संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४६७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४६७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४६७ Translation - भाषांतर श्रीनारायण उवाच--शृणु लक्ष्मि! कलावत्या वृषभानोस्तु योषितः ।पतिव्रतायाः सामर्थ्यं प्रवदामि महोत्तमम् ॥१॥पितॄणां मानसी कन्या कमलांशा कलावती ।सुन्दरी वृषभानस्य पतिव्रतपरायणा ॥२॥यस्यास्तु तनया राधा कृष्णप्राणाधिका प्रिया ।श्रीकृष्णार्धांशसम्भूता तेन तुल्या च तेजसा ॥३॥बभूवुः कन्यकास्तिस्रः पितॄणां मानसात्पुरा ।कलावती रत्नधन्या मेनका च दिनान्तरे ॥४॥रत्नधन्या तु जनकं वरयामास भूभृतम् ।हिमाचलं हरेरंशं वरयामास मेनका ॥५॥रत्नधन्यासुता सीता रामपत्नी पतिव्रता ।मेनापुत्री सती शंभुपत्नी च पार्वती तथा ॥६॥अयोनिसंभवे चोभे पतिव्रते रमे शुभे ।कलावती सुचन्द्रं तु वरयामास सत्पतिम् ॥७॥मनुवंशीयनृपतिं प्राप्य वर्षसहस्रकम् ।रेमे राज्ये ततो राजा संविरक्तो बभूव ह ॥८॥जगाम तपसे विन्ध्यशैलं सह स्वयोषिता ।पुलहाश्रममासाद्य तपस्तेपेऽतिदारुणम् ॥९॥मोक्षाकांक्षी निराहारो दिव्यवर्षसहस्रकम् ।समाधिमाप नृपतिर्ध्यात्वा कृष्णपदाम्बुजम् ॥१०॥तद्गात्रव्याप्तवल्मीकं पत्नी दूरं चकार सा ।निश्चेष्टितं पतिं दृष्ट्वा प्राणाऽसञ्चारविग्रहम् ॥११॥मांसशोणितशून्यं तमस्थिसंसक्तविग्रहम् ।शोकं चकार सा राज्ञी सा रुरोद कलावती ॥१२॥हे नाथनाथेत्युच्चार्य पातिव्रत्यपरायणा ।श्रुत्वा तु रोदनं तस्याः कृपया स कृपालयः ॥१३॥आविर्बभूव जगतां पितामहो ह्यजः स्वयम् ।ब्रह्मा तां च नृपं चापि विलोक्य शोकमाप ह ॥१४॥ततः कमण्डलुजलेनासिच्य नृपविग्रहम् ।जीवं संचारयामास ब्रह्मशक्त्या स विश्वसृट् ॥१५॥राजा तु पुरतो दृष्ट्वा जगद्धातारमेव तम् ।प्रणनाम प्रतुष्टाव प्रसन्नवदनेक्षणम् ॥१६॥ब्रह्मा नृपं समुवाच वरं वृणु यथेप्सितम् ।राजा वव्रे तु निर्वाणं नित्यमोक्षं परं पदम् ॥१७॥श्रुत्वा ब्रह्मा वरं दातुमुद्यतस्त्वभवद् यदा ।कलावती महासाध्वी ब्रह्माणमाह सादरम् ॥१८॥यदि मुक्तिं नृपेन्द्राय ददासि कमलोद्भव ।ततोऽबलाया हे ब्रह्मन् का गतिर्मे विना धवम् ॥१९॥विना कान्तं तु कान्तानां का शोभा विधवात्मनि ।व्रतं त पतिव्रतायाश्च पतिरेव श्रुतौ मतम् ॥२०॥गुरुश्चाभीष्टदेवो हि तपोधर्ममयः पतिः ।सर्वे वै बान्धवाः श्रेष्ठाः पतितुल्या न योषिताम् ॥२१॥सर्वेषां तु प्रियतमो बन्धुर्न स्वामिनः परः ।सर्वधर्मात् परा ब्रह्मन् पतिसेवा सुदुर्लभा ॥२२॥व्रतं दानं तपः पूजा जपहोमादिकं तु यत् ।स्वामिसेवाविहीनायाः सर्वं तन्निष्फलं भवेत् ॥२३॥सर्वतीर्थेषु च स्नानं तथा पृथ्च्याः प्रदक्षिणा ।सर्वयज्ञेषु दीक्षा च महादानव्रतानि वै ॥२४॥वेदानां पठनं चापि यावन्त्यपि तपांसि च ।सतामर्थे भोजनं च विप्रार्चा देवसेवनम् ॥२५॥चातुर्मास्यतपकृच्छ्रचान्द्रायणादिकं तथा ।एतानि स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ॥२६॥स्वामिसेवाविहीना या वदन्ति स्वामिने कटु ।पतन्ति कालसूत्रे ता यावच्चन्द्रदिवाकरौ ॥२७॥सर्पाश्च कृमयस्तत्र दशन्ति ता दिवानिशम् ।मूत्रश्लेष्मपुरीषाणां भक्षणं कारयन्ति ताः ॥२८॥तासां मुखे ददत्येवमुल्कास्तु यमकिंकराः ।एवं वै यातना भुक्त्वा कृमियोनिं प्रयान्ति ताः ॥२९॥भक्षन्ति तत्र मलिनं यान्ति मानुषतां ततः ।इतिश्रुतं मया सद्भ्यो वेदवाक्येभ्य इत्यतः ॥३०॥किं वदामि जगद्धातर्न जानाम्यबला यतः ।त्वं पिता जगतां धाता योगी गुरुः सतां सदा ॥३१॥सर्वज्ञं किं बोधयामि मा वियोजय मां पितः ।प्राणाऽधिकोऽयं कान्तो मे यदि मुक्तो बभूव ह ॥३२॥मम को रक्षिता ब्रह्मन् धर्मस्य यौवनस्य च ।कौमारे रक्षिता तातो दत्वा पात्राय मुच्यते ॥३३॥लग्नेन रक्षिता कान्तो यावज्जीवति वै पतिः ।तदभावे सुतो रक्षेत् त्रातारस्ते त्रयः स्मृताः ॥३४॥अरक्षके सती साध्वी त्वन्याश्रयमुपाव्रजेत् ।तदधीना भवेत् तत्र पातिव्रत्यं लयं व्रजेत् ॥३५॥बहुजन्मार्जितं पुण्यं तदा नार्या विनश्यति ।बाल्ये च यौवने कान्ते वार्धक्येऽपि सतीस्त्रियाः ॥३६॥पतिव्रतायाः कान्ते स्वे सर्वकाले समा स्पृहा ।पुत्रे स्नेहो हि मातॄणां भवेत्सर्वाधिकोऽपि च ॥३७॥पतिस्नेहस्य साध्वीनां कलां नार्हति षोडशीम् ।पुत्रस्य स्तन्यलाभान्तो मिष्टान्ने भोजनावधि ॥३८॥स्वार्थिनां स्वार्थलाभान्तः स्नेहो भवति न ध्रुवः ।कान्ते स्नेहः सतीनां तु स्वप्ने जाग्रति सन्ततः ॥३९॥स्मृत्यन्तो बन्धुविच्छेदः पुत्राणां तु ततोऽधिकः ।सुदारुणः स्वामिनस्तु दुःखं नातः परं स्त्रियाः ॥४०॥अविदग्धा यथा दग्धा ज्वलदग्नौ विषादने ।तथाऽविदग्धा दग्धा स्यात् स्वामिनो विरहानले ॥४१॥नाऽन्ने तृष्णा जले तृष्णाऽम्बरे भोग्ये न तृष्णिका ।गृहे यशसि सौन्दर्ये साध्वीनां स्वामिनं विना ॥४२॥विरहाग्नौ मनो दग्धं रक्तं दग्धं तथाऽऽननम् ।भुक्तं दग्धं धनं दग्धं भवेदग्नौ तृणं यथा ॥४३॥नहि कान्तात्परो बन्धुर्नहि कान्तात्परः प्रियः ।नहि कान्तात् परो देवो नहि कान्तात्परो गुरुः ॥४४॥नहि कान्तात्परे प्राणा नहि कान्तात् परः स्त्रियाः ।नहि कान्तात्परो धर्मो नहि कान्तात् परं धनम् ॥४५॥निमग्नं श्रीकृष्णनारायणे यथा सतां मनः ।यथैकपुत्रे मातुश्च कृपणानां धने यथा ॥४६॥यथा भयेषुभीतानां शास्त्रेषु विदुषां यथा ।स्तन्यपाने शिशूनां च शिल्पेषु शिल्पिनां यथा ॥४७॥यथा कान्ते कामिनीनां तथा प्रिये मनो मम ।तं विना जीवितुं ब्रह्मन् क्षणमेकं न वै क्षमम् ॥४८॥मरणं तु वरं तासां जीवनं मरणायते ।तद्भर्तृरहितानां च सतीनां शोकचेतसाम् ॥४९॥अन्यशोको भवेद् दूरः पानभोजनखेलनैः ।कान्तशोको वर्धते वै पानभोजनखेलने ॥५०॥सती नारी पतिच्छाया वियोक्तुं नार्हति क्वचित् ।पतिपुण्यकृता मूर्तिः पत्यावेव सुसज्जते ॥५१॥स्वामिना कृतपुण्यस्य फलं नारी पतिव्रता ।फलभोगः स्वामिनोऽस्ति कथं साध्वी वियुज्यते ॥५२॥वियोगे फलभोगो न कृतं पत्युर्निरर्थकम् ।तस्मान्नारी सती नित्यं युयुजे स्वामिना शुभा ॥५३॥इतरे खलु नश्यन्ति देहनाशे स्वभावतः ।नारी कर्मफला मूर्तिः सार्था जन्मनि जन्मनि ॥५४॥ततो ब्रह्मन् पतिं मुक्तं चेत् करोषि मया विना ।त्वां शप्त्वा त्वां प्रदास्यामि प्रसह्य स्त्रीवधं ह्यघम् ॥५५॥श्रुत्वा कलावतीवाक्यं विस्मितश्च प्रजापतिः ।हितं स्यात्तु यथा सत्यास्तथोवाच भयान्वितः ॥५६॥वत्से मुक्तिं न दास्यामि स्वामिनं ते त्वया विना ।तव पुण्यं तथा त्वास्ते स्वर्गभोगेन नश्यति ॥५७॥मुक्तं कर्तुं त्वया सार्धं साम्प्रतं नाहमीश्वरः ।सुते मुक्तिः पुण्यभोगं विना सर्वस्य दुर्लभा ॥५८॥निर्वाणतां समाप्नोति धर्मी भोगेन नाशने ।बहुकालं स्वर्गभोगं कुरुष्व स्वामिना सह ॥५९॥ततश्च युवयोर्जन्म भविता यमुनातटे ।यदा भविष्यति सती कन्या ते राधिका स्वयम् ॥६०॥जीवन्मुक्तौ तया सार्धं गोलोकं संगमिष्यथः ।साध्वी वै सत्त्वयुक्तेयं मा मां शप्तुं समर्हसि ॥६१॥जीवन्मुक्ताः समाः सन्तः कृष्णनारायणे रताः ।इत्यक्त्वा प्रययौ ब्रह्मा स्वालयं ययतुश्च तौ ॥६२॥स्वर्गं भुक्त्वा सुचन्द्रश्च वृषभानुर्बभूव ह ।पद्मावत्या हि जठरे सुरभानस्य रेतसा ॥६३॥जातिस्मरो हरेरंशो हरिपादाब्जमानसः ।नन्दबन्धुर्महायोगी वैष्णवः परमो महान् ॥६४॥कलावती कान्यकुब्जे बभूवाऽयोनिसंभवा ।जातिस्मरा महासाध्वी भनन्दस्य सुपुत्रिका ॥६५॥यज्ञकुण्डोत्थितां तां च लब्ध्वा सुकनकप्रभाम् ।मालावत्यै ददौ पत्न्यै सा पुपोष प्रहर्षिता ॥६६॥चक्रे कलावतीनाम चकार सुमहोत्सवम् ।भवन्दनो नृपतिस्तां प्रददौ वृषभानवे ॥६७॥जातिस्मरो हरेरंशो वृषभानुरुपाददे ।तस्यां कन्याऽभवद् राधा कृष्णनारायणप्रिया ॥६८॥तस्या विवाहो भाण्डीरे वटे ब्रह्मा व्यधापयत् ।कृष्णेन सह राधायाः सुखं प्रापातिराधिका ॥६९॥राधैकदा सती कृष्णं वृन्दावने रहस्थले ।कृष्णजन्मदिने कृष्णं स्नपयामास सुन्दरी ॥७०॥यमीजलेन तत्रैव सस्मार स्वकगोधनम् ।गोलोकादागता गावस्तस्याः स्मरणमात्रतः ॥७१॥सुनन्दा सुमनाश्चापि सुशीला सुरभिस्तथा ।कपिला पंचमी चेति स्ववंशविस्तरैर्युता ॥७२॥वात्सल्यदृष्ट्या कृष्णस्य तासामूधांसि सुस्रुवुः ।ववृषुः पयसां पूरैस्तदूधांसि पयोधराः ॥७३॥कृष्णः संस्नापितस्ताभिः शृंगारितश्च राधया ।कृष्णेन कृतसत्कारा वाराणसीं ययुस्तु ताः ॥७४॥राधा संभोजयामास रमयामास तं पतिम् ।जन्मोत्सवं सुखं कृत्वा ययौ कृष्णो गृहं निजम् ॥७५॥वाराणस्यां तु ता गावः शंकरं परमीश्वरम् ।धारासारैरविच्छिन्नर्दुग्धानां पापनाशिनाम् ॥७६॥स्नपयामासुरत्यर्थं तावद्यावद्ध्रदोऽभवत् ।शंभुर्यत्राऽभवत् पूर्वं स्थितः स्नातश्च दुग्धकैः ॥७७॥आगतानां गवां स्नेहात् प्रतिजगाम यत्स्थले ।तत्स्थलं त्वभत् ख्यातं कपिलाह्रद एव यत्। ॥७८॥कपिलधारा तत्तीर्थे तत्र श्राद्धेन पायसैः ।अग्निष्वात्ता बर्हिषद आज्यपाः सामपास्तथा ॥७९॥पितरस्त्वन्यजातीया अपि तृप्यन्ति शाश्वतम् ।पठनाच्छ्रवणाल्लक्ष्मि मोक्षदं कथितं तव ॥८०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने राधिकामातुः कलावत्या वृषभानोः पत्न्या प्राग्भवे सुचन्द्रपत्न्याः कलावत्यास्तस्याः पातिव्रत्येन पत्युस्तपसा च दम्पत्योर्वृषभानुकलावतीरूपेण यमुनातटे जन्म, तयोः पुत्री राधिका कृष्णजन्मोत्सवे गोदुग्धैः कृष्णं स्नपयामासेत्यादिनिरूपणनामा सप्तषष्ट्यधिक चतुश्शततमोऽध्यायः ॥४६७॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP