽऽवर्तनं मम नामतः ।भक्तपूजा हविर्होमोऽर्चासेवा मोक्षदं व्रतम् ॥१२३॥अहन्ताममतात्यागो ब्रह्मचर्यप्रपालनम् ।पायसैक्षवलावण्यफालेयवर्जनं व्रतम् ॥१२४॥कृष्णसम्बन्धिधर्मो यस्तदव्रतं मे परं मतम् ।कृतेन व्रतिना येन भगवाँस्तज्जनास्तथा ॥१२५।प्रीयेरँस्तद्व्रतं प्रोक्तं कर्तव्यं तु तदेव यत् ।कार्तिके शुक्लपक्षेऽथ द्वादश्यां देवपूजनम् ॥१२६॥कृत्वा भगवतस्त्वग्रे निवेद्यं भक्तिभावतः ।इदं व्रतं मया देव कृतं त्वत्प्रीतये प्रभो ॥१२७॥न्यूनं सम्पूर्णतां यातु तेन तुष्टो भवेर्मयि ।एवं समाप्य नियमान् पारणामाचरेत्ततः ॥१२८॥प्रातःस्नानं देवपूजां नित्यं वृद्धाभिवन्दनम् ।संविभज्याऽऽश्रितानां च भोजनादिविधापनम् ॥१२९॥अक्लेशश्च सुमेलश्च कुटुम्बे स्नेहिता त्वति ।मिष्टं चेष्टं गृहं यस्य स्वर्गं तस्यास्ति भूतले ॥१३०॥व्रतेषु यद्व्रतं चातुर्मास्येऽतिवाञ्छितम् भवेत् ।कर्तव्यं तच्छयनीप्रभातमारभ्य सर्वथा ॥१३१॥मध्याह्णे हरये दद्याद् भोजनं सुजलं तथा ।ताम्बूलं मिष्टपानं च सायं चापि तथाऽऽचरेत् ॥१३२॥आरार्त्रिकं स्तवनं च दोलारोहणमित्यपि ।आन्दोलयेद्धरिं तत्र भोजयेद्दुग्धपूरिकाः ॥१३३॥रात्रौ जागरणं कुर्यान्नृत्यगीतकथामृतैः ।द्वादश्यां ब्राह्मकाले च स्नात्वा कृष्णार्चनं चरेत् ।! १३४दानानि स्वर्णमुख्यानि दद्यात् कुर्याच्च पारणाम् ।भोजयेत्तु सतः साध्वीस्तोषयेद्विनयान्वितः ॥१३५॥एवं त्वाषादशुक्लाया व्रतं सनियमं शुभम् ।कर्तव्यं सर्वयज्ञानां फलदं भुक्तिमुक्तिदम् ॥१३६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आषाढशुक्लशयन्येकादशीव्रतमाहात्म्यं वामनावतारकृतशयनं चातुर्मास्ये चापि यमनियमसंयमव्रतदमनतपःशोषणत्यागसेवनदानोपकारादिसद्व्रतादि चेति निरूपणनामा त्रिपंचाशदधिकद्विशततमोऽध्यायः ॥२५३॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP