संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २३३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २३३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३३ Translation - भाषांतर श्रीलक्ष्मीरुवाच-नारायण महाविष्णो कृष्ण श्रीकमलापते ।द्वारकामृत्तसंश्रावान्ममाऽऽनन्दः प्रजायते ॥१॥कृतकृत्या कृता चाऽऽद्य कृपालुना त्वया प्रभो ।त्रिस्पृशायास्तु माहात्म्यं स्वरूपं वापि मे वद ॥२॥श्रीनारायण उवाच-शृणु लक्ष्मि! त्रिस्पृशायां माहात्म्यं कथयामि ते ।यत्समं न व्रतं चान्यत् फलदं मोक्षदं तथा ॥३॥यत्फलं तु समाश्रुत्य मुच्यते कर्मबन्धनात् ।मोक्षं याति व्रतादेशाद् व्रतात् हृष्यति माधवः ॥४॥तदहं ते प्रवक्ष्यामि सर्वसंकल्पपूरकम् ।प्रत्यक्षमर्चितः कृष्णः कृतं येन व्रतं हि तत् ॥५॥त्रिस्पृशाया नामवक्ता पुरश्चरणपुण्यभाक् ।न वेदैर्न पुराऽऽख्यानैर्न यज्ञैस्तीर्थराशिभिः ॥६॥अन्यैरसंख्यकृच्छ्रैश्च पूजितैर्देवतादिभिः ।मुक्तिः स्यात्पद्मजे तस्य त्रिस्पृशा नार्जिता यदि ॥७॥ब्रह्मणाऽभिसमापृष्टश्चाहं संप्रोक्तवाँस्तदा ।विषयार्त्तिजनव्राततारणाय महापथः ॥८॥त्रिस्पृशाव्रतमेवोक्तो नान्यः पन्थाः प्रमुक्तिदः ।इन्द्रियवाजिमत्तानां स्थैर्यं न तपसा विना ॥९॥तपस्त्रिस्पर्शगा ह्येकादशी प्रोक्ता मया तदा ।विषयाऽरण्यमग्नाश्च करिष्यन्ति यदि व्रतम् ॥१०॥त्रिस्पृशायास्तदा तेषां मुक्तिः शाश्वतकालिकी ।सेयं मोक्षप्रदा कार्या कृता बहुसदुत्तमैः ॥११॥कार्तिके शुक्लपक्षे सा यर्हि भवति योगतः ।सोमयज्ञाऽयुतपुण्यप्रदा सा मुक्तिदोत्तरे ॥१२।हत्याकोटिमहापापनाशयित्री महाबला ।ब्रह्महत्यादिपापानि त्रिस्पृशाव्रतसंश्रयात् ॥१३॥यान्ति प्रविलयं सद्यः पापेष्वन्येषु का कथा ।न प्रयागे पुष्करे वा बदर्यां काशिकास्थले ॥१४॥गोमत्यां नैव रेवायां रैवते नेन्द्रद्युम्नके ।कुंकुमवाप्यां केदारे रामेश्वरे न माथुरे ॥१५॥मुक्तिर्भवेन्महालक्ष्मि! त्रिस्पृशा यदि नो कृता ।प्राणत्यागात्प्रयागे वा काश्यां कुशपुरे तथा ॥१६॥गोमत्यां स्नानकरणात् या मुक्तिः शाश्वती मता ।सा गृहे जायते मुक्तिस्त्रिस्पृशाया उपोषणात् ॥१७॥अज्ञानां मुक्तिदा प्रोक्ता स्त्रीशूद्राणां विशेषतः ।विज्ञानदा सदा पुण्या पवित्रा परमार्थदा ॥१८॥कल्याणजननी सद्यो धर्मार्थकाममोक्षदा ।जीवनी विष्णुभक्तानां नारीणां तु विशेषतः ॥१९॥सर्वेषां पावनी पुण्या जननी वेदमातृवत् ।पावनी कमलातुल्या रक्षिका रमया समा ॥२०॥सांख्ययोगफलाधिक्यफलव्याप्तफलप्रदा ।तीर्थकोटिशतैर्युक्ता जाह्नवीं स्नानकाम्यया ॥२१॥गोमत्यां याति कृष्णस्य सन्निधौ शुद्धिहेतवे ।तीर्थकोटिसहस्राणि तिष्ठन्ति गोमती स्थले ॥२२॥सापि व्रतं त्रिस्पृशायाः करोति पापशुद्धये ।ब्रह्महत्या सुरापानं गोवधः प्रमदावधः ॥२३॥ब्रह्मदेवस्वहरणं मातापित्रोश्च ताडनम् ।गुरुद्रोहो हरेद्रोहस्तथा चाऽभक्ष्यभक्षणम् ॥२४॥अगम्यागमनं हिंस्त निन्दनं च सतां सदा ।अन्यानि क्रूरकर्माणि यानि पापानि चाप्यथ ॥२५॥व्यपोहत्येव सा लक्ष्मि त्रिस्पृशा पावनोत्तमा ।सरस्वत्यधिका या वै तीर्थाऽर्बुदाऽतिपूजिता ॥२६॥कोटियज्ञाधिका होमदानपुण्याधिका च या ।जपकोट्यधिका पुण्या पुरुषार्थाऽधिका तथा ॥२७॥सांख्ययोगाधिका चात्मज्ञानमूर्धन्यपूजिता ।त्रिस्पृशा व्रतरूपा वै कार्या मोक्षप्रदायिनी ॥२८॥एकादशी सूर्ययोगे पश्चाच्च द्वादशी तथा ।त्रयोदशी निशाशेषे त्रिस्पृशैकादशी तु सा ॥२९॥अरुणोदयवेलायां सूर्योदयस्य प्राग् यदि ।दशमी वर्तते चेत् स दशमीवेध उच्यते ॥३०॥दशमीवेधजं दोषं न क्षमामि मम प्रिये॥दशमीवेधसहिता न ह्यपोष्या क्वचिद्धि सा ॥३१॥यथा रजस्वलादोषाद् दुष्यत्यपि च तत्पतिः ।तथैव दशमीविद्धैकादशी दोषदायिनी ॥३२॥दशम्येकादशी भद्रा दिनैक्ये तु यदा भवेत् ।तदापि त्रिस्पृशा सा त्वासुरी वर्ज्या प्रयत्नतः ॥३३॥दशमीमिश्रितं येन कृतं चैकादशीव्रतम् ।भुक्तं हालाहलं तेन कृतं पापं न तद्व्रतम् ॥३४॥जन्मकोटिकृतं पुण्यं सन्तानं याति संक्षयम् ।पतति स्वकुलं स्वर्गाद् याति वै रौरवं ततः ॥३५॥तस्माद् वै दशमीयुक्तं मद्दिनं वर्ज्यमेव यत् ।वृद्धौ त्याज्या वेधवती कर्तव्या द्वादशीयुता ॥३६॥मोहिन्यै दशमीवेधे वासो दत्तोऽस्ति वेधसा ।महत्पापं ततो बोध्यं दशमीवेधयुग्वते ॥३७॥वृद्धौ क्षये च वा तद्वत् सन्देहे समुपस्थिते ।ममाऽऽज्ञया सदा कार्या द्वादशी वल्लभा मम ॥३८॥शृणु लक्ष्मि! प्रवक्ष्यामि त्रिस्पृशाव्रतसद्विधिः ।पलेन वा पलार्धेन तदर्धेनापि पद्मजे ॥३९॥प्रतिमा मम सौवर्णी कारणीया यथावसु ।ताम्रपात्रे तिलपूर्णे घटो रत्नजलादियुक् ॥४०॥पत्रपुष्पश्वेतवस्त्रकर्पूरादियुतस्तथा ।स्थाप्यो वै सर्वतोभद्रमण्डले धान्यनिर्मिते ॥४१॥घटे स्थाल्यां काञ्चनी सा मूर्तिः स्थाप्या मम प्रिये ।लक्ष्मीः स्थाप्या मम पार्श्वे ततः पूजां समाचरेत् ॥४२॥आवाहनं चासनं च पाद्यं चार्घ्यं समर्पयेत् ।तत आचमनीयं च जलस्नानं समर्पयेत् ॥४३॥दुग्धस्नानं दधिस्नानं घृतस्नानं तदुत्तरम् ।कारयेच्छर्करास्नानं मधुस्नानं समर्पयेत् ॥४४॥अभिषेकं जलैस्तैर्थैः कारयेन्मार्जयेत् पटैः ।धौत्रं च शाटिकां चांगरक्षकं कंचुकीं तथा ॥४५॥उत्तरीयं तथा शाटीं यज्ञोपवीतमित्यपि ।दद्यान्मंगलसूत्रं च कौस्तुभं तन्तिकामपि ॥४६॥केशप्रसाधनं कुर्यात् तैलपुष्पादि धारयेत् ।कबरीं साधयेत् चूडां गन्धयेद् ग्रन्थयेत्तथा ॥४७॥कज्जलं नेत्रयोर्दद्याद् भाले पुण्ड्रं सचन्द्रकम् ।चन्दनं कस्तुरीयुक्तं कर्पूराढ्यं समर्चयेत् ॥४८॥नासानत्थीं चिबुकं च टिबकीं गण्डकेऽर्पयेत् ।कुण्डले चैरने कर्णभूषणे शृंखले तथा ॥४९॥सिन्दूरं कुंकुमं दद्यादोष्ठयोः रंगरंजनम् ।कुर्याद् दद्यात् तुलस्याश्च हारान्पौष्पान्सुगुच्छकान् ॥५०॥स्वर्णरत्नमणिहारान् शृंखलाः कटकाँस्तथा ।ऊर्मिका रशनां दद्यात् किंकिण्याढ्यसुनूपुरान् ॥५१॥पादुके नक्तके यष्ट्यौ दद्यादत्तरकेसरान् ।मुकुटं शेखरान् कर्णपूरान् संधारयेत्तथा ॥५२॥व्यजनं पादुके दद्याद् राजयोग्यस्वलंकृतीन् ।तुलसीमालिके दद्याल्लक्ष्मीनारायणाय मे ॥५३॥गुलालाऽबीररक्तनि चाऽक्षतान् कुसुमानि च ।धूपं दीपं च नैवेद्यं दद्यात् श्रीविष्णवे जनः ॥५४॥नैवेद्यानि मनोज्ञानि मिष्टान्नानि बहून्यपि ।फलानि सुमधुराणि दद्याद्वै शीतलं जलम् ॥५५॥सुगन्धं शान्तिदं चेष्टं जलपानं समर्पयेत् ।ताम्बूलं बहुद्रव्याढ्यं दद्यान्मुखस्य शुद्धये ॥५६॥दद्याच्च मुद्रिकां स्वर्णां दक्षिणां केशवाय वै ।तद्यत्त्वपेक्षितं तत्र पूजायां तत् समर्पयेत् ॥५७॥नीराजनं नवाऽऽवत्तं पञ्चवर्तिप्रकाशितम् ।कुर्यात् ततः शुभ्रवस्त्रामार्जनं त्रिः पुनः पुनः ॥५८॥आननाग्रे ततः कुर्याच्छंखभ्रामणमित्यथ ।जलं त्वार्द्राम्बरं मूर्ध्न उत्तारयेत् सुभावतः ॥५९॥दण्डवच्च स्तुतिं कुर्यात् प्रदक्षिणं पुनः पुनः ।नमस्कारान् बहून् कुर्यात् क्षमायाचनमित्यपि ॥६०॥पुष्पाञ्जलिं विकीर्यैव प्रार्थयेत्परमेश्वरम् ।नेत्रे सम्मील्य तन्मूर्तिं ध्यायेत् तिष्ठँस्तदग्रतः ॥६१॥दामोदराय वै पादौ जानुनी माधवाय च ।गुह्यं कामस्वरूपाय कटिं वामनमूर्तये ॥६२॥पद्मनाभाय नाभिं वै जठरं विश्वहेतवे ।हृदयं ज्ञानदेहाय कण्ठं वैकुण्ठवासिने ॥६३॥सहस्रबाहवे बाहू चक्षुषी योगमूर्तये ।सहस्रशीर्षा शिरसि सर्वांगं स्वामिने तथा ॥६४॥ध्यायामि व्यस्तरूपं वै समस्तं चान्तरे मम ।ध्यानगम्यो महाराज! पापं नाशयसि द्रुतम् ॥६५॥स्मृतो हरसि पापानि दुःस्वप्नं दुर्विचिन्तितम् ।दुर्निमित्तं भयं याम्यं दुःखं दुर्गतिसंभवम् ॥६६॥अन्यच्च यद्भवेद् दैह्यं चैहिकं पारलौकिकम् ।रक्ष तस्माच्च सर्वस्मादपराधाच्च दुःखदात् ॥६७॥सदा भक्तिस्त्वयि चास्तु लक्ष्मीनारायण प्रभो! ।देहि त्वच्चरणे दास्यं नय वैकुण्ठमेव माम् ॥६८॥त्रिस्पृशायाः स्वयं धाता स्वामी नारायणः पतिः ।भवानेव हरिर्मह्यं मोक्षं ददातु माधवः ॥६९॥इति स्तुत्वा ततो नृत्यं गीतवादित्रसंयुतम् ।सुस्वरं सुसमदृश्यं कुर्याद् देवस्य सन्निधौ ॥७०॥एवं प्रातः प्रभुं कृष्णं पूजयित्वा सुवर्णजाम् ।मूर्तिमेकादशीरूपां लक्ष्मीरूपां विधानतः ॥७१॥नमस्कृत्य ततो गच्छेत् कथायां सत्समागमे ।कीर्तनेन तथा भक्त्या भजनेन जपेन च ॥७२॥श्रवणेन स्मरणेन सेवनेनापि सर्वथा ।अर्चनेनाऽथवा सम्यग्वन्दनेन दिनं नयेत् ॥७३॥निराहारो जलाहारो नक्तभुक् चैकभोजनः ।शक्तोऽशक्तो व्रतं कुर्यात् स्वेष्टसम्पत्फलप्रदम् ॥७४॥मध्याह्नसमये दद्यात् ताम्बूलं भोजनं फलम् ।जलं दद्यात्तथा शय्यां मञ्चगेन्दुकपार्श्वकाम् ॥७५॥सायं जलं पुनर्दद्यादारार्त्रिकं विधानतः ।पूजनं षोडशवस्तुवर्यैः कुर्याच्च भावतः ॥७६॥एवं गुरुं च सम्पूज्य कुर्याज्जागरणं निशि ।गीतनृत्यसमाचारकीर्तनाद्यभिसंयुतम् ॥७७॥ततो निशान्ते हरये दत्त्वा चार्घं विधानतः ।स्नानादिकां क्रियां कृत्वा साधून् विप्रान् सुभोजयेत् ॥७८॥साध्वीश्च भोजयेद् बालान् दद्याद्दानानि दक्षिणाः ।एवं च द्वादशीभागे त्रयोदश्यामथापि वा ॥७९॥पारणार्थं प्रसादं वै भुंजीत भक्तसंयुतः ।मण्डलं सर्वतोभद्रं घटं चापि हरिं तथा ॥८०॥विसर्जयेद् विधानेन फलं मोक्षमवाप्नुयात् ।त्रिस्पृशाया व्रताख्यानं श्रुत्वाऽस्य तत्फलं मिलेत् ॥८१॥अश्वमेधसहस्राणि वाजपेयशतानि च ।कृतान्येव कृतं येन त्रिस्पृशासमुपोषणम् ॥८२॥त्रिस्पृशाव्रतकृदष्टोत्तरं शतं कुलानि वै ।मातापितृप्रपक्षाणि तारयत्येव सर्वथा ॥८३॥तैः सर्वैः सह संयुक्तो विष्णुलोके महीयते ।तीर्थकोटिक्षेत्रकोटिफलभाक् त्रिस्पृशाव्रती ॥८४॥नरा नार्यः सर्ववर्णा मुक्तिमायान्ति तद्व्रताः ।ब्रह्मणा सा कृता पूर्वं पश्चान्महर्षिभिः कृता ॥८५॥सेयं कार्या सदा भक्तैः सकामैः कामवर्जितैः ।गंगावगाहने वर्षकोटिभिर्यत्फलं भवेत् ॥८६॥ततोऽप्यधिकं सत्पुण्यं त्रिस्पृशाव्रतिनो भवेत् ।यत्फलं कुरुक्षेत्रे स्यात्सूर्यग्रहणकोटिभिः ॥८७॥हेमभारशतदाने प्रत्यहं तत्र यत् फलम् ।कोटिगोदानजं पुण्यं त्रिस्पृशाव्रतिनो भवेत् ॥८८॥पापकोटिसहस्राणि हत्याकोटिशतानि च ।विनश्यन्त्युपवासेनैकादश्यास्त्रिस्पृशेर्व्रते ॥८९॥प्रकाशयति यश्चेदं व्रतं सोऽप्यर्जयेत् फलम् ।त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ॥९०॥पितरोऽज्ञातकर्माणः प्रेतत्वं ये गता अपि ।कुलजस्त्रिस्पृशां कृत्वा तारयेत्तानधोगतान् ॥९१॥किमु वक्तव्यमेवाऽत्र त्रिस्पृशा मुक्तिदायिनी ।सम्पत्प्रदायिनी चात्र परत्र मोक्षदा हि सा ॥९२॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने त्रिस्पृशैकादशीव्रतफलपूजनादिकथननामा त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३३॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP