संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २४५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २४५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४५ Translation - भाषांतर श्रीलक्ष्मीरुवाच-स्वयं कृष्णः परंब्रह्म लोकरक्षणहेतवे ।अवतारं परिगृह्य करोत्यपि व्रतं स्वकम् ॥१॥लोकसंग्रहकार्याय समाचरति वै स्वयम् ।शिक्षयति जनान् सत्त्वमयान् चाऽऽचर्य्यमित्यपि ॥२॥वद कृष्ण मयाऽप्यत्र भवतेव व्रतं शुभम् ।कार्यं यस्य प्रतापेन मुक्तिः स्याद्धस्तगामिनी ॥३॥जना अपि व्रतं कृत्वा परं फलमवाप्नुयुः ।फाल्गुनस्याऽर्जुने पक्षे यन्नाम्न्येकादशी मता ॥४॥वद तां धर्मपुत्र त्वं नारायण पते मम ।इत्यापृष्टो हरिर्विष्णुर्व्रतं प्रोवाच तां प्रियाम् ॥५॥श्रीनारायण उवाच-शृणु कल्याणदे देवि! सर्वसम्पत्करि प्रिये ।यद्व्रतेन जनानां सुस्मृद्धयो यान्ति पोषणम् ॥६॥वर्धन्ते च सदा लक्ष्म्यः सम्पदश्च भवन्ति वै ।बहुमुक्तिर्महामुक्तिस्तस्य संकल्पवर्तिनी ॥७॥फाल्गुनस्याऽर्जुने पक्षे भवेत्येकादशी शुभा ।आमलकीतिनाम्ना सा विष्णुलोकफलप्रदा ॥८॥वैकुण्ठे श्रीहरिर्लक्ष्मी पप्रच्छ किमपेक्ष्यते ।किमिष्यते त्वया लक्ष्मि! यत् तद् ब्रूहि ददामि ते ॥९॥नाऽनवाप्तमवाप्तव्यं त्वत्कृते ब्रह्मरूपिणी ।यन्मदीयं तु तत्सर्वं त्वदीयं च त्वदात्मकम् ॥१०॥तस्माद्वरय भद्रं ते करोमि तव कामनाम् ।मा संकोचं वह लक्ष्मि! यत्तवास्ति ममास्ति तत् ॥११॥लक्ष्मीरेवं हरेः श्रुत्वा प्रोवाच भगवन्मम ।ललाटभूषा प्रेष्ठाऽस्ति तन्तिका देहि तां प्रभो ॥१२॥हरिस्तदानीं संकल्प्याऽऽभूषणार्थं नवं शुभम् ।सुवर्णवर्णं सरसं ललाटे शीतलंकरम् ॥१३॥स्वच्छं दिव्यं मणिप्रख्यं शशितुल्यं गुणान्वितम् ।प्रकटीकृतवान् भाले बिन्द्वात्मकं विभूषणम् ॥१४॥बिन्दुः स फलरूपोऽभून्मणिश्रेष्ठः प्रभान्वितः ।अक्षतो वर्तुलः सौम्यः सुवर्णमणिसदृशः ॥१५॥तस्माच्चान्येऽपि मणयो दिव्या जातास्त्वनेकशः ।हारस्तन्तिमयस्तेषां कृतोऽलंकारशोभनः ॥१६॥सूर्यकान्तनिभो दृश्ये चन्द्रकान्तसमो गुणे ।कौस्तुभेन समो हृद्ये तन्तिकाभूषणात्मकः ॥१७॥चूडामणिसमो धार्ये स्पृश्ये कोमलपेशलः ।पुण्ये विष्णुशिलातुल्यो धार्ये चन्दनशीतलः ॥१८॥सुगन्धे दिव्यगन्धाढ्यः पुष्टौ स्तन्यसमस्तथा ।शाश्वतश्च महादिव्यो हरेर्भालस्य बिन्दुजः ॥१९॥तन्तिकात्मकभूषाख्यो हारो निर्मलनूतनः ।संस्कृतो हरिणा चैकचत्वारिंशत्फलात्मकः ॥२०॥मध्ये सप्तफलान्यत्र पार्श्वयोश्च द्विसूत्रयोः ।अष्टाविंशतिमण्याढ्यः प्रान्तयोः षड्फलात्मकः ॥२१॥अर्पितश्च महालक्ष्म्यै हरिणा परमात्मना ।सम्प्राप्य सूर्यसदृशं तेजस्विनं प्रशीतलम् ॥२२॥सरसं शाश्वतं हारं जहर्ष प्रजहर्ष सा ।जिघ्राति स्पृशति चैनं विलोकयति सादरम् ॥२३॥मुहुर्भाले धारयति पश्यति स्म पुनः पुनः ।नूतनं कनकप्रख्यं सुगन्धरससंभृतम् ॥२४॥ललाटे शान्तिदं स्निग्धस्पर्शं रेखाभिरन्वितम् ।स्वकृते एव हरिणा कृतं वीक्ष्य मुमोद सा ॥२५॥स्तौति प्रशंसति हस्ते गृह्णाति स्म मुहुर्मुहुः ।सखीभ्यः स्म दर्शयति प्रसन्ना संबभूव सा ॥२६॥नारायणोऽपि भगवान् आसमन्तात् फलस्य वै ।नैर्मल्यं तु विलोक्यैव नामाऽकरोद् यथागुणम् ॥२७॥आमलकं फलं चेति तन्तिकाऽऽमलकैः कृता ।भाले बबन्ध लक्ष्मीस्तां शुशुभे सर्वतोऽधिका ॥२८॥द्यौर्यथाऽनेकशशिकृत्पंक्तिभिः शोभते तथा ।शुशुभे तु महालक्ष्मी समासाद्य सुतन्तिकाम् ॥२९॥एवं जाते महानन्दे सृष्टावत्रापि वेधसः ।कल्पादौ प्राकृते जाते सर्गे स्थावरजंगमे ॥३०॥लक्ष्म्या युतो हरिः साक्षात्परमात्मा परात्परः ।समाजगाम भूमौ च लक्ष्मीकान्तः समादरात् ॥३१॥लक्ष्म्या ललाटदेशाच्च तन्तिकायाः शुभं फलम् ।श्रीहरिः पातयामास पृथ्व्यां तत्सत्त्वसिद्धये ॥३२॥तस्यात्फलात्समुत्पन्नः फलभारेण नामितः ।शाखाप्रशाखाबहुलः स्वयं धात्रीतरुर्महान् ॥३३॥सर्वेषां चैव वृक्षाणामतिश्रेष्ठः स कीर्तितः ।स्वर्णनिभफलोपेतो वृक्षो लक्ष्मीप्रियः शुभः ॥३४॥यथा नारायणभालं प्रियं वृक्षः प्रियस्तथा ।नारायणस्वरूपोऽयं नारायणेन निर्मितः ॥३५॥नारायण्याः कृते सोऽयं मुक्तिदो भुक्तिदस्तथा ।बदरिकाश्रमे सोऽयं प्रथमः प्रकटीकृतः ॥३६॥तस्माच्च रैवताद्रौ सः समायातस्तरुर्महान् ।त एते मुक्तिदाः सर्वे वृक्षा आमलकाह्वयाः ॥३७॥यस्मिन्दिने हरिणाऽयं वृक्षस्तु प्रकटीकृतः ।सोऽयं तु दिवसोऽप्यासीदेकादशीसमाह्वयः ॥३८॥तत्र त्वामलकीवृक्षोत्पत्तेरेकादशी तिथिः ।आमलकीतिनाम्ना वै कृता देवर्षिसत्तमैः ॥३९॥देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।किन्नरा मानवा नागाः ऋषयो मुनयोऽपरे ॥४०॥विद्याध्राः किंपुरुषाश्च योगिनो भूसुरास्तथा ।यतयो न्यासिनः साध्व्यो योगिन्यो ब्रह्मचर्यगाः ॥४१॥सुदिव्यदृष्टयोऽप्यन्ये येऽभवन् वेधसा कृताः ।ते सर्वेऽपि ययुस्त्वत्याश्चर्यं श्रुत्वाऽऽमलद्रुमम् ॥४२॥साश्चर्या आमलकीद्रुं चिन्तयन्तो ययुश्च ते ।प्रशंसन्तोऽतिभूषार्हफलान्यामलकानि च ॥४३॥आजग्मुस्तत्र देवाद्या यत्र धात्री हरिप्रिया ।तां दृष्ट्वा ते च तत्पत्न्यः परं विस्मयमागताः ॥४४॥विष्णुः प्राह स्वयं तेभ्यः प्रवरो वैष्णवो ह्ययम् ।आमलकीद्रुमश्चास्य स्मृतेर्गोदानजं फलम् ॥४५॥स्पर्शनाद्द्विगुणं पुण्यं त्रिगुणं भक्षणात्तथा ।आमलकानि वै भाले कर्णयोर्गलहस्तयोः ॥४६॥येन धृतानि तेषां वै वैकुण्ठे वसतिर्ध्रुवा ।आमलकं मदुत्पन्नं सर्वपापहरं प्रियम् ॥८७॥वैष्णवं विष्णुगमकं भक्षणात्पापशोधकम् ।तस्मात् सर्वप्रयत्नेन सेव्या त्वामलकी जनैः ॥४८॥एवं वदति श्रीकृष्णे देव्यः प्राहुर्हरिं तदा ।आभूषणार्थं देवेश देहि फलानि नो विभो ॥४९॥तदा श्रीहरिणा तत्र फलान्यसंख्यकानि वै ।संकल्प्य प्रकटीकृत्याऽर्पितानि ताभ्य इत्यपि ॥५०॥ताभिः कृतानि तत्रैवाऽऽभरणानि बहून्यथ ।धृतानि भालकण्ठादौ करकर्णादिकेष्वपि ॥५१॥प्रजहृषुश्चातितमा यथेष्टं जगृहुस्तथा ।अथ देवादयोऽप्येनं नारायणं जगद्गुरुम् ॥५२॥प्राहुर्नारायण विष्णो शृणु नोऽभ्यर्थनं प्रभो ।वृक्षोऽयं रोचतेऽस्मभ्यं दीयतां नोऽधिवासनम् ॥५३॥यद्वासेन सदाऽस्माकं परं निःश्रेयसं भवेत् ।हरिः प्राह तदा देवान् योग्यं युष्माभिरर्थितम् ॥५४॥यद्यत्स्थलं निवासाय रोचते तु विशन्तु तत् ।इत्याश्रुत्य हरेर्वाक्यं देवा रुच्यनुसारतः ॥५५॥प्रविष्टा आमलकीद्रौ वसन्ति स्म च नित्यदा ।तस्य मूले स्थितो विष्णुस्तदूर्ध्वं तु पितामहः ॥५६॥स्कन्धे च भगवान् रुद्रः शाखासु मुनयः स्थिताः ।देवास्त्वन्ये प्रशाखासु पर्णेषु वसवः स्थिताः ॥५७॥पुष्पेषु मरुतः सर्वे फलेषु च प्रजेश्वराः ।पत्रशलाकास्वर्षयस्त्वचि ब्रह्म स्वयं स्थितम् ॥५८॥रसेऽवसद्ब्रह्मरसस्तृप्ती रूपे व्यवस्थिता ।सुगन्धे ब्रह्मसायुज्यं स्पर्शे मुक्तिर्व्यवस्थिता ॥५९॥मुक्ताः फलानां तन्त्वादौ बीजे श्रीपतिरास्थितः ।सर्वदेवमयी ह्येषा धात्री बोध्या जगत्प्रसूः ॥६०॥लक्ष्मीप्रदा रमा सेव्या सम्पत्प्रदाऽतिवल्लभा ।तस्मात्पूज्यतमा ह्येषा सर्वैर्भक्तिपरायणैः ॥६१॥फाल्गुने चामलक्यास्तु व्रतवन्तो हि मानवाः ।गच्छेयुरामलक्यास्तु छायायां भजनाय मे ॥६२॥व्रतं जागरणं तत्र कुर्याद् भक्तिपुरःसरम् ।द्वादश्यामपि तत्रैव गत्वा कुर्याच्च पारणाम् ॥६३॥तत्फलं शाश्वतं प्रोक्तं मत्सम्बन्धात्सुरेश्वराः ।कार्तिके फाल्गुने चापि ह्यामलकीतरोरधः ॥६४॥भोजनादि प्रकुर्वीत फलं तस्य तु शाश्वतम् ।धात्रीफलविलिप्तांगो धात्रीफलविभूषणः ॥६५॥धात्रीफलकृताहारो मानवो मोक्षमाप्नुयात् ।धात्रीछायां समाश्रित्य योऽर्चयेच्चक्रधारिणम् ॥६६॥पुष्पे पुष्पे भवेत्तस्य राजसूयफलं प्रिये ।हरिं कृष्णं समभ्यर्च्य धात्रीवृक्षतलस्थले ॥६७॥ब्राह्मणान् भोजयेत् साधून् वैकुण्ठं स व्रजेद् ध्रुवम् ।धात्रीवृक्षतले दानं कुर्वन् स्वर्गमवाप्नुयात् ॥६८॥धात्रीफलरसास्वादं गृह्णन् निर्गुणतां व्रजेत् ।धात्रीफलं प्रभुञ्जन् वै दिव्यमुक्तिं व्रजेद्व्रती ॥६९॥धात्रीधात्रीति तन्नाम गृणन् याति मृतिं यदि ।धात्रीव लक्ष्मीरायाति नारायणेन संयुता ॥७०॥नयत्येनं हरेर्धाम दिव्यं वैकुण्ठमक्षरम् ।धात्रीसमुद्भवो यत्र दिने जातस्तदीयकम् ॥७१॥व्रतं चैकादशीरूपं कर्तव्यं मुक्तिमिच्छता ।धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम् ॥७२॥अल्पायासं बहुफलं व्रतानां व्रतमुत्तमम् ।कृतेन येन मनुजो विष्णुलोके महीयते ॥७३॥फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि ।भवेत् सैकादशी पुण्या महापातकनाशिनि ॥७४॥कर्तव्या व्रतिना सैषा भुक्तिमुक्तिप्रदायिनी ।दशम्यां त्वेकभुक्तत्वं रात्रौ भूशयनं तथा ॥७५॥ब्रह्मचारित्वमेवापि रक्षणीयं व्रतार्थिना ।एकादश्यां ब्राह्मकाले समुत्थायाऽऽन्तरे निजे ॥७६॥हरिं स्मृत्वा तथा ध्यात्वा स्नानं तीर्थे समाचरेत् ।हरेरग्रे समागत्य व्रतं संकल्पयेत् ततः ॥७७॥अद्य देवप्रसादेन करिष्ये निर्जलं व्रतम् ।तद्वै संपूर्णतां यातु मा विघ्नो मे भवेत्प्रभो ॥७८॥इत्यभ्यर्थ्याऽऽचमनं वै कुर्यात् सन्ध्यादिकं चरेत् ।नैत्यकं पूजनं कुर्याद् विष्णोर्नारायणस्य च ॥७९॥ततो वै मण्डले सर्वतोभद्राख्येऽन्ननिर्मिते ।मध्ये स्वर्णकृतं ताम्रं घटं वा पञ्चरत्नकम् ॥८०॥वस्त्रपल्लवसलिलतन्तुफलादियोजितम् ।स्थापयेच्च तिलस्थालीं न्यस्येत्तत्र सुशोभनाम् ॥८१॥आमलक्या अधिपतिं गोविन्दं स्वर्णनिर्मितम् ।चन्द्रवत्या सह पत्न्या स्थापयेत्तत्र पूजयेत् ॥८२॥आवाहनात् समारभ्य पुष्पाञ्जल्यन्तकं तदा ।पूजनं तत्र कर्तव्यं व्रतिना दिव्यवस्तुभिः ॥८३॥षोडशसूपचारैश्च तथाऽन्यैरुपचारकैः ।नीराजनस्तुतिभोज्यजलताम्बूलवस्तुभिः ॥८४॥गुलदावदिकापुष्पैः कमलादिभिरित्यपि ।पूजयेत्तन्दुलैर्देवं कुंकुमाऽगुरुचन्दनैः ॥८५॥निवेदने विशेषेण कंसारपूरिकादिकम् ।अर्पयेदतिभक्त्या चाऽऽक्षोडं प्रपूजने फलम् ॥८६॥तिलपात्रं तथा दद्याद् दाने स्वर्णादिकं धनम् ।एवं प्रातः समर्चां तु कृत्वा भक्तिं समाचरेत् ॥८७॥मध्याह्ने तु विशेषेण पूजा धात्रीदिने मता ।नद्यां तडागे कूपे वा गृहे वा नियतात्मवान् ॥८८॥शरीरे मृत्तिकां दत्वा ततः स्नानं समाचरेत् ।सर्वतीर्थानि चायान्तु तत्र स्नानं करोम्यहम् ॥८९॥एवं स्नात्वा तथा शुद्धे वस्त्रे धृत्वाऽथ पुण्ड्रकम् ।तिलकं चन्द्रकं कृत्वा गच्छेदामलकीद्रुमम् ॥९०॥सर्वोपस्करसंयुक्तः पूजोपकरणैर्युतः ।धात्रीछायां समाश्रित्य संशोध्यापि समन्ततः ॥९१॥रचयेत् सर्वतोभद्रमण्डलं सप्तधान्यजम् ।मध्ये तु स्थापयेत्कुंभं स्वर्णजं ताम्रजं च वा ॥९२॥पञ्चरत्नसमोपेतं दिव्यगन्धाधिवासितम् ।छत्रोपानद्वस्त्रयुक्तं सितचन्दनचर्चितम् ॥९३॥स्रङ्मालालम्बितग्रीवं सर्वधूपविधूपितम् ।दीपमालाकुलं रम्यं सर्वतः सुमनोहरम् ॥९४॥पात्रे न्यस्येत् तदूर्ध्वे च दिव्यलाजाप्रपूरितम् ।तिलपात्रे च लाजायाः स्थाल्यां चन्द्रावतीयुतम् ॥९५॥जामदग्न्यं हरिं राम सपरशुं हिरण्मयम् ।स्थापयेच्च तथा धात्रीं स्वर्णमूर्तिमयी शुभाम् ॥९६॥आवाहनं चासनं च पाद्यमर्घ्यं जलेन च ।दद्यादाचमनं पंचामृतैः संस्नपयेत् प्रभुम् ॥९७॥ततस्तीर्थजलैर्देवं स्नापयेन्मार्जनं चरेत् ।वस्त्रे सन्धारयेद्यज्ञोपवीतं दापयेन्मणिम् ॥९८॥आभूषणानि सर्वाणि मुकुटादीनि चार्पयेत् ।सुगन्धचन्दनादीन्यत्तरतैलादि चार्पयेत् ॥९९॥गुलालकुंकुमाऽबीराऽगुरुद्रव्याऽक्षतैस्तथा ।पुष्पैर्नानाविधैर्देवं धूपदीपनिवेदनैः ॥१००॥नीराजनेन विधिना जलताम्बूलसत्फलैः ।दण्डवत्स्तुतिनमनैरपराधक्षमार्थनैः ॥१०१॥प्रदक्षिणादक्षिणाभिः सत्पुष्पांजलिना तथा ।अर्चयेद् देववेशं धात्रीवृक्षतले शुभे ॥१०२॥ध्यायेत्तु भगवद्रूपं सौम्याभं पादयोः स्वयम् ।जान्वोस्तु विश्वरूपं च सक्थ्नोः तेजःस्वरूपकम् ॥१०३॥कट्यां दामोदरं ध्यायेत्पद्मनाभं तथोदरे ।वक्षसि श्रीवत्सयुतं वामबाहौ तु चक्रिणम् ॥१०४॥गदिनं दक्षिणे बाहौ कण्ठे वैकुण्ठमित्यपि ।आस्ये यज्ञमुखं ध्यायेन्नासायां सुखसागरम् ॥१०५॥अक्ष्णोर्ध्यायेद्वासुदेवं ललाटे वामनं तथा ।सर्वात्मानं ब्रह्मरन्ध्रे ध्यात्वाऽङ्गानि विचिन्तयेत् ॥१०६॥नमस्ते देवदेवेश जामदग्न्य नमोऽस्तु ते ।मया कृतां महापूजां धात्रीफलार्पणान्विताम् ॥१०७॥गृहाण परमप्रीत्या भुक्तिमुक्तिप्रदो भव ।इत्यभ्यर्च्य समाप्यैव ततो वै भोजनादिकम् ॥१०८॥गोभ्यो दद्यात्तथा सूक्ष्मजन्तुभ्योऽपि प्रदापयेत् ।धात्रीमूले प्रसादश्च समर्प्यो देवभावतः ॥१०९॥जलं देयं धात्रिकायाः मूले पितृप्रतर्पकम् ।सूर्याय त्वंजलिं दद्यात् पितॄनुद्दिश्य भावतः ॥११०॥भूतेभ्यस्तु प्रसादांशं दद्याद् बालेभ्य एव च ।शेषं प्रसादं त्वनयेत् स्वगृहं रक्षयेच्च तम् ॥१११॥द्वादश्यामुपभुञ्जीत फलं जलं तु तद्दिने ।व्रतिना यदि ग्राह्यं स्यान्न व्रतघ्नं हि तद्भवेत् ॥११२॥एवं कृत्वा तु दानानि मणिस्वर्णमयानि हि ।आभूषणानि वस्त्राणि विविधान्नानि भूमयः ॥११३॥गोमहिष्यो गृहोद्यानयानवाहनकानि च ।अतिश्रेष्ठानि रत्नानि मिष्टान्नानि बहून्यपि ॥११४॥दद्याद्धात्रीतले तस्य फलं ब्रह्मणि शाश्वतम् ।स्वर्गं तस्याऽक्षयं चापि निरतिशयमेव च ॥११५॥एवंविधं व्रतं दानं स्वर्गमोक्षफलप्रदम् ।सर्वान्सन्तोष्य दानेन जलेनान्नेन वाससा ॥११६॥नमस्कृत्य हरिं नत्वा दत्त्वा द्विजाय चेतरत् ।गृहं यायात् परभक्त्या चापराह्णेपि सर्वथा ॥११७॥समयं कीर्तनभक्त्या यापयेच्च तथा निशि ।पूजनं विधिवत् कृत्वा कृत्वा चारार्त्रिकादिकम् ॥११८॥नैवेद्यं च जलं गन्धं ताम्बूलं प्रसमर्प्य च ।देवं त्वान्दोलयेत्प्रेंखादोलादौ जागरं तथा ॥११९॥कुर्यान्नृत्यैस्तथा गीतैर्वादित्राद्यैः कथामृतैः ।धर्माख्यानैस्तथा कृष्णशृंगारपदगायनैः ॥१२०॥गृहे वा मन्दिरे यद्वा धात्रीवृक्षतले व्रती ।परशुराममूर्तिं च स्थापयित्वा दिने निशि ॥१२१॥पूजनं च व्रतं जागरणं कुर्याद् द्रुमस्थले ।वैष्णवामुक्तिदाऽऽख्यानैर्यापयेयुर्निशामिमाम् ॥१२२॥प्रदक्षिणास्ततः कुर्याद्धात्रीद्रौ विष्णुनामभिः ।अष्टाधिकशतं चापि ह्यष्टाविंशतिमित्यपि ॥१२३॥धात्रीवृक्षं हरिं ज्ञात्वा प्रातः पूजनमाचरेत् ।स्नात्वा नीराजनं कृत्वा पूजयित्वा तु भूसुरम् ॥१२४॥गुरुं समर्च्य दानार्हं सर्वं तस्मै निवेदयेत् ।जामदग्न्यं घटं स्वर्णं वस्त्रयुग्ममुपानहौ ॥१२५॥जामदग्न्यस्वरूपाय गुरवे त्वर्पयेत्ततः ।वदेदामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम् ॥१२६॥जामदग्न्यस्वरूपेण प्रीयतां मम केशव ।दद्याद्भक्तजनेभ्यश्च विष्णुप्रसादमुत्तमम् ॥१२७॥आश्रितेभ्यो विधानेन दत्वा त्वन्नं जलं तथा ।विप्रान् बालान् भोजयेच्च साधून् साध्वीश्च बालिकाः ॥१२८॥ततः स्वयं समश्नीयात् कुटुम्बेन समावृतः ।एवंकृतेन पुण्यं तु शाश्वतं मोक्षदं भवेत् ॥१२९॥सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।सर्वयज्ञेषु यत्पुण्यं तत्फलं लभते व्रती ॥१३०॥सर्वपापविनिर्मुक्तः परामुक्तिं प्रपद्यते ।आमलकीव्रतकर्तुर्विष्णुलोको ध्रुवो मतः ॥१३१॥एतत्ते कथितं सर्वं व्रतानां व्रतमुत्तमम् ।पुत्रदं जयदं कान्तिप्रदं मोक्षप्रदं तथा ॥१३२॥अव्याहतगतिस्वर्गप्रदं सिद्धिप्रदं द्रुतम् ।सर्वसंकल्पफलदं लक्ष्मीप्रसन्नताप्रदम् ॥१३३॥यानवाहनसद्भूषोपस्कारादिप्रदं शुभम् ।व्रतमेतद्दुराधर्षं सर्वपापविमोचकम् ॥१३४॥नार्या लक्ष्मीस्वरूपत्वप्रद रमात्वदायकम्॥नरस्य तु चतुर्बाहुविष्णुरूपत्वसम्प्रदम् ॥१३५॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने फाल्गुनशुक्लाऽऽमलकीनाम्न्येकादशीव्रतमाहात्म्यं लक्ष्मीललाटभूषार्थम् आमलकीप्राविर्भावः, पृथिव्यां वृक्षरूपस्यैकादशीव्रते पूजनमाहात्म्यं चेत्यादिनिरूपणनामा पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४५॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP