संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १२१

कृतयुगसन्तानः - अध्यायः १२१

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
ततो लक्ष्मि! महादेवः पार्वती प्राह शोभनम् ।
सप्राकारं तु गोलोकं मन्दिरादिस्थलान्वितम् ॥१॥
तस्य प्राकारविस्तारः कोटियोजनमुच्यते ।
चतुर्द्वारान्वितश्चैवाकाशविमानसंश्रितः ॥२॥
गोपसमूहरक्षाढ्यो द्वारपालसमन्वितः ।
प्रासादा रत्नखचिता बहुभोग्यार्थसंभृताः ॥३॥
कृष्णार्थकृतसर्वस्वपंचाशत्कोटिगोपिकाः ।
सन्ति वसन्ति तत्रत्यप्रासादेषु च ताः प्रियाः ॥४॥
तत्राश्रमाश्च भक्तानां गोपानां शतकोटयः ।
वृक्षवल्लीभोग्यजातप्रपूरितसुखप्रदाः ॥५॥
ततोऽप्यधिकविस्तारा रत्नमणिचमत्कृताः ।
आश्रमाः पार्षदानां च भवन्ति दशकोटयः ॥६॥
,सर्वसिद्धिप्रपूर्णाश्च न न्यूनं विद्यतेऽप्यणु ।
द्वादशहायनाः कन्याः कुमाराः षोडशाब्दिकाः ॥७॥
ततोऽपि पार्षदवराः श्रीकृष्णरूपधारिणः ।
प्रासादकृतवासास्ते वर्तन्ते कोटिशोऽपरे ॥८॥
नैतेषां श्रीकृष्णवासान्निवासे न्यूनताऽल्पिका ।
प्रासादादा राधिकाशुद्धभक्तगोपीजनैर्युताः ॥९॥
रत्नमणिस्वर्णकृता द्वात्रिंशत्कोटयोऽपरे ।
राधाभक्तप्रगोपीणां किंकरीणां तथा गृहाः ॥१०॥
भवनानि विचित्राणि सन्ति वै दशकोटयः ।
दिव्याः स्वर्णमया रत्नमणिहीरकनिर्मिताः ॥११॥
गोलोकान्तर्गताः सर्वे प्रासादाः सन्ति कामदाः ।
शतजन्मतपःपूता हरिभक्तिरताश्च ये ॥१२॥
कृष्णार्थकृतसर्वस्वा राधाकृष्णेतिजापकाः ।
यान्ति गोलोकधामैते प्राकारे प्रवसन्ति च ॥१३॥
तेषां निवासाः सद्रत्नमणिमाणिक्यनिर्मिताः ।
पुष्पशय्यापुष्पमालाश्वेतचामरशोभिताः ॥१४॥
रत्नदर्पणशोभाढ्या हरिन्मणिप्रशोभिताः ।
अमूल्यरत्नकलशव्रातप्रान्वितशेखराः ॥१५॥
अमोघवीर्यसंभृतदिव्यपुष्टशररिकाः ।
गोपगोपीगणा भक्ताः सूक्ष्मवस्त्रविभूषणाः ॥१६॥
विविधाऽमृतभोगाश्च वसन्ति कोटिकोटयः ।
ततो मध्ये महोद्याने रासेश्वर्याः परो महान् ॥१७॥
आश्रमो वर्तते व्यस्तो राधायाः स्मृतिसंभृतः ।
देवाधिदेव्या गोपीनां वरायाश्चारुनिर्मितः ॥१८॥
प्राणाधिकायाः कृष्णस्य रम्यद्रव्यमनोहरः ।
सुचारुवर्तुलाकारः षड्गव्यूतिप्रमाणकः ॥१९॥
शतमन्दिरसंयुक्तो ज्वलितो रत्नतेजसा ।
अमूल्यरत्नसाराणां चयैर्विरचितो वरः ॥२०॥
दुर्लंघ्याभिर्गभीराभिः परिखाभिः सुशोभितः ।
कल्पवृक्षैः परिवृताः पुष्पोद्यानशतान्तरः ॥२१॥
सुमूल्यरत्नखचितप्राकारेण सुवेष्टितः ।
सद्रत्नवेदिकागर्भसप्तद्वारैः सुशोभितः ॥२२॥
वर्तुलः सुमहाँस्तत्र तूद्यानो वर्ततेऽभितः ।
सर्वतस्तत्र तत्रापि वृक्षवल्लीसमन्वितः ॥२३॥
आन्तरोद्यानमध्येऽत्र प्राकारो वर्ततेऽपरः ।
सर्वतस्तत्र तत्रापि षोडशद्वारसंयुतः ॥२४॥
सहस्रधनुरूर्ध्वोत्थः कलशशृंगमण्डितः ।
तेजसा प्रज्वलन् रम्यो विमानशतमण्डितः ॥२५॥
प्राकारं परितस्तं च कृष्णप्रासादसदृशाः ।
गोपानां गोपिकानां च शतसौधमिताश्रमाः ॥२६॥
प्राकारान्तर्गतस्तत्रोद्यानो दिव्यफलान्वितः ।
दिव्यपुष्पान्वितश्चैव दिव्यवारिसुकुण्डकः ॥२७॥
दिव्यं सरोवरं रम्यं वर्तते तत्र दक्षिणे ।
तत्तीरे नृपसौधोऽस्ति यत्र नृत्यन्ति नर्तकाः ॥२०॥
सुतानं चारुसंगीतं राधाकृष्णगुणान्वितम् ।
गायन्ति गीतपीयूषं वादका गायकास्तथा ॥२९॥
नानावेषधरास्तत्र गोपिकाश्च मनोहराः ।
स्थाने स्थाने प्रदृश्यन्ते कृष्णप्रसादलालसाः ॥३०॥
काश्चिन्मृदंगहस्ताश्च काश्चिद्वीणाकरास्तथा ।
काश्चिच्चामरहस्ताश्च करतालकराः पराः ॥३१॥
काश्चिद् वादित्रहस्ताश्च काश्चिन्नूपुरशोभिताः ।
किंकिणीभूषणैः काश्चिच्छब्दयन्ति तु मण्डपम् ॥३२॥
काश्चित्कुंभान् गृहीत्वा तु करयोर्मस्तके तथा ।
पुंवेशनायिकास्तत्र नृत्यन्ति बहुवेधतः ॥३३॥
कुष्णवेशधराः काश्चिद् राधावेशधराः पराः ।
काश्चिद्दूरं स्थिताः काश्चित् कृष्णालिंगनतत्पराः ॥३४॥
क्रीडासक्ताश्च गोप्यस्ताः कृष्णं भजन्त इत्यपि ।
तत्पार्श्वे सरसस्तीरे सौधाः सन्ति वरा वराः ॥३५॥
राधासखीनां ते गेहा वर्तन्ते भव्यदर्शनाः ।
त्रयस्त्रिंशद्वयस्यास्ता राधायाः पूरयौवनाः ॥३६॥
रूपेणैव गुणेनैव वेषेण यौवनेन च ।
सौभाग्येनैव वयसा सदृश्यो राधया च ताः ॥३७॥
नामानि शृणु गिरिजे त्रयस्त्रिंशत्तु मुख्यतः ।
चन्द्रकला सुशीला च यमुना माधवी रतिः ॥३८॥
कदम्बमाला सुकुन्ती जाह्नवी च स्वयंप्रभा ।
पद्ममुखी च सावित्री गायत्री सुमुखी सुधा ॥३९॥
पद्मालया पारिजाता सुगौरी सर्वमंगला ।
कालिका कमला दुर्गा भारती च सरस्वती ॥४०॥
गंगाऽम्बिका मधुमती चम्पाऽपर्णा च सुन्दरी ।
कृष्णप्रिया ब्रह्मसती नन्दिनी नन्दना तथा ॥४१॥
एतासां तानि सौधानि कृष्णसौधसमानि हि ।
रत्नधातुभोग्यवस्तुस्वर्णकलशवन्ति वै ॥४२॥
यत्र यत्र कन्यकाश्च गोप्यः सख्यश्च गोपकाः ।
कृष्णार्थकृतसर्वस्वास्तत्र तत्र गृहे गृहे ॥४२॥
नैकरूपधरः कृष्णो वर्तते रमते तया ।
तया तया च प्रेयस्या तेन तेन च सर्वथा ॥४४॥
राधाकृष्णस्य सौधस्य ये प्राकारे तु षोडश ।
गोपुराः सन्ति तत्रादिर्गोपुरो मणिरत्नजः ॥४५॥
वेदिकायुग्मसंयुक्तो वज्ररत्नकपाटकः ।
वर्तते द्वारपस्तत्र वीरभानुः सुयौवनः ॥४६॥
रत्नसिंहासनस्थश्च रत्नभूषणभूषितः ।
पीताम्बरधरो रत्नमुकुटोज्ज्वलमस्तकः ॥४७॥
यस्याज्ञायां सार्धद्वयलक्षगोपा भवन्ति हि ।
द्वितीये गोपुरे तत्र ततोऽप्यधिकसुन्दरे ॥४८॥
द्वारपालश्चन्द्रभानुः किशोरः श्यामलोऽस्ति हि ।
स्वर्णवेत्रधरो रत्नसिंहासनसमस्थितः ॥४९॥
यस्याज्ञायां पंचलक्षगोपा वर्तन्त ईश्वराः ।
तृतीये गोपुरे तत्र ततोऽतिमणितैजसे ॥५०॥
द्वारपालः सूर्यभानुः किशोरो मुरलीधरः ।
रत्नदण्डकरः स्वर्णमणिकुण्डलराजितः ॥५१॥
यस्याज्ञायां नवलक्षगोपाः श्यामलसुन्दराः ।
चतुर्थे गोपुरे तेभ्यो विलक्षणविभूषिते ॥५२॥
वसुभानुर्द्वारपालः किशोरोऽस्ति व्रजेश्वरः ।
मणिदण्डधरो रत्नसिंहासनकृतासनः ॥५३॥
पक्वबिम्बाधरौष्ठश्च सर्वभूषाविभूषितः ।
यस्याज्ञायां नवलक्षगोपाः सन्ति मनोहराः ॥५४॥
पंचमे गोपुरे वज्रभित्तिचित्रप्रचित्रके ।
द्वारपालो देवभानुश्चारुसिंहासनस्थितः ॥५५॥
मयूरपिच्छचूडश्च रत्नमालासुकुण्डलः ।
यस्याज्ञायां दशलक्षगोपाः सन्ति व्यवस्थिताः ॥५६॥
षष्ठे तु गोपुरे वज्रभित्तिकपाटशोभिते ।
द्वारपालः शुक्रभानुः सर्वाभरणभूषितः ॥५७॥
यस्याज्ञायां दशलक्षगोपाः सन्ति व्यवस्थिताः ।
सप्तमे गोपुरे षड्भ्यश्चातिशोभे विलक्षणे ॥५८॥
द्वारपो रत्नभानुः श्रीहरेः प्रियतमो युवा ।
पुष्पचन्दनभूषाढ्यो सिंहासनस्थवेत्रधृक् ॥५९॥
यस्याज्ञायां तु वर्तन्ते गोपा द्वादशलक्षकाः ।
अष्टमे गोपुरे तेभ्यः सप्तभ्योऽपि विलक्षणे ॥६०॥
द्वारपालः सुपार्श्वोऽस्ति रत्नदण्डसुभूषणः ।
रत्नकुण्डलशोभाढ्यो बन्धुजीवाऽधरौष्ठकः ॥६१॥
यस्याज्ञायां सदा सन्ति गोपा द्वादशलक्षकाः ।
नवमे गोपुरे वज्ररत्नाढ्ये चित्रमालके ॥६२॥
दौवारिकः सुबलोऽस्ति ललिताकृतिभूषणः ।
यस्याज्ञायां तथा सन्ति गोपा द्वादशलक्षकाः ॥६३॥
दशमे गोपुरे रम्येऽनिर्वाच्यवर्णने परे ।
द्वारपस्तु सुदामाऽस्ति कृष्णतुल्यमनोहरः ॥६४॥
दण्डहस्तो यदाज्ञायां गोपा विंशतिलक्षकाः ।
एकादशे गोपुरे सुचित्ररम्ये तथाद्भुते ॥६५॥
द्वारपालः श्रीदामाऽस्ति रत्नसिंहासनस्थितः ।
पीतवस्त्रधरोऽमूल्यभूषाचन्दनशोभितः ॥६६॥
कुण्डलकटकपुष्पमालामुकुटसूज्ज्वलः ।
यस्याज्ञायां कोटिगोपास्तेन राजेन्द्रसदृशः ॥६७॥
द्वादशे गोपुरेऽमूल्यरत्नवेदिचतुष्टये ।
विचित्रचित्रसद्वज्रभित्तिचित्रमनोहरे ॥६८॥
द्वारपास्तत्र गोप्यो वै सन्त्याभरणभूषिताः ।
नवयौवनसम्पन्नाः कबरीभारभूषिताः ॥६९॥
पीतरक्ताद्यम्बरास्ताः सुगन्धिपुष्पधम्मिलाः ।
रत्नस्वर्णमणिभूषाभूषिताः स्वर्णकंकणाः ॥७०॥
केयूरनूपुरकुण्डल्याग्र्यशोभितविग्रहाः ।
पीनश्रोणीभरानम्रा नितम्बभारमन्थराः ॥७१॥
शतगोप्यो हरेः प्रेष्ठाः श्रेष्ठास्तिष्ठन्ति गोपुरे ।
तासां तु सेविकाः कोटिगोप्यः सन्ति हरिप्रियाः ॥७२॥
त्रयोदशे चतुर्दशे पंचदशे च गोपुरे ।
गोप्यस्तु द्वारपाः सन्ति प्रोद्भिन्ननवयौवनाः ॥७३॥
श्रेष्ठा मनोहरा रम्या वरा धन्याः सुशोभनाः ।
राधाप्रियाः सुभूषाढ्याः कृष्णसौभाग्यमंगलाः ॥७४॥
कोट्यब्जगोपिकास्तासामाज्ञाकर्यो भवन्ति हि ।
षोडशे गोपुरे मुख्यास्त्रयस्त्रिंशत्तु गोपिकाः ॥७५॥
सन्ति तु द्वारपास्तासां रूपं वक्तुं न शक्यते ।
न पार्वती न वै लक्ष्मीर्नोर्वशी राधिका किमु ॥७६॥
तादृश्यस्ता रत्नभूषाभूषिता दृढयौवनाः ।
रत्नकंकणकेयूरस्वर्णनूपुरभूषिताः ॥७७॥
सकिंकिणीरशनाभिर्मध्यदेशे सुभूषिताः ।
रत्नकुण्डलतेजोभिर्गण्डस्थलसमुज्ज्वलाः ॥७८॥
प्रफुल्लमालतीमालामणिहारादिशोभिताः ।
शरत्पार्वणचन्द्रार्हमुखमण्डलमण्डिताः ॥७९॥
पारिजातप्रसूनादिमालाहारलसत्स्तनाः ।
पक्वबिम्बाधरौष्ठ्यश्च स्मेराननसरोरुहाः ॥८०॥
पक्वदाडिमबीजाग्र्यकुन्ददन्तसुपंक्तयः ।
स्वर्णचम्पकसद्वर्णास्तनूदर्यः कटिकृशाः ॥८१॥
गजमौक्तिकसंसक्तस्वर्णवालिकनासिकाः ।
शुकचञ्चुनिम्ननासाः कठिनस्तनबन्धनाः ॥८२॥
-पीनश्रोणीभराः कृष्णचरणासक्तमानसाः ।
स्वर्णताराञ्चितदीर्घपटकपाटतोरणे ॥८३॥
गोपुरे वेदिकायुक्ते तास्तिष्ठन्ति हरिप्रियाः ।
गोपुरान्तःस्थलं सर्वं मणिरत्नादिभूषितम् ॥८४॥
हरित्सिन्दूरमणिभिर्भित्तिद्वयविराजितम् ।
पारिजातप्रसूनानां मालाभिश्च सुवासितम् ॥८५॥
तदन्तस्तत्र पुष्पाणामुद्यानो वर्तते महान् ।
तत्र राधामहासौधः कृष्णमन्दिरमेव सः ॥८६॥
मन्दिराणां च मध्यस्थः शतशालो मनोहरः ।
विमानैः सप्तकैः काम्यैः शालासु गम्यते तु सः ॥८७॥
केवलैः रत्नसारैश्च रचितो दिव्य एव सः ।
नानारत्नमणिस्तम्भैर्वज्रयुक्तैश्च भूषितः ॥८८॥
पारिजातप्रसूनानां मालाजालैश्च राजितः ।
मुक्तामाणिक्यहीरककृतभित्तिमनोहरः ॥८९॥
श्वेतचामरदर्पणव्यजनैः कलशैर्युतः ।
पट्टसूत्रग्रन्थियुक्तश्रीखण्डपल्लवान्वितः ॥९०॥
मणिस्तंभसमूहैश्च रम्यप्रांगणभूषितः॥
चन्दनागुरुकस्तूरीकुंकुमद्रवसंयुतः ॥९१॥
शुष्कधान्यशुक्लपुष्पप्रवालफलतण्डुलैः ।
पर्णदुर्वाऽक्षतलाजाकुंभहारविराजितः ॥९२॥
विविधगन्धसंसक्तपवनैः सुरभीकृतः ।
अदृष्टाऽश्रुतमग्र्यं यद् ब्रह्माण्डे दुर्लभं च यत् ॥९३॥
तत्तद्वस्तुशोभितश्च प्रासादो राधिकाकृते ।
रत्नमंचाः सुललिताः सूक्ष्मवस्त्रपरिच्छदाः ॥९४॥
कोटिशो रत्नकुभाश्च रत्नपात्राणि सन्ति वै ।
अमूल्यचारुविविधतत्तद्वस्तुविभूषितः ॥९५॥
नानाप्रकारवाद्यानां मिष्टनादैर्निनादितः ।
स्वरयन्त्रैश्च वीणाभिर्गोपीसंगितसुश्रुतः ॥९६॥
मोहनो वाद्यशब्दैश्च गायिकागीतिभिस्तथा ।
गोपानां कृष्णतुल्यानां समूहैः परिवारितः ॥९७॥
राधासखीनां गोपीनां बहुवृन्दैर्विराजितः ।
राधाकृष्णगुणोद्रेकपदसंगीतसुश्रुतः ॥९८॥
श्रूयते मधुरं गीतं दृश्यते नृत्यमुत्तमम् ।
आप्यते परमानन्दः कृष्णलीलारसोऽद्रिजे! ॥९९॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोलोकप्राकारप्रासादोद्यानान्तःपुरप्राकारप्रासादोद्यानषोडशगोपुरद्वारपालादिवर्णननामैकविंशत्यधिक-
शततमोऽध्यायः ॥१२१॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP