कृतयुगसन्तानः - अध्यायः ७३
लक्ष्मीनारायणसंहिता
श्रीनारायण उवाच
सर्वेषां सर्वयोन्यादौ सुखं न्यूनाधिकं कृतम् ।
मनुष्ययोनौ धर्मात्मा सुखी भवति सर्वथा ॥१॥
पुण्यं पापं मनुष्याणां विधिजं च निषेधजम् ।
आगर्भात् पञ्चवर्षाणि न वै पापेन लिप्यते ॥२॥
पञ्चवर्षोत्तरं देही त्वर्धपापेन लिप्यते ।
द्वादशाब्दपरो देही सर्वपापैः प्रलिप्यते ॥३॥
यथावस्थं यथापापप्रलेपस्तत्प्रमापतः ।
मृतस्य सूतकं चात्राऽधिकं न्यूनं च गम्यते ॥४॥
यावन्मासे गर्भपातस्तावद्दिनानि सूतकम् ।
तस्य किञ्चिदपि कर्म कर्तव्यं नैव विद्यते ॥५॥
जन्मत आचूडान्मृत्यौ बालं गर्ते विनिःक्षिपेत् ।
दुग्धं देयं यथाशक्ति बालानां तुष्टि हेतवे ॥६॥
आचूडात्पञ्चवर्षे तु मृतौ देहं दहेत्ततः ।
क्षीर भोज्यं प्रदातव्यं बालानां भोजनं यतः ॥७॥
पूर्णपंचमवर्षस्य मृतौ कर्माणि सर्वथा ।
और्ध्वदैहिकानि यथाविधि कार्याणि सर्वथा ॥८॥
कुमाराणां च बालानां भोजनं वस्त्रवेष्टनम् ।
महादानविहीनं तु कुमारे कृत्यमाचरेत् ॥९॥
बाले वा तरुणे वृद्धे घटो भवति देहिनाम् ।
गर्ने निक्षेपणं बालमावर्षद्वयमेव ह॥१०॥
ततः परं वा सर्वस्य देहदाहो विधीयते ।
शिशुरादन्तजननाद् बालः स्याद् यावदाशिखम् ॥११॥
ततः परं कुमारश्च स्यादामौञ्चीप्रबन्धनम् ।
पञ्चवर्षाधिके मृत्यौ वृषोत्सर्गविधिं विना ॥१२॥
तथा सपिण्डीकरणं विना ह्येकादशेऽहनि ।
श्राद्धानि षोडश कुर्यादुदकुभं च दापयेत् ॥१३॥
दीपान्नजलवस्त्रादिस्वर्णदानादि भोजनम् ।
कारणीयं यथायोग्यं प्रेतत्वविनिवृत्तये ॥१४॥
पुत्रमुखं पिता दृष्ट्वा पितुः ऋणात्प्रमुच्यते ।
अत औरसपुत्रस्तु कुर्याच्छाद्धं तु पार्वणम् ॥१५॥
पौत्रं दृष्ट्वा ऋणत्रयान्मुच्यते स्वर्गमाप्नुयात् ।
अनौरसाः संगृहीताः पुत्रा नवविधा मताः ॥१६॥
एकोद्दिष्टं नवभिस्तैः कर्तव्यं श्राद्धमेव हि ।
औरसेन प्रकर्तव्यं सपिण्डीकरणं पितुः ॥१७॥
संवत्सरे तु सम्पूर्णे कुर्यात् पिण्डप्रवेशनम् ।
वर्षान्ते च कृते पिण्डमेलने याति सद्गतिम् ॥१८॥
एवं कृते तत एव प्रेतः पितृगणो भवेत् ।
भिक्षुर्भिक्षां न गृह्णीयाद् यावन्न स्यात्सपिण्डनम् ॥१९॥
स्वगोत्रेष्वशुचिस्तावद् यावत् पिण्डं न मेलयेत् ।
आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् ॥२०॥
अस्थिरत्वाच्छरीरस्य द्वादशाहे सपिण्डयेत् ।
त्रिपक्षे वा षण्मासे वा वत्सरे या सपिण्डयेत् ॥२१॥
पुत्राऽभावे प्रिया कुर्यात् पत्न्यभावे सहोदरः ।
भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ॥२२॥
सपिण्डनक्रियां कृत्वा कुर्यादभ्युदयं ततः ।
सर्वेषां पुत्रहीनानां पुत्री कुर्यात् सपिण्डनम् ॥२३॥
ऋत्विजः कारयेद्वापि पुरोहितमथापि वा।
कृतचूडैः सुतैश्चापि पितृश्राद्धं च कारयेत् ॥२४॥
तेन वै पितरस्तृप्ताः प्रेततृप्तिस्तथा भवेत् ।
प्रेतस्य सुखलाभाय सर्वं पुत्रेण कार्यते ॥२५॥
तारयेन्नरकात्पुत्रो यदि मोक्षो न विद्यते ।
अपुत्रस्य गतिर्नास्ति स्वर्गं नैव च नैव च ॥२६॥
दाहः पुत्रेण कर्तव्यो ह्यग्निदाता च पौत्रकः ।
तिलैर्दर्भैश्च भूम्यां वैकुण्ठे तत्र मतिर्भवेत् ॥२७॥
पञ्चरत्नानि वक्त्रे च तेन जीवः प्ररोहति ।
प्रलेप्या गोमयैर्भूमिस्तिलान्दर्भांश्च निक्षिपेत् ॥२८॥
तस्यामेवाऽऽतुरो न्यस्तः सर्वं दहति दुष्कृतम् ।
दर्भतूली नयेत्स्वर्गमातुरं तु न संशयः ॥२९॥
सर्वत्र वसुधा पुण्या लिप्ता निर्लंपजा ह्यपि ।
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मगाः ॥३०॥
अलिप्ते ह्यातुरं मुक्तं विशन्त्येते वियोनयः ।
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशन एव च ॥३१॥
मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ।
अन्यथा म्रियते यः संक्रीडते वायुना स तु ॥३२॥
मम देहसमुत्पन्नास्तिलाः लक्ष्मि! पवित्रकाः ।
असुरा दानवा दैत्या विद्रवन्ति तिलैः स्थितैः ॥३३॥
दर्भा रोमसमुत्पन्नास्तिलाः स्वेदादतो न्यसेत् ।
दर्भमूले स्थितो ब्रह्मा दर्भमध्ये तु केशवः ॥३४॥
दर्भाग्रे शंकरश्चास्ते त्रयो देवाः कुशे स्थिताः ।
विष्णुरेकादशी गंगा तुलसी विप्रधेनवः ॥३५॥
असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी ।
निवारयन्ति चैतानि दुर्गतिं प्राप्तमातुरम् ॥३६॥
विष्णुदेहसमुत्पन्नो यतो वै लवणो रसः ।
प्राणयाने तु लवणं देयं वै स्वर्गमार्गदम् ॥३७॥
दान वै तत्र दातव्यं तेन पुण्येन रक्ष्यते ।
तिलाँश्च गां क्षितिं हेम कार्पासं लवणं तथा ॥३८॥
सप्तधान्यं तथा लोहं ह्येकैकं पावयेत्तु तम ।
हेमदानात्सुखं स्वर्ग्यं भूमिदानान्नृपो भवेत् ॥३९॥
सप्तधान्यैस्तु धान्याप्तिस्तृप्ताश्च यमकिंकराः ।
लोहदानेन याम्यास्तु नागच्छन्ति मृतगृहे ॥४०॥
कुठारो मुशलं दण्डः खड्गश्च च्छुरिका तथा ।
पाशः कशा मुद्गरं च यमहस्तायुधानि वै ॥४१॥
कुरिणाः सार्वसूत्रापाः शूण्डा मर्कास्त्वनुर्वराः ।
शबलाः श्यामदूताश्च प्रीणिता लोहदानतः ॥४२॥
उद्धरेत्तु लोहदानं ह्यात्मानं पापसंचयात् ।
वैतरणीं तारयेद्वा स्वर्गं मोक्षं नयेद्धि गौः ॥४३॥
गवां सेवां महादेवो गोलोकोऽप्यकरोन्मुहुः ।
श्रौहरिस्तु गवां सेवां सर्वदा प्रकरोति वै ॥४४॥
गावः सर्वविधा लक्ष्मीः गोषु नित्यं वसाम्यहम् ।
हेमदानात्सूर्यलोकं चन्द्रस्याऽग्नेश्च वैभवम् ॥४५॥
दत्तं तु लवणं स्वर्गद्वारमुद्घाटयेत्तथा ।
तिलदानं तु मर्त्यस्य महापातकनाशनम् ॥४६॥
तदन्यानि च दानानि वस्तूपकरणानि च ।
दातव्यानि परेतस्य सुखमोक्षप्रपत्तये ॥४७॥
भूमिस्थं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम् ।
स्वस्थानाच्चलिते श्वासे दानमातुरमुच्यते ॥४८॥
तस्मिन् काले सुतो यस्तु सर्वदानानि दापयेत् ।
नारायण हरे कृष्ण श्रीपते कमलापते ॥४९॥
वासुदेव परब्रह्म स्वामिन् श्रीराम गोपते ।
इत्येवं भजनं कार्यं प्राणप्रयाणसंगतौ ॥५०॥
श्रीहरिः शरणं मम श्रीकृष्ण त्वं गतिर्मम ।
ॐ नमो भगवते वासुदेवायेति वा जपेत् ॥५१॥
दद्यादातुरसन्यासं मन्त्रं श्रीहरिरित्यपि ।
श्रीकृष्ण इत्यपि मन्त्रं लक्ष्मीनारायणेत्यपि॥ ॥५२॥
श्रीमन्नारायणेत्येव स्वामिन्नारायणेत्यपि ।
रामकृष्ण हरिकृष्ण राधाकृष्ण ओमित्यपि ॥५३॥
नृसिंह दत्तात्रेय श्रीशंभो विष्णो जपेत्यपि ।
जय गोविन्द गोपाल जय माधव इत्यपि ॥५४॥
विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः ।
जलं विष्णुः स्थलं विष्णुर्विष्णुर्भूर्वैष्णवः कुशः ॥५५॥
विष्णुर्विप्रस्तिला गावो हेम धान्यं तु वैष्णवम् ।
विष्णुर्दाता गृहीता च नेता प्रापयिताऽपि सः ॥५६॥
तमेव पूजयेन्नित्यमन्तकाले तु कीर्तयेत् ।
न तस्याऽसद्गतिः क्वापि प्रेतभावोऽपि नैव च ॥५७॥
येन सन्तस्त्वन्तकाले दृष्टा नताश्च सेविताः ।
प्रसादिताः स वै मोक्षं याति द्राक् नाऽत्र संशयः ॥५८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
मृतस्य यथायोग्यसूतकसपिण्डीकरणादितिलादिदानाऽऽतुरमन्त्रप्रदानादिप्रदर्शननामा त्रिसप्ततितमोऽध्यायः ॥७३॥
N/A
References : N/A
Last Updated : March 27, 2021
TOP