संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २९३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २९३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २९३ Translation - भाषांतर श्रीलक्ष्मीरुवाच-मासास्तु द्वादश प्रोक्तास्तेषु व्रतदिनानि च ।तेभ्योऽधिकोऽपि त्रयोदशः सार्धद्वयवार्षिकः ॥१॥चान्द्रपूर्णत्वसम्पाद्यो भवतीति तदीयकम् ।इतिवृत्तं विधिं देवं सर्वे श्रोतुं समुत्सहे ॥२॥श्रीनारायण उवाच-शृणु लक्ष्मि! कथां दिव्यां पुरुषोत्तमयोगिनीम् ।चान्द्रमासे यत्र सूर्यसंक्रान्तिर्नहि जायते ॥१॥एकराशिप्रभोगस्थोऽर्को न संक्रमतेऽपरे ।सूर्यसंक्रान्तिशून्योऽयं मासोऽधिकतया मतः ॥२॥मध्येऽमावास्ययोश्चान्द्रमासः पूर्णः प्रजायते ।सौरमासस्तु संक्रान्त्योर्मध्ये पूर्णः प्रजायते ॥३॥चान्द्रमासे सावनाहान्येकोनत्रिंशदित्यथ ।षड्विंशतिघटिकाश्च पञ्चाशत्पलिकास्तथा ॥४॥भुज्यन्तेऽथ च सौरे तु त्रिंशदहानि वै तथा ।षड्विंशतिश्च घटिकाः पलान्येकोनविंशतिः ॥५॥विपलान्येकत्रिंशच्च द्वापंचाशत्क्षणानि च ।प्रभुज्यन्ते तयोश्चान्द्रे यः कालः शिष्यतेऽर्कितः ॥६॥तेषां तु शिष्टकालानां समवाय प्रजायते ।पूर्णस्त्रयोदशश्चान्द्रमासोऽयं त्वधिको मतः ॥७॥द्वात्रिंशत्सौरमासेषु षोडशाहाधिकेषु तु ।त्रयस्त्रिंशच्चान्द्रमासाः षोडशाहाधिकाः खलु ॥८॥निष्पद्यन्तेऽधिको मासश्चान्द्रः सोऽयं मतोऽधिकः ।पंचवर्षेष्वधिमासौ द्वौ चान्द्रौ प्रायशो मतौ ॥९॥अधिमासः पुनः सोऽष्टवर्षे वैकोनविंशतौ ।एकचत्वारिंशदधिके शते वा स एति वै ॥१०॥स एवायाति चेत्येवं प्रायशो नियमोऽस्ति हि ।सोऽयं पुण्यप्रकार्यार्थं निश्चितो मुनिभिः पुरा ॥११॥शृणुष्वैनां कथां लक्ष्मि! नौ गेहाद्युद्भवाऽस्ति सा ।मलमासस्त्वयं प्रोक्तो मलशेषात्मसंचयः ॥१२॥पुरुषोत्तमसंयोगात् पुरुषोत्तमसंश्रयात् ।पुरुषोत्तममासोऽयं देवोऽस्य पुरुषोत्तमः ॥१३॥कृष्णनारायणः श्रीमान् परब्रह्म परात्परः ।ब्रह्ममुक्तैः सदा सेव्यो भगवानक्षराधिपः ॥१४॥अवतारस्वरूपाणामवतारी हरिः स्वयम् ।यस्माद् व्यूहाः प्रजायन्ते वासुदेवादयोऽखिलाः ॥१५॥यस्माद् गोलोकधामाद्याः प्राविर्भवन्ति चाश्रयाः ।यत्र सर्वपराकाष्ठा यत्र सर्वं प्रतिष्ठितम् ॥१६॥यस्मात् प्रकाशते सर्वं यन्मयं जडचेतनम् ।सोऽयं श्रीभगवान् राजाधिराजः परमेश्वरः ॥१७॥पुरुषोत्तममासस्याधिदेवः पुरुषोत्तमः ।अक्षरे परमे व्योम्नि मुक्तमण्डलसेवितः ॥१८॥अनाथं मलमासं तु दृष्ट्वा कृपावशः प्रभुः ।स्वीचकार शरण्यस्तं शरणागतमेव सः ॥१९॥अधिष्ठानतया तस्य ततोऽक्षरसमानताम् ।प्राप्तः श्रीमलमासस्तु निर्मलः पुरुषोत्तमः ॥२०॥ सर्वे मासाः प्रथमं तु गर्जन्ति स्म मुहुर्मुहुः ।नाऽस्मादृशं किंचिदस्ति तारकं भुवनत्रये ॥२१॥किन्तु श्रीहरिणा यावन्मलमासस्त्वधिष्ठितः ।ततो द्वादशमासास्ते बभूबुर्भग्नगर्वकाः ॥२२॥किं वक्तव्यं महालक्ष्मि! यत्र नारायणः स्वयम् ।प्रसन्नस्तिष्ठते तस्य भाग्यं पुण्यं कथानकम् ॥२३॥अन्यमासकृतात्पुण्याज्जपाद्धोमात्प्रदानकात् ।अनन्तगुणकं त्वत्र कृतं भवति सर्वथा ॥२४॥मासोऽयमधिकः सर्वपुण्याऽऽधिक्यप्रदो मतः ।गयागंगाहरिद्वारपुष्करादिषु यत् कृतम् ॥२५॥तत्कृतस्याऽधिके मासे फलं भवति शाश्वतम् ।कुरुक्षेत्रे ग्रहणे यत्स्नानस्य फलमाप्यते ॥२६।गयायां पिण्डदानस्य पितॄणां तृप्तिरस्ति या॥तत्फलं तादृशी तृप्तिरधिमासस्य सेवनात् ॥२७॥जगन्नाथपुरे स्याद् यद् रथयात्राफलं महत् ।पुरुषोत्तममासे तत्फलं त्वाप्लवनाद् भवेत् ॥२८॥यत्फलं सरयूस्नानात् साकेते तीर्थदर्शनात् ।तत्फलं त्वधिके चाद्यदिने स्नानाद्धि जायते ॥२९॥यत्फलं द्वारिकायां तु गोमतीसागराप्लवे ।तत्फलं मलमासे स्यात् प्रतिपत्स्नानमात्रतः ॥३०॥यत्फलं बदरीक्षेत्रे स्वर्णद्यां स्नानतो भवेत् ।मलमासाऽऽद्यदिवसेऽधिकं स्यात्स्नानतः फलम् ॥३१॥यत्फलं दक्षिणे वार्धौ रामसेतौ जलाप्लवात् ।मलमासेऽधिकं स्नानात् ततः स्यात्प्रथमे दिने ॥३२॥यत्फलं रैवते स्वर्णरेखायां स्नानतो भवेत् ।प्रभासे यत्फलं वा सन्निधावाप्लवनाद्भवेत् ॥३३॥ततोऽधिकफलं त्वाद्यदिने स्नानेऽधिकस्य च ।यत्फलं कुंकुमवाप्यामश्वपट्टसरोवरे ॥३४॥ततोऽधिकफलं त्वाद्यदिवसेऽधिकमासिनः ।नर्मदायां शुक्लतीर्थे ओंकारेश्वरतीर्थके ॥३५॥पुष्करे पश्चिमे नारायणे सरसि यत्फलम् ।तडागे मानसे चापि प्रयागे चापि यत्फलम् ॥३६॥यमुनायां मथुरायां गण्डक्यां चापि यत्फलम् ।यत्फलं च हरिशंभुक्षेत्रे कपिलवारिधौ ॥३७॥गोदावर्यां तथा कुंभलग्ने कृष्णाजले च यत् ।सिन्धौ ताम्रपर्णिकायां कावेर्यां चापि यत्फलम् ॥३८॥महोदये तथा सोमाऽमायां पर्वणि पट्टने ।स्नानेन यत्फलं यद्यत्त्वाद्येह्नि स्नानतोऽत्र तद् ॥३९॥पुरुषोत्तममासस्य प्रथमायां समाहितः ।ब्राह्मे मुहूर्ते सञ्चिन्त्य श्रीकृष्णं पुरुषोत्तमम् ॥४०॥स्नायान्नद्यां तडागे वा सरसि प्रस्रवे गृहे ।कूपे वाप्यां प्रवाहे वा तत्पुण्यं शाश्वतं भवेत् ॥४१॥नहि लोकेऽधिकमाससदृशं पापनाशकम् ।पुण्यार्जकं तथा त्वन्यत् स्वर्गमोक्षप्रदं परम् ॥४२॥पूर्णिमायां चाद्येऽहनि त्वमावास्यादिनेऽपि च ।एकादशेऽन्तिमे चापि मासेऽह्नि पुरुषोत्तमे ॥४३॥स्नानेन सदृशं त्वन्यत्त्वखण्डपुण्यकृन्नहि ।तेषु स्नानेन वै लोका निर्धूय पापपुञ्जकम् ॥४४॥जायन्ते पुण्यपुञ्जेन पारावारसमा भुवि।स्नानमात्रेण वै स्वर्गे कोटिकल्पात्मकं मिलेत् ॥४५॥हरेस्तु पूजनात्तत्र वैकुण्ठं शाश्वतं व्रजेत् ।पुरुषोत्तमनैवेद्यदाने मुक्तिचतुष्टयम् ॥४६॥लभतेऽत्र न सन्देहः श्रीकृष्णो वदति स्वयम् ।कृष्णनारायणः सर्वं लक्ष्मीयुक्तं ददाति वै ॥४७॥मलमासाऽऽद्यदिवसे स्नातुश्चार्चयितुस्तथा ।स्वत्वं श्रीकृष्णवद्धाम्नि गोलोकेऽस्य प्रवर्तते ॥४८॥पूर्णिमायाममायां वा प्रातः स्नानं सरित्सु चेत् ।क्रियतेऽवभृथतुल्यफलं विष्णुक्रतोर्मतम् ॥४९॥मध्याह्ने चेत्कृतं स्नानमश्वमेधान्तपुण्यदम् ।स्नानं सायं वाजपेययज्ञस्य फलदं भवेत् ॥५०॥स्नात्वा व्रती हरिं कृष्णनारायणं सुवर्णजम् ।आवाहयेत् तथा पंचामृतैः संस्नापयेच्छनैः ॥५१॥एकादशीकृतं पुण्यं मलमासे तु पर्वणि ।स्नानमात्रेण भवति किमन्यत् तत्कृते पुनः ॥५२॥लक्षगवां महिषीणामयुतस्य शतस्य तु ।वारणानां च दानेन कुरुक्षेत्रे तु यत्फलम् ॥५३॥लक्षाश्वानां तथा दानाद्यत्फलं कौरवे स्थले ।प्रातःस्नानान्मलमासे तत्फलं प्रतिपत्तिथौ ॥५४॥द्वादशानां तु मासानां पापानि मलमुच्यते ।मलप्रक्षालनशक्तो मलमासः कृतोऽस्ति वै ॥५५॥स्नापयेच्छ्रीकृष्णनारायणं पञ्चामृतैस्ततः ।शुद्धोदकैस्तैलसारैर्मर्दयित्वा पुनः पुनः ॥५६॥स्नापयेद् वै ततो वस्त्रैर्मार्जयेत् पुरुषोत्तमम् ।पीताम्बरं चोत्तरीयं स्वर्णप्रान्तं समर्पयेत् ॥५७॥किरीटं कुण्डले चापि चन्दनं कुंकुमं तथा ।कज्जलं कण्ठहाराँश्चोर्मिकाश्च कंकणानि च ॥५८॥पुष्पहारान् रशनाश्चाऽऽभूषणान्यम्बराणि च ।द्रव्याऽलंकारभूषाश्च समर्पय्य प्रपूजयेत् ॥५९॥धूपं दीपं तथाऽऽपीडान् शेखरान् मालिकास्तथा ।गुच्छं कन्दं स्वर्णयष्टिं छत्रं च चामरेऽर्पयेत् ॥६०॥नैवेद्यानि सुमिष्टान्नपक्वान्नानि फलानि च ।मृष्टस्वादूनि पेयानि ताम्बूलानि जलानि च ॥६१॥समर्पयेत्ततो नीराजयेत् क्षमां तु याचयेत् ।प्रदक्षिणां नमस्कारं दण्डवच्च स्तुतिं चरेत् ॥६२॥पुष्पाञ्जलिं प्रदत्वैव श्रीहरिं पुरुषोत्तमम् ।प्रार्थयेन्मलमासस्य व्रतस्य पूर्तये मुहुः ॥६३॥उपोषणान्येकभुक्तं नक्तं फलाशनं च वा ।करिष्ये मलमासे तद्व्रतं ते कृपया प्रभो ॥४॥निर्विघ्नं पूर्णतां यायादिति तुष्टो हरे कुरु ।स्नानं तीर्थेऽथवा कूपे गृहे नद्यां प्रगेऽन्वहम् ॥६५॥दानं पूजां यथाशक्ति करिष्ये पुरुषोत्तम! ।तत्सर्वं भजनं चापि निर्विघ्नं मे भवेदिति ॥६६॥कृपां कुरु महाराजाऽऽलस्यं नाशय देहतः ।मानसानि मलान्यत्र प्रक्षालय प्रभावतः ॥६७॥आत्मीयानि च पापानि प्रज्वालय परेश्वर ।आत्ममुक्तिं च मे देहि पुरुषोत्तम केशव ॥६८॥कृष्णनारायण स्वामिन् लक्ष्मीनाथ प्रभापते ।पार्वतीमाणिकीस्वामिन् सम्पत्कुरु गृहे मम ॥६९॥एवं सम्प्रार्थ्य देवेशं स्वापयेद्वा विसर्जयेत् ।मध्याह्ने भोजयेत् सायं भोजयेत् पूजयेत् तथा ॥७०॥नीराजयेच्च दोलायां गुरुं त्वान्दोलयेद्धरिम् ।बालकृष्णं कृष्णनारायणं हरिनरायणम् ॥७१॥रमयेद्वा जले रम्ये तूद्याने भवनेऽपि वा ।नृत्यं गीतं सवाद्यं च कारयेत् तत्समीपतः ॥७२॥अन्नवस्त्रजलपुष्पफलदानानि वै ददेत् ।भोजयेद् बालकान् साधून् विप्रान् गोग्रासमर्पयेत् ॥७३॥कृष्णनारायणवार्ता पुरुषोत्तममाःकथाम् ।लक्ष्मीनारायणसंहिताकथां वाचयेदव्रती ॥७४॥मालां कृष्णहरिकृष्णकृष्णनारायणाभिधैः ।कुर्याज्जपं च भजनं स्मरणं कीर्तनं मुहुः ॥७५॥वन्दनं दासतां सेवां पादयोश्चापि मर्दनम् ।मार्जनं परिचर्यां क्षालनं विष्णुग्रहस्य च ॥७६॥गुरोः सेवां प्रकुर्वीत व्रतपुष्टिकरीं शुभाम् ।गुरौ तुष्टे व्रतं पूर्णे भवेद्वै मनसेप्सितम् ॥७७॥फलेत्सर्वं प्रसंपूर्णं स्वर्गमोक्षादिदायकम् ।गौरीः साध्वीः सतीर्बालान् बालिकाः सधवाऽधवाः ॥७८॥अनाथाऽनाश्रिताः संभोजयेद् दानानि संददेत् ।गृहं दद्याज्जीविकां च क्षेत्रं वाटीं च वेतनम् ॥७९॥साहाय्यं विविधं दद्याद् यथा सन्तोषमाप्नुयात् ।संफलेत् तेन वै मासः पुरुषोत्तमसंज्ञकः ॥८०॥नित्यं वै मन्दिरे दद्याद् देवाय जलगाः शुभाः ।आमान्नानि च शाकानि लवणं शर्करादिकम् ॥८१॥फलानि तण्डुलान् मुद्गान् द्विदला घृतवर्तिकाः ।घृतं तैलं निवाराँश्च मरीचकान् सुजीरकम् ॥८२॥शुण्ठीश्च मेथिकां दद्याद् दधि दुग्धं च तक्रकम् ।पत्राणां भाजिकां खर्जूरकं श्रेष्ठं सुराजिकाम् ॥८३॥भूमिकन्दान् बदामाँश्च काष्ठानि मृत्तिकास्तथा ।इष्टिका वंशपात्राणि धातुपात्राणि मृद्धटान् ॥८४॥घासग्रासान् गवाद्यर्थे पारावातेभ्य इत्यपि ।कणान् दद्यात्पिपीलिकाद्यर्थे पिष्टादिकं तथा ॥८५॥जलस्थेभ्यश्चणकाँश्च श्वादिभ्यो रोटकाँस्तथा ।जलं तु वृक्षवल्लीभ्यो दद्याच्छ्रीपुरुषोत्तमे ॥८६॥पिप्पलेभ्यो बर्बुरेभ्यो जलं दद्याच्छिवोपरि ।बिल्वेभ्यः श्रीफलेभ्यश्च वटेभ्यो जलमर्पयेत् ॥८७॥तुलसीभ्यः कमलेभ्यः पुष्पवल्लीभ्य इत्यपि ।जलं खाद्यं प्रदद्याच्च कुर्याद्वृत्तिं सुरक्षिकाम् ॥८८॥एवं दानानि वस्त्राणां वस्तूनां चापि कारयेत् ।भूशायी ब्रह्मचारी च शान्ते भूत्वाऽधिके पुनः ॥८९॥मासे वै साधुवद्भूत्वा साध्वीवच्च व्रतान्वितः ।ऐहिकं त्वात्मनः कुर्यात्पुण्यं परं च मोक्षणम् ॥९०॥पतिः पत्नी च दासी च सुतः सुता च बान्धवाः ।बन्धुपत्न्यो जनन्यश्च पितरश्च पितामहाः ॥९१॥माता मातामही चापि बालाश्च बालिकाश्च याः ।शिष्या स्वसा चाश्रिताश्च प्राघूर्णिकाः समाश्रिताः ॥९२॥ये च गृहे जनाः स्वस्याऽभिजनाश्च कुटुम्बिनः ।सर्वे ते वै व्रतं कुर्युः पुरुषोत्तममासि तु ॥९३॥एकभक्तेन नक्तेन फलेनाऽयाचितेन वा ।जलेन पयसा दध्ना निवारादिभिरेव वा ॥९४॥शाकेन भर्जितेनापि देहयात्रां विधाय च ।पुरुषोत्तममासस्य व्रतं कुर्युस्तु शक्तितः ॥९५॥एकान्नेनाऽथवा कुर्याद्भिक्षान्नेनापि सर्वथा ।उञ्च्छवृत्त्याऽथवा कुर्यादाजगर्याऽथवा चरेत् ॥९६॥देवान्नं वा ग्रसेत्सायं पूजयित्वा जनार्दनम् ।देवानां दर्शनं नित्यं साधूनां चरणामृतम् ॥९७॥पेयं धार्यं मस्तके च धूल्यामालुण्ठनं तथा ।हरेः पादोदकं पेयं स्त्रिया पुंसा व्रते सदा ॥९८॥पर्यंकाऽशयनं कार्यं कामक्रोधविवर्जनम् ।क्षौरविवर्जनं कार्यं मैथुनस्य विवर्जनम् ॥९९॥रसनायास्तपः कार्यं त्यागः प्राप्ताऽर्जितस्य च ।नार्या तु स्पर्शनं पुंसः पुंसा स्पर्शश्च योषिताम् ॥१००॥त्याज्यो वै सर्वथा मासेऽधिके श्रीपुरुषोत्तमे ।गृहाद्बहिर्न गन्तव्यं तीर्थार्थं गम्यमेव वा ॥१०१॥वाटिकायां समुद्याने वस्तव्यं क्षेत्रके तथा ।वनेऽरण्ये दैवभूमौ साधुमध्ये सतीजने ॥१०२॥त्यागिभूमौ निवासश्च तीर्थतटेऽथ सीम्नि वा ।पर्णशालोत्तमायां वा व्योम्नि वासोऽधिके मतः ॥१०३॥श्रवणं कीर्तनं कृष्णनारायणस्य वै स्मृतिः ।पादयोः सेवनं चापि पूजनं वन्दनं तथा ॥१०४॥दास्यं चात्मात्मीयवस्त्वर्पणं कृष्णविचिन्तनम् ।एवमादिक्रियारूपां भक्तिं कुर्यान्मलेऽधिके ॥१०५॥मं मुक्तिं लाति गृह्णाति मलोऽयं मास उच्यते ।मा माया लीयते येन मलोऽयं मास ईरितः ॥१०६॥मां लक्ष्मीं माति यो मासस्तस्मान्मलः प्रकीर्त्यते ।पुरुषोत्तमनाम्मो वै मकारस्त्वन्त्यवर्णकः ॥१०७॥लक्ष्म्याश्चाद्याक्षरो लोपि 'मलः' कृष्णः श्रिया युतः ।मं मल लीयते येन मलक्षालनको हरिः ॥१०८॥मलमासे कृतं यद्यद्दानं पुण्यं तदीयकम् ।कं सुखं जायते चाध्यधिकं ह्यधिकमास्स हि ॥१०९॥यत्र नारायणः कृष्णः प्रत्यहं तु गृहे गृहे ।व्यवस्थितः शुभां पूजां गृह्णाति पुरुषोत्तमे ॥११०॥मासेऽत्र रमया लक्ष्म्या पार्वत्या प्रभया तथा ।माणिक्यया कृष्णनारायणः श्रीपुरुषोत्तमः ॥१११॥गोलोकाच्चापि वैकुण्ठादव्याकृताच्च धामतः ।भुवनेऽत्र समायाति लोकानां दर्शनाय वै ॥११२॥सत्कर्माण्यर्चनादीनि पूजनानि व्रतानि च ।के कुर्वन्ति च मे मासे स्नानं पूजां प्रदानकम् ॥११३॥एवं देवः सदा प्रातर्व्योममार्गेण पश्यति ।दृष्ट्वा स्नातॄन् भक्तिकर्तॄन् भक्तान् देवग्रहस्य च ॥११४॥दातॄन् संपालयितॄँश्च नियमानां नरान् प्रियाः ।विलोक्य दिव्यदृष्ट्या श्रीसहितः पुरुषोत्तमः ॥११५॥प्रसन्नो भवति श्रेयः कर्तुं यातुं च तद्गृहे ।स्थातुं चिरं श्रियै कृष्णः प्रदिशति तोषितः ॥११६॥पुरुषोत्तममासस्य व्रतिनां भवनानि वै ।सर्वस्मृद्धिप्रपूर्णानि कुरु लक्ष्मि! ममाऽऽग्रहात् ॥११७॥मलमासाऽवमन्तॄणां गृहे वासो च मा तव ।यत्र नास्ति ममाऽऽवासस्तत्र तेऽपि च माऽस्तु सः ॥११८॥इत्यादिश्य हरिः प्रातस्ततो मध्याह्नकेऽपि च ।नैवेद्यं त्वर्पितं लब्ध्वा पुनर्याति स्वधाम वै ॥११९॥सायं पुनः स्वपत्नीभिः समायाति हरिः स्वयम् ।आरार्त्रिकादिका सेवां त्वंगीकर्तुं गृहे गृहे ॥१२०॥घृतदीपं तथा धूपं पुष्पं जलं सुभोजनम् ।सर्वं प्राप्य स्वकं धाम विसर्जितः प्रयाति सः ॥१२१॥नित्यं मासेऽधिके ह्येवं पश्यति श्रीहरिर्विभुः ।भक्तानुकम्पया तस्मात् पूज्यौ श्रीपुरुषोत्तमौ ॥१२२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीपुरुषोत्तममासमाहात्म्ये तदाद्यदिवसीयव्रततपोदान- स्नानाराधननियमादिकर्तव्यतानिरूपणनामा त्रिनवत्य-धिकद्विशततमोऽध्यायः ॥२९३॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP