संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४६६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४६६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४६६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! धर्मपत्न्याः पातिव्रत्यपरायणाम् ।कथां काशीपंचगंगातीर्थकरीं सुपावनीम् ॥१॥काश्यां पञ्चनदं तीर्थमध्यास भगवान् स्वयम् ।भुर्भुवःस्वःप्रदेशेषु तीर्थं पञ्चनदं परम् ॥२॥स्थितः कृष्णः स्वयं तत्र तीर्थे पञ्चनदे परे ।पुरा वेदशिरा नाम महासंयमतापसः ॥३॥भृगुवंशमुनिरासीत् तपस्यानिरतः सदा ।युवानं तं समालोक्य शुचिनाम्न्यप्सरोवरा ॥४॥चकमे तेन ऋषिणा स्खलितं सा पपौ शुचिः ।शुचिं वेदशिराः प्राह धार्मिकं दोषवर्जितम् ॥५॥शृणु साध्वि! यौवनस्य विकृतिः सर्वदेहिषु ।जायते सा न दोषाय कामवर्जितदेहिनः ॥६॥स्वाभाविकं निर्मनस्त्वं धातूनां स्खलनं सति ।तपोभंगाय नैवाऽस्ति स्नानेन शुद्धिरिष्यते ॥७॥किन्तु ते मनसि त्वस्ति भावना बीजलब्धये ।तेन धातुः स्रवितो मे विना मैथुनसंचरात् ॥८॥तस्माद् धारय गर्भे त्व यं त्वं पीतवती प्रिये ।देवपत्नी यथेष्टं वै कर्तुं शक्नोति सर्वथा ॥९॥अमोघबीजा मुनयो मम बीजात्तव प्रिये ।कन्यारत्नं वैष्णवाग्र्यं भविष्यति पतिव्रतम् ॥१०॥इत्युक्ता साऽऽश्रमे तस्य तस्थौ प्रसववाञ्छया ।अथ कालेन दिव्यस्त्रीकन्यारत्नमजीजनत् ॥११॥अतीव भासुरं नेत्रानन्ददं रूपशेवधिम् ।दत्वा पुत्रीं ययौ स्वर्गं शुचिनाम्न्यप्सरोवरा ॥१२॥तां तु वेदशिरा कन्यां स्नेहेन समवर्धयत् ।हरिण्याः स्वाश्रमस्थायाः स्तन्येन पयसा मुनिः ॥१३॥मुनिर्नाम ददौ तस्या धूतपापेति सार्थकम् ।दशवर्षोत्तरां कन्यां दृष्ट्वा पप्रच्छ तां मुनिः ॥१४॥कस्मै दद्यां वराय त्वां त्वमेवास्याहि ये शुभे ।श्रुत्वा पितुः शुभं वाक्यं प्रोवाच भक्तिमानसा ॥१५॥सर्वेभ्योऽतिपवित्रो यो यः सर्वेषां नमस्कृतः ।सर्वे यमभिलष्यन्ति यस्मात् सर्वसुखोदयः ॥१६॥कदाचिद्यो न नश्येद्वै यः सदैवानुवर्तते ।इहामुत्रापि यो रक्षेन्महापद्भ्यः स्वरूपवान् ॥१७॥सर्वे मनोरथा यस्मात् प्रपूर्णाः संभवन्ति मे ।दिने दिनेऽतिसौभाग्यं वर्धते यस्य सेवया ॥१८॥नैरन्तर्येण यत्पार्श्वे भय कस्यापि नैव मे ।यन्नामग्रहणाच्चापि बाधा लीयन्त उत्कटाः ॥१९॥यदाधारेण तिष्ठन्ति ब्रह्माण्डान्यपि सृष्टिषु ।एवमाद्या गुणा यत्र तस्मै मां देहि शर्मणे ॥२०॥एतच्छ्रुत्वा मुनिश्चातिप्रसन्नो मुदमाप ह ।धन्योऽस्मि यद्गृहे पुत्री धार्मिकी कुलतारिणी ॥२१॥धूतपापा सार्थनाम्नी धन्येयं ज्ञानशेवधिः ।अनया वर्णितः कोऽत्र भवेद्वै सद्गुणोदयः ॥२२॥वरं तं धर्मदेवाख्यं मन्ये तस्मै ददामि ताम् ।परं स सुखलभ्यो न सर्वसद्गुणमण्डनः ॥२३॥तपःपणेन स क्रय्यो बहुपुण्येन वा क्वचित् ।विचार्येत्थं सुतां प्राह कन्ये वरोऽस्ति तादृशः ॥२४॥नार्थभारैः स सुलभो न कौलीन्येन कन्यके ।न चैश्वर्यबलेनापि न बुद्ध्या न पराक्रमैः ॥२५॥मनःशुद्ध्येन्द्रियशुद्ध्या तपसा दमनेन च ।लभ्यते स महाप्राज्ञो नान्यथा सदृशः पतिः ॥२६॥इतिपितृवचः श्रुत्वा पितरं प्रणिपत्य च ।अनुज्ञां तु पितुर्लब्ध्वा तेपे तपः सुदारुणम् ॥२७॥कठोरं वर्ष्म संसाध्य वर्षाधारासु सा स्थिता ।शिलासु हिमवातेषु न चकम्पे मनागपि ॥२८॥पञ्चाग्नीन् परिधायाऽपि तपस्यति तपोवने ।जलाभिलाषिणी बाला जलं नैवाऽपिबत् तदा ॥२९॥अपास्तभोगसंपर्का वाय्वाहाराऽभवत् सती ।कृशाऽतितपसा क्षामा दिदीपे तत्तनुस्तराम् ॥३०॥ब्रह्मा त्वागत्य तामाह प्रसन्नोऽस्मि वरं वृणु ।धूतपापा नमस्कृत्योवाच श्रीपरमेष्ठिनम् ॥३१॥पितामह पवित्रेभ्यः कुरु मामतिपावनीम् ।तुष्टो ब्रह्मा च तामाह संपवित्राणि यानि वै ॥३२॥तेभ्योऽधिकं सुपावित्र्यमेधिमद्वरदानतः ।तिस्रः कोट्योऽर्धकोटि च सन्ति तीर्थानि कन्यके ॥३३॥अष्टषष्टिप्रधानानि श्रेष्ठानि तेषु सन्ति च ।तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै ॥३४॥वसन्तु मम वाक्येन भव सर्वातिपावनी ।कल्पान्तरे तु मूर्तिस्त्वं भविष्यसि न संशयः ॥३५६॥धर्मदेवप्रिया पत्नी हरेर्माता तु दक्षजा ।इत्युक्त्वाऽन्तर्दधे ब्रह्मा ययौ सापि पितुर्गृहम् ॥३६॥ज्ञात्वा वेदशिरा सर्वं तुतोष तपसा मुहुः ।सापि नित्यं धर्ममूर्तिं संविधाय चतुर्भुजाम् ॥३७॥षोडशवस्तुभिर्दिव्यां प्रातर्नित्यमपूजयत् ।पातिव्रत्येन धर्मेण सर्वं वृषाय चार्पयत् ॥३८॥स्वप्ने धर्मं धूतपापा ददर्श नित्यमेव सा ।कदाचिद् धर्मदेवः सः साक्षादागत्य तं मुनिम् ॥३९॥ययाचे कन्यकां योग्यां मुनिस्तस्मै ददौ ततः ।कन्या चन्द्रसमा कान्तिमती धर्मं प्रसेवते ॥४०॥अथ तत्र महाक्षेत्रे धूतपापा महासती ।अदृश्येन स्वरूपेण धर्मगृहे विराजते ॥४१॥द्वितीयेन स्वरूपेण चन्द्रकान्तमणिः स्वयम् ।भूत्वा जले तु गंगाया राजते सा तपस्विनी ॥४२॥धर्मदेवोऽपि तु धर्मनदो भूत्वा जलान्तरे ।चन्द्रकान्तशिलायुक्तो राजते वै दिवानिशम् ॥४३॥धर्मस्य मन्दिरे दिव्यस्वरूपेणापि राजते ।एवं काश्यां तु गंगायां धर्मो धर्मनदोऽभवत् ॥४४॥धूतपापाऽभवत् स्वल्पा नदी चापि नदान्विता ।अथ सूर्यः समागत्य तप उग्रं चचार ह ॥४५॥किरणेभ्यः प्रववृते महास्वेदजसन्ततिः ।ततः सा किरणा नाम नदी जाताऽतिपावनी ॥४६॥अथ तत्र समायाता सरस्वती महासती ।यमुना गंगया युक्ता तत्र तिष्ठति पावनी ॥४७॥किरणा धूतपापा च यमी गंगा सरस्वती ।पञ्चनद्यो महासत्यो नदो धर्मनदाह्वयः ॥४८॥मिलिताः सर्व एवैतास्तीर्थं पञ्चनदात्मकम् ।पञ्चगंगेतिनाम्ना वै प्रसिद्धं सर्वथाऽभवत् ॥४९॥तत्र स्नात्वा जलं पीत्वा मुच्यते सर्वबन्धनात् ।दत्वा पञ्चनदे दानं कृत्वा वै पितृतर्पणम् ॥५०॥बिन्दुमाधवमभ्यर्च्य न भूयो जन्मभाग् भवेत् ।पञ्चकूर्चेन पीतेन या तु शुद्धिरुदाहृता ॥५१॥सा शुद्धिः श्रद्धया प्राश्य बिन्दुं पाञ्चनदाम्भसः ।पुरा धर्मनदं नाम ततश्च धूतपापकम् ॥५२॥ततो वै बिन्दुतीर्थं तत् ततः पञ्चनदाह्वयम् ।गोभूतिलहिरण्याऽश्ववासोऽन्नस्रग्विभूषणम् ॥५३॥यत्किंचिद् बिन्दुतीर्थेऽत्र दत्त्वाऽक्षयमवाप्नुयात् ।तत्राऽऽगत्य वह्निबिन्दुस्तपस्तेपेऽतिदारुणम् ॥५४॥कृष्णनारायणः साक्षादागत्याह वरं वृणु ।अग्निबिन्दुर्हरिं प्राह वसाऽत्र मम सन्निधौ ॥५५॥तथाऽस्त्विति हरिः प्राह निवासं चाऽकरोन्मुदा ।बिन्दुमाधवसंज्ञोऽहं वसामि तत्र पद्मजे ॥५६॥धर्मदेवगृहे पुत्रो बिन्दुमाधवसंज्ञकः ।नित्यं वसामि दिव्योऽहं धूतपापासुपुत्रकः ॥५७॥धूतपापा जननी मे पिता धर्मो मम प्रिये ।अहं माधवरूपश्च वसामो बिन्दुतीर्थके ॥५८॥वसुस्वरूपिणी लक्ष्मीलक्ष्मीर्निर्वाणसंज्ञिका ।धर्मपार्श्वे स्थिता सा मे हृदि पञ्चनदेऽप्यहम् ॥५९॥व्रतैः संशोधिते देहे धर्मो वसति नित्यशः ।कृष्णश्चापि धूतपापा श्रीश्च वसन्ति सर्वथा ॥६०॥अर्थकामौ सनिर्वाणौ तत्र वसतः सर्वदा ।आदिमाधवनामाऽहं ततश्चानन्तमाधवः ॥६१॥श्रीदमाधवसंज्ञोऽपि ततो वै बिन्दुमाधवः ।एवं नामभिः सर्वेशः स्थास्याम्यानन्दकानने ॥६२॥मम माता धर्मपत्नी धूतपापा पतिव्रता ।श्रीधर्मं सेवते नित्यं पातिव्रत्यपरायणा ॥६३॥पञ्चनदे महापुण्ये दिव्ये श्रीधर्ममन्दिरे ।नरा नार्यश्च तत्क्षेत्रे स्नात्वा कृत्वा वृषार्चनम् ॥६४॥धूतपापार्चनं कृत्वा माधवस्य ममार्चनम् ।धर्मप्रतिज्ञां कृत्वा च चातुर्मास्यव्रतादिकम् ॥६५॥कृत्वा कार्तिकदानादि व्रती मोक्षमवाप्नुयात्॥धर्मपत्न्यस्तथा तत्र वसन्ति धर्मसेवने ॥६६॥द्वितीयेन स्वरूपेण सर्वा विश्वस्य मातरः ।श्रद्धालक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥६७॥बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ।ताश्च सर्वा धर्मसेवां कुर्वन्त्येव सह स्थिता ॥६८॥पातिव्रत्यपराः सर्वा यत्र धर्मस्तु तत्र ताः ।धूतपापा विशेषेण सेवते श्रीवृषं पतिम् ॥६९॥प्रातः स्नात्वा तु सा देवी प्रातः स्नापयति वृषम् ।वस्त्रालंकारकस्तूरीचन्दनाक्षतकुंकुमैः ॥७०॥पूजयित्वा ततो देवी नीराजयति तं पतिम् ।प्रदक्षिणां स्तुतिं कृत्वा नत्वा तत्पादयोः सती ॥७१॥गंगाजलेन धर्मस्य प्रक्षाल्य चरणावुभौ ।आचमनामृतं शुद्धं पीत्वा दत्वा सुमाञ्जलिम् ॥७२॥ततो धर्माय षट्पञ्चाषन्मिष्टान्नानि भोजने ।सव्यञ्जनानि रस्याऽऽद्यपेययुक्तानि सा प्रिया ॥७३॥समर्पयति ताम्बूलं करोति देहमर्दनम् ।नृत्यं करोति धर्माग्रे कीर्तिं करोति शार्ङ्गिणः ॥७४॥नरनारायणगाथां करोति धर्मदेशतः ।सपत्नीनां ततः सेवां श्रद्धादीनां करोति सा ॥७५॥कृष्णनारायणभक्तिं धर्माज्ञया करोत्यपि ।एकदा श्रीधर्मदेवश्चातुर्मास्यव्रते स्थितः ॥७६॥लक्ष्मीनारायणसंहितायाः पारायणं शुभम् ।वाचयामास सततं तीर्थे पञ्चनदे गृहे ॥७७॥ऋषयो मुनयो देवाः पितरो मानवाः स्त्रियः ।चतुर्दशभुवां संस्थाश्चायातास्तत्र तूत्सवे ॥७८॥नद्यो नदाश्च तीर्थानि क्षेत्राणि विविधान्यपि ।सर्वेषां सुनिवासादि धूतपापा चकार ह ॥७९॥धूतपापा सती प्राह यद्यहं धर्मचारिणी ।धर्मपत्नी धर्मधर्त्री धर्मपतिव्रतार्थिनी ॥८०॥तदा दिव्यं सुनगरं पंचाशत्क्रोशविस्तृतम् ।ब्रह्मेन्द्रशंभुमुख्यानां सम्पदो यास्तु सन्ति वै ॥८१॥ततोऽधिकानि मे सौधे खाद्यपेयानि सन्ति वै ।यानवाहनभोग्यानि शय्याशृंगारकाणि च ॥८२॥पात्राणि रसभोज्यानि दृश्यानि विविधानि च ।वह्निशुद्धांशुकादीनि सन्तु मत्पतिसद्गृहे ॥८३॥दधिकुल्या घृतकुल्या मधुकुल्याः सिताद्रयः ।पयःकुल्यास्तथा दासा दास्यः सन्तु च लक्षशः ॥८४॥इतिसंकल्पितं स्मृत्वा धर्मस्य चरणाम्बुजम् ।तावद् दिव्या बहुविधाः स्मृद्धयः क्षणतोऽभवन् ॥८५॥स्वर्णरत्नविभूषाश्च हीरकाद्या मणिव्रजाः ।समुद्भूता धूतपापासंकल्पात् तन्नदान्तिके ॥८६॥सुधर्मासदृशी दिव्या सभा जाता क्षणात् प्रिये ।दुर्गा सरस्वती लक्ष्मीः सावित्री राधिका दया ॥८७॥जया ललिता माणिक्या रमा पद्मा च पार्वती ।प्रभा हंसा च मनसा मंजुला श्रीश्च पद्मिनी ॥८८॥शान्तिः शान्ता हेमलता देवी मुक्ता च मौक्तिका ।आसन् वै सेविका धर्मगृहे तत्र कथोत्सवे ॥८९॥लक्ष्मीनारायणसंहिताकथाश्रवणकारिणाम् ।स्वागतादिमहत्कार्ये भोज्यपेयसमर्पिकाः ॥९०॥कार्तिके च प्रबोधन्यां कथान्ते पूजनं परम् ।धर्मदेवस्य तैः सर्वैः सर्वाभिश्च कृतं महत् ॥९१॥अनन्तपुण्यदं रत्नस्वर्णहीरकवस्तुभिः ।धर्मोऽपि दक्षिणाः सर्वा ददौ ताभ्यो मुदान्वितः ॥९२॥देवेभ्यः श्रोतृवर्गेभ्यो विप्रेभ्योऽतिधनं ददौ ।तत्र यज्ञे समायातः कृष्णनारायणो हरिः ॥९३॥कंभरा च महालक्ष्मीर्गोपालकृष्ण आगतौ ।विमानेन तदा सर्वैः प्रत्यक्षे पुरुषोत्तमे ॥९४॥पुष्पवृष्टिः कृता दिव्या जयकारोऽभवन्मुहुः ।पितृभ्यां सहितः कृष्णनारायणो महामखे ॥९५॥दशांशहवनं चक्रे धर्माज्ञयाऽतिभावतः ।यज्ञं समाप्य विधिवत् कृत्वाऽवभृथमन्तिमम् ॥९६॥धर्मदेवो ददौ दिव्यां दक्षिणां च द्विजातये ।काशीराजो मैथिलेशः साकेतेशः कलिंगराट् ॥९७॥सौराष्ट्रेशो मरुस्वामी सिन्धुभूपो निपालराट् ।कुरुक्ष्मेशः श्वेतभूपः प्राग्ज्योतिर्भूप आर्चयन् ॥९८॥धर्मदेवं भूसुराँश्च साधून् साध्वीः सहस्रशः ।स्वर्णहीरकरूप्याणि ददुर्वस्त्राणि दक्षिणाः ॥९९॥व्यसर्जयत् ततः सर्वान् भोजयित्वा समर्च्य च ।धर्मदेवः परीहारं च स्वतेजसा सती ॥१००॥धूतपापा जलं हस्ते गृह्याऽसंकल्पयन् मुदा ।विद्यहं धर्मदेवस्य स्वामिनो मे प्रतुष्टये ॥१०१॥सर्वं क्लृप्तवती तर्हि पत्युर्भक्तेर्बलेन मे ।अदृश्यं भवतु सौधादिकं स्मृद्धं नदे मयि ॥१०२॥इति संकल्पिते तूर्णं क्षणात् सर्वं तिरोऽभवत् ।जग्मुराश्चर्यमति वै देवाद्याः कोटिशो जनाः ॥१०३॥पातिव्रत्यप्रतापं तं ज्ञात्वा शशंसुरादरात् ।तां सतीं धूतपापां वै देव्यः शशंसुरीश्वरीम् ॥१०४॥एवं पञ्चनदं तीर्थं धर्मदेवाश्रमात्मकम् ।पावनं सर्वदेवानां धूतपापाप्रभावतः ॥१०५॥धूतपापापतिव्रतबलं ते कथितं प्रिये ।पठनाच्छ्रवणाच्चास्य मुक्तिर्भुक्तिर्भवेत्तथा ॥१०६॥पातिव्रत्यात्मको धर्मो भवेद्वै मोक्षदो दृढः ।सर्वसम्पत्प्रदश्चापि धर्मभक्तिप्रदस्तथा ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वेदशिरसः ऋषेः शुचिनाम्न्यप्सरसि जाताया धूतपापाख्यकन्याया धर्मदेवपतिप्राप्त्या मूर्तिदेवीत्वं, पञ्चनदे संहिताकथाप्रसंगे पातिव्रत्यबलेन पंचाशत्क्रोशेषु नगररचना, देवादिभूपादिमानवादीनामागमः, यज्ञोऽवभृथं चेत्यादि, नूत्ननगरस्मृद्धितिरोभावचमत्कारश्चेतिनिरूपणनामा षट्षष्ट्यधिकचतुश्शततमोऽध्यायः ॥४६६॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP