संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २६८ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २६८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २६८ Translation - भाषांतर श्रीनारायण उवाच -श्रूयतां च त्वया लक्ष्मि! तृतीयाया व्रतानि वै ।यानि कृत्वा नरो नारी भुक्तिं मुक्तिं समाप्नुयात् ॥१॥चैत्रशुक्लतृतीयातो गौर्या तपः सुदारुणम् ।कृतं शंकरप्राप्त्यर्थं गौरीव्रतं हि तन्मतम् ॥२॥चैत्रशुक्लतृतीयायां गौरीं कृत्वा सशंकराम् ।सौवर्णां राजतीं वापि ताम्रीं वा मृण्मयीं च वा ॥३॥अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ।दुर्वाकाण्डैश्च विधिवत्सोपवासा तु कन्यका ॥४॥वरार्थिनी सुतापुत्रार्थिनी भर्त्रर्थिनी तथा ।नीराजयेन्महागौरीं शांकरीं शंकरान्विताम् ॥५॥पुनः पुनः प्रणम्यैव प्रार्थयेन्मनसि स्थितम् ।सप्त नवैकादश चाधिका वा द्विजयोषितः ॥६॥भर्तृमतीश्च वा कन्या गौरीरूपा सुलक्षणाः ।समाहूय बहुमानपूर्वकं तु च तास्ततः ॥७॥सिन्दूरांऽजनवस्त्राद्यैर्भूषाभिः प्रीतमानसा ।व्रतकर्त्री पूकयेत्ता तथा दानैश्च तोषयेत् ॥८॥मिष्टान्नानि पिण्डकादीन् फलान्यपि समर्पयेत् ।एवं सन्तोषयित्वा ताः व्रतिनी फलमाप्नुयात् ॥९॥रात्रौ जागरणं कुर्याद् व्रतसम्पूर्तिकाम्यया ।प्रातस्तां च पुनः संपूज्याऽर्पयेद् गुरवे मुदा ॥१०॥यद्वा विसर्जयेन्मूर्तिं तीर्थे वार्याशये क्षिपेत् ।एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् ॥११॥कन्या तु लभते शंभुसदृशं गुणिनं पतिम् ।धेनूर्द्वादश संकल्प्य दद्याद्व्रतस्य सिद्धये ॥१२॥किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ।स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ॥१३॥धनं पुत्रान्पतिं पुत्रीं विद्यां सिद्धिं यशः सुखम् ।ददाति सर्वमेवेष्टं गौरी व्रतेन तोषिता ॥१४॥पार्वत्या प्रभया लक्ष्म्या माणिक्या रमया कृतम् ।व्रतं लब्धः पतिरीशः कृष्णो ध्वजधनुःकरः ॥१५॥मीनत्रिशूलचक्रस्वस्तिकचिह्नकरो हरिः ।तस्मादिदं व्रतं रूपसौभाग्यभोगमुक्तिदम् ॥१६॥वैशाखशुक्लतृतीया त्वक्षयतृतीयाव्रतम् ।तिथिस्त्रेतायुगाद्या सा कृतस्याऽक्षयकारिणी ॥१७॥अत्र त्रेतायुगं स्वर्णमूर्तिरूपं विधाय च ।यद्वा लक्ष्मीयुतं कृष्णं नारायणं समर्चयेत् ॥१८॥पुष्पधूपविलेपाद्यैर्गंगावार्भिस्तथाऽक्षतैः ।विविधैर्भोजनैश्चैव तोषयेच्छ्रीजगद्गुरुम् ॥१९॥सक्तून् संभोजयेद् विप्रान् व्रतीत्वेकादनो भवेत् ।एवं कृतविधेस्तस्य व्रतितोऽनाशनं फलम् ॥२०॥कार्याऽऽरम्भोपि सफलो निर्विघ्नो याति पूर्णताम् ।नरो नारी व्रतं चास्मिन् कृतकार्यत्वमाप्नुयात् ॥२१॥वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ ।जमदग्निगृहे प्रादुरासीत्परशुधृक् हरिः ॥२२॥अस्मिन् रामं सपरशु सौवर्णं कारयेद् व्रती ।मध्याह्ने तु महापूजां कृत्वा कुर्वीत भोजनम् ॥२३॥इत आरभ्य नित्यं च ज्येष्ठपूर्णाऽवधिं प्रभुम् ।धारयेद् गन्धवासांसि वासांसि च सितान्यपि ॥२४॥उशीरतालवृन्तैश्च वेजयेत्प्रत्यहं प्रभुम् ।नैवेद्ये शर्करायुक्तं दद्यादाम्ररसादिकम् ॥२५॥ज्येष्ठशुक्लतृतीयायां रंभा स्वर्गाद् भुवं गता ।रभाफलं व्रते भक्ष्यं रंभा पृज्याऽक्षतैर्जलैः ॥२६॥गन्धपुष्पांशुकाद्यैश्च सभार्यं पूजयेद् द्विजम् ।रंभाव्रतं करोत्यत्र नारी सौभाग्यकाम्यया ॥२७॥वित्तं लभते पुत्राँश्च मतिं लक्ष्मीं धनादिकम् ।पतिं गां पृथिवीं सौधं तथोपकरणानि च ॥२८॥लभते कदलीसाम्यं सौकुमार्यं व्रतार्थिनी ।दाने रंभाफलान्यत्र शर्कराघृतमित्यपि ॥२९॥अथाऽषाढतृतीयायां समारेभे तपो रमा ।केशवार्थमतो लक्ष्मीव्रतं कार्यं तु योषिता ॥३०॥केशवं तु सलक्ष्मीकं सुवर्णप्रतिमात्मकम् ।षोडशोपसुवस्त्वाद्यैः पूजयेत्तु विधानतः ॥३१॥भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ।आरार्त्रिकनमस्कारैर्दक्षिणाभिश्च पूजयेत् ॥३२॥सस्त्रीकं च द्विजं तत्र पूजयेद् भोजयेत्तथा ।विप्रवाक्यैर्मानयेच्च तोषयेद्धर्षयेत्तथा ॥३३॥एवं व्रते प्रसाद्यैनां लक्ष्मीरूपां तु भूसुरीम् ।विप्रं विष्णुस्वरूपं च विसर्जयेच्च तौ गृहम् ॥३४॥व्रतकर्त्री गृहयुक्ता नारी सौभाग्यवाञ्च्छया ।देवदेवप्रसादेन धनधान्यसमन्विता ॥३५॥पुत्रपौत्रयुता भूत्वा विष्णुलोकमवाप्नुयात् ।कन्या विन्देत्सुरूपं सुपतिं स्वेष्टसुभोगदम् ॥३६॥श्रावणशुक्लतृतीया स्वर्णगौरीव्रतं मतम् ।काली तपः परं कृत्वा स्वर्णगौर्यभवद् यतः ॥३७॥उपचारैः षोडशभिर्भवानी पूजयेत् व्रती ।प्रार्थयेद्त्पूजनान्ते च रूपं गौरं प्रदेहि मे ॥३८॥पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ।अन्याँश्च विविधान्कामान्पूरयाऽत्र नमोऽस्तु ते ॥३९॥ततो भवयुतां देवीं वायनं तु ददेच्छुभम् ।षोडषवर्षपर्यन्तं व्रतमेतत्प्रकीर्तितम् ॥४०॥तदन्ते सुभगा नारी कुर्यादुद्यापनं महत् ।कदलीमण्डपे सर्वभद्राख्यमण्डले सतीम् ॥४१॥मध्ये संस्थापयेत्स्वर्णघटे रत्नादिसंयुते ।परितः श्रीगणेशादिपंचायतनमर्चयेत् ॥४२॥कलशोपरि ताम्रस्याऽक्षतयुक्ते सुपात्रके ।सौवर्णी प्रतिमां शंभुभवान्याः प्रतिपूजयेत् ॥४३॥षोडशभिर्वस्तुभिश्च ततो होमं समाचरेत् ।वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ॥४४॥समर्प्य सत्यै नैवेद्यं साधुष्वेतन्निवेदयेत् ।वायनं च ततो दद्यादुत्तमं बान्धवादिषु ॥४५॥प्रतिमां गुरवे दद्याद् द्विजेभ्यो दक्षिणां तथा ।बहुदानानि कुर्वीत व्रतसाफल्यहेतवे ॥४६॥पूर्णं विन्देत् फलं नारी कन्या वा सधवाऽधवा ।धनधान्यादिसुस्मृद्धा भूत्वा याति परं पदम् ॥४७॥भाद्रशुक्लतृतीयायां व्रतं वै हरतालिकम् ।हरहस्तेन पार्वत्या हस्तस्य मेलनं ह्यभूत् ॥४८॥तदिदं हरताल्याख्यं व्रतं सौभाग्यवर्धनम् ।कुर्याद् भक्त्या विधानेन पाद्यार्घ्यार्चनपूर्वकम् ॥४९॥अत्र वै कांचने पात्रे राजते वाऽथ ताम्रके ।वैणवे मृन्मये वाऽथ विन्यस्याऽन्नं सदक्षिणम् ॥५०॥भर्जितं तिलतण्डुलचणकादिकमित्यपि ।फलं वस्त्रादिकं भूषां विन्यस्यात्रैव पात्रके ॥५१॥दद्यात्तु गुरवे तद्वै कुर्यात्पश्चात्तु पारणाम् ।भोजयेद् ब्राह्मणान्साधून्साध्वीः कन्याश्च बालकान् ॥५२॥सौभाग्यद्रव्य पात्राणि वंशपात्राणि षोडश ।प्रदद्याच्छ्रद्धया त्वेवं विप्रेभ्यो विधिना तथा ॥५३॥अन्येभ्यो ब्राह्मणेभ्यश्च भूयसीं दक्षिणां शुभाम् ।दद्याद् व्रतवती नारी तेन सौभाग्यमाप्नुयात् ॥५४॥एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् ।व्रतप्रभावतोऽमुत्र गौरोसहचरी भवेत् ॥५५॥धनं धान्यं सुतां पुत्रान् लभतेऽत्र परत्र शम् ।भुक्तिमुक्तिप्रदं देवीप्रसादाप्यं व्रतं मतम् ॥५६॥यदा तृतीया भाद्रेऽत्र भवेद्धस्तर्क्षसंयुता ।सामगैस्त्वत्र कर्तव्यं पितृदेवर्षितर्पणम् ॥५७॥नवं यज्ञोपवीतं च धार्यं शाखोक्तकर्मणा ।हस्तगौरीव्रतं नाम कर्तव्यं भूतिहेतवे ॥५८॥विषप्राणिप्रदंशादिनिवारकमिदं भवेत् ।महिषासुरनाशार्थं कोटिरूपधरा यदा ॥५९॥बभूव सा तदा दुर्गा कोटीश्वरीति नामतः ।पिनाकिना स्वयं प्रोक्ता कोटीश्वरीव्रतं तु तत् ॥६०॥लक्षचण्डीस्वरूपाणि यदा धृतवती हि सा ।लक्षेश्वरी तदा प्रोक्ता स्वयं पिनाकिना सती ॥६१॥लक्षेश्वरीव्रतं कार्यं यावद्वर्षचतुष्टयम् ।सोपवासं प्रकर्तव्यं लक्षेश्वर्याः प्रपूजनम् ॥६२॥अखण्डानां तण्डुलानां तिलानां वापि पद्मजे ।लक्षमेकं विशोध्याऽत्र क्षिपेद् दुग्धेऽग्नसंश्रुते ॥६३॥यावद्वै कठिनो द्रव्यसारो भवेत्सुपिण्डकः ।तेन पिण्डेन निर्माय देव्या मूर्तिं सुरूपिणीम् ॥६४॥गन्धपुष्पाक्षतरत्नरोमवस्त्रविभूषिताम् ।पार्वतीं तत्र चाऽऽवाह्य पूजयेद् भक्तिभावतः ॥६५॥गन्धैः पुष्पैर्जलैर्धूपैर्दीपैर्नैवेद्यप्रार्थनैः ।विविधैः सत्फलैः श्रेष्ठदक्षिणाभिश्च वन्दनैः ॥६६॥आरार्त्रिकैर्दण्डवद्भिर्वर्धयेच्च क्षमापयेत् ।अर्थयेद्धनधान्यादिसुतापुत्रगृहादिकम् ॥६७॥ततो विसर्जयेद् दुर्गां जलमध्येऽथ दक्षिणाम् ।दत्वा श्रीगुरवे पश्चाद् रात्रौ जागरणं चरेत् ॥६८॥दत्वा दानानि विप्रेभ्यो भुञ्जीतायं परे दिने ।इति ते कथितं लक्ष्मि! कोटिलक्षेश्वरीव्रतम् ॥६९॥व्रतकर्त्र्या गृहे लक्ष्मीर्धनधान्यमयी सदा ।राजते वर्धते नित्यं व्रतस्याऽस्य प्रभावतः ॥७०॥गौरीलोकं प्रयात्यन्ते भोगमोक्षौ हि विन्दति ।इषशुक्लतृतीयायां बृहदगौरीव्रतं मतम् ॥७१॥पञ्चवर्षं प्रकर्तव्यं कोटिकुन्दनमाप्नुयात् ।दुर्गां तु पूजयेत्प्रातः षोडशभिः सुवस्तुभिः ॥७२॥सुवासिन्यः पंच पूज्या वस्त्रालंकारचन्दनैः ।शाटीकंचुकताटंककण्ठसूत्रविभूषणैः ॥७३॥धातुपात्राणि पंचैव वाटिकास्थालिकास्तथा ।सिन्दूरं जीरकं मिष्टं सौभाग्यद्रव्यमंजनम् ॥७४॥गोधूमपिष्टजातं च नवाऽपूपं फलादिकम् ।वस्त्राणि विविधान्येव वायनानि च पञ्च वै ॥७५॥ताभ्यो दद्याद् भोजयेच्च पश्चाद् भुञ्जीत वाग्यता ।रात्रौ जागरणं कुर्यात् कृष्णकीर्तनमिश्रितम् ॥७६॥फलं तु धारयेत्कण्ठे पूगीं वान्यद् यदर्पितम् ।रात्रौ कण्ठगतं सर्वकामस्मृद्धिप्रदं फलम् ॥७७॥तत प्रातः समुत्साहा सालंकारा सखीजनैः ।गीतवाद्ययुता गच्छेत् सरितं स्नानमाचरेत् ॥७८॥गौरीं सम्बोधयेत्तत्र प्रार्थनां संवदेदिमाम् ।आहूताऽसि मया भद्रे पूजिता च यथाविधि ॥७९॥मम सौभाग्यदे देवि सर्वं रक्षय नित्यदा ।न्यूनं च क्षम्यतां देवि यथेष्टं गम्यतां त्वया ॥८०॥इत्यभ्यर्थ्य नमस्कृत्य जयशब्दैश्च वादनैः ।सोत्साहपूर्वकं दृष्ट्वा जले गौरीं विसर्जयेत् ॥८१॥एवं कृत्वा व्रतं भक्त्या व्रती देवीप्रसादतः ।भुक्त्वा भोगाँस्तु देहान्ते गौरीलोकमवाप्नुयात् ॥८२॥ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं मतम् ।गौर्या प्रपूजितो विष्णुस्तपसः फलसिद्धये ॥८३॥तस्माद् व्रतमिदं प्रोक्तं विष्णुगौर्यभिधं शुभम् ।तत्र वै पूजनीयाऽसौ गौरी विष्णुयुता मुदा ॥८४॥षोडशभिस्तूचारैर्भोजनैश्च पृथग्विधैः ।सुवासिनीरूपां गौरीं लक्ष्मीनाम्ना प्रभोजयेत् ॥८५॥पूजयेन्मंगलद्रव्यैविष्णुगौरीप्रतुष्टये ।विसर्जयेत्प्रणम्यैनां दद्याद् दानानि भावतः ॥८६॥पुत्रं वै लभते नारी व्रतकर्त्री न संशयः ।मार्गशुक्लतृतीयायां हरगौरीव्रतं मतम् ॥८७॥हरशय्यागता गौरी हरयोगमुपागता ।हरयोगेन सा तृप्ताऽभवत् स्वामिसुखान्विता ॥८८॥हरं गौरीं व्रते त्वत्र चैकशय्यां प्रकल्प्य च ।स्वापयेत्पूजयेद् भक्त्या सेवयेद् दिव्यभावतः ॥८९॥एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् ।गौरीलोकं समासाद्य हरेण सह मोदते ॥९०॥पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं मतम् ।ब्रह्मणा तु समागत्याऽऽशीर्वादाः शंकराप्तये ॥९१॥प्रदत्ता तद् व्रतं प्रोक्तं कर्तव्यं सुविधानतः ।गौरीं च वेधसं कृत्वा सुवर्णस्य प्रपूजयेत् ॥९२॥षोडशभिश्चोपचारैरेकभुक्तं समाचरेत् ।दानं दद्याद् यथेष्टं तु गुरवे भोजयेद् द्विजान् ॥९३॥ब्रह्मगौरीप्रसादेन मोदते तत्र संगता ।माघशुक्लतृतीयायां लक्ष्मीः सौभाग्यसुन्दरी ॥९४॥विष्णौ वरमालिकाया अर्पणात् समभूत् प्रिया ।तस्मात् सौभाग्यसुन्दर्यात्मकं कार्यं व्रतं मुदा ॥९५॥लक्ष्मीस्तत्र पूजनीया नालिकेरार्घ्यदानतः ।उपचारैः षोडशभिर्मिष्टान्नैर्भूषणादिभिः ॥९६॥सौभाग्यदा प्रसन्ना स्यात् स्वीयं धाम नयत्यपि ।दानं श्रांगारिकं सर्वं देयं वस्तु तु योषिते ॥९७॥एकभुक्तं व्रतं कार्यं हारश्चार्प्यस्तु विष्णवे ।प्रसादमाला सा चाऽर्प्या पतिकण्ठे तु पुत्रदा ॥९८॥फाल्गुनस्य सिते पक्षे तृतीयायां निशोत्तरे ।हरयोगात्सती लब्धवती पुत्राँस्तु रुद्रकान् ॥९९॥तस्मात्सोक्ता तृतीया तु कुलसौख्यव्रतात्मिका ।पूजिता गन्धपुष्पाद्यैर्गौरी कुलकरी भवेत् ॥१००॥एवं सर्वव्रतेष्वत्र दानं होमो विसर्जनम् ।देवदेवीप्रपूजा च विप्रगुरुप्रपूजनम् ॥१०१॥एकभुक्तादिकं सर्वसामान्यं प्रसमाचरेत् ।भक्त्या कृतानि सर्वान्वै कामान् दद्युर्मनोगतान् ॥१०२॥सर्वदेवेषु तत्सर्वान्तरात्मा श्रीहरिः स्वयम् ।वर्तते पूजनीयोऽसौ सर्वकर्मफलप्रदः ॥१०३॥यद्यद् व्रत्यर्थयेद् वस्तु नरो नारी तथाऽन्यकः ।समाप्नोति च तत्सर्वं श्रीहरेः समनुग्रहात् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकतृतीयाव्रतेषु गौरीतपोव्रताऽक्षयतृतीयात्रेताद्य-तिथिपर्शुरामजयन्तीकदलीव्रतलक्ष्मीतपोव्रतकाली-गौरीव्रतहरगौरीलग्नव्रतसामगश्रावणीकोटीश्वरी-माहिषघ्नलक्षेश्वरीबृहद्गौरीविष्णुगौरीहर-गौरीयोगब्रह्माशीर्गौरीविष्णुवरमाला-कुलवृद्धिव्रतादिनिरूपणनामाऽष्ट-षष्ट्यधिकद्विशततमोऽध्यायः ॥२६८॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP