संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १३५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३५ Translation - भाषांतर श्रीनारायण उवाच-शृणु देवि महालक्ष्मि! हिरण्यकशिपुः स्वकम् ।भ्रातरं निहतं श्रुत्वा पर्यतप्यद्रुषा ज्वलन् ॥१॥उवाच दशनैरोष्ठं दशन् चाऽस्फोटयन्नुरू ।नेत्रे च चूर्णयन् रक्ते क्रोधाग्निज्वालितेऽ श्वसन् ॥२॥गर्जयन् विवरं भौमं निरीक्षन् धूम्रमम्बरम् ।विकरालो महाक्रूरः कम्पयँश्च पदा महीम् ॥३॥दुष्प्रेक्ष्यभूनेत्रकुटिः स्वेदबिन्दुललाटकः ।प्रालेयमेघवद्व्यग्रो ह्युद्गच्छद्रोषवारिधिः ॥४॥खङ्ग दीर्घं करे धृत्वा समुत्थाय तदासनात् ।आक्रौशन्मेघवच्छीघ्रं खङ्गमुत्तोल्य चाम्बरे ॥५॥सम्बोधयन्दैत्यसभां पृथ्वीं निर्वीर्यशोभनाम् ।मन्यते यदि वै कश्चित् स घासग्रासमत्ति वै ॥६॥निर्वीर्या नहि दैतेया न भूर्निवीर्यधारिणी ।निर्वीर्यास्तु श्वसन्तोऽपि मृता एव विना मृतिम् ॥७॥न गणये महाविष्णुं महाविष्णोः पितामहम्।तर्हि को नाम विष्णुर्वै पशुरूपेण सञ्चरन् ॥८॥यदि विष्णुः स्वमनसि जानाति बलगर्वितः ।दैत्यमूर्धन्यहन्ताऽह तदाऽत्ति घासमेव सः ॥९॥न दैत्या वै मृताः सर्वे येन विष्णुः सुखी भवेत् ।सति दैत्ये सुखी स्यात् चेद्दैत्योऽत्ति घासमेव सः ॥१०॥सति विष्णौ न वै दैत्यः सति दैत्ये न माधवः ।विष्णुर्जीवेन्म्रियेद्दैत्यो दैत्यो जीवेन्म्रियेद्धरिः ॥११॥न द्वयोर्जीवतोः पृथ्व्या राज्यं तु स्यादकण्टकम् ।बलेन यदि वा स्मृद्ध्या वाहनेन च हेतिभिः ॥१२॥सैन्येन विद्ययाऽस्त्रैश्च मन्त्रेण न्यूनताऽस्ति चेत् ।करिष्ये सुतपो घोरं येन विष्णुरभूद्धरिः ॥१३॥अहं ततोऽप्यधिकं वै करिष्ये तप उल्बणम् ।तादृशान्कोटिविष्णून् वै ग्रसिष्ये कवलेन यत् ॥१४॥महाकालमपिग्रासं करिष्ये कोऽयमेडकः ।मेषोऽस्ति मम साम्येऽयं विष्णुर्वैष्णवपूजितः ॥१५॥दूरं दैत्यकुलाद्याति चान्तर्याति जलालयम् ।तस्माद्दैत्या भवन्त्येव सुसज्जाः शस्त्रपाणयः ॥१६॥अपचितिं करिष्यामो मम भ्रातुर्महात्मनः ।मद्धेतिभिन्नदेहस्य भूरिणा रुधिरेण वै ॥१७॥रक्तप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ।भो नमुचे शतबाहो द्विमूर्धस्त्र्यक्ष शम्बर! ॥१८॥भो शतारे सहस्रारे भो पुलोमन् समिल्वल ।भो प्रमेद्य महाधूम्र भो देवारे गजासुर ॥१९॥रे भो शकुन काकाक्षे शृणुताऽनन्तरं मम ।यूयं यात भुवं सर्वे विप्रक्षत्रादिरूपतः ॥२०॥सूदयध्वं तपोयज्ञकारिणो ब्राह्मणान्मुहुः ।विष्णोर्बलं ब्राह्मणैर्वै यज्ञैः संवर्धितं सदा ॥२१॥यज्ञैर्देवाः सदा पुष्टिं यान्ति स्वर्गनिवासिनः ।पितरश्चापि यज्ञेन तृप्ता भवन्ति सर्वदा ॥२२॥मुनयः ऋषयश्चापि विष्णुर्वैकुण्ठवासिनः ।सर्वेऽपि यज्ञभागैर्वै पुष्टिं यान्ति मुहुर्मुहुः ॥२३॥यज्ञेनेन्द्रः प्रवर्षति मेघाश्च वृष्टिसन्मुखाः ।ब्राह्मणा दक्षिणापूर्णा यज्ञो मूलं हि जीवने ॥२४॥ब्राह्मणानां विनाशेन यज्ञा नष्टा भवन्ति वै ।यज्ञनाशे कुतो वृष्टिर्देवानां जीवनं कुतः ॥२५॥विप्रयज्ञसुराणां च विनाशे सुखिनो वयम् ।एवं तपःप्रभावेण समेधिता महर्षयः ॥२६॥तस्मान्नारीः सह नीत्वा कुर्वन्तु तपसां क्षयम् ।रूपान्तराणि कार्याणि साध्यन्ते ह्यनुरूपकैः ॥२७॥तस्माद् भवन्तु ब्राह्मण्यो दैत्यपत्न्यः स्थले स्थले ।दैत्या भवन्तु विप्राश्च मुनीनां सेवकास्तथा ॥२८॥ऊटजानि महारण्ये रचयित्वा वसन्तु वै ।मृषाग्निहोत्रकर्तारो मृषायज्ञप्रदर्शकाः ॥२९॥मृषाधर्मप्रदेष्टारो भवन्तु वनवासिनः ।मृषा ब्राह्मणधर्मेण तेष्वाविश्य च छद्मना ॥३०॥मारयन्तु भक्षयन्तु नाशयन्तु यथाक्षणम् ।यत्र यत्र द्विजा यज्ञा गावो धर्माश्च सत्क्रियाः ॥३१॥तत्र तत्र यात यूयं सन्दीपयत वृश्चत ।प्रतिज्ञां प्रकुरुताऽत्र सदस्युद्धृतहेतयः ॥३२॥सर्वैदैत्यैर्मिलित्वैव ह्येकीभूय च सर्वदा ।ब्राह्मणानां क्रतूनां च नाशः कार्यः सदैव हि ॥३२॥अत्र ये संगता न स्युस्ते ज्ञेयाः सुरवर्धकाः ।हन्तव्यास्ते दैत्ययूथैरन्यथा मातृघातकाः ॥३४॥इत्याश्रुत्य हिरण्याद्यकशिपोर्विजयोऽस्तु वै ।उच्चार्यैवं च दैत्यास्ते सशस्त्रोद्धृतपाणयः ॥३२॥चक्रुः प्रतिज्ञां तद्वाक्याद् याता देशान्तरं भवि ।विप्राणां कदनं चक्रुः प्रदेहुः पत्तनानि च ॥३६॥बिभिदुर्नगराण्यन्ये प्रादहन् शरणार्थिनः ।बभञ्जुर्यज्ञविस्तारान्कदनं चक्रिरे महत् ॥३७॥तदा देवाश्च विप्राश्च पृथ्व्यां चेरुरलक्षिताः ।तदा लक्ष्मि! महादैत्यो हिरण्यकशिपुः स्वकान् ॥३८॥उपदिश्यैव चैकाकी जगाम मन्दराचलम् ।भोगान्सर्वान्परित्यज्यैकाकी च निर्जने वने ॥३९॥तपस्तेपे महाघोरं दिव्यवर्षसहस्रकम् ।वायुभक्षो निराहारः पादांगुष्ठोपरि स्थितः ॥४०॥रुद्रोपरि महादैत्यो रुद्राय नम' ईरयन् ।पूर्णे वर्षसहस्रे तु मूर्ध्नस्तस्य महात्मनः ॥४१॥धूमः समुद्भवन् घोरो व्योम्न्युत्थितो व्यवर्धयत् ।आब्रह्मभवनं व्याप्तो महातेजोऽतितापनः ॥४२॥यथाग्नेर्वा रवेर्वापि ज्वालामालान्वितो भवेत् ।दावानलोऽथवा किं वा वाडवानल एव वा ॥४३॥तथाऽनलो धूम्रवर्णो ह्युत्थितो व्योमपारगः ।तेनाऽग्निना समन्ताद्वै जज्वलुश्च दिशो दश ॥४४॥तेन तप्ताः स्वर्गदेवा ब्रह्मलोकं ययुस्तदा ।ब्रह्मणे ज्ञापयामासुस्तपो दैत्यस्य दुःसहम् ॥४५॥तदुत्थवह्निशमनं विधेहि त्वरितं प्रभो ।अन्यथा स महादैत्यो वैराजपदमिच्छति ॥४६॥ब्रह्मविष्णुमहेशास्तु तृणयन्ते तदग्रतः ।इतिसंकल्पबलिना तपसा जेतुमिच्छति ॥४७॥विनाशयित्वा देवादीन् विधास्ये सुनवां सृजिम् ।दैत्यरूपां स्वानुकूलां दैत्यमयीं स्वतेजसा ॥४८॥महाकालं वशीकृत्य चाऽपुनर्मारकां सृजे ।किं कालकवलापन्नान्वृथा विष्णुपदादिभिः ॥४९॥इतिनिर्बन्धमास्थाय करोति दुश्चरं तपः ।तद्विधत्स्व यथान्यायं त्राहि शीघ्रं सुरादिकान् ॥५०॥देवान्नीत्वा सह ब्रह्मा रुद्रं प्रति गतस्ततः ।श्रावयामास रुद्राय नीत्वा च सह शंकरम् ॥५१॥जग्मुः सर्वे मन्दरस्य द्रोण्यां यत्र स दैत्यराट् ।आकाशात्परितो दृष्टं स्थलं क्वास्ते महासुरः ॥५२॥न स्पष्टो दृश्यते क्वापि बहुधा मार्गितोऽपि सः ।तथापि निर्जने शुष्केऽरण्ये वल्मिकमस्तकात् ॥५३॥ज्वालामालासमुच्छ्रायो घट्टधूम्रोर्ध्वमिश्रितः ।सर्वैर्दृष्टस्तर्कितश्च दैत्यराजोऽत्र संभवेत् ॥५४॥यावत् त्ववतरन्तीमे ज्वालामालिप्रदेशके ।तत्र दृष्टो महान्भूमेरुच्छ्रायो मृन्मयोत्थितः ॥५५॥पिपीलिकाभिराचीर्णो वृक्षाग्र्यतृणकीचकैः ।व्याप्तः शुष्कैर्महास्तम्बैः सुशृंगैरिव पर्वतः ॥५६॥विविधैः स्वल्पशृंगाढ्यैर्वल्मीकैः परिगोपितः ।प्रच्छन्नः शुष्कमांसास्रगस्थिलम्बितजीवनः ॥५७॥तत्र समाधिना दृष्टो ब्रह्मणा परमेष्ठिना ।ब्रह्माऽप्याश्चर्यमग्नोऽभूदन्ये तु कम्पितास्तदा ॥५८॥अहो तपःपराकाष्ठेत्यूचुर्विगलितान्तराः ।प्राह वेधाः प्रहसन् वै प्रपौत्रं काश्यपं तदा ॥५९॥उत्तिष्ठ पुत्र प्रोत्तिष्ठ तपःसिद्धिरभूत् तव ।अयं रुद्रो महादेवो वरदानाय चागतः ॥६०॥कश्यपस्तव जनकस्तस्यापि जनकस्तथा ।मरिचिरप्यागतोऽस्ति तस्य भ्रातर उत्तमाः ॥६१॥समायातास्तव कृते प्रसन्नास्तपसा तव ।वरप्रदा इमे प्राप्ता वृणु त्वं यदभीप्सितम् ॥६२॥पश्यामस्ते चात्मबलं तपऔग्र्यं ततोऽपि च ।न कृतं न करिष्यन्तीदृशं चान्ये मदन्तरे ॥६३॥निर्जलं चाऽस्थिसंघाते प्राणान् वर्षाणि वै शतम् ।कोऽन्यस्तु धारयेदेवं यथेप्सितं वरं वृणु ॥६४॥पुन पुनर्बोध्यमानो बहिर्नायात्स वै यदा ।देहोऽस्य पृथ्व्या संलीनश्चात्मा लीनस्तु शंकरे ॥६५॥कः शृणोति को जागर्ति शवकल्पसमाधिगः ।शुष्ककाष्ठकठोरास्थिसंधयः काष्ठतां गताः ॥६६॥पाषाणकल्पो दैत्येन्द्रो यदा न कम्पते मनाक् ।तदा तु ब्रह्मणा स्वस्य कमण्डलुजलं शुभम् ॥६७॥करे निधाय मन्त्रैश्च सजीवनविधायकैः ।अभिमन्त्र्य प्रोक्षितस्तद्वल्मीके तावदेव सः ॥६८॥युवा सूर्यसमो रूपे सुपुष्टो दिवि देववत्॥वज्रतुल्यशरीरांगः स्वर्णवर्णः समुत्थितः ॥६९॥विधूय शरीराद् वृक्षस्तम्बपिपीलिकामृदः ।दृष्ट्वा देवान् ब्रह्मरुद्रकश्यपादीन् ननाम च ॥७०॥प्रहर्षितश्चकारैषामातिथ्यमश्रुचक्षुषा ।रुद्रः प्राह तदा दैत्यं किं ते मनसि रोचते ॥७१॥यदर्थं तप आतिष्ठो वृणु वरान्ददाम्यहम् ।श्रुत्वा दृष्ट्वा च वरदं नत्वा गद्गदया गिरा ॥७२॥नमः सर्वाधिभूताय सर्वान्तर्यामिणे नमः ।तपःफलप्रदात्रे ते ब्रह्मणे शंभवे नमः ॥७३॥नमोऽस्तु जनकायाऽत्रभवते कश्यपाय च ।नमो मरीचये तद्वत् सर्वर्षिभ्यो नमोनमः ॥७४॥सर्वे शुभप्रदातारो भवन्तु मम सर्वदा ।यदि देया वरा मह्यं पात्रं चाहं मतोऽस्मि वः ॥७९॥सुराऽसुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।पशुपक्षिमृगाणां च सिद्धानां च महात्मनाम् ॥७६॥यक्षविद्याधराणां चोद्भिज्जानां किन्नरात्मनाम् ।किंपुंसां सर्वरोगाणां मन्त्र्यायुधास्त्रयन्त्रिणाम् ॥७७॥सर्वेषां दत्तशापानामवध्यत्वं च मे भवेत् ।नाऽन्तर्बहिर्न दिवसे न रात्रौ चिज्जडैर्न च ॥७८॥न पृथ्व्यां नाऽम्बरे मृत्युर्मम स्यादजसृष्टितः ।युद्धे चाऽप्रतिद्वन्द्वत्वमेकपत्यं च देहिनाम् ॥७९॥सर्वेषां लोकपालानामीश्वरत्वमखण्डितम् ।तपोयोगप्रभावाणामविनाशो ममास्त्विति ॥८०॥इत्येते तु वराः स्वेष्टा दीयन्तां पितृभिश्च मे ।ब्रह्माज्ञया तदा रुद्रः प्राह शिष्यं तपस्विनम् ॥८१॥शिष्य चैते वराः जन्मवतां तु दुर्लभाः सदा ।तथापि वितरामोऽद्य कः सृष्टौ शाश्वतो जनः ॥८२॥इति दत्त्वा वरान् रुद्रब्रह्माद्याः केतनं ययुः ।हिरण्यकशिपुश्चापि निववृते तपःस्थलात् ॥८३॥इतिश्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने हिरण्यकशिपुः सक्रोधो विप्रयज्ञादिनाशार्थं दैत्यानुत्तेजयन्मन्दराचले तपोऽर्थं जगाम, रुद्रब्रह्मादिभिः समागत्य तस्मै वेधसः सृष्ट्याऽमरत्वं वितरितमितिवर्णननामा पंचत्रिंशदधिकशततमोऽध्यायः ॥१३५॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP