संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४६१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४६१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४६१ Translation - भाषांतर श्रीलक्ष्मीरुवाच-पातिव्रत्यं परो धर्मः श्रुतो ज्ञातश्च ते मुखात्॥नारीदेहस्य पावित्र्यं शाश्वतं कृत्रिमं च वा ॥१॥यद्वा संस्कारसम्प्राप्यं यद्वा वैवाहिकं मतम् ।यथार्थं वद मे कान्त धर्मकार्यादिपुष्टिकृत् ॥२॥श्रीनारायण उवाच-स्त्रियः पवित्राः सततं नैता दुष्यन्ति केनचित्॥मासि मासि रजस्तासां दुष्कृतान्यपकर्षति ॥३॥पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।भुंजते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ॥४॥स्त्रीणां शौचं ददौ सोमः पावकः सर्वमेध्यताम् ।कल्याणवाणीं गन्धर्वास्तेन मेध्याः सदा स्त्रियः ॥५॥कन्यां भुंक्ते रजःकालेऽग्निः शशी लोमदर्शने ।स्तनोद्भेदेषु गन्धर्वास्तत्प्रागेव प्रदीयते ॥६॥कन्यामभुक्तां सोमाद्यैर्ददद्दानफलं बहु ।कन्यादानफलप्रेप्सुस्तस्माद्दद्यादयौवनाम् ॥७॥रजोरोमस्तनोद्भेदा यौवनस्य प्रदर्शकाः ।अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी ॥८॥दशवर्षा भवेत् कन्या ह्यत ऊर्ध्वं रजोऽन्विता ।कन्यादानं शुभं प्रोक्तं चतुर्दशसमाय वै ॥ ९॥शयनासनयानानि कुणपं स्त्रीमुखं कुशाः ।यज्ञपात्राणि सर्वाणि न प्रदुष्यन्ति वै क्वचित् ॥१०॥वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने ।नार्यो रतिप्रयोगेषु श्वा मृगग्रहणे शुचिः ॥११॥अजाऽश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ।ब्रह्मज्ञाः पादतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः ॥१२॥बलात्कारोपभुक्ता वा चोरहस्तगताऽपि वा ।न त्याज्या दयिता नारी मेध्याऽजेन विनिर्मिता ॥१३॥साधवो गैरिकापूता रजःपूताश्च योषितः ।कृष्णपूतं जगत्सर्वं दम्पत्युद्वाहपावनौ ॥१४॥गर्भपूतं सदा वीर्यं जन्मपूतं तु बालकम् ।मन्त्रपूताः सदा शिष्या दीक्षापूताः शरीरिणः ॥१९॥व्रतपूताः सदा सन्तः पतिपूतो वधूजनः ।जीवपूतं सदा दुग्धं स्थानपूता रदादयः ॥१६॥भावपूता सदा कन्या युवती जरठाऽथवा ।आपः स्वभावतो मेध्या मेध्यो वह्निः स्वभावतः ॥१७॥वह्निरापोऽनिलो नारी मेध्या वंशोद्भवाः सदा ।तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाऽशनैः ॥१८॥भूतिकामैर्नरैर्नित्यं सत्कार्येषूत्सवेषु च ।रमन्ते देवतास्तत्र स्युस्तत्र सफलाः क्रियाः ॥१९॥यत्र तुष्यति भर्त्रा स्त्री स्त्रिया भर्ता च तुष्यति ।तत्र वेश्मनि कल्याणं सम्पद्येत पदे पदे ॥२०॥प्रातिकूल्ये कलत्रं चेन्नरकेणापि किं ततः ।दक्षा प्रजावती साध्वी प्रियवाणी वशंवदा ॥२१॥पतिप्राणा भागवती सा श्रीः स्त्रीरूपधारिणी ।सदा गृही सुखं भुंक्ते स्त्री लक्षणवती यदि ॥२२॥वपुरावर्तगन्धाश्च छाया सत्त्वं स्वरो गतिः ।वर्णश्चेत्यष्टधा बोध्या नारीलक्षणभूमयः ॥२३॥षष्टिः षडुत्तरा योषिदंगलक्षणसत्खनिः ।आदौ पादतलं रेखास्ततोऽङ्गुष्ठांऽगुलीनखाः ॥२४॥पृष्ठं गुल्मद्वयं पार्ष्णी जंघे रोमाणि जानुनी ।ऊरू कटिर्नितम्बस्फिग्भगो जघनबस्तिके ॥२५॥नाभिः कुक्षिद्वयं पार्श्वोदरमध्यवलित्रयम् ।रोमाली हृद्यं वक्षो वक्षोजद्वयचूचुकम् ॥२६॥जत्रुस्कन्धांऽसकक्षादोर्मणिबन्धकरद्वयम् ।पाणिपृष्ठं पाणितलं रेखाऽङ्गुष्ठांऽगुलीनखाः ॥२७॥पृष्ठिः कृकाटिका कण्ठे चिबुकं च हनुद्वयम् ।कपोलो वक्त्रमधरोत्तरौष्ठौ द्विजजिह्विकाः ॥२८॥घण्टिकातालुहसितं नासिका क्षुतमक्षिणी ।पक्ष्मभ्रूकर्णभालानि मौलिसीमन्तमौलिजाः ॥२९॥एतेष्वंगेषु नार्यो वै परीक्ष्यन्ते शृणु प्रिये! ।स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् ॥३०॥अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम् ।रूक्षं विवर्णं परुषं खण्डितप्रतिबिम्बकम् ॥३१॥शूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम् ।चक्रस्वस्तिकशंखाब्जध्वजमीनाऽऽतपत्रवत् ॥३२॥यस्याः पादतले रेखाः सा भवेद्वै नृपांगना ।मध्यांगुलीगताचोर्ध्वरेखा भोगातिभोगदा ॥३३॥सर्पमूषकरेखास्तु दारिद्र्यदुःखदायिकाः ।पुष्टोन्नतः शुभोऽङ्गुष्ठो वर्तुलो बहुभोगदः ॥३४॥ह्रस्ववक्रचिपिटस्त्वंगुष्ठः सौभाग्यनाशकः ।विधवा विपुलांगुष्ठा दीर्घांगुष्ठा तु दुर्भगा ॥३५॥मृदून्नतघनवृत्तांगुलयः सम्पदां प्रदाः ।दीर्घांगुलयः कुलटा कृशांगुलयो निर्धनाः ॥३६॥ह्रस्वांगुल्यो हस्वजीवा भुग्नांगुल्यः शठा मताः ।चिपिटांऽगुलयो दास्यो दरिद्रा विरलांगुलिः ॥३७॥परस्परसमारूढपादांगुल्यस्तु योषितः ।अनेकवारं विधवाः परनार्यश्च ता मताः ॥३८॥यस्याः पथि चलन्त्यास्तु पृष्ठे धूली समुच्छलेत् ।सा पित्रोश्च तथा पत्युः कुलनाशकरी भवेत् ॥३९॥यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् ।सा निहत्य पतिं योषा द्वितीयं कुरुते पतिम् ॥ ४०॥अनामिका तु गच्छन्त्या यस्या भूमिं तु न स्पृशेत् ।पतिद्वयं निहत्यैव तृतीयं कुरुते पतिम् ॥४१॥मध्यमांगुलिका यस्या यान्त्या भूमिं न वै स्पृशेत् ।पतित्रयं निहत्यैव चतुर्थं कुरुते पतिम् ॥४०॥अनामिका मध्यमाऽतिह्रस्वा पतिवियोगिनी ।प्रदेशिनी सदांगुष्ठसंयुक्ता कुलटाकरी ॥४३॥स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः ।उन्नतं चेत् पादपृष्ठं मसृणं मृदु मांसलम् ॥४४॥अस्वेदमशिराढ्यं च राज्ञी भवेन्न संशयः ।मध्यनम्रं पादपृष्ठं सदा दारिद्र्यसूचकम् ॥४५॥शिरालं त्वध्वगतिदं रोमाढ्यं किंकरीकरम् ।निर्मांसं चेत् सुदुर्भाग्यप्रदं बोध्यं हि योषितः ॥४६॥गूढौ गुल्फौ तु सुखदौ वर्तुलौ चाऽशिरालकौ ।नीचैःस्थौ शिथिलौ बाह्यो दुर्भाग्यदौ हि योषितः ॥४७॥समः पार्ष्णिः सुशुभदः पृथुः पार्ष्णिस्तु दुर्भगः ।उन्नतः कुलटापार्ष्णिः पार्ष्णिर्दीर्घः सुदुःखदः ॥४८॥नीरोमे विशिरे जंघे स्निग्धे च क्रमवर्तुले ।मनोहरे सुरक्तके राजपत्न्या मते शुभे ॥४९॥राज्ञी भवेदेकरोमा द्विरोमा सुखभागिनी ।त्रिरोमा रोमकूपेषु विधवा स्यान्न संशयः ॥५०॥वृत्ते सुमांसले पुष्टे जानुनी धर्मयोषितः ।निर्मांसे स्वैरचारिण्या दरिद्रायास्तु विश्लथे ॥५१॥कदलीकरभाकारौ मसृणौ धवलौ घनौ ।ऊरू वृत्तौ मृदू रोमरहितौ विशिरौ शुभौ ॥५२॥भूपस्त्री सुधनाढ्यस्त्री विदुषी स्यात् पतिव्रता ।सरोमोरुयुता स्याद्वै विधवा परगा तथा ॥५३॥दुर्भाग्या स्याच्चिपिटोरुमती दुःखमयी सदा ।सछिद्रोरुयुता दुःखभागिनी सशिरोरुका ॥५४॥कठिनत्वगूरुमती दारिद्र्यव्यापिनी सदा ।चतुर्विंशत्यंगुला या कटिर्वर्तुलमानगा ॥५५॥समुन्नतनितम्बा च चतुरस्रा कटिः शुभा ।निम्ना नता चिपिटा च शुष्का दीर्घा तु दुःखदा ॥५६॥कटिः सरोमा ह्रस्वा तु विधवात्वप्रसंजिका ।नितम्बौ तून्नतौ पुष्टौ पृथू कठिनमांसलौ ॥५७॥कपित्थफलवद्वृत्तौ रतिभोगविवर्धनौ ।योनिः कच्छपविस्तारा गजकुंभोन्नता शुभा ॥५८॥वामोन्नता तु कन्यादा दक्षोन्नता तु पुत्रदा ।आखुरोमनिभरोमा गुप्तमध्या च विस्तृता ॥५९॥दृढबन्धा दृढतटोन्नता प्लक्षदलाऽऽयता ।पद्मवर्णा स्वल्पशुष्का श्रेष्ठा सौभाग्यवर्धिनी ॥६०॥मृगादिखुररूपाया वर्तुला चुल्लिकासमा ।सरोमा विवृतास्या च लम्बशुकाऽधमा मता ॥६१॥शंखावर्तसमा गर्भधृतियोग्या न जायते ।चिपिटा खर्पराकारा किंकरीकारिणी सदा ॥६२॥वंशवेतसपत्राभा दीर्घोच्छ्ररोमसंयुता ।अत्युन्नतशुकाढ्या तु योनिर्नैव शुभप्रदा ॥६३॥दृढोन्नततटा स्वच्छरक्ताभा स्वल्पमध्यिका ।अन्तर्वलययुक्ता तु योनिः सौख्यप्रदा सदा ॥६४॥मांसच्छन्नोर्ध्वाऽस्थिगुप्ता निमज्जदस्थिरक्षिता ।परितोऽन्तर्मांसला तु योनिः सौख्यप्रदा सदा ॥६५॥विकटा कुटिला लम्बा विशाला शिथिलां गुहा ।कन्दरा मुक्तमांसार्द्रा सुखदा न कदाचन ॥६६॥भगभालं जघनं तु विशालं तुंगमांसलम् ।मृदुलं मृदुरोमाढ्यं दक्षिणावर्तमुत्तमम् ॥६७॥वामावर्तं च निर्मांसं वक्रं वैधव्यसूचकम् ।जघनं गर्भिणीतुल्यं लम्बोदरं न शान्तिदम् ॥६८॥शुष्कं संकुचितं निम्नं जघनं सास्थि दुःखदम् ।जघनपार्श्वगा बस्तिर्मृद्वी विपुलकोमला ॥६९॥किञ्चिच्च प्रोन्नता श्रेष्ठा यानवाहनदायिनी ।रोमशा च शिराला सा रेखांका नैव शस्यते ॥७०॥गम्भीरा दक्षिणावर्ता नाभिः स्यात् सुखसम्प्रदा ।वामावर्त्ता समुत्ताना व्यक्तग्रन्थिर्न शस्यते ॥७१॥विस्तृतकुक्षिका सूते सुतान् बहून् हि भामिनी ।मण्डुकोदरवत् कुक्षिः सूत्रे पुत्रं नृपं सती ॥७२॥ऊर्ध्वकुक्षिर्भवेद् वन्ध्या वलिकुक्षिः सती भवेत् ।सावर्तकुक्षिका दासी भवेदाजन्मकिंकरी ॥७३॥सममांसलमृदुलमग्नास्थिपार्श्वशालिनी ।सौभाग्याऽऽनन्दसुगुणैश्वर्यसौख्यवती भवेत् ॥७४॥सरोमोन्नतसंदृश्यनाडिकाकृशपार्श्वला ।दुःशीला निरपत्या च सा भवेद् दुःखसागरा ॥७५॥स्वल्पं विशिरं मृदुत्वगुदरं भोगबोधकम् ।कुंभमृदंगकूष्माण्डोदरं दुष्पूरमेव हि ॥७६॥लम्बोदरी श्वशुरघ्नी निरपत्या पृथूदरी ।तनुमध्या तु सुभगा वलित्रया रतिप्रदा ॥७७॥ऋज्वी तन्वी च रोमाली यस्याः सा शर्मनर्मदा ।पिंगा वक्रा स्थूलछिन्ना रोमाली धववर्जिता ॥७८॥निर्लोमोन्नतहृदया पतिस्नेहप्रदा सदा ।विशालहृदया नारी पुंश्चली निर्दया भवेत् ॥७९॥उद्भिन्नरोमहृदया पतिहा भवति घ्रुवम् ।अष्टादशांगुलततमुरो यस्यास्तु पीवरम् ॥८०॥उन्नतं सुखदं प्रोक्तं मांसलं शोभनं वरम् ।दुःखदं तु भवेत् तद्वै रोमशं विषमं पृथु ॥८१॥घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ।स्थूलाग्रौ विरलौ शुष्कौ कोमलौ नहि शर्मदौ ॥८२॥दक्षिनोन्नतदार्ढ्याढ्यकुचा पुत्रवती भवेत् ।वामोन्नतकुचा कन्यां सूते सौभाग्यसुन्दरीम् ॥८३॥अरघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ ।पीवरास्यौ सान्तरालौ पृथूपान्तौ न शोभनौ ॥८४॥मूले स्थूलौ क्रमकृशौ तीक्ष्णाग्रौ यौ पयोधरौ ।प्रथमं सुखदौ पश्चाच्छोकदौ दुःखकारिणौ ॥८५॥सुन्दरे कठिने श्यामे वर्तुले चूचुके शुभे ।अन्तर्मग्ने च वा दीर्घे कृशे क्लेशस्य सूचके ॥८६॥पीवराभ्यां तु जत्रुभ्यां तु धनधान्यवती वधूः ।श्लथाऽस्थिभ्यां तु निम्नाभ्यां विषमाभ्यां दरिद्रिणी ॥८७॥अबद्धावनतौ स्कन्धावदीर्घावकृशौ शुभौ ।वक्रौ स्थूलौ च रोमाढ्यौ प्रेष्यवैधव्यसूचकौ ॥८८॥निगूढसन्धी स्रस्ताग्रौ शुभावंसौ सुसंहतौ ।वैधव्यदौ समुच्चाग्रौ निर्मांसावतिदुःखदौ ॥८९॥कक्षे शस्ते सूक्ष्मरोमे तुंगे स्निग्धे सुमांसले ।न प्रशस्ते स्वेदयुक्ते गम्भीरे च शिरालके ॥९०॥हस्तौ रक्तौ मांसलौ निश्शिरौ गूढास्थिकोमलौ ।विरोमाणौ शुभ्रताम्रौ सरलौ सत्ययोषिताम् ॥९१॥वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यकारकौ ।दृश्यशिरौ तथा रूक्षौ कृष्णौ क्लेशप्रदौ मतौ ॥९२॥अभ्भोजमुकुलाकारमंगुष्ठांगुलिसम्मुखम् ।हस्तद्वयं सतीनां तु बहुभोगप्रसूचकम् ॥९३॥मृदु मध्योन्नतं रक्तं तलं पाण्योररन्ध्रकम् ।शस्तरेखान्वितं शस्तं स्वल्परेखं शुभश्रियम् ॥९४॥विधवा बहुरेखाभिश्चाऽरेखा तु दरिद्रणी ।सशिरे भिक्षुकी पाण्योस्तले वैराग्यबोधके ॥९५॥विरोमे विशिरे पाण्योः पृष्ठे शस्ते समुन्नते ।सरोमे मांसरहिते सशिरे विधवास्त्रियः ॥९६॥रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला ।कररेखा भाग्यरेखा प्रशस्ता योषितां मता ॥९७॥मत्स्येन सुभगा साध्वी स्वस्तिकेन धनप्रदा ।पद्मेन भूपतेः पत्नी नृपमाता भवेत्तु सा ॥९८॥चक्रवर्तिस्त्रियाः पाणीौ दक्षिणावर्तस्वस्तिकः ।शंखातपत्रकमठध्वजच्छत्राणि वामके ॥९९॥तुलारेखा वणिक्पत्नी बद्धकोशा वणिक्प्रिया ।गजवाजिवृषा वामे प्रासादशकटे तथा ॥१००॥युगचिह्नं तु वामे चेद् वैश्यपत्नी हि सा भवेत् ।चामरांऽकुशकोदण्डैः राजपत्नी समीरिता ॥१०१॥अंगुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् ।सा स्यान्नारी पतिहन्त्री घातिनी दुःखकारिणी ॥१०२॥त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ।दानकर्त्री भवेत् सा स्त्री कीर्तिमती पतिव्रता ॥१०३॥कंकजम्बूकमण्डूकवृकवृश्चिकभोगिनः ।रासभोष्ट्रबिडालाः स्युः करस्था दुःखदाः स्त्रियाः ॥१०४॥कृष्णा दन्तेषु दीर्घा या मिञ्जरीमुखतस्तु या ।रोरूयमाणवदना खञ्जागमनतिर्यगा ॥१०५॥कृष्णचाम्पलचरणा हनुलम्बमुखी च या ।पृष्ठभग्नोदरघटा कीर्तिस्थानविनाशिनी ॥१०६॥शुभकृत् सरलोऽङ्गुष्ठो वृत्तो वृत्तनखो मृदुः ।अंगुल्यश्च सुपर्वाण्यो दीर्घा वृत्ताः कृशाः शुभाः ॥१०७॥ताश्चिपिटा रूक्षशुष्काः पृष्ठरोमयुजोऽशुभाः ।अतिह्रस्वाः कृशा वक्रा विरला रौगहेतुकाः ॥१०८॥बहुपर्वसमेतांगुलयो दुःखप्रदा सदा ।अरुणाः सशिखास्तुंगा वर्तुलाश्च नखाः शुभाः ॥१०९॥निम्ना विवर्णाः शुक्त्याभाः पीता दारिद्र्यसूचकाः ।नखेषु बिन्दवः श्वेताः स्वैरिणीत्वप्रसंजकाः ॥११०॥अन्तर्निमग्नपृष्ठास्थिः पृष्ठिश्च मांसला शुभा ।रोमयुक्ता यदि पृष्ठिर्वैधव्यबोधिका तु सा ॥१११॥भुग्ना नता सुशिरा च पृष्ठिर्दुःखप्रदायिनी ।ऋज्वी कृकाटिकोन्नता समांसा शोभना सदा ॥११२॥शुष्काशिराला रोमाढ्या विशाला कुटिलाऽशुभा ।मांसलो वर्तुलः कण्ठः प्रशस्तश्चतुरंगुलः ॥११३॥शस्ता ग्रीवा त्रिरेखाङ्का चाऽव्यक्तास्थिः सुसंहता ।निर्मांसा चिपिटा दीर्घा शुष्का नास्ति शुभप्रदा ॥११४॥स्थूलग्रीवा तु विधवा वक्रग्रीवा तु किंकरी ।वन्ध्या स्याच्चिपिटग्रीवा हस्वग्रीवा तु निःसुता ॥११५॥चिबुकं द्व्यंगुलं शस्तं वृत्तं पीनं सुकोमलम् ।स्थूलं द्विधा विभक्तं सरोमाऽऽयतं न शोभनम् ॥११६॥हनुश्चिबुकसंलग्ना निर्लोमा सुघना शुभा ।वक्रा स्थूला कृशा ह्रस्वा रोमशा न शुभप्रदा ॥११७॥पीनौ वृत्तावुन्नतौ शस्तौ कपोलौ सुपूरितौ ।निम्नौ परुषौ रोमाढ्यौ निर्मांसौ सुखदौ नहि ॥११८॥जनेतृवदनच्छायं स्वामोदं वर्तुलं समम् ।स्निग्धं रम्यं सुमांसं प्रपूर्णं मुखं सतीस्त्रियाः ॥११९॥सुरक्तो वर्तुलः स्निग्धो मध्ये रेखाविभूषितः ।अधरो राज्यदो मध्यादाप्रान्तं क्रमशस्तनुः ॥१२०॥कृशः प्रलम्बः स्फुटितो रूक्षो दौर्भाग्यबोधकः ।स्थूलः कपिशो वैधव्यक्लेशदश्चाऽधरौष्ठकः ॥१२१॥किञ्चिन्मध्योन्नतोऽरोमा चिक्कणो भोगदोऽधरः ।कोदण्डाकाररेखश्च लक्ष्मीदश्चोत्तराधरः ॥१२२॥शुक्ला दाडिमबीजाभाः स्निग्धाश्चोभयतः समाः ।स्तोकं समुन्नता दन्ताः सतीनां धर्मयोषिताम् ॥१२३॥पीताः स्यावाः स्थूलदीर्घाः शुक्त्याभा विरला रदाः ।मूलरूक्षा असमा द्विपंक्तयो भाग्यवर्जिताः ॥१२४॥अधोऽधिकरदा नारी मातृनाशकरी मता ।विकटदन्ता विधवा कुलटा च पृथक्दती ॥१२५॥शोणा मृद्वी सिता जिह्वा मिष्टेष्टभोजना भवेत् ।मध्ये संकुचिता चाग्रे विस्तृता दुःखदा भवेत् ॥१२६॥सिता जलमृतिदात्री श्यामा कलहकारिणी ।मांसला दारिद्र्यदा च लम्बा त्वभक्ष्यभक्षिणी ॥१२७॥विशाला रसना नित्यप्रमादबोधिनी मता ।सुस्निग्धं भूपद्मरंगं तालु मृदु प्रशस्यते ॥१२८॥सिते तालुनि वैधव्यं पीतं संन्यासिनां भवेत् ।कृष्णेऽपत्यविहीना च रूक्षे बहुकुटुम्बिनी ॥१२९॥कण्ठान्तर्वर्तिनी घण्टी तीक्ष्णा रक्ता च वर्तुला ।अप्रलम्बा शुभाऽस्थूला स्थूलकृष्णा तु दुःखदा ॥१३०॥हास्य चाऽदृश्यदन्त च किञ्चित्फुल्लकपालकम् ।अनिमीलितनेत्रं च स्मितं नार्याः प्रशस्यते ॥१३१॥समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा ।स्थूलाग्रा मध्यनिम्ना चोन्नता नापि प्रशस्यते ॥१३२॥शुकचञ्चुसमवक्रप्रान्ता नासा तु चोत्तमा ।ह्रस्वाग्रा रक्तवर्णान्ता नासा वैधव्यकारिणी ॥१३३॥चिपिटा किंकरीनासा ह्रस्वा दीर्घां कलिप्रिया ।ललनालोचने शस्तं रक्तान्त कृष्णतारके ॥१३४॥धवले दलवद्दीर्घे सुस्निग्धे कृष्णपक्ष्मणी ।उच्छ्रयाक्षिर्न दीर्घायुर्वृत्ताक्षी कुलटा मता ॥१३५॥मेषाक्षी महिषाक्षी च चिपिटाक्षी न शस्यते ।गोपिंगाक्षी कामवेगा बहुभोगाश्रया भवेत् ॥१३६॥पारावताक्षी दुःशीला रक्ताक्षी भर्तृघातिनी ।दुष्टा गह्वरनयना गजनेत्रा न शस्यते ॥१३७॥पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकर्णिका ।रमणी मधुपिंगाक्षी धनधान्यसमृद्धिभाग् ॥१३८॥पक्ष्मभिः सुघनैः सूक्ष्मैः स्निग्धैः कृष्णैः सुभाग्यभाक् ।कपिलैर्विरलैः स्थूलैनिन्द्यकार्यकरी मता ॥१३९॥भ्रुवौ सुवर्तुले स्निग्धे कृष्णकटे पृथक्स्थिते ।प्रशस्ते मृदुरोमाणौ सुतीक्ष्णे कार्मुकाकृती ॥१४०॥खररोमा विस्तृता च दीर्घरोमा च पिंगला ।संहता च विकीर्णा च भ्रूर्न शस्ता वरस्त्रियाः ॥१४१॥कर्णौ लम्बौ शुभावर्तौ कोमलौ सुखदौ स्त्रियाः ।शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥१४२॥भालः शिराविरहितो निर्लोमाऽर्धेन्दुसन्निभः ।अनिम्नस्त्र्यंगुलो नार्याः सौभाग्यारोग्यसौख्यदः ॥१४३॥स्पष्टस्वस्तिकरेखं तु ललाटं राज्यद्ं भवेत् ।प्रलम्बमस्तका नारी भवेद् देवरघातिनी ॥१४४॥शिरालोच्चोन्नमणिमस्तका रोगिणी मता ।सीमन्तः सरलः श्रेष्ठः श्रेष्ठो मौलिः समुन्नतः ॥१४५॥गजकुंभनिभौ वृत्तः सौभाग्यैश्वर्यसूचकः ।घटमूर्धा तु विधवा लम्बशीर्षा तु पुंश्चली ॥१४६॥विशालमूर्धा द्विमूर्धा दुर्भाग्या भवतीह वै ।केशाः कृष्णा मृदुसूक्ष्माः स्निग्धाऽऽकुंचितसाग्रकाः ॥१४७॥दीर्घाः सरला भास्वराः पातिव्रत्यस्य सूचकाः ।परुषाः स्फुटिताग्राश्च पिशंगा लघुरूक्षकाः ॥९४८॥विरलाः स्थूलकठिना दुःखदारिद्र्यदायकाः ।भ्रुवोरन्तर्ललाटे वा मशको राज्यदो मतः ॥१४९॥वामे कपोले मशकः शोणो मिष्टान्नपानदः ।तिलकं दक्षिणावर्तो माला वा भ्रमरोऽपि वा ॥१५०॥तिलश्चन्द्रो मशको वा लक्षणं राज्यभाग्यदाः ।दक्षकुचे रक्तबिन्दुस्तिलो वा सा प्रसूर्भवेत् ॥१५१॥कन्याचतुष्टयस्यापि पुत्रत्रयस्य वै सती ।वामे कुचे तिलः शोणः पुत्रैकजननी तु सा ॥१५२॥ततो वैधव्यमाप्नोति धर्मवती तु सा सती ।गुह्यदक्षे तिलवती राजमाता भवेत् सती ॥१५३॥नासाग्रे मशकः शोणो यस्याः सा नृपभामिनी ।स चेत् कृष्णः सा पतिघ्नी पुंश्चली च भवेत् खलु ॥१५४॥नाभ्यधो मशकश्चिह्नं तिलः पतिव्रतास्त्रियाः ।गुल्फदेशे तिलश्चिह्नं मशकश्च दरिद्रकृत् ॥१५५॥सव्ये कण्ठे करे कर्मे कपोले वा तिलोऽथवा ।मशको वा भवेच्चिह्नं प्रथमं पुत्रदं भवेत् ॥१५६॥भाले त्रिशूलरेखा चेदाचार्याणी भवेन्नृपी ।सुप्ता जल्पति दन्ताँश्च कटायते कुलक्षणा ॥१५७॥करे रोम्णां दक्षिणावर्तस्तु धर्मकरः सदा ।वामावर्तो दुःखदः स्यात् करे रोम्णां स्त्रिया अपि ॥१५८॥नाभौ कर्णे हृदि दक्षावर्तः प्रशस्त एव सः ।पृष्ठस्य दक्षिणे दक्षोवर्तो महासुखप्रदः ॥१५९॥पृष्ठदण्डे निम्नदक्षावर्तश्चायुसुतप्रदः ।योनेस्तु मस्तके दक्षावर्तो राज्ञीत्वसूचकः ॥१६०॥स चेत् स्याच्छकटाकारो बह्वपत्यादिसौख्यदः ।भगारब्धः कटिश्रान्तश्चेत् पुत्रपतिनाशकः ॥१६१॥उदरपुच्छकौ पृष्ठावर्तौ लम्बौ न शान्तिदौ ।एकः स पतिहन्ता स्यादन्यः स पुंश्चलीकरः ॥१६२॥कण्ठस्थो दक्षिणावर्तो मतो वैधव्यदुःखदः ।केशारंभे ललाटे सः कबर्यां वाऽतिकष्टदः ॥१६३॥कृकाटिकायां कूपे वा यस्या रोमभ्रमो भवेत्॥सव्यावर्तोऽथवा दक्षावर्तः सा विधवा भवेत् ॥१६४॥मस्तके वामभागे स्यादेको द्वौ वा तदा तु सा ।आदशाहं पतिघ्नी स्यात् कट्यावर्ता तु पुंश्चली ॥१६५॥पृष्ठावर्ता तु भर्तृघ्नी नाभ्यावर्ता पतिव्रता ।कुलक्षणाऽपि सद्भक्ता देवभक्ता सती मता ॥१६६॥तीर्थव्रततपोहोमजपदानपरायणाः ।सतां हरेश्च कृपया पतिव्रताः सुलक्षणाः ॥१६७॥सुलक्षणाः सतीनार्यः स्वल्पायुष्कमपि प्रियम् ।दीर्घायुषं प्रकुर्वन्ति तारयन्ति कुलानि च ॥१६८॥सर्वलक्षणमूर्धन्यं पातिव्रत्यं परो वृषः ।तद्भवेच्चेल्लक्षणानि सर्वाणि सुखदानि वै ॥१६९॥लक्षणानि मयोक्तानि सुखाय गृहिणां प्रिये ।पठनाच्छ्रवणाच्चास्य स्वज्ञानं सुखदं भवेत् ॥१७०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने स्त्रीपावित्र्यस्त्रीतनुस्थशुभाऽशुभादिसूचकचिह्नरेखाऽङ्गप्रत्यंगादिफलनिरूपणनामैकषष्ट्यधिक-चतुश्शततमोऽध्यायः ॥४६१॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP