संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २०६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २०६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०६ Translation - भाषांतर श्रीलक्ष्मीरुवाच-तत्राश्रमे च मुनिना तीर्थानि कानि कानि वै ।कृतानि भगवन् ब्रूहि पावनानि समासतः ॥१॥श्रीनारायण उवाच-गंगायां नारदः स्नात्वा भूत्वा दिव्यवपुर्धरः ।ययौ प्राक् बदरीं याऽस्त्यक्षरब्रह्माऽवतारिणी ॥२॥नत्वा स्तुत्वा पूजयित्वा तथा कृत्वा प्रदक्षिणम् ।पत्रं च बदरं तस्या अत्त्वा प्रसादरूपकम् ॥३॥स्निग्धं चाऽकण्टकं दिव्यं हरितं पल्लवान्वितम् ।सपुष्पं सफलं रम्यं ध्यात्वा तद्रूपमान्तरे ॥४॥जगाम च ततो वह्नितीर्थं वै पावनं मुनिः ।जलं पपौ तदाख्यानं शुश्राव च नराननात् ॥५॥पुरा समाजः समभूदृषीणामूर्ध्वस्रोतसाम् ।गंगायमुनासंयोगे प्रयागे पुण्यभूतले ॥६॥तत्राऽश्वमेधे हुतभुक् संप्रष्टुमुपचक्रमे ।सर्वदुर्भक्षणोद्भूतपातकाऽऽलिप्तचेतसः ॥७॥कथं स्यात्पातकान्मुक्तिर्मम ब्रह्मवित्तमाः ।व्यासः प्राह तदा वह्निं बदरीं शरणं व्रज ॥८॥यत्रास्ते भगवान् भक्तपापहाः पुरुषोत्तमः ।तत्र गंगाजले स्नात्वा हरेः कृत्वा प्रदक्षिणाम् ॥९॥दण्डवत्प्रणिपातेन सर्वदोषक्षयो भवेत् ।ततोऽग्निर्बदरीं प्राप्य स्नात्वा गंगांभसि तथा ॥१०॥नरनारायणं गत्वा नत्वा स्तुतिं चकार सः ।अग्नेश्च पावकं चात्मपावकं ब्रह्मपावकम् ॥११॥मायायाः पावकं तीर्थपावकं प्रणमाम्यहम् ।ऋषीणां तपसां पुण्यफलदं मोक्षदं प्रभुम् ॥१२॥विद्याप्रदं धर्मदं च योगदं तापसं हरिम् ।सुखदं वल्कलवस्त्रमीडे शक्त्यष्टकं गुरुम् ॥१३॥श्रुत्वा नारायणः प्राह वरं वरय पावक ।अग्निः प्राह हरे सर्वभक्षोऽहं दूषणं महत् ॥१४॥दोषनाशः कथं स्याद्वै भयं दोषात् सुदुस्तरम् ।नारायणस्तदा प्राह क्षेत्रस्याऽस्य तु दर्शनम् ॥१५॥मत्प्रसादात्प्राणिनां च तव माऽस्तु च पातकम् ।यत्र स्नातश्च वह्ने त्वं तदग्नितीर्थमद्यतः ॥१६॥ख्यातं भविष्यति क्ष्मायां सर्वभक्षणपापहृत् ।तव वासश्च कलया मत्प्रतापात्सदाऽस्तु च ॥१७॥ततः स्नात्वा च तत्तीर्थे नारदो लोकपावनः ।जगाम च शिलापञ्चतीर्थानि कर्तुमादरात् ॥१८॥नारदी नारसिंही च वाराही गारुडी तथा ।मार्कण्डेयीति विख्याताः शिलाः परमपावनाः ॥१९॥नारदश्च मुनिर्ब्राह्मः प्रथमे जन्मनि स्वयम् ।दर्शनार्थं महाविष्णोस्तपस्तेपेऽतिदारुणम् ॥२०॥षष्टिवर्षसहस्राणि शिलायां वायुभोजनः ।वृक्षवृत्तिस्थितं तं च विष्णुर्ब्राह्मणरूपधृक् ॥२१॥दर्शनं दत्तवान्प्राह किमिति क्लिष्यते मुने ।यदीप्सितं मम ब्रूहि तपसाऽस्ति शुचिर्भवान् ॥२२॥नारदः प्राह करुणाकरोऽरण्येऽस्ति को भवान् ।तव दर्शनमात्रेण मनो याति प्रसन्नताम् ॥२३॥तावन्नारायणस्तत्र शंखचक्रगदाऽब्जवान् ।पीताम्बरः सकौस्तुभवनमालोपवीतकः ॥२४॥श्रीवत्सांकितवक्षाश्च कमलास्वर्णरेखकः ।सुनन्दाद्यैः पार्षदैश्च सेवमानः सुहास्यवान् ॥२५॥दर्शयामास रूपं स्वं नारदाय तपस्विने ।दृष्ट्वा तं सहसोत्थाय नमस्कृत्य कृतांजलिः ॥२६॥तुष्टाव परमात्मानं करुणासागरं प्रभुम् ।जगतामीश्वरं साक्षिरूपं भक्तकृतादरम् ॥२७॥कृपालुं तापसं दिव्यं वन्दे प्रसीद पावन! ।सतां लोकस्य रक्षायै हिताय तप आदधन् ॥२८॥तपःफलप्रदातर्मे प्रसीद सत्त्वमूर्तिमन्! ।कोटिकन्दर्पलावण्यविलासः कामवर्जितः ॥२९॥ब्रह्मचार्यसि देवेश प्रसीद सत्यवाग् विभो।आश्रितानां कल्पवृक्षो दीनानां दुःखहारकः ॥३०॥ज्ञानेन बन्धहा ब्रह्मसुखदाता प्रसीदताम् ।जीवान्तरिन्द्रियसूक्ष्मभूताऽन्तर्यामिनीश्वर ॥३१॥ब्रह्मसुखानुभूते त्वं प्रसीद चिदचिन्मय ।यदाश्रिताः सुरा दुःखाम्बुधिं तरन्ति गोपदम् ॥३२॥नमस्ते सर्वदा परब्रह्मणे ब्रह्मणे तथा ।वासुदेवाय कृष्णाय भूम्ने नारायणाय च ॥३३॥महाविष्णुस्वरूपाय वैराजाय च ते नमः ।नमो हिरण्यकोशाय त्रिदेवेभ्यो नमो नमः ॥२४॥अद्य मे सफलं जन्म चाद्य मे सफलं तपः ।अद्य मे सफलं ज्ञानं श्रीहरे तव दर्शनात् ॥३५॥श्रुत्वा प्राह हरिस्तं च तुष्टोऽहं तपसा तव ।स्तोत्रेणाऽतिसुतुष्टोऽहं वरदोऽहं तवाऽग्रतः ॥३६॥सर्वश्रेष्ठो मम भक्तस्त्वं चासि सिद्धकामनः ।वरं वरय भद्रं ते सर्वं ददामि मा चिरम् ॥३७॥नारदः प्राह भक्तिं ते पदयोर्देहि निश्चलाम् ।एषा शिला मे तपसां स्थानं तीर्थं सदाऽस्तु च ॥३८॥मच्छिलासन्निधानं तु न त्याज्यं भवता क्वचित् ।मत्तीर्थदर्शनात्स्पर्शात्स्नानादाचमनात् तथा ॥३९॥पुनर्देहं न चाप्नुयात् तृतीयोऽस्तु वरश्च मे ।श्रुत्वा नारायणः प्राह एवमस्तु सदाऽनघ ॥४०॥चराचरविदेहोऽहं तव तीर्थे वसाम्यहम् ।तव भक्तिः शाश्वती च मयि भवतु नारद ॥४१॥इत्युक्त्वा च हरिस्तत्र मूर्तावन्तरधीयत ।प्रथमो नारदो हृष्टो ययौ मधुपुरीं ततः ॥४२॥इत्यस्ति नारदशिला तीर्थं परमपावनम् ।चतुर्थो नारदस्तत्र तीर्थं कृत्वा ययौ पुनः ॥४३॥मार्कण्डेयशिलायाश्च तीर्थार्थं नरसंयुतः ।पुरा त्रेतायुगस्याऽन्ते मृकण्डुतनयो महान् ॥४४॥मार्कण्डेयस्तपश्चक्रे शिलायां तत्स्थलं ययौ ।पुरा नाम्ना मृगशृंगो मुनिस्त्वासीत् तपोधनः ॥४५॥तस्य भार्याश्चतस्रश्च पातिव्रत्यपरायणाः ।सुवृता कमला चैव विमला सुरसा त्विति ॥४६॥कालेन महिषी तस्य सुवृता सुषुवे सुतम् ।जातकर्म कुमारस्य पिता चक्रे विधानवत् ॥४७॥चकार नामकरणं मृकण्डुमिति विश्रुतम् ।निःशंकाश्च मृगगणाः कण्डूयन्तेऽस्य विग्रहे ॥४८॥तस्मान्मृकण्डुरिति च नाम सार्थकमेव तत्॥कृतोपनयनः पित्रा वेदानध्यैष्ट सर्वशः ॥४९॥मुद्गलस्य मुनेः कन्यामुपयेमे मरुद्वतीम् ।मृकण्डुरनपत्योऽभूदिदमेवाऽभ्यचिन्तयत् ॥५०॥अहं सदारो गच्छामि राजधानीं शिवस्य वै ।भक्तप्रियः शिवो यत्र कर्णे जपति तारकम् ॥५१॥गत्वा तत्र प्रथमतो मणिकर्ण्यां विधानतः ।स्नानं कृत्वा महादेवं नत्वोवास यथासुखम् ॥५२॥शंकरं तोषयामास तपसा सह भार्यया ।तुष्टश्चाह पिनाकी त्वं मत्तो वरं गृहाण च ॥५३॥सोऽपि वव्रे वरं शंभो पुत्रं देहीति मा चिरम् ।शंभुस्तस्याऽनपत्यस्य भालं दृष्ट्वा ह्युवाच तम् ॥५४॥सप्तजन्मसु तेऽपत्यं नास्तीति वैधसी लिपिः ।तथापि तपसा तुष्टो ददामि पुत्रमेकलम् ॥५५॥किमिहेच्छसि पुत्रं त्वं निर्गुणं चिरजीविनम् ।आहोस्विदेकं सगुणं सर्वज्ञं षोडशाब्दिकम् ॥५६॥इत्युक्तः सोपि धर्मात्मा नाहमिच्छामि निर्गुणम् ।अल्पायुरपि पुत्रो वा सर्वज्ञोऽस्तु जगत्पते ॥५७॥शंभुः प्राह भविता ते षोडशायुः सुतो मुने ।धार्मिको गुणवान् ख्यातः सर्वज्ञः कीर्तिमाँस्तथा ॥५८॥इत्युक्त्वा प्रययौ शंभुर्मुनिर्ययौ निजाश्रमम् ।काले भार्याऽभवत्तस्य चान्तर्वत्नी मरुद्वती ॥५९॥तनयः समये तस्यां मरुद्वत्यामजायत ।जातकर्म नामकर्म पिता चकार यत्नतः ॥६०॥संस्कारान् कृतवान् सर्वान् पञ्चमेऽब्दे व्रतं ददौ ।वेदान्स विधिनाऽध्यैष्ट विद्यां जग्राह शक्तिमान् ॥६१॥संप्राप्ते षोडशेऽब्दे तु पिता तस्य मृकण्डुकः ।शोकमग्नोऽभवत् दृष्ट्वा पुत्रमन्तिकमृत्युकम् ॥६२॥पुत्रोऽपि पितरं प्राह किं ते शोकस्य कारणम् ।मृकण्डः प्राह तनयं शोचामि तव कारणम् ॥६३॥आयुः षोडशवर्षाणि तव दत्तं पिनाकिना ।स कालोऽयं समायातस्तस्माच्छोचामि पुत्रक ॥६४॥पित्रेति कथितं श्रुत्वा मार्कण्डेयोऽब्रवीदिदम् ।मन्निमित्तः पितः शोकं कदाचित्त्वपि मा कृथाः ॥६५॥प्रयतिष्ये यथा तात यथा यास्याम्यमर्त्यताम् ।समाराध्य परात्मानं हृदयस्थं हरिं प्रभुम् ॥६६॥इति निर्णीय तातेन सहितः स ययौ द्रुतम् ।मथुरायां यमुनायां स्नातुं राधयितुं हरिम् ॥६७॥गत्वा तत्र यमुनायास्तीरे तस्थौ स्मरन् हरिम् ।द्वादशाक्षरमन्त्रस्य जपं कुर्वन्पुपूज तम् ॥६८॥यदृच्छया नारदोऽपि मथुरायामगात्तदा ।मृकण्डुस्तं निरीक्ष्यैव सपुत्रस्तं ननाम च ॥६९॥सत्कृतः स्वागताद्यैश्च नारदो म्लानभावतः ।प्राह दृष्ट्वा पुत्रभाले लेखां मृत्युप्रयायिनीम् ॥७०॥मृकण्डोऽयं तव पुत्रः स्वल्पायुर्दृश्यते खलु ।मृकण्डुः प्राह देवर्षे दीर्घायुष्यं प्रकल्पय ॥७१॥नारदः प्राह विप्रर्षे लेखां वेधःप्रकल्पिताम् ।मार्जयितुं न वै शक्ताः सुराऽसुरास्तथाऽपरे ॥७२॥कर्मसापेक्षका लेखा लिख्यन्ते जन्मना सह ।आयुर्विद्या च वित्तं च यशो निधनमित्यपि ॥७३॥पञ्चैवैतानि सृज्यन्ते गर्भस्थस्यैव देहिनः ।तथापि सन्ति सन्तो वै लिपिं मार्जयितुं क्षमाः ॥७४॥सतामाशीर्वचनैश्च सदा दुःखं सुखायते ।कुभाग्यं लीयते चैवोत्पद्यते भाग्यसौष्ठवम् ॥७५॥पापं प्रलीयते पुण्यं जन्यते च सतां बलात् ।मायां पापं च कर्म च कालं दुर्भाग्यमित्यपि ॥७६॥तस्य वै परिवर्तन्ते येन सन्तः प्रतोषिताः ।महाभागवताः सन्तः ऋषयश्च तपोधनाः ॥७७॥प्रसन्ना यत्र जायन्ते तत्र भद्राणि कोटिशः ।सन्तः प्रसन्ना जायन्ते प्रणामस्तुतिसेवनैः ॥७८॥तस्मादतिथयो ये ये समागच्छेयुरत्र हि ।तथा च तीर्थयात्रायां मिलेयुर्ये च तारकाः ॥७९॥तेभ्यः सर्वेभ्य एव द्राक् प्रणतिः सांजलिस्तथा ।कर्तव्याऽनेन बालेन नाऽऽलस्यं कार्यमेव यत् ॥८०॥तत्रैवं च क्वचित्कस्यचिन्महत्पुरुषस्य वै ।चिरंजीवेत्याशिषाऽयं वर्धितः सभविष्यति ॥८१॥तस्मात्तीर्थाटनं सम्यक् कुरु क्षेमं भविष्यति ।ततो बद्रीमहाक्षेत्रं स्थानं तु नित्यदा हरेः ॥८२॥याहि यत्र स्वयं साक्षाद्धरिं पश्यसि चक्षुषा ।चिरंजीवी तव पुत्रो भविष्यति न संशयः ॥८३॥श्रुत्वेत्याशीर्वचो लब्ध्वा मृकण्डुः ससुतस्ततः ।ययौ तीर्थेषु सर्वत्र प्रभासे रैवताचले ॥८४॥द्वारिकायां पुष्करे च नर्मदायां च भार्गवे ।सरय्वां यमुनायां च गंगायां त्र्यम्बकेश्वरे ॥८५॥कावेर्यां ताम्रपर्ण्यां चाऽरुणाचलेऽतिदक्षिणे ।रामेश्वरेऽथ सामुद्रे तीर्थानि प्रचकार सः ॥८६॥पितुरनुज्ञां संप्राप्य दक्षिणाऽर्णवरोधसि ।लिंगं संस्थाप्य विधिवन्मार्कण्डेयो निजाह्वयम् ॥८७॥कृत्वा त्रिषवणं स्नानं त्रिकालं शिवपूजकः ।प्रार्थ्यं त्रिकालपूजान्तेऽर्थयित्वा नृत्यति प्रियम् ॥८८॥तेनाऽर्हणेन सन्तुष्टो दिनेनैकेन शंकरः ।पूजितश्च महाभक्त्या मार्कण्डेयेन वस्तुभिः ॥८९॥तावत्तत्राऽर्णवे स्नातुं सप्तर्षय उपस्थिताः ।मार्कण्डेयः समुत्थाय ननामर्षींश्च पादयोः ॥९०॥चिरंजीवेति सप्तोक्तः प्रहर्ष परमं ययौ ।मृकण्डुः प्राह सप्तर्षीन् नाऽस्याऽऽयुर्वर्धतेऽधिकम् ॥९१॥कथं चिरायुर्भविता सत्यवाचां वचो मृषा ।यद्वा ललाटलेखा सा वेधसोऽलीकतां व्रजेत् ॥९२॥महर्षिभिस्तदालोक्य नीतो द्राक् ब्रह्मणः सभाम् ।नत्वा च तिष्ठति चाग्रे चिरंजीवेत्यजो जगौ ॥९३॥ऋषिभिः कथितं चास्य रेखा संपूर्णतां गता ।कथं चिरंजीवनोऽयं संभवेत्तव वाक्यतः ॥९४॥यदि वाक्यं तव तथ्यं रेखामन्यां विधापय ।श्रत्वा च वेधसा लेखा चिरंजीवेति निर्मिता ॥९५॥द्रागेव सः ऋषिभिरानीतो दक्षिणसागरे ।तावदायात एवात्र कालो मृत्युसहायवान ॥९६॥वृत्तरक्तान्तनयनः सर्पवृश्चिकरोमवान् ।दंष्ट्राकरालवदनश्चूर्णितांजनसन्निभः ॥९७॥समागत्य च तस्याऽसौ यमस्याऽऽज्ञानुसारतः ।अदृष्ट्वा नूतनां रेखां पूर्वरेखाविधानतः ॥९८॥पाशमवासृजत्कालो मार्कण्डेयस्तमब्रवीत् ।काल तावत्प्रतीक्षस्व पूजां निर्वर्तयाम्यहम् ॥९९॥महेश्वरः प्रसीदतात् सततं पूजयाऽनया ।तमब्रवीत् ततः कालो मार्कंडेयं हसन्मुहुः ॥१००॥सप्तर्षीणां शृण्वतां च नीतिवाक्यानि तत्र ह ।प्रथमे वयसि पुण्यं यो न करोति शुच्यते ॥१०१॥मासाऽष्टकेन तत्कुर्याद् येन वर्षाः सुखं वसेत् ।दिवसे चैव तत्कुर्याद् येन रात्रिं सुखं वसेत् ॥१०२॥पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।यावजीवं तु तत्कुर्याद् येन प्रेत्य सुखं वसेत् ॥१०३॥श्वः कार्यमद्य कुर्वीत पूर्वाङ्गे चाऽपराह्णिकम् ।न च प्रतीक्षते कालः कृतमस्य न वा कृतम् ॥१०४॥इद्ं कृतमिदं कार्यमिदमन्यत्कृताऽकृतम् ।एवमीहासमायुक्तं कृतान्तः कुरुते वशे ॥१०५॥नाऽप्राप्तकालो म्रियते विद्धः शरशतैरपि ।कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥१०६॥चक्रवर्तिसहस्राणि पुरन्दरशतानि च ।प्रापितानि मया याभ्यां प्राप्तकालस्त्वमेहि च ॥१०७॥मार्कण्डेयस्तदा प्राह त्वया नैतच्छ्रुतं च किम ।नॄणामीश्वरभक्तानां न भवन्त्यापदः क्वचित् ॥१०८॥ब्रह्मादयोऽपि तान् क्रुद्धा न शक्ता हन्तुमीश्वराः ।कालः प्राह च यावत्यो गंगायां सिकता मुने ॥१०९॥तावन्त एव ब्रह्माणो मया कालेन संहृताः ।त्वां च नयामि सामर्थ्याद् यस्य भक्तः स रक्षतु ॥११०॥तेनैवं गर्जता तत्र कालेनाऽसौ महामुनिः ।हठाद्ग्रसितुं चारब्धः क्षिप्तः पाशः गलोपरि ॥१११॥तावल्लिंगात्समुत्तस्थौ शंभुर्हुंकारगर्जनः ।उद्धृत्य पादकमलं प्रजहार भुजान्तरे ॥११२॥पाशो विच्छिन्नतां यातो दूरे मृत्युः पपात ह ।सप्तर्षयोऽपि सत्तोयैरवर्धयन् मृकण्डुजम् ॥११३॥प्राहुर्मृत्युं पश्य मृत्यो चिरंजीवेति नूतनाम् ।रेखां ललाटलिखितां ब्रह्मणा परमेष्ठिना ॥११४॥एतस्मिन्नन्तरे चित्रगुप्तायाऽवेदितं नवम् ।श्रावणैः पितृभिर्लेख्यं चिरंजीव मृकण्डुजः ॥११५॥तावद् दूताः प्रेषिताश्चाऽपरे दत्वाऽमृताऽऽवलिम् ।माऽऽनयन्तु मृकण्डोश्च सुतं कल्पान्तरेष्वपि ॥११६॥इति मृत्युश्च कालश्च दूताश्च विफला ययुः ।मार्कण्डेयः प्रलयेऽपि क्षीराब्धौ विष्णुसन्निधौ ॥११७॥समाधौ तिष्ठते नैव म्रियते चिरजीवनः ।स्वस्थानमृषयो जग्मुः शंभुर्लिंगे तिरोऽभवत् ॥११८॥मृकण्डुश्च ययौ स्वस्याश्रमं पुत्रश्च केवलः ।नारदस्योपदेशेन ययौ बदरिकाश्रमम् ॥११९॥स्नात्वा चालकनन्दायां शिलामुपाविशत्ततः ।जजापाऽष्टाक्षरं मन्त्रं त्रिरात्र्यन्ते नरायणः ॥१२०॥प्रसन्नश्चाऽऽजगामाशु दर्शनं मंगलं ददौ ।शंखचक्रगदापद्मवनमालाविभूषितम् ॥१२१॥हरिं दृष्ट्वा समुत्थाय प्रेमगद्गदया गिरा ।तुष्टाव प्रणतो भूत्वा मार्कण्डेयो नरायणम् ॥१२२॥अशाश्वतेऽत्र संसारेऽशाश्वते वर्ष्मणि स्थितम् ।चेतनं मां कृथाश्चिरजीविनं मुक्तमेव हि ॥१२३॥कालमृत्यू कृतौ दूरौ शंभुरूपेण सर्वथा ।मृतं जीवन्तं भ्रान्तं मां सदैवं त्राहि केशव ॥१२४॥ऋषिस्त्वं चर्षिरूपेण मृतान् जीवयसे विभो ।शाश्वतेऽमृतधामाख्ये सदा जीवय मां प्रभो ॥१२५॥देहि दीक्षां वैष्णवीं मे पूजायां दर्शनं तव ।निश्चलां देहि मे भक्तिं शिलायां तव सन्निधिम् ॥१२६॥तथेत्युक्त्वा नरनारायणः श्रीभगवान्स्वयम् ।ददौ च वैष्णवीं दीक्षां मन्त्रमष्टाक्षरं शुभम् ॥१२७॥शिलायां हरिसान्निध्यं पूजायां दशनं सदा ।ददौ तस्मै चिरजीविमार्कण्डेयाय योगिने ॥१२८॥मार्कण्डेयो वैष्णवोऽभूच्छिलायामत्र नारद ।नारायणस्तथा चात्र शिलायां समवस्थितः ॥१२९॥मार्कण्डेयशिला चेयं द्वितीया कीर्तिता च ते ।हरिस्तिरोऽभवत्तत्र ययौ गृहं मृकण्डुजः ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वह्नेः सर्वभक्षित्वदोषपरिहारकाग्नितीर्थ नारदातपःस्थलनारदशिलातीर्थ-मार्कण्डेयचिरजीवित्वाख्यान मार्कण्डेयशिलातीर्थमिति निरूपणनामा षडधिकद्विशततमोऽध्यायः ॥२०६॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP