संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २८७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २८७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २८७ Translation - भाषांतर श्रीनारायण उवाच-तस्मिन्नवसरे त्वेव लक्ष्मि! रुक्मांगदो नृपः ।भोगांस्तु मानुषान् भुक्त्वा हरिं सम्पूज्य केशवम् ॥१॥कृत्वा शून्यं यमपथं जित्वा वैवस्वतं यमम् ।वैकुण्ठस्य तु पन्थानं कृत्वा पूर्णं तु मानवैः ॥२॥धर्मागदं समाहूय दातुं राज्यमभाषत ।एतां वसुमतीं पुत्र सप्तसागरमेखलाम् ॥३॥पालय त्वं राज्यधुरं गृहाण च मदर्पिताम् ।पुत्रे योग्ये सुनिष्पन्ने धुरं यो न समर्पयेत् ॥४॥क्लेशवाही स जनको धर्मकीर्तिप्रविच्युतः ।पुत्रशक्त्यप्रसंपोष्टा नोन्नतिं याति वृद्धकः ॥५॥कार्यक्षमः सुतश्चापि भारं नोद्वहते तु यः ।स्वकर्तव्यच्युतः सोऽपि दुःखी भवति वृद्धकः ॥६॥पिता येन न तुष्येत् स पुत्रो यात्येव रौरवम् ।पिता येन तु सन्तुष्टः सुतः सः स्वर्गभाजनम् ॥७॥कृतं राज्यं प्रजाश्चानुनीता विष्णुपरायणाः ।अथाऽऽसाद्य विनिर्वृत्तिं गमिष्येऽरण्यमेकलः ॥८॥गिरीन् वनानि सरितः सरांसि विविधानि च ।तप्तुकामो लोकयिष्ये भारं त्वयि निवेश्य वै ॥९॥श्रूत्वा धर्मांगदः प्राह पिता प्रोक्तो जनार्दनः ।पितुर्वाक्ये महत् स्वर्गं मोक्षश्चाज्ञाकरे पितुः ॥१०॥न हि पुत्रस्याऽन्यधर्मः पित्राज्ञाकरणं विना ।पितृवाक्यमकुर्वाणः सुधर्मिष्ठोऽप्यधो व्रजेत् ॥११॥तस्मात् करिष्ये वचनं भवत्सन्तोषहेतवे ।गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम् ॥१२॥श्रुत्वैवं पुत्रवाक्यं स राजा तुष्टो बभूव ह ।प्राह सन्ध्यावलीं पत्नीं स्थितां लक्ष्मीमिवाऽपराम् ॥१३॥शृणु पत्नी त्वहं धन्यस्त्वं च धन्या सुतेन वै ।कर्णाभ्यां श्रूयते मोक्षः स प्राप्तः सत्सुतेन वै ॥१४॥पुत्रे विनयसम्पन्ने वृत्तशौर्यसमन्विते ।प्रतापिनि प्रणिष्पन्ने पितुर्मोक्षो गृहे ध्रुवः ॥१५॥शतानन्दप्रदः पुत्रस्तारयत्येव बीजदम् ।जननीं तारयेच्चात्राऽऽवाभ्यां प्राप्तस्तथा सुतः ॥१६॥राज्यभारं न्यस्य पुत्रे त्वां चापि न्यस्य रक्षणे ।गमिष्येऽरण्यवासार्थं संस्मृत्य प्राक्परम्पराम् ॥१७॥कालशेषं क्षपयिष्ये प्रवास्येऽन्ते हरेर्गृहम् ।सुखिनी भव पुत्रेण ज्ञानेनाऽऽत्मविनिष्ठया ॥१८॥मा वियोगे कुरु दुःखं पत्याज्ञां पारमेश्वरीम् ।मत्वा स्त्रीत्वाद् गृहे तिष्ठ कल्याणं ते भविष्यति ॥१९॥श्रुत्वा सन्ध्यावली प्राह सत्यमुक्तं त्वया नृप ।भोगाद् वैराग्यमापन्नः सेवस्व मुनिसज्जनान् ॥२०॥प्रसन्नाऽस्मि तवाऽऽज्ञायां पातिव्रत्यं तवाऽऽदरे ।सर्वथाऽस्तु तव तोषो मन्मोक्षे वै सहायकृत् ॥२१॥प्रजाश्चापि समापृच्छ्य क्षिप्त्वा धुरं स्वपुत्रके ।धुरामादृत्य भूषालो दत्वा स्वं दक्षिण करम् ॥२२॥हयमारुह्य राजा स ययौ रैवतकाननम् ।पत्नीव्रताऽभिधविप्राऽऽश्रमं त्वश्वसरोऽन्तिकम् ॥२३॥प्रविवेशातिरम्यं सत्कदलीखण्डमण्डितम् ।अशोकबकुलोपेतं पुन्नागसरलावृतम् ॥२४॥आम्ररायणजाम्ब्वादिक्षीरिकाकर्मदान्वितम् ।कपित्थपिप्पलीखर्जूरनारिकेलकेतकैः ॥२५॥श्रीवृक्षतालपनसैश्चन्दनैः सालचम्पकैः ।क्रमुकैर्दाडिमैर्वंशैर्धात्रीनिम्बैश्च शोभितम् ॥२६॥स्तम्बवल्लीतृणैर्व्याप्तं सस्यधान्याढ्यभूतलम् ।सम्प्रपश्यन् मुनिं राजा ददर्श हुतभुक्प्रभम् ॥२७॥पत्नीव्रताख्यविप्रं सः प्रणनाम तु सादरम् ।मुनिनाऽऽतिथ्यसत्कारैः पूजितः प्राह भूपतिः ॥२८॥अद्य मे पातक क्षीणं प्राप्तं सत्कर्मणां फलम् ।दृष्टं तव पदाम्भोजं त्वायतिः श्रेयसाऽन्विता ॥२९॥पत्नीव्रतस्ततः प्राह राजन् जन्म फलीकृतः ।त्वादृशेनातिपुण्येनाश्रमो मे वीक्षितोऽधुना ॥३०॥यममार्गं विनिर्जित्य रिक्तं कृत्वा च नारकम् ।प्रापितो येन वै लोको वैकुण्ठपदमव्ययम् ॥३१॥सोऽस्माकं द्रष्टुकामानां चक्षुषोर्विषयं गतः ।श्वचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः ॥३२॥त्वं तु भागवतश्रेष्ठः प्रपूनासि महीतलम् ।सुखमास्वाऽऽश्रमे रम्ये वद वेद्यं मयाऽस्ति यत् ॥३३॥जलपानं कुरु क्ष्मेश फलं भुंक्ष्वाऽऽश्रमोचितम् ।सर्वं ते कुशलं न्वस्ति सुख्याश्रमे वसन् भव ॥३४॥राजा सत्कारमादाय त्वुवाच मुनिसत्तमम् ।कृपया ते ऋषे सर्वं कुशलं मोदते मम ॥३५॥पुत्रश्चाऽऽज्ञाकरः सम्राट् सेवको विजयी क्षितेः ।ख्यातो ममाधिको जातः सप्तद्वीपप्रपालने ॥३६॥एकाह्ना पृथिवीं सर्वामतीत्य बहुविस्तराम् ।पुनरायाति शर्वर्यां मत्पादाभ्यंगकारणात् ॥३७॥तथाऽयं मे शुभो देहः सर्वरोगविवर्जितः ।अप्रमेयं मम सुखं वशगा च प्रिया गृहे ॥३८॥या विलोकयते दृष्ट्या मां सदा मन्मथाऽधिकम् ।यत्र यत्र पदं देवी विदधाति सुलक्षणा ॥३९॥तत्र तत्र निधानानि प्रकाशयति मेदिनी ।यस्यास्त्वंगं जराहीनं वर्तते नवयौवनम् ॥४०॥विनाऽग्निनाऽपि सा विप्र! साधयत्येव षड्रसम् ।अन्नं पचति यत्स्वल्पं तस्मिन् भुञ्जन्ति कोटयः ॥४१॥वाजिनो वारणाश्चापि धनधान्यमनन्तकम् ।वर्तते च जनः सर्वो ममाऽऽज्ञया हरेर्व्रते ॥४२॥इत्येतत् कुशलं सर्वं केन पुण्येन मेऽस्ति वै ।वद विचार्य मे पुण्यं कृतं त्वत्र परत्र वा ॥४३॥श्रुत्वैतद् ब्राह्मणः पत्नीव्रतः प्राग्जन्मसंचितम् ।चिन्तयित्वा नृपं प्राह शूद्रोऽभूत्वं पुरा जनौ ॥४४॥दुष्टया भार्यया साकं दारिद्र्येण सुदुःखितः ।कदाचिद् द्विजसंसर्गात् तीर्थयात्रां गतो भवान् ॥४५॥मथुरायां तु विश्रान्तिघट्टे यामुनके ह्रदे ।स्नात्वा वाराहनिलये कथां शुश्राव पुण्यदाम् ॥४६॥अशून्यशयनव्रतविषयां हरितोषणीम् ।चतुर्भिः पारणैर्यस्य व्रतस्य पूर्णता भवेत् ॥४७॥तत्कृतं भवता राजन् त्वत्पत्न्या च व्रतं गृहे ।श्रावणस्य तु मासस्य द्वितीयायां महीपते ॥४८॥ग्राह्यमेतद् व्रतं पुण्यं जन्ममृत्युजराहरम् ।राज्यदं पुत्रदारादिप्रदं सम्पत्करं शुभम् ॥४९॥एकभुक्तं प्रकर्तव्यं मासैक्यं व्रतिना तथा ।नित्यं विष्णुः पूजनीयो लक्ष्मीभर्ता प्रगे निशि ॥५०॥फलैः पुष्पैस्तथा धूपैश्चारुरक्तानुलेपनैः ।शय्यादानैर्वस्त्रदानैस्तथा ब्रह्मिष्ठभोजनैः ॥५१॥यद्वा मासे तु सप्ताहं प्रत्युपोषणमाचरेत् ।सप्ताहान्ते पारणं वै कुर्यात् साध्वदनोत्तरम् ॥५२॥एवं तु पारणाचतुष्टयं मासे विधापयेत् ।अशक्तश्चेत् प्रत्यहं तु दुग्धेन वर्तयेद् व्रती ॥५३॥शयने शुभपर्यंके लक्ष्मीं दद्यात्तु विष्णवे ।शयनं तु विना लक्ष्मीं शून्यं विष्णोर्भवेदतः ॥५४॥सलक्ष्मीकं तु शयनमशून्यशयनं भवेत् ।यथा राज्ञ्याश्च राज्ञश्च सेवका नित्यमाचरेत् ॥५५॥कैंकर्यं विविधं सर्वं दद्यात्सर्वं श्रीविष्णवे ।तदा सर्वं तमाप्नोति व्रती जन्मान्तरे ध्रुवम् ॥५६॥तत्त्वया प्राग्जनौ सर्वं कृतं सोद्यापनं यतः ।प्राप्तं त्वत्र महद् राज्यं पुष्ट्या दानफलं हि तत् ॥५७॥लक्ष्मीदानं विष्णवे तु शयने दत्तवान् भवान् ।राज्ञी प्राप्ता त्वया तस्य फलेन देवता यथा ॥५८॥यानवाहनसौधादि दानार्थं कल्पितं त्वया ।न तु दत्तं तथाप्यत्र प्राप्तं संकल्पजं फलम् ॥५९॥पुत्रः प्राप्तस्त्वया राजन् विष्णुलक्ष्मीप्रसादतः ।पितुर्वचनकारी वै मनोवाक्कायशक्तितः ॥६०॥जायतेऽस्याऽहन्यहनि स्नानं भागीरथीभवम् ।तस्मात् पूर्वं कृतं दत्तं पश्चाज्जन्मनि लभ्यते ॥६१॥इति ते कथितं वृत्तं किमन्यत् करवाणि ते ।श्रुत्वा प्राह तदा राजा रैवते भवदर्शनम् ॥६२॥कर्तुमिच्छामि विप्रेन्द्र यद्याज्ञा भवतो भवेत् ।ऋषिः स्वस्त्यस्तु ते राजन् गच्छेति प्राह चाशिषा ॥६३॥राजा तुरंगमारुह्य नत्वा शीघ्रगतिर्ययौ ।रैवताद्रौ भवनाथं शंकरं यत्र मोहिनी ॥६४॥प्रतीक्षते तु राजानं गानं मिष्टं करोति सा ।सुस्वरं तन्महाराजो लक्ष्यीकृत्य ययौ पुरः ॥६५॥मृगीकुण्डे स्थितां तप्तसुवर्णाभां तु कामिनीम् ।ऊनषोडशवर्षीयां वह्निजामिव रूपिणीम् ॥६६॥दृष्ट्वैव मोहमापन्नो विद्धः कामशरेण च ।कामज्वराभिभूतः सः ससर्पाऽस्याः समीपकम् ॥६७॥ज्ञात्वा चेयं च तं क्ष्मापं कटाक्षानि मुमोच ह ।नेत्रगण्डभुजावक्षःकुंभाऽधरनितम्बकान् ॥६८॥प्रधुन्वाना सुमुग्धेव जगाम नृपतेः पुरः ।रुक्मांगदं कामतप्तं प्राहोत्तिष्ठ वशे तव ॥६९॥वर्तामि च करोम्येव यदा दिश वनेऽत्र माम् ।यदिवात्र्छा सुरतेऽस्ति भुंक्ष्व मां रतिदासिकाम् ॥७०॥राजा प्राह तदा नारीं तपसे यद्यपि त्वहम् ।समागतोऽस्म्यरण्येषु त्वां तथापि विलोक्य वै ॥७१॥जातोऽस्मि कामनायुक्तः पूर्णचन्द्रनिभानने! ।यादृशं त्वं धारयसे रूपं सर्वविमोहनम् ॥७२॥नेदृशं वै मया दृष्टं त्वद्यापि ब्रह्मणः कृतौ ।कुरु प्रसादं रम्भोरु बद्धचेतसि वै मयि ॥७३॥आगच्छांऽकं ममाऽमूल्यं स्वीयत्वेनाऽप्यलंकुरु ।आत्मानमपि दास्यामि किं पुनर्धनरत्नकम् ॥७४॥राज्यं वेष्टतमं दत्वा निवसिष्ये त्वयाऽत्र वै ।नृपं सा मोहितं चाति विज्ञायाऽवसरं तथा ॥७५॥समुवाच स्मितं कृत्वा ब्रह्मोक्तं सुविचिन्त्य च ।न राज्यं धनरत्नादि वरये वसुधाधिप ॥७६॥यद्वदिष्याम्यहं काले तत्कार्यमविशंकया ।भजिष्यामि न सन्देहः कुरुष्व समयं मम ॥७७॥शपथं कुरु राजेन्द्राऽवश्यं कुर्वे इतीरय ।तदा भोगं प्रदास्येऽहं नाऽसाध्यं ते भवेद्धि तत् ॥७८॥राजा प्राह तदा कामरूपयौवनमोहितः ।येन सन्तुष्यसे देवि! समयं ते करोम्यहम् ॥७९॥शपथं चोच्चरन् वच्मि करिष्ये वचनं तव ।मोहिन्यपि च तं प्राह दीयतां दक्षिणः करः ॥८०॥धर्मकरप्रदानेन प्रत्ययो वचने तव ।भवेन्मेऽथ न वक्ताऽस्यनृतं काले विनिर्णयः ॥८१॥दृढो जातः पणो नौ वै मार्गोऽयं धर्मसाक्षिकः ।राजा प्राह च तां नारीं किमेभिः प्रत्ययैर्दृढैः ॥८२॥जन्मप्रभृति वामोरु नानृतं भाषितं मया ।दत्तो ह्येष मया हस्तो दक्षिणः पुण्यदानकृत् ॥८३॥यन्मया सुकृतं किञ्चित् कृतमाजन्म सुन्दरि ।तत्सर्वं तव वामोरु यदि कुर्यान्न ते वचः ॥८४॥अन्तरे ह्येष दत्तो मे धर्मो भार्या भवाऽङ्गने ।रुक्मांगदो महाराजः कथयामि वनान्तरे ॥८५॥प्रत्युत्तरप्रदानेन प्रसादं कर्तुमर्हसि ।नृपेणैवं समादिष्टा मोहिन्याहोत्तरं वचः ॥८६॥अहं ब्रह्मभवा राजन् त्वदर्थं समुपागता ।श्रुत्वा कीर्तिं स्मरोपेता रैवतं कनकाचलम् ॥८७॥सम्पूजयन्ती देवेशं गीतदानेन शंकरम् ।येन तुष्टेन देवेन ह्युपकारः कृतो मयि ॥८८॥यद्भवानचिरेणैव प्राप्तोऽसीप्सितसुन्दरः ।अभिप्रीतोऽसि मे राजन्नभिप्रीता ह्यहं तव ॥८९॥मा शंकां कुरु राजेन्द्र कुमारीं विद्ध्यकल्मषाम् ।उद्वहस्व महीपाल गृह्योक्तविधिनाऽत्र माम् ॥९०॥ आश्रुत्य राज्ञा तत्रैव विधिना सा विवाहिता ।भवेन विष्णुना दामोदरेण स विवाहितः ॥९१॥वन्यमूलफलान्यत्त्वा दम्पतीधर्ममाश्रितौ ।रेमाते विविधैर्भावैर्नवयौवनगर्भितैः ॥९२॥मोहिनी तं कामभावैः रमयत्यत्यहर्निशम् ।सत्यलोकात्तथा स्वर्गाद् भोग्यानादाय चोत्तमान् ॥९३॥सेवते तं पतिं भुंक्ते भोगानमरदुर्लभान् ।रुक्मग्रामो नवस्तत्र रचितो दिव्यनाकिभिः ॥९४॥दिव्यदासीदासभृत्यैः सुरम्यसौधपंक्तिभिः ।यानवाहनकोद्यानैः कामधेनुगजादिभिः ॥९५॥तत्र भोज्यादनपेयोपधार्याम्बरभूषणैः ।राजसैर्द्रववस्त्वाद्यैर्न न्यूनत्वमभूत्तदा ॥९६॥कामभोगे रतयोश्च तयोर्वै वर्षविंशतिः ।समयः समतीतोऽभूत् तृप्तो राजाऽप्यभूत्तया ॥९७॥अहो रूपं मदर्थं वै ब्रह्मणा निर्मितं शुभम् ।हस्तिहस्तसन्निकाशे जंघे कांचनसन्निभे ॥९८॥दन्तपंक्तिश्चन्द्रपंक्तिर्गूढे गुल्फे तु मोहके ।नेत्रे पंकजविस्तारे स्तनौ कांचनकुंभकौ ॥९९॥कटिर्मृगेन्द्रकटिवत् स्वल्पं मध्यं सुसौरभम् ।कृताऽर्थोऽहं खल्वनया देयं याचिष्यते तु यत् ॥१००॥दुर्लभं चापि दास्यामि त्वदेयमपि सर्वथा ।याचिष्यते जीवितं मे दास्याम्येव न संशयः ॥१०१॥एवं सुरतमूढस्य राज्ञो रुक्मांगदस्य तु ।चत्वारि पंचवर्षाणां व्यतीतानि निमेषवत् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रुक्मांगदः पुत्रे राज्यं विन्यस्य वनं जगाम, तत्राश्वपट्टसरस्तीरवासिपत्नीव्रतर्षिकथितस्य रुक्मांगदपूर्वजन्मादेः श्रवणम्, ततो रैवताचले मोहिन्याः समागमः, समयशपथश्चेत्यादिनिरूपणनामा सप्ताशीत्यधिकद्विशततमोऽध्यायः ॥२८७॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP